BharatKosha
Back to the archive

बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)

Baudhayana Dharmasutra Hindi

by महर्षि बौधायन

Source: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (origin)

DevanagariHindipublished486 pages
Page 296Permalink
२४४बौधायन धर्मसूत्रम्[ नित्यतर्पणविधिः

तर्पयामि । वाजसनेयिनं याज्ञवल्क्यं तर्पयामि । आश्वलायनं शौनकं तर्पयामि । व्यासं तर्पयामि । वसिष्ठं तर्पयामि । प्रणवं तर्पयामि । व्याहृतीस्तर्पयामि । सावित्रीं तर्पयामि । गायत्रीं तर्पयामि । छन्दांसि तर्पयामि । ऋग्वेदं तर्पयामि । यजुर्वेदं तर्पयामि । सामवेदं तर्पयामि । अथर्ववेदं तर्पयामि । अथर्वाङ्गिरसं तर्पयामि । इतिहासपुराणानि तर्पयामि । सर्पवेदांस्तर्पयामि सर्पदेवजनांस्तर्पयामि । सर्वभूतानि तर्पयामि ॥ १४ ॥

इति बौधायनीये धर्मसूत्रे द्वितीयप्रश्ने नवमः खण्डः ।

**अनु०—**मैं ऋषियों का तर्पण करता हूँ, परमर्षियों का तर्पण करता हूँ...॥१४॥


दशमः खण्डः

अथ प्राचीनावीती—ओं पितॄन् स्वधा नमस्तर्पयामि । पितामहान् स्वधा नमस्तर्पयामि । प्रपितामहान् स्वधा नमस्तर्पयामि । मातृस्स्वधा नमस्तर्पयामि । पितामहीस्स्वधा नमस्तर्पयामि । प्रपितामहीस्स्वधा नमस्तर्पयामि । मातामहान् स्वधा नमस्तर्पयामि । मातुः पितामहान् स्वधा नमस्तर्पयामि । मातुःप्रपितामहान् स्वधा नमस्तर्पयामि । मातामहीस्स्वधा नमस्तर्पयामि । मातुःपितामहीस्स्वधा नमस्तर्पयामि । मातुःप्रपितामहीस्स्वधा नमस्तर्पयामि ॥ १ ॥

**अनु०—**प्राचीनावीती होकर—पितरों को स्वधा, मैं पितरों का तर्पण करता हूँ...॥ १ ॥

ओमाचार्यान्स्वधा नमस्तर्पयामि । आचार्यपत्नीः स्वधा नमस्तर्पयामि । गुरुन्स्वधा नमस्तर्पयामि । गुरुपत्नीस्स्वधा नमस्तर्पयामि । सखीन्स्वधा नमस्तर्पयामि । सखिपत्नीस्स्वधा नमस्तर्पयामि । ज्ञातीन्स्वधा नमस्तर्पयामि । ज्ञातिपत्नीस्स्वधा नमस्तर्पयामि । अमात्यान् स्वधा नमस्तर्पयामि । अमात्याः स्वधा नमस्तर्पयामि । सर्वान्स्वधा नमस्तर्पयामि । सर्वास्स्वधा नमस्तर्पयामि ॥ २ ॥

एकादशः खण्डः ] द्वितीयप्रश्ने षष्ठोऽध्यायः २४५

Page 297Permalink

एकादशः खण्डः ] द्वितीयप्रश्ने षष्ठोऽध्यायः २४५

अनुतीर्थमथ उत्सिञ्चति—ऊर्जं वहन्तीरममृतं घृतं पयः कीलालं परिस्रुतं स्वधास्थ तर्पयत मे पितॄन् । तृप्यत तृप्यत तृप्यतेति ॥ ३ ॥

अनु०—( हाथ के ) तीर्थों से जल दे—हे जल, तुम अन्न लाते हो, अमृत, घृत, दूध, यवागू-लाते हो, तुम पितरों के लिए अमृत हो, मेरे पितरों को तृप्त करो, तुम तृप्त होओ, तुम होओ ॥ ३ ॥

अनुतीर्थं तीर्थं प्रति । अनेनैतत् ज्ञापितं भवति—जलतर्पणं भवतीह महदिति ऊर्जं अन्नं अमृतादिपञ्चकम् । यद्यपि कीलालमन्नम् । तथाऽपि परिस्रुतसन्निधानात् यवागूरभिप्रेता । यूयं स्वधा अमृताः स्थ तर्पयत मम पितृपितामहप्रपितामहान् । यूयं च तृप्यत वीप्सावचनमादरार्थम् ॥ ३ ॥

नैकवस्त्रो नार्द्रवासा देवानि कर्माणि नानु सञ्चरेत् । पितृसंयुक्तानि चेत्येकेषां पितृसंयुक्तानि चेत्येकेषाम् ॥ ४ ॥

इति बौधायनीये धर्मसूत्रे द्वितीयप्रश्ने दशमः खण्डः ॥

अनु०—केवल एक वस्त्र पहन कर, अथवा गीले वस्त्र पहन कर देवताओं की पूजा का कर्म न करे । पितरों से संबद्ध कर्मों को भी एक वस्त्र पहन कर या गीला वस्त्र पहन कर न करे ऐसा कुछ आचार्यों का मत है ॥ ४ ॥

नाऽऽर्द्रवासाः इति साक्षादार्द्रवासोनिषेधार्थः । अनुसञ्चरेत् अनुतिष्ठेत् । पितृसंयुक्तानि अत्राऽपिशब्दोऽध्याहर्तव्यः ॥ ४ ॥

