भारतकोश
संग्रह पर लौटें

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

( १८० ) “सर्व्वाभारवसुन्धरोऽपि सुभटो विद्यामविद्यास्थितिः । श्रीमद्भोज-महीमहेन्द्रसचिवः प्रख्यात-कीर्त्तिर्गुणैः ॥” इत्यादिना च भोजराजमन्त्रो भोजराज-समकालिक इति सूच्यते । ( मूले ) अस्मिन्र्ग्रन्थे द्वितीय पृष्ठे पञ्चदशपङ्क्तौ—'दूतस्य बहु- भेदा वक्ष्यन्ते' इति लेखोऽस्ति । परमनेन प्रतीयते दूतविषयेऽन्यत्र यथा लक्षणादिकमस्ति तथात्रापि प्राचीने कस्मिन्नपि ग्रन्थे आसीत् तदादर्शं पुस्तकं इदानीं नोपलभ्यते । किन्तु लब्धादर्शपुस्तकेषु तादृश- शिरोलेखो विद्यते । तेन लब्धादर्शानुसारेण स शिरोलेखो विन्यस्तः । अशुद्धि-पुष्कलानि त्रीण्येवादर्शपुस्तकानि मया अवलोक्य सन्द- “सकलसुकृतैकपुञ्जः श्रीमान् मुञ्जश्चिरं जयति ।” “अनवरत-वित्त

( ११० ) र्भोऽयं यथामति परिशोधितम् । परं यदि प्रमादात् स्खलितं क्वापि वाऽशुद्धं तिष्ठेत्तदा सुधीजनैः कृपया क्षन्तव्यम् । यतः— ‘प्रमादात् स्खलनं जातु भवत्येव न संशयः’ । इति शम् । शकाब्दाः १८३६ । ईं १९१७ । श्रावण कृष्ण चतुर्थी । कलिकाता, श्रीईश्वरचन्द्र शर्मा-शास्त्री । ९० नं सीतारामघोष वर्त्मस्थः दर्शनविद्यालयः । एतद् ग्रन्थस्यादर्शपुस्तकानां नामानि कृतज्ञतया प्रकाश्यन्ते । १ । (क) संज्ञकं पुस्तकं गभर्णमेण्टसंस्कृतविद्यामन्दिर- पुस्तकालयस्थं, महामहोपाध्याय डक्तार श्रीयुक्त सतीश चन्द्र विद्या- भूषण एम्, ए ; पि, एइच्, डि ; एम्, आर्, अस्, महाशयैः प्रदत्तम् । अर्धशुद्धप्रायं, वङ्गाक्षरैर्लिखितम् । सम्पूर्णं, अन्तरालुटितम् । शकनरपतेरतीताब्दाः १७३२ इति प्रतिलिपिकालः । २ । (ख) संज्ञकं पुस्तकं वङ्गाक्षरैर्लिखितम् । अर्धशुद्धप्रायम्, अत्र लेखादि समयो नास्ति । सम्पूर्णं मध्ये किञ्चित् खण्डितम् । डक्तार राजराजेन्द्रलाल मित्रेण इण्डोआरियान्स्-नाम ख्यातग्रन्थे यस्य विवरणं प्रदत्तम्, तस्यैका प्राचीन-प्रतिलिपिर्मया लब्धा व्यवहृता च सा । ३ । (ग) संज्ञकं पुस्तकं प्रयागस्थ महामहोपाध्याय धार्मिक- प्रवर श्रीयुक्त आदित्यराम भट्टाचार्य्य एम्, ए, महाभागैः प्रदत्तम्, वङ्गाक्षरैर्लिखितम् । अशुद्धिवहुलम् । सम्पूर्णमन्तरात्रुटितम् खण्डि- तञ्च । अत्र लेखादि-समयो नास्ति ।

