युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 77, कुल 278 में से
संदर्भ में पढ़ेंवास्तुयुक्तिः । ३७ एवं व्यवस्थिते स्थाने मध्यमे तत्प्रदृश्यते । आयामे राजच्छत्राणि चत्वारिपरिणाहतः ॥ ४७ ॥ राजच्छत्रैकमानेन राज-दण्ड उदाहृतः । अयञ्च सप्तमो भागो वास्तोर्भवति शोभनः ॥ २४८ ॥ अस्मिन् गृहं नृपः कृत्वा सुचिरं पाति मेदिनीम् । अस्मिन् विजय-वृद्धिश्च सौख्यञ्च समवाप्नुयात् ॥ २४६ ॥ यो राजा दम्भतो(१)ऽन्यत्र वेश्मारम्भं समाचरेत् । य उक्तो राजदण्डोऽयं तस्येदं स्थानपञ्चकम् ॥ २५० ॥ गजो व्याघ्रश्च सिंहश्च मृगो भृङ्गो यथाक्रमम् । सिंहे सिंहासनस्थानं व्याघ्रेस्याहारमन्दिरम् ॥ २५१ ॥ गजे यात्रालयं कुर्यात् मृगे केलि-निकेतनम् । भ्रमरेऽन्तःपुरं (२) कुर्यात् क्रमेण पृथिवीपतेः ॥ तेन मध्यममेव (३) सिंहासनं दीर्घस्य च चतुरस्रकैः ॥ २५२॥ तत्र भविष्योत्तरे,— मेषादि-चन्द्रे जातस्य नृपतेः स्यु रनुक्रमात् । द्वादशैव गृहान् वक्ष्ये तेषां लक्षणमग्रतः ॥ २५३ ॥ सुनन्दः सर्व्वतो भद्रो भव्यो नान्दीमुखस्ता ॥ विनोदश्च विलासश्च विजयो विमलस्तथा ॥ वङ्गः (४) केलिर्जयो वीरो द्वादशैते प्रकीर्त्तिताः ॥ २५४ ॥
(१) राजा दण्डतो इति (क) पुस्तक पाठः । (२) भ्रमरेऽन्तःपुरे इति (ख) पुस्तक पाठः । (३) तेन मध्यमेन इति (ख) पुस्तक पाठः । ,, मध्यममेव इति (ग) पुस्तक पाठः । (४) रङ्ग इति (ग) पुस्तक पाठः ।