इति श्रीगोविन्दस्वामिविरचिते बौधायनधर्मविवरणे द्वितीयप्रश्ने पञ्चमोऽध्यायः ।


द्वितीयप्रश्ने षष्ठोऽध्यायः

एकादशः खण्डः

देवऋषिपितृतर्पणमुक्तम्—
'अथेमे पञ्च महायज्ञास्तान्येव महासत्राणि-देवयज्ञः पितृयज्ञो भूतयज्ञो मनुष्ययज्ञो ब्रह्मयज्ञ इति ॥ १ ॥


१. See मा. शत. ब्रा. ११.५.६.१. and alsh. आ. गृ. १.१२.१४-१.१३.१.

Page 298Permalink
२४६बौधायन-धर्मसूत्रम्[पञ्चमहायज्ञाः

अनु०—देवयज्ञ, पितृयज्ञ, भूतयज्ञ, मनुष्ययज्ञ, और ब्रह्मयज्ञ—ये पाँच महायज्ञ हैं और इन्हें ही महासत्र भी कहा गया है ॥ १ ॥

फलत एषां यज्ञानां महत्त्वं न स्वरूपतः, दीर्घकालप्रयोगसामान्याच्च महासत्रसमास्ते। 'देवयज्ञः' इत्यादिसंज्ञाकरणं संव्यवहारार्थम् ॥ १ ॥

अहरहस्स्वाहाकुर्यादा काष्ठात् तथैतं देवयज्ञं समाप्नोति ॥ २ ॥

अनु०—प्रतिदिन देवताओं के लिए 'स्वाहा' के साथ अग्नि में हवन करे। केवल एक काष्ठ का टुकड़ा तक भी हवन के रूप में अर्पित किया जा सकता है। इस प्रकार देवयज्ञ का अनुष्ठान करे ॥ २ ॥

अत्र 'देवेभ्यस्स्वाहा' इति मन्त्र उद्धर्त्तव्यः। द्रव्यमोदनप्रभृति आ काष्ठात् ज्ञेयम्। वीप्सावचनं नित्यत्वख्यापनार्थम्। समाप्नोति अनुतिष्ठेत्। एवमुत्तरेष्वपि यथासम्भवं योजना ॥ २ ॥

अहरहस्स्वधाकुर्यादोदपात्रात्तथैतं पितृयज्ञं समाप्नोति ॥ ३ ॥

अनु०—प्रतिदिन पितरों के लिए 'स्वधा' के साथ जल से पूर्ण पात्र इत्यादि पूजा अर्पित करे। इस प्रकार पितृयज्ञ का अनुष्ठान करे ॥ ३ ॥

'पितृभ्यस्स्वधा नमः' इति मन्त्रोऽध्याहार्यः। उदपात्रं उदकं आज्यौदनप्रभृति तत्पर्यन्तमित्यर्थः ॥ ३ ॥

अहरहर्नमस्कुर्यादा पुष्पेभ्यस्तथैतं भूतयज्ञं समाप्नोति ॥ ४ ॥

अनु०—प्रतिदिन प्राणियों के प्रति पुष्पों द्वारा पूजा आदि करते हुए आदर व्यक्त करे। इस प्रकार भूतयज्ञ का अनुष्ठान करे ॥ ४ ॥

'भूतेभ्यो नमः।' इति मन्त्रोद्धारः। एते त्रयो महायज्ञाः वैश्वदेवबलिहरणैरेव सम्पादिता इति। केचित्कर्तव्या इति। एतत्तु युक्तायुक्ततया विचारणीयम् ॥ ४ ॥

अहरहर्ब्राह्मणेभ्योऽन्नं दद्यादा मूलफलशाकेभ्यस्तथैतं मनुष्युयज्ञं समाप्नोति ॥ ५ ॥

अनु०—प्रतिदिन ब्राह्मणों के लिए मूल, फल, शाक आदि अन्न प्रदान करे और इस प्रकार मनुष्ययज्ञ का अनुष्ठान करे ॥ ५ ॥

बहुभ्यो दातुं शक्त्यभावे एकस्मा अपि ॥ ५ ॥

अहरहस्स्वाध्यायं कुर्यादा प्रणवात्तथैतं ब्रह्मयज्ञं समाप्नोति ॥ ६ ॥

एकादशः खण्डः ] द्वितीयप्रश्ने षष्ठोऽध्यायः २४७

Page 299Permalink

एकादशः खण्डः ] द्वितीयप्रश्ने षष्ठोऽध्यायः २४७

अनु०—प्रतिदिन प्रणव से आरम्भ कर वेद का स्वाध्याय करे और इस प्रकार ब्रह्मयज्ञ का अनुष्ठान करे ॥ ६ ॥

ब्रह्मयज्ञः कर्तव्यः ब्रह्मैव यज्ञस्स च यागः ॥ ६ ॥

तदाह—

स्वाध्यायो वै ब्रह्मयज्ञः१ ॥ ७ ॥

अनु०—वेद का स्वाध्याय ही ब्रह्मयज्ञ है ॥ ७ ॥

ऋङ्वेतत् ॥ ७ ॥

'तस्य ह वा एतस्य ब्रह्मयज्ञस्य वागेव जुहूर्मन उपभृच्चक्षुर्ध्रुवा मेधा स्रुवः सत्यमवभृथस्स्वर्गो लोक उदयनं यावन्तं ह वा इमां वित्तस्य पूर्णां ददत्स्वर्गं लोकं जयति भूयांसं चाऽक्षय्यं चाऽप पुनर्मृत्युं जयति य एवं विद्वान् स्वाध्यायमधीते ॥ ८ ॥