युक्तिकल्पतरोः शुद्धिपत्रिका । पुटे पङ्क्तौ अशुद्धम् शुद्धम् ३ १६ ‘दूतस्य बहु’......अवतरणिकायां १६ पृष्ठे द्रष्टव्यम् ८ १२ विग्रह विग्रहः ९ १३ नभश्वानिव नभस्वानिव १५ ७ मस्या मत्स्या २९ ४ दौषौ दोषौ २९ १३ वौर्य्याढाः वीर्य्याढाः ३० २ स्यामिच्छस्तै स्वामिच्छस्तै ३३ १० लाभोः लाभः ३७ १७ स्ता स्तथा ३८ १४ रञ्जका रक्षका ४० १८ चिलाङ्गी चिलाङ्गो ४२ ६ रक्षकश्च रक्षकाश्च ४४ ९ कुर्य्यांत् कुर्य्यात् ५७ १८ पौठा पीठा ५९ ३ नृषति नृपति ५९ १७ भहीभुजाम् महीभुजाम् ६६ १४ ऋद्धिमात् ऋद्धिमान् ६८ ४ ध्वस्याग्रे ध्वजस्याग्रे ६८ १५ विलासा विशाला ६९ २ भूजाम् भुजाम् ६९ १४ मुक्ता युक्ता ७० २१ शिव शिवः ७१ ८ ध्वचा ध्वजा ७२ १५ भव्यनामा भव्यमाना ७२ १७ श्रोलः शीलः

( ३१= ) पुटे पङ्क्तौ अशुद्धम् शुद्धम् ७३ ९ भव्यमानं तौ भव्यमानतो ७३ २० प्रायसः प्रकाशाः ७४ ४ चेत्र चैव ७५ २२ लोलूपैः लोलुपैः ७६ १५ राजीय राजीये ७७ १० कङ्खारं कङ्कारं ७८ ११ भुजाम्भृवेत् भुजाम्भवेत् ८१ ४ दैवेसु दैवेषु ८३ ११ सञ्ः संज्ञः ८६ १० वज्रान्ये वज्राख्ये ८७ ३ शोभा शोभाः ८७ १८ भासौ भासो ८८ २ प्राय प्रायं ८८ १८ तनुधारयेत् तन्नधारयेत् ९० २ शौभा शोभा ९० ४ मृत्यूः मृत्युः ९० १५ पुरुषा परुषा ९० १७ समासतो समानतो ९२ १३ विद्वांखान् विद्वांक्षान् ९२ १७ तुम्बुरुत्यः तुम्बुरुत्थः ९३ ६ प्रमृज्यं प्रमृष्टं ९४ ११ भागेण भागेन ९५ २५ कारगो धारगो ९८ ७ विच्छूरिता विच्छुरिता ९९ ३ राभमयानि राम्भयानि ९८ १२ युत सुत

( २१६ ) पृष्ठे पङ्क्तौ अशुद्धम् शुद्धम् ९९ ९ विस्फूरि विस्फुरि ९९ १८ घारनात् धारखात् १०० ५ ज्ञेपं ज्ञेयं १०० १४ त्रिभुने त्रिभुवने १०१ ३ हन्यात हन्या १०३ ८ भा मा १०३ १३ गौरैः गौरैः १०४ ६ भाग भागी १०४ १६ रूपिण्यो रूपिण्यौ १०७ ७ भुवि भूरि ,, १४ वैश्यः वैश्यं ११० ७ सर्व्वम्भवेत् सर्व्वम्भवेत् ११० २० दूरापाम् दुरापाम् ११२ ६, ७ रुत्तञ्च रूत्तञ्च ११५ १ विमुक्तानि वियुक्तानि ११८ ४ योग्य योग १२० १४ नादम् नादात् १२३ १ सर्व्व सर्व्वं १२६ १४ ममा समा १२७ २२ नभोऽम्बु घो नभोऽम्बु चो १२८ १० तौर तौर ,, ,, रूप रुप १२८ ११ मक मर १२९ ८ कूरयति क्रूरयति १३० १८ विस्तवाब्धि विस्तराब्धि १३५ २१ रूपेताः रुपेताः

( ११० ) पुटे पङ्क्तौ अशुद्धम् शुद्धम् १३९ ९ नेव नैव १४२ ५ मेषाद्रि मेघाद्रि १४३ ४ छ्द्रं छिद्रं १४३ १३ धनयो ध्वनयो १४४ ७ साधमे साधये १४७ १० भूजङ्ग भुजङ्ग १४९ २२ छ्क्र च्छ्व् १५० २० स्याज्यो स्यान्त्यो १५५ १४ धम्रः धूम्रः १६८ २३ परीया परीच्छाया १७१ ७ एषां आसां १७५ १६ साम्यत् साम्यन्तु १७६ ५ मणिरुक्त अनिरुक्त १७६ १५ सहज सहजः १७७ १८ स्यक्ता त्यक्ता १७९ १ नौकायाणं नौकानां १८० १८ दौनेभ्य दीनेभ्यः १८३ ५ थुरा खुरा १८६ १४ वत्तौ वर्त्तौ १८७ ३ यदीच्छेःत् यदीच्छेत् १८९ १५ वक्त रक्त १९४ १० खेना स्तेन १९७ ७ कुद्दा क्रुद्धा १९८ ६ गकानां गजानां २०० ७ स्तम्ब शृङ्ग २०३ १४ भिद्यते भिद्येते २०७ ८ महौ मही २११ १ भृग मृग २१२ २० तदव तदेव २२६ ८ ततत्पर तत्पर

युक्तिकल्पतरु-विषयसूची । विषयाः पृष्ठे १ । नीतियुक्तिः, } ... ... ... १ गुर्वादीनां लक्षणम् } २ । अथ तेषां परीक्षा ... ... ... ३ ३ । दूतादिलक्षणम्, दूतस्य बहुभेदाः, } ... .. ” कोशवृद्धिः, राजदायादः, कृषिकर्म्म } ४ । अथ बलम् ... ... ... ६ ५ । अथ यानम् ... ... ... ७ ६ । अथ यात्रा ... ... ... ” ७ । अथ विग्रहः ... ... ... ८ ८ । अथ चरः ... ... ... ९ ९ । अथ दूतविशेष-लक्षणम् ... ... ... ११ १० । अथ सन्धिः ... ... ... १२ ११ । अथ आसनम् ... ... ... ” १२ । अथ द्वैधम् ... ... ... १३ १३ । अथ आश्रयः ... ... ... ” १४ । अथ दण्डः, } ... ... ... १५ मन्त्रः } १५ । अथ द्वन्द्वयुक्तिः ... ... ... १७ १६ । अथ अकृत्रिम द्वन्द्वयुक्तिः ... ... ... १८ १७ । अथ कृत्रिम द्वन्द्वयुक्तिः ... ... ... ” १८ । अथ सामान्यतो गुणाः, } ... ... २० नीतिशास्त्रम् } घ

( २॥=० ) विषयाः पृष्ठे १८ । अथ नगर निर्माणादि कालः ... ... २२ २० । अथास्य लक्षणम् ... ... ... ,, २१ । अथ वसति लक्षणम् ... ... ... २३ २२ । अथ दोषगुणौ ... ... ... २४ २३ । अथ वास्तु युक्तिः, स्थाननिर्णयः, दिङ्निर्णयः अथ लक्षणम्, प्लवनमन्यत्, ... ... २६ अथ मानम्, अथ तले गुणदोषौ, अथ वास्त्वारम्भ कालः २४ । अथ कालनिर्णयः ... ... ३२ २५ । अथ वास्तु प्रवेशकालः ... ... ... ३३ २६ । अथ द्वारनिर्णयः ... ... ... ३४ २७ । अथ प्राचीर निर्णयः ... ... ... ३५ २८ । अथ जयाख्यस्य चतुरस्र-वास्तु खण्ड निर्णयः ... ३६ २९ । अथ वास्तुप्लव लक्षणम्, ⎬ विलासगृहं, रङ्गः, गृहवज्रधारणा, राजगृहयुक्तिः ⎭ ४४ ३० । अथ आसनयुक्तिः ... ... ... ५० ३१ । अथ सामान्यासनोद्देशः ... ... ... ५४ ३२ । अथ पीठोद्देशः ... ... ... ५७ ३३ । अथ शीलापीठाः ... ... ... ५८ ३४ । अथ काष्ठपीठाः ... ... ... ५९ ३५ । अथ निषेधः ... ... ... ६० ३६ । अथ छत्रयुक्तिः, ⎫ अथ कुम्भादि दण्डलक्षणम् ⎭ ... ... ६१

( १॥≡० ) विषयाः पृष्ठे ३७। तत्र ध्वजयुक्तिः ... ... ... ६८ ३८। अथ निष्पताकध्वजः ... ... ... ७० ३९। अथ उपकरणयुक्तिः ... ... ... ७२ ४०। अथ चामरपरीक्षा ... ... ... ७३ ४१। अथ भृङ्गारोद्देशः ... ... ... ७३ ४२। अथ चषकोद्देशः ... ... ... ७८ ४३। अथ वितान लक्षणम्, } वस्त्रनिरूपणम् } ... ... ... ७९ ४४। अथ अलङ्कारयुक्तिः ... ... ... ८४ ४५। अथ वज्रलक्षणानि, } अथ गणना } ... ... ... ८५ ४६। अथ पद्मराग परीक्षा ... ... ... ८६ ४७। अथ वज्रादीनां दोषाः ... ... ... ८९ ४८। अथ वज्रादीनां मूल्यम् ... ... ... ९४ ४९। अथ हीरक परीक्षा, } तस्य दोषाः } ... ... ... ९६ ५०। अथ हीरक मूल्यम् ... ... ... १०३ ५१। अथ विद्रुम परीक्षा, } अथ प्रवाल परीक्षा } ... ... ... १०४ ५२। अथ गोमेद परीक्षा ... ... ... १०६ ५३। अथ मुक्ता परीक्षा ... ... ... १०७ ५४। अथ मुक्ता गुणाः ... ... ... ११४ ५५। अथ मुक्ता दोषाः ... ... ... ११५ ५६। अथ मुक्तामूल्यम् ... ... ... ११७ ५७। „ वैदूर्य्य परीक्षा ... ... ... १२० ५८। „ „ गुणाः ... ... ... १२१

( १॥० ) विषयाः पृष्ठे ५९ । अथ इन्द्रनील परीक्षा ... ... १२३ ६० । ” इन्द्रनील गुणाः, } ” ” दोषाः } ... ... १२५ ६१ । ” ” मूल्यम् ... ... १२७ ६२ । ” मरकत परीक्षा ... ... १२७ ६३ । ” मरकत मणेश्च्छाया, } ” मरकत मणेर्दोषगुणाः } ... ... १२९ ६४ । ” कृत्रिमाकृत्रिम परीक्षा ... ... १३० ६५ । ” मरकत मूल्यम् ... ... १३१ ६६ । ” पुष्पराग परीक्षा ... ... १३१ ६७ । ” कर्केतनमणि परीक्षा ... ... १३२ ६८ । ” भीष्ममणि परीक्षा ... ... १३४ ६९ । ” पुलकमणि परीक्षा ... ... १३४ ७० । ” रुधिराख्य परीक्षा ... ... १३६ ७१ । ” स्फटिक लक्षणम् ... ... १३६ ७२ । ” अयस्कान्त लक्षणम्, } ” मिश्रक लक्षणम् } ... ... १३८ ७३ । ” शङ्ख लक्षणम्, } अलङ्करणयुक्तिः } ... ... १३८ ७४ । ” अस्त्रयुक्तिः, } ” अस्त्रज्ञानम् } ... ... १३९ ७५ । ” खङ्ग परीक्षा ... ... ... १४० ७६ । ” खङ्गस्य प्रत्यङ्गगणनम् ... ... १४१ ७७ । ” खङ्गस्य चत्वारिरूपाणि ... ... १४२ ७८ । ” खङ्गस्य त्रिंशन्नेत्राणि ... ... १४२ ७९ । ” खङ्गस्य त्रिंशदरिष्टानि ... ... १४३

Line: ,, ,, दिव्य लक्षणम्, } ... १६९ Line: ,, ,, भौम लक्षणम्

( १० ) विषयाः पृष्ठे ९९। अथ हय क्रियाकालः, „ हयारोहणज्ञानम्, ⎬ .. ... १८० „ हय ताड़नविधिः ⎭ १००। „ „ धावनविधिः ... ... १८१ १०१। „ „ रक्तमोक्षणविधिः ... ... १८२ १०२। „ „ ऋतुचर्या ... ... १८३ १०३। „ गज परीक्षा, ⎬ ... ... १८६ तवकालः ⎭ १०४। „ गज गुणाः ... ... ... २०० १०५। „ गज दोषाः ... ... ... २०२ १०६। „ वृष परीक्षा ... ... ... २०६ १०७। „ वृष गुणाः ... ... ... २०७ १०८। „ वृष दोषाः ... ... ... २०८ १०९। „ महिष परीक्षा... ... ... २१० ११०। „ मृग परीक्षा ... ... ... २११ १११। „ सारमेय परीक्षा ... ... २१३ ११२। „ अज लक्षणम्... ... ... २१४ ११३। „ चतुष्पद्यानोद्देशः ... ... २१५ ११४। „ द्विपद्यानोद्देशः ... ... २१६ ११५। „ द्विपद्यानकथनम् ... ... २१८ ११६। „ निच्छदिः ... ... ... २२० ११७। „ अष्टदोलाकथनम् ... ... २२१ ११८। अथ निष्यद यानोद्देशः ... ... २२३ ११९। अथ अस्य लक्षणानि ... ... २२४ १२०। अथ विशेष निष्यद यानोद्देशः, ⎬ ... ... २२५ तत्र दीर्घा नौका लक्षणम् ⎭

( १७ ) विषया: पृष्ठे १२१ । अथ उन्नत नौका लक्षणम्, \Bigg} ... ... २२६ धातुनौकाकथनम् १२२ । अथ जघन्य जलयानानि ... ... २२९ समाप्तं सूची-पत्रम् ।

Digitized By Siddhanta eGangotri Gyaan Kosha CC-0. Gurukul Kangri Collection, Haridwar.

(यह पृष्ठ मूल रूप से रिक्त है, इस पर कोई देवनागरी पाठ उपलब्ध नहीं है।)

अथ युक्तिकल्पतरुः । ( श्रीभोजराजीयः ) ( अत्र नीति युक्तिः ) श्रीं नमः शिवाय । विश्व सर्गविधौ वेधा स्तत्पालयति यो विभुः । तदत्ययविधावीश स्तंवन्दे परमेश्वरम् ॥ १ ॥ कंसानन्दमकुर्व्वाणः कं सानन्दं करोति यः । तं देववृन्दैराराध्यमनाराध्यमहम्भजे ॥ २ ॥ नमामि शास्त्रकर्त्तृणां चरणानि मुहुर्मुहुः । येषां वाचः पावयन्ति (१) श्रवणेनैव सज्जनान् ॥ ३ ॥ नानामुनि * निबन्धानां सारमाकृष्य यत्नतः । तनुते भोजनृपति र्युक्तिकल्पतरुं मुदे ॥ ४ ॥ विवुधाभीष्टदममुं कल्पवृक्षं समाश्रितः (२) । प्राप्नोतीष्टतमां सिद्धिं वुधाः ! (३) संसेव्यतामयम् ॥ ५ ॥ ( १ ) पारयन्ति (ख) पुस्तक पाठः । ( २ ) समाश्रितम् (ख) पुस्तक पाठः । ( ३ ) वुधैः (ख) पुस्तक पाठः ।

  • इह तु आर्य्यावर्त्ते बहून्येव प्राचीनानि नीतिपुस्तकानि सम्यगासन् । तेषु च वार्हस्पत्यं, औशनसम्, विश्वामित्रोयम्, धौम्यञ्चैतानि पुरातनानि । एवं कौटिलीयम्, कामन्दकीयम्, नीतिमयूखादीनि च मध्यकालिकानि । अपरानि च भर्तृहरीयादीनि । महर्षिमन्वादीनां संहितासु च बहुषु प्रकरणेषु सन्ति नीतिविषयाः। पुराण-ज्योतिःशास्त्र-चिकित्साशास्त्राणां प्रकरणेषु च वर्त्तन्ते बहुधा नीतयः ।

२ युक्तिकल्पतरौ— दण्डनीति र्यस्य मूलं ज्योतिश्शास्त्रं प्रकाण्डकम् । दृष्टार्था इतरा विद्याः शाखा पुष्पं तथेतराः ॥ ६ ॥ अप्यदृष्टफलं (४) यस्य रसस्तस्यामृतं सताम् । सोऽयं कल्पतरुर्धीरैः ! उपास्यो भूप-मन्त्रिणाम् ॥ ७ ॥ संश्रित्यामुं कल्पवृक्षमन्यशास्त्राण्यवेक्ष्य च (५) । राजभि र्मन्त्रतामर्थ्यो यः शास्त्रार्थोत्तमो भुवि ॥ ८ ॥ अयमिष्टतमो भूपैर्ज्ञेयो हितफल-प्रदः । अन्येषान्च भवेदिष्टः प्रियत्वेनान्ददात्यपि ॥ ९ ॥ अस्य नीत्यासमारम्भश्छन्दोग्रन्थैः समापनम् । नीतिहीन नरेन्द्राणां नश्यन्त्याशु सुसम्पदः ॥ १० ॥ अतो नीतिः प्रयत्नेन श्रवणीया नृपोत्तमैः । अतः प्रथमतॊ नीतिशास्त्रमत्र निवध्यते ॥ ११ ॥ नीतिर्बृहस्पति-प्रोक्ता तथैव

नीतियुक्तिः । ३ अथ तेषां परीक्षा यथा— सदाचारः कुशलधीः सर्व्वशास्त्रार्थ-पारगः । नित्यनैमित्तिकानाञ्च कार्य्याणां कारकः शुचिः ॥ १४ ॥ अपर्व्व-मैथुन-परः पितृ-देवार्च्चने रतः । गुरुभक्तो जित-क्रोधो विप्राणां हितकृत् सदा ॥ १५ ॥ दयावान् शील-सम्पन्नः सत्कुलीनो महामतिः । परदारेषु विमुखो दृढ-सङ्कल्पको द्विजः ॥ १६ ॥ अन्यैश्च वैदिकगुणै र्युक्तः कार्य्यो गुरुर्नृपैः । एतैरेव गुणै र्युक्तः पुरोधाः स्यान्महीभुजाम् ॥ १७ ॥ शान्तो विनीतः कुशलः सत्कुलीनः शुभान्वितः । शास्त्रार्थतत्त्वगोऽमात्यो भवेद् भूमिभुजामिह ॥ १८ ॥ तथा बुद्धिमतां श्रेष्ठो धार्म्मिकः शास्त्रवित्तमः । हीनश्चाप्य परोधेन * भूपमन्त्रो प्रकीर्त्तितः ॥ १९ ॥ परेङ्गितज्ञः परवाग् व्यङ्ग्यार्थस्यापि तत्त्ववित् । सदोत्पन्नमति र्धीरो दूतः स्यात् पृथिवीपतेः ॥ २० ॥ ————*———— दूतस्य बहुभेदा वच्यन्ते । नीतिशास्त्रार्थ कुशलो लेख्यालेख्य-विशारदः । बह्वर्थवक्ता चाल्पेन लेखकः स्यात् सभापटुः ॥ २१ ॥ ज्योतिःशास्त्र-विशेषज्ञः सुन्दराङ्गः सभापटुः । कुलक्रमागतः शुद्धो गणकः स्यान्महीपतेः ॥ २२ ॥

  • 'हीनश्चाप्य परोधेन' इत्यनेनौचित्यादिराहित्यं राज्ञोहितानुष्ठानपरत्वञ्च सुज्ञेयम् ।

Digitized By Siddhanta eGangotri Gyaan Kosha ४ युक्तिकल्पतरौ— वृद्धः (१) कुलोद्गतः शक्तः पितृपैतामहः शुचिः । राज्ञामन्तःपुराध्यक्षो विनीतश्च तथेष्यते ॥ २३ ॥ हयशिक्षा विधानज्ञ * स्तच्चिकित्सित-पारगः । अश्वाध्यक्षो महीभर्तुः सुभक्तश्च प्रशस्यते ॥ २४ ॥ गजलक्षण-जातिज्ञ † स्तच्चिकित्सित पारगः । निर्भयश्च विशुद्धश्च गजाध्यक्षः प्रशस्यते ॥ २५ ॥ अस्त्र (२) शास्त्रेषु कुशलो बहुबन्धु-जनान्वितः । शुद्धः कुलोद्भवो विद्वान् धर्मभीरु रभोस्तथा ॥ २६ ॥ युद्धाध्यक्षः ‡ स्मृतोराज्ञां दुर्गसन्धानकार्यवित् (३) । अध्यक्षान् विविधान् कुर्य्या स्तत्र तत्र विपश्चितः ॥ २७ ॥ (१) बुद्धः इति (ख) पुस्तक पाठः । (२) अस्त्र शस्तेषु इति (ख) पुस्तक पाठः ।—अत्रास्त्रशास्त्राणि धनु- [L1

नौतियुक्तिः । ५ अप्रमत्तानलुब्धांश्च विरोधांश्चैव राजसु । राज्ञामाज्ञानुरूपेण तत्तत्कर्म्म प्रकुर्व्वताम् ॥ २८ ॥ प्रसादञ्च महीपालः कुर्या त्कार्यानुरूपकम् । सर्व्वे सेवितुमिच्छन्ति महीपालं धनाश्रया ॥ २९ ॥ स्वत(४)स्ते तु महीपालैः परीक्ष्यास्तव कोविदैः * । कोषो महीपते र्जीवो न तु प्राणाः कथञ्चन ॥ ३० ॥ द्रव्यं हि राजा भूपस्य नशरीरमिति स्थितिः । धर्म्महेतोः सुखार्थाय भृत्यानां भरणाय च ॥ ३१ ॥ आपदर्थञ्च संरक्ष्यः कोषः कोषवता सदा । धनात् कुलं प्रभवति धनाद्धर्म्मः प्रवर्त्तते (५) ॥ ३२ ॥ नाधनस्य भवेद्धर्म्मः कामांश्चैव कथञ्चन । अधर्म्मान्न धनं कुर्य्यात्तद्धनं गृह्यते परैः ॥ ३३ ॥ स्वयं पापस्य पात्रं स्यात् सिंहो हस्तिवधादिव । तादात्मिको मूलहरः कदर्य्य स्त्रिविधोऽर्द्धकः ? ॥ ३४ ॥ उत्पन्नार्थ-व्ययकरो यो भविष्यदनाशया । स तादात्मिक आख्यातः कल्याणो तस्य नायतः ॥ ३५ ॥ यः पित्र्यार्ज्जितं वित्त मन्यायेन तु भक्षयेत् । स मूलहर आख्यात स्तदुदर्कोऽपि चाशुभः ॥ ३६ ॥ ( ४ ) सुतास्ते तु इति (ख) पुस्तक पाठः । ( ५ ) प्रवर्द्धते इति (ख) पुस्तक पाठः ।

  • धनलिप्सया सर्व्वे साधवो दुर्ज्जना वा सुधियो वा महीपालं आश्रयन्ति, परं राज्ञो- हि तेषां स्वतः सचिवेन, विदुषा वा परीक्षणमुचितम् । विना परीक्षया सुजन-दुर्ज्जन- निश्चये राज्ञोऽनिष्टञ्च स्यादिति ।

युक्तिकल्पतरौ— स कदर्य्यस्तु भृत्या(६)त्म-पीडनै्यर्थसञ्चयी । तद्धनं राज-दायाद-तस्कराणां निधिर्भवेत् ॥ ३७ ॥ भिच्चा च राजकोषस्य स्तोक-स्तोकेन वर्द्धते । अञ्जनञ्च(७) धनञ्चैव स्तोक-स्तोकेन हीयते ॥ ३८ ॥ कोषस्य साधनोपायो मुख्यं राष्ट्रमिति स्मृतम् । भूगुणैर्वर्द्धते राष्ट्रं तद्वृद्धि (८) नृपसत्तता ॥ ३८ ॥ राज्ञोपायेन (९) संरक्ष्या ग्रामे ग्रामे कृषीबलाः । तेभ्यः कृषि स्ततश्चार्था अर्थेभ्यः सर्व्वसम्पदः ॥ ४० ॥ शरीरकर्षणात् प्राणाः क्षीयन्ते प्राणिनां यथा । तथा वर्षेषु वर्षेषु कर्षणाद्गुण-क्षयः * ॥ ४१ ॥ एकस्यां गुणहीनायां कृषिमन्यत्र कारयेत् ॥ ४२ ॥ — ०० — अथ बलम् । रथिनः सादिनश्चैव गजारोहाश्च सत्तमाः । पत्तयश्च महाकाया वलमेतच्चतुर्विधम् † ॥ ४३ ॥ (६) भृतार्थ इति (ख) पुस्तक पाठः । (७) अर्ज्जनञ्च इति (ख) पुस्तक पाठः । (८) तद्वृद्धिः इति (ख) पुस्तक पाठः । (९) अपायेन इति (ख) पुस्तक पाठः ।

  • प्रत्यब्दं कर्षणेन क्षेत्रस्य शस्योत्पादनशक्तिर्ह्रसत्येव । अतएवहि कृषीवलैः कृष्टभूमौ तच्छक्तिपरिवृद्ध्यर्थं पर्युसित-गोमय-पङ्क करीषभस्मादिकं प्रदातव्यमित्यादि वृहत्पराशरीय- कृषियन्त्रेऽस्ति । † “एको रथी गजश्चैको नराः, पञ्च पदातयः । त्रयश्च तुरगाश्चैव पत्तिरित्यभिधीयते ॥” ( इति भरतः )