अनु०—इस स्वाध्यायरूपी ब्रह्मयज्ञ का वाणी ही जुहू है, मन उपभृत् है, चक्षु ध्रुवा के स्थान पर होता है, बुद्धि स्रुवा का कार्य करती है सत्य अवभृथ है और स्वर्ग लोक उदयन या यज्ञ की परिसमाप्ति है । जितना स्वर्गफल इस धन-धान्यपूर्ण सम्पूर्ण पृथ्वी का दान करने वाला पाता है उतना, किंवा उससे भी अधिक स्वर्गफल, वह व्यक्ति प्राप्त करता है, जो इस प्रकार ज्ञान-सम्पन्न हो, स्वाध्याय करता है और वह अक्षय्य मोक्ष प्राप्त करता है, पुनर्मरण पर विजय कर लेता है ॥ ८ ॥

टि०— इस सूत्र का पूर्वार्द्ध शतपथ ब्राह्मण ११.५.६.२ से तथा उत्तरार्द्ध तैत्तिरीय आरण्यक २.१७ से उद्धृत है।

उपमेयम्, उपासना वा । यस्मिन् तत्तद्भावयेदित्यर्थः । वाचि जुहूबुद्धिमित्यादि । उदयनं परिसमाप्तिः । एतस्मादपि प्रायणोऽप्युन्नेयः । प्रारम्भापेक्षत्वात् परिसमाप्तेः । तदानीमस्मिन् लोके प्रायणीयबुद्धिः । वित्तस्य वित्तेन धनेन स्वाध्याययज्ञेन स्वाध्याययज्ञमुपासिता जयति ततोऽपि भूयांसमक्षय्यमनन्तमपवर्गं मोक्षमित्यर्थः । अपमृत्युरकालमरणम् ॥ ८ ॥

अथ निगमनम्—

तस्मात्स्वाध्यायोऽध्येतव्य इति हि ब्राह्मणम् ॥ ९ ॥


१. अत्र सूत्रे 'तस्य' इत्यारभ्य 'उदयनं' इत्येतत्पर्यन्तं शतपथब्राह्मणस्थं वाक्यम् । 'यावन्तं ह वा' इत्यारभ्य 'पुनर्मृत्युं जयति' पर्यन्तं तैत्तिरीयारण्यकस्थम् ( तै. आ. २. १४) ततः पुनश्शतपथस्थम् ॥

Page 300Permalink

२४८ बौधायन-धर्मसूत्रम् [ पञ्चमोध्यायः

**अनु०—**इस कारण स्वाध्याय का अध्ययन करना चाहिए ऐसा ब्राह्मण का वचन है ॥ ९ ॥

**टि०--**द्रष्टव्य शतपथ ब्राह्मण ११.५.७.३-४

हिशब्दो हेतौ । इत्थं ब्राह्मणस्य भावादित्यर्थः ॥ ९ ॥

अथाऽप्युदाहरन्ति—

स्वभ्यक्तस्सुहितः सुखे शयने शयानः यं यं क्रतुमधीते तेन तेनाऽस्येष्टं भवतीति ॥ १० ॥

**अनु०—**इस सम्बन्ध में निम्नलिखित उद्धृत करते हैं यदि तेल आदि लगाकर, भोजन आदि से अच्छी प्रकार तृप्त होकर और सुखपूर्वक लेटकर जिस-जिस यज्ञ के मन्त्रों का अध्ययन करता है उस उस से इष्ट होता है ॥ १० ॥

स्वभ्यक्तः तैलादिना । सुहितः तृप्तो भोजनादिना । 'यं यं क्रतुम्' इत्यस्मिन् विधावन्यानर्थक्यप्रसंगात् प्रशंसैषा ॥ १० ॥

एवं तावद् गार्हस्थ्यमुक्तम् । अधुनाऽस्यैव प्रशंसा—

तस्य ह वा एतस्य धर्मस्य चतुर्धा भेदमेक आहुरदृष्टत्वात् ये चत्वार इति कर्मवादः ॥ ११ ॥

**अनु०—**इस धर्म के चार भेद हैं, ऐसा कुछ आचार्य कहते हैं । किन्तु ऐसी बात न दिखलायी पड़ने से ये चार भेद याज्ञिक कर्मों के सम्बन्ध में ही समझना चाहिए ॥ ११ ॥

योऽसौ धर्मः श्रुतिस्मृतिशिष्टागमैः प्रसिद्धः तस्यैतस्य धर्मस्य चातुर्विध्यमा-श्रमचतुष्टयकृतमिति एके ऋषय आहुः । किमिति ? यावत् दृष्टत्वान्मन्त्रार्थस्य तैः, यं दृष्टैषमाहुः । तस्यैतत्प्रतीकग्रहणं ये चत्वार इति । चत्वारोऽप्याश्रमाः देवलोकायनाः पन्थान इत्येव सत्यम् । अयं तावन्मन्त्रः कर्मवादः कर्मभेदमेव करोति नाऽऽश्रमभेदम् ॥ ११ ॥

कानि पुनस्तानि कर्माणोत्याह—

ऐष्टिकपाशुकसौमिकदार्वीहोमानाम् ॥ १२ ॥

**अनु०—**ये चार प्रकार हैं—ऐष्टिक यज्ञ, पशुयज्ञ, सोमयज्ञ और दार्वी-होम ॥ १२ ॥

स्वार्थ एवाऽत्र तद्धितः ॥ १२ ॥

एकादशः खण्डः ] द्वितीयप्रश्ने षष्ठोऽध्यायः २४९

Page 301Permalink

एकादशः खण्डः ] द्वितीयप्रश्ने षष्ठोऽध्यायः २४९

तदेषाऽभिवदति — "‘ये चत्वारः पथयो देवयाना अन्तरा द्यावा-पृथिवी वियन्ति । तेषां यो अज्यानिमजीतिमावहात्तस्मै नो देवाः परिदत्तेह सर्व' इति ॥ १३ ॥

अनु०—यह निम्नलिखित ऋचा में कहा गया है—देवलोक के चार मार्ग आकाश और पृथिवी के बीच भिन्न-भिन्न ओर से जाते हैं। उन मार्गों में जो सभी निरन्तर समृद्धि प्रदान करने वाला मार्ग हो उसे देवता हमें प्रदान करें । (तैत्तिरीय सं० ५.७.२.३) ॥ १३ ॥

तत्कर्मचातुर्विध्यमृगेषाऽभिवदति । कथम् ? ऋषिर्वामदेवः त्रिष्टुप्छन्दः नवसस्यानि देवता । 'अज्यानिहोमे तदुपधाने च विनियोगः । य इमे चत्वारः पथयः पन्थानः देवो देवलोकः । भोमो भोमसेन इतिवत् तद्गमनहेतवः । ऐष्टिकादयः द्यावापृथिव्योरन्तरा मध्ये वियन्ति विविधं गच्छन्ति विदिता इत्यर्थः । तेषामिति 'कर्मणि षष्ठी । तानि अज्यानिमजीतिं क्रियाविशेषणे । अज्यानि अहानि अविगुणं अजीतिं मह्यं य आवहात् आवहेत् अनुतिष्ठेत् । तस्मै नः अस्माकं मध्ये सस्यानि हे सर्वे देवाः परिदत्त प्रयच्छत श्रौतकर्मानुष्ठाने निःश्रेयसं दत्तेति मन्त्रार्थः । तदेतदैकाश्रम्ये सत्युपपद्यते । नाऽऽश्रमचातुर्विध्ये । कथम् ? तदाहि गृहस्थ एव स्यात् । तत्र च गृहस्थो वैदिकैः कर्मभिरधिक्रियते नेतरे । तदेतदैकाश्रम्ये उपपन्नं भवति । ननु भेदपक्षेऽपि गृहस्थो वैदिकानि करोत्येव । सत्यं, अल्पविषयत्वं तदा शास्त्रस्य स्यात् । सर्वाधिकारं चेदं कर्मशास्त्रं विना कारणेन न बाधितुं युक्तम् ।

किञ्च—बहुद्रव्यव्ययप्रयाससाध्यं कर्मजातं परित्यज्य पारिव्राज्यकान्येवाऽऽस्कन्देयुः पुरुषाः । यतस्तेनाऽपि निःश्रेयसं लभन्ते । ‘अर्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत्' इति न्यायात् । ततश्च प्रत्यक्षश्रुतानामग्निहोत्रादिवाक्यानामप्रामाण्यमेवाऽऽपद्येत । तस्मादेषां चातुर्विध्यमेषाऽभिवदतीत्युपगन्तव्यम् ॥

अमुमेवार्थमध्यायपरिसमाप्तेः पूर्वोत्तरपक्षभङ्ग्या प्रदर्शयितुमाश्रमचातुर्विध्यं तावदुपपन्यस्यति स्म—

ब्रह्मचारी गृहस्थो वानप्रस्थः परिव्राजक इति ॥ १४ ॥

अनु०—ब्रह्मचारी, गृहस्थ, वानप्रस्थ और परिव्राजक इस प्रकार चार आश्रम होते हैं ॥ १४ ॥


१. इयं तैत्तिरीयशाखागतमन्त्रानुपूर्वी See तै. सं. ५.७.२.३. २. अज्यानिसंज्ञकाः केचनेष्टकाविशेषाः चयने उपधेयाः ।

Page 302Permalink

२५० बौधायन-धर्मसूत्रम् [ सन्न्यासिसधर्मा:

ब्रह्मचायंत्र नैष्ठिको गृह्यते । नोपकुर्वाणः ॥ १४ ॥
अथैतेषां क्रमेण धर्मानाचष्टे—
ब्रह्मचारी गुरुशुश्रूष्याममरणात् ॥ १५ ॥
अनु०—ब्रह्मचारी मृत्यु तक गुरु की सेवा करे ॥ १५ ॥
शुश्रूषाऽस्मिन्नस्तोति शुश्रुषी। आ मृत्योः गुरुकुले वसेत् । ये पुनरग्नीन्ध-नाद्यो धर्मा उपकुर्वाणस्योक्ताः तेऽप्यस्य विद्यन्त एव ॥ १५ ॥
वानप्रस्थो वैखानसशास्त्रसमुदाचारः ॥ १६ ॥
वैखानसो वने मूलफलाशी तपश्शीलः सवनेषूदकमुपस्पृशञ्छा-मणकेनाऽग्निमाधाय।ऽग्राम्यभोजी देवपितृभूतममुष्यर्षिपूजकः सर्वातिथिः प्रतिषिद्धवर्जं भैक्षमप्युपयुञ्जीत न फालकृष्टमधितिष्ठेद् ग्रामं च न प्रविशे-ज्जटिलश्चीराजिनवासा नाऽतिसंवत्सरं भुञ्जीत ॥१७ ॥
अनु०—वानप्रस्थ विखनस् ऋषि द्वारा उपदिष्ट शास्त्र के अनुसार आचरण करता है । वैखानस अर्थात् विखनस् के अनुसार आचरण करनेवाला वानप्रस्थ वन में निवास करे, मूलों और फलों का भोजन करे । तपस्या करे, तीनों सवन-प्रातः, मध्याह्न, सायं में स्नान करे । वैखानसशास्त्र में बतायी गयी श्रामण विधि के अनुसार अग्नि का आधान करे । ग्राम में उत्पन्न अन्नादि का भोजन न कर वन में उत्पन्न अन्नादि का ही भोजन करे । देव, पितृ, प्राणी, मनुष्य और ऋषि की पूजा करे । सभी वणों के पुरुषों का अतिथि-सत्कार करे, तथापि उनसे परहेज रखे जिनका सम्पर्क निषिद्ध है। व्याघ्रादि हिंसक पशुओं द्वारा मारे गये हिरणादि पशुओं के मांस का भक्षण कर सकता है । जोती गयी भूमि पर पैर न रखे, गाँव में प्रवेश न करे । जटाएँ धारण करे, वृक्षों की छाल या मृगचर्म वस्त्र के रूप में धारण करे । किसी अन्न का भक्षण न करे जो एक वर्ष से अधिक समय तक संगृहीत किया गया हो ॥ १६-१७ ॥
टि०—कुछ प्रतियों में ‘वैष्कम्' के स्थान पर ‘भैक्षम्' है, किन्तु गोविन्द स्वामी की व्याख्या के अनुसार ‘वैष्कम्’ ही होना चाहिए, जिसका तात्पर्य है हिंसक पशुओं द्वारा मारे गये पशु का मांस ।
वने प्रतिष्ठित इति वानप्रस्थः । वैखानसोऽपि वानप्रस्थ एव । संज्ञान्तर-करणं तु संव्यवहारार्थम् । विखनसा ऋषिणा प्रोक्तं वैखानसशास्त्रम् । तत्र हि बहवो धर्मा वानप्रस्थस्योक्ताः 'ग्रीष्मे पञ्चतपाः' इत्यादयः । समुदाचारः समाप्ताचार इत्यर्थः । वने मूलफलान्यश्नन् प्रतिषिद्धानि परिहरेत् । तपश्शीलः

एकादशः खण्डः ] द्वितीयप्रश्ने षष्ठोऽध्यायः २५१

Page 303Permalink

एकादशः खण्डः ] द्वितीयप्रश्ने षष्ठोऽध्यायः २५१

तपःपरः । सचनेषूदकोपस्पर्शनं त्रिषवणस्नानम् । श्रामणो नामाऽऽधानविधिर्- स्ति वैखानसशास्त्रे । तेनाग्निमाधाय जुहुयादिति शेषः । ग्रामे भवमन्नं ग्राम्यं व्रीह्यादिप्रभवं तन्न भवतीति अग्राम्यं श्यामाकाद्यारण्यौषधिप्रभवम् । तद्भोजी स्यात् । मूलफलैः प्राणधारणाशक्तावेतद्विज्ञेयम् । देवादिपूजा च तेनैवाऽन्नेन यथासम्भवं कार्या । सर्वातिथ्यमादायाऽऽगतोऽतिथिः सर्वातिथिस्तं तेनैव पूज- येदित्यर्थः । तत्राऽपि प्रतिषिद्धवर्जं, प्रतिषिद्धः पतितादिः । व्याघ्रादिहतं मांसं कुद्दालादिनाऽनार्जितं मूलादि वा । फालकृष्टप्रतिषेधादफालकृष्टाधिष्ठाने न दोषः । ग्रामो वाससमुदायः । चशब्दान्मनुष्यसमुदायश्च । जटिलः अलुप्तकेशः अप्र- साधितकेशश्च । चीरवासा अजिनवासाश्च । चीरं वृक्षाद्वानीतं वासः फलजं वा जीर्णम् । अजिनं व्याघ्रादिचर्म । चीराजिनयोर्विधानात् समुच्चयो गम्यते । तत्र चैकमधोवासोऽपरमुत्तरीयम् । अतिसांवत्सरिकं संवत्सरमतिक्रान्तमन्नं न भुञ्जीत । अनेनैतद् गम्यते तावन्तं कालं सञ्चयो द्रव्यस्याऽस्तीति ॥ १६-१७ ॥

परिव्राजकः परित्यज्य बन्धूनपरिग्रहः प्रव्रजेद्यथाविधि ॥ १८ ॥

अनु०— परिव्राजक अपने बान्धवों को छोड़कर, किसी प्रकार की सम्पत्ति साथ न लेकर नियम के अनुसार घर से निकल जाय ॥ १८ ॥

टी०— यथाविधि-परिव्राजक के लिए संन्यासी होने की विधि अन्यत्र २.१७ में विवेचित है ।

बन्धवो मातापितृव्यतिरिक्ताः योनिसम्बन्धिनः । कुत एतद् गम्यते ? 'न कदाचिन्माता पित्रोश्शुश्रूषा' इति विशेषवचनारम्भसामर्थ्यात् । तादात्विकौ- पयिकादधिकः परिग्रहः । तथा च गौतमः—'अनिचयो भिक्षुः' इति । परितो ग्रहणं परिग्रहः परित्सर्वतोभावे । सर्वैर्वर्णैर्दत्तः परिग्रहः । प्रशस्तब्राह्मणकुले भिक्षेतेति यावत् । प्रव्रजेत् संन्यसेत् यथाविधि । विधिश्च वक्ष्यते—'अथा- ऽतः संन्यासविधिम्' ( २.१७.१ ) इति ॥ १८ ॥

अरण्यं गत्वा ॥ १९ ॥

अनु०— वन में जाकर निवास करे ॥ १९ ॥

तत्र वसेदिति शेषः ॥ १९ ॥

शिखामुण्डः ॥ २० ॥

अनु०— शिखा को छोड़कर सिर के केशों का मुण्डन कराये ॥ २० ॥

शिखाव्यतिरिक्तं शिरो मुण्डितं यस्येति विग्रहः ॥ २० ॥

कौपीनाच्छादनः ॥ २१ ॥

अनु०— कौपीन से अपने गुप्तांग का आच्छादन करे ॥ २१ ॥

Page 304Permalink

२५२ बौधायन-धर्मसूत्रम् [ संन्यासिसधर्मा:

परिव्राजका: स्युरिति शेषः। कौपीनमाच्छादनं येषामिति 'कृत्यल्युटो बहु- लम्' इति कर्मणि ल्युट् । कुत्सितमाच्छादनं कौपीनमिति वैयाकरणाः। सोऽयं व्यञ्जनप्रदेशे उक्तः। तथा च गौतमः—'कौपोनाच्छादनार्थं वासो बिभृयात्प्रही- णमेके निर्णिज्य' इति ॥ २१ ॥

वर्षास्वेकस्थः ॥ २२ ॥

अनु०—वर्षा काल में केवल एक स्थान पर निवास करे ॥ २२ ॥

वर्षा नाम ऋतुः । तस्मिन्नेकस्मिन्नेव देशे तिष्ठेत् । 'ध्रुवशीलो वर्षासु' इति गौतमः॥ २२ ॥

'कौपीनाच्छादनाः' इत्युक्तं, तत्राह—

काषायवासाः ॥ २३ ॥

अनु०—काषाय रंग का वस्त्र धारण करे ॥ २३ ॥

कषायेण रक्तं काषायम् ॥ २३ ॥

अथ भिक्षाकालमाह—

सन्नमुसले व्यङ्गारे निवृत्तशरावसम्पाते भिक्षेत ॥ २४ ॥

अनु०—जब मूसल चलने बन्द हो गये हों, और चूल्हें की आग बुझ गयी हो तथा भोजन के बर्तनों की सफाई की जा चुकी हो तब भिक्षा के लिए निकले ॥ २४॥

सन्नं मुसलं यस्मिन् काले निवृत्तमुसलव्यापारे इति यावत् । व्यङ्गारे विग- ताःशान्ता अङ्गारा यस्मिन् । शरावो भोजनपात्रोपलक्षणार्थः । सम्पातस्सम्मा- र्जनं उच्च्छिष्ठावमार्जने वृत्ते इत्यर्थः । एतैर्विशेषणैरपराह्न उपलक्ष्यते । आह च—

विधूमे सन्नमुसले व्यङ्गारे भुक्तवज्जने ।
वृत्ते शरावसम्पाते भिक्षां नित्यं यतिश्चरेत् ॥ इति ॥ २४ ॥

वाङ्मनःकर्मदण्डैर्भूतानामद्रोही ॥ २५ ॥

अनु०—वाणी, मन और कर्म पर नियन्त्रण रखे और प्राणियों को किसी प्रकार कष्ट न पहुंचाये ॥ २५ ॥

दण्डो दमनादित्याहः—वागादिभिर्भूतानि न दमयेत् । अभयं सर्वभूतेभ्यो दद्यादिति यावत् ॥ २५ ॥

पवित्रं बिभृयाच्छौचार्थम् ॥ २६ ॥

अनु०—जल छानने के लिए पवित्र साथ रखे ॥ २६ ॥

पवित्रं कुशमुष्टिः पञ्चमुष्टिर्वा जलपवित्रं बिभ्रद्वर्त्तेति शेषः । तद्धरणं चाऽऽत्मशुद्ध्यर्थं देहादेशाद्धाऽर्जन्तूनां शोभनार्थम् ॥ २६ ॥

एकादशः खण्डः ] द्वितीयप्रश्ने षष्ठोऽध्यायः २५३

Page 305Permalink

एकादशः खण्डः ] द्वितीयप्रश्ने षष्ठोऽध्यायः २५३

उद्धृतपरिपूताभिरद्भिः कार्यं कुर्यात् ॥ २७ ॥

अनु०— (कूप या तालाब से) निकाले हुए तथा छानने आदि से पवित्र किये गये जल से शुद्धि के कार्य करे ॥ २७ ॥

टि०— गोविन्द स्वामी के अनुसार ऐसे जल से आचमन का कार्य न करे।
कार्यं मूत्रपुरीषप्रक्षालनम्, न त्वाचमनम् ॥ २७ ॥

अपविध्य वैदिकानि कर्माण्युभयतः परिच्छिन्ना मध्यमं पदं संश्लेष्यामह इति वदन्तः ॥ २८ ॥

अनु०— वेदोक्त कर्मों का परित्याग कर, दोनों लोकों से अपना नाता तोड़कर, हम मध्यम पद ब्रह्म के साथ अपना संबन्ध जोड़ते हैं, ऐसा कहे ॥ २८ ॥

अस्माल्लोकादमुष्माच्च उभयतः परिच्छिन्नाः विच्छिन्नाः भ्रष्टा वयमस्मै वै लोकाय प्रजोत्पादनं अमुष्मै वैदिकानि कर्माण्यग्निहोत्रादीनि । उभयं च गार्हस्थ्यनिबन्धनं 'मनुष्यलोकः पुत्रेण जय्यः नान्येन कर्मणा पितृलोकः' इति श्रुतेः पितृलोकः देवलोकः। तस्मादुभयभ्रष्टा वयं, गर्भस्थानावलुम्पनात् । अतो वयं मर्त्या मध्यमं पदं सर्वभूतान्तर्गतं पद्यते गम्यते तदुपासकैरिति पदं आत्मानं संश्लेष्यामहे ॥ २८ ॥

नैवं भविष्यतीति वदतः अत्र ब्रूमः—

ऐकाश्रम्यं त्वाचार्या अप्रजननत्वादितरेषाम् ॥ २९ ॥

अनु०— किन्तु आचार्यों का कथन है कि केवल एक आश्रम ही है, क्योंकि अन्य आश्रमों में पुत्रोत्पत्ति नहीं होती ॥ २९ ॥

टि०— यहाँ कुछ आचार्यों के इस मत का उल्लेख किया गया है कि आश्रम मुख्यतः एक ही है, गृहस्थाश्रम। इसका मुख्य कारण यह है कि सन्तान की उत्पत्ति केवल उसी आश्रम में होती है। इस सन्दर्भ में गोविन्दस्वामी ने धर्मस्कन्धश्रुति का वचन उद्धृत किया गया है। इस प्रकार गृहस्थाश्रम के मुख्य होने पर केवल एक ही आश्रम का साधन करना चाहिए। अन्य आश्रमों के विषय में विशेषतः उनकी उत्पत्ति का उल्लेख करते हुए, इनके अल्प महत्त्व का संकेत किया गया है।

तुशब्दः पक्षं व्यावर्तयति । यदुक्तं 'चतुर्धा भेदमक आहुः' इति तन्न, ऐकाश्रम्यं एकश्चाऽसावाश्रमश्च तद्भाव ऐकाश्रम्यम् । तच्च गार्हस्थ्ये। नैव पारिव्राज्यादीनामन्यतम इत्याचार्यो मन्यते स्म । कुतः ? अप्रजननत्वादितरेषां पारिव्राज्यादीनाम् । प्रत्यक्षश्रुतिविधानाच्च गार्हस्थ्यस्य 'प्रजातन्तुं मा व्यवच्छेत्सीः'

Page 306Permalink

२५४ बौधायन-धर्मसूत्रम् [ गार्हस्थ्यप्रशंसा

'तस्मात्प्रजननं परमं वदन्ति' इत्येवमादिना । तथा 'यावज्जीवं जुहुयात्,' 'कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः' 'तं यज्ञपात्रैर्दहन्ति' इति च । नन्वितरेषामपि प्रत्यक्षश्रुतिविधानमस्ति । तथा च छान्दोग्ये धर्मस्कन्धश्रुतिः- 'त्रयो धर्मस्कन्धाः यज्ञोऽध्ययनं दानमिति प्रथमस्तप एव द्वितीयो ब्रह्मचार्याचार्यकुलावासी तृतीयः' इति । तपश्शब्देनाऽत्र तापसपरिव्राजकयोर्ग्रह्णम् । सत्यं- यद्यत्र विधिप्रत्ययोऽस्ति स तावन्नास्ति । नाऽप्यध्याहारः' अनुपपत्तेरभावात् । प्रणवस्य स्तुत्यर्थत्वात्तेषामुपादानस्य । तस्मादेकाश्रम्यमेव साधीयः । अपि च अप्रजननत्वादितरेषाम् । प्रजननमत्र पुत्रोत्पत्तिः । सा चेतरेषां नाऽस्ति । तथा चाऽवश्यं भवितव्यमित्युक्तं 'प्रजातन्तुम्' इत्यादि श्रुतिदर्शनेनेत्याह ॥ २९ ॥

यदि न श्रुतिप्रभवा इतरे त्रय आश्रमाः किंप्रभवास्तर्हि ? रागद्वेषादिमत्पुरुषबुद्धिप्रभवा इत्याह—

तत्रोदाहरन्ति—प्राह्लादिर्ह वै कपिलो नामाऽसुर आस । स एतान्भेदांश्चकार देवैस्सह स्पर्धमानस्तान् मनीषी नाऽऽद्रियेत ॥ ३० ॥

अनु०—इस सम्बन्ध में यह उद्धृत किया जाता है कि प्रह्लाद का पुत्र कपिल नामक एक असुर था । उसने देवों के साथ स्पर्धा करते हुए इन आश्रम-भेदों की रचना की । बुद्धिमान् व्यक्ति को चाहिए कि इन आश्रम-भेदों का आदर न करे ॥ ३० ॥

टि०—इस संबंध में गौतमधर्मसूत्र में चारों आश्रमों का उल्लेख कर कहा गया है । 'तेषां गृहस्थो' योनिरप्रजनत्वादितरेषाम् अर्थात् इन आश्रमों में स्थित पुरुषों का गृहस्थाश्रम ही उत्पत्तिस्थान है, क्योंकि गृहस्थाश्रम के अतिरिक्त अन्य आश्रमों में सन्तानोत्पत्ति की व्यवस्था नहीं है । ( गौ० ध० १।३। पृष्ठ ३० )

सैषा श्रौतगार्हस्थ्यस्य प्रशंसा स्मार्त्तेतराश्रमाभावादेव । प्रह्लादस्यापत्यं प्राह्लादिः । भेदान् आश्रमाणाम् । देवस्पर्धयाऽसुरेण यस्मात्कृता आश्रमभेदाः तस्मात् तान् मनीषी नाऽऽद्रियेत । मनीषी मनस्वी प्राज्ञ इत्यनर्थान्तरम् ॥ ३० ॥

अदृष्टत्वात् । "ये चत्वार" इति कर्मवाद ऐष्टिकपाशुकसौमिकदार्वाहोमानाम् ॥ ३१ ॥

अनु०—"ये चत्वार" आदि का कोई अन्य अर्थ स्पष्ट न होने से वहाँ इष्टि-प्रधान, पशुयज्ञ, सोमयज्ञ तथा दार्वीहोम इन चार प्रकार के यज्ञकर्मों का ही अर्थ लेना चाहिए ॥ ३१ ॥

निगमनार्थः पुनरुपन्यासः । अतोऽप्रजननत्वादितरेषां प्रत्यक्षश्रुतिविधाना-

एकादशः खण्डः ] द्वितीयप्रश्ने षष्ठोऽध्यायः २५५

Page 307Permalink

एकादशः खण्डः ] द्वितीयप्रश्ने षष्ठोऽध्यायः २५५

क्वच गार्हस्थ्यस्यैकाश्रम्यमेव निःश्रेयसकरम्। उक्तं च—'गृहस्थोपि विमुच्यते' इति।

स्यादेतत्—नैव हि कर्मणां मोक्षोपायत्वमस्ति, प्रमाणाभावात्। न तावत्प्रत्यक्षं प्रमाणम्, विद्यमानोपलम्भनत्वात्तस्य। नाऽप्यनुमानम्, सम्बन्धग्रहणाभावात्। न खल्वपि शब्दः। कथम्? लौकिकस्तावत् मूलज्ञानाभावादसमर्थः। वेदवाक्यानि पुनः प्रातिस्विकफलदायोनि कर्माणीति श्रूयन्ते। यदपि 'अक्षय्यं ह वै चातुर्मास्ययाजिनस्सुकृतं भवति' इति तदेतदपि चिरेण क्षयमालोच्य भवतीति। यथा नक्तं संस्थापनवचनं “असंस्थितो हि तर्हि यज्ञ” इति चिरेण संस्थामालोच्य, तद्वदेवाऽऽपातः। न कृत्स्नेभ्योऽपि वेदकर्मभ्यो मोक्ष इतीदृशं वाक्यमस्ति। यद्यप्यस्ति तथाऽपि तदन्यार्थत्वेन नेतुं शक्यते। उपमानादि तु दूरोत्सारितम्। यच्च भगवद्गीतासु वचनम्—

कर्मणैव हि संसिद्धिमास्थिता जनकादयः। इति

तदपि सिद्धे सत्युपायत्वे कर्मणोऽवधारणं ब्रूयात्। तदेवाऽद्याप्यसिद्धम्। अतस्तदप्यन्यार्थमेव। तस्मात्कर्मणां न मोक्षोपायत्वे प्रमाणमस्ति। अस्ति तु ज्ञानस्य 'ब्रह्मविदाप्नोति परम्' इति ॥ ३१ ॥

अधुना केवलज्ञानात् कर्मरहितादेव मुक्तिरित्यस्मिन्नर्थे ऋगप्यस्तीत्याह—

तदेषाऽभ्यनूच्यते—एष नित्यो महिमा ब्राह्मणस्य। न कर्मणा वर्धते नो कनीयान्। तस्यैवाऽऽत्मा पदवित्तं विदित्वा। न कर्मणा लिप्यते पापकेनेति ॥ ३३ ॥

अनु०— इस सम्बन्ध में निम्नलिखित उद्धृत किया जाता है—ब्राह्मण की नित्य स्थायी रहने वाली महिमा यही है, यह न तो कर्म से बढ़ती है और न घटती है। आत्मा उस महानता के तत्त्व से परिचित रहता है। आत्मा भी किसी पाप कर्म से लिप्त नहीं होता ॥ ३२ ॥

टि०— तात्पर्य यह है कि परमात्मा न तो अग्निहोत्र आदि कर्मों से उनके फल का भोग करता है और न ही ब्रह्महत्यादि निकृष्ट कर्मों के पाप का ही भोग करता है। इस कारण कर्मफल का भोक्ता तथा कर्ता उससे भिन्न है। इस सम्बन्ध से कहा है कि सम्यक् दर्शन से युक्त व्यक्ति कर्मों के बन्धन में नहीं पड़ता।

वामदेव ऋषिः काण्ड ऋषिर्वा। त्रिष्टुप्छन्दः। ज्ञानप्रशंसा। एष आत्मेति सम्बध्यते। नित्यो महिमेति पदद्वयं स्वयमेव न्यासविधौ विवरिष्यति 'अपुनर्भवं नयतीति नित्यो, महदेनं गमयतीति महिमा' (२.१७.९,१०.) इत्यत्र। यद्वा—नित्यस्सर्वदा सः। महिमा महान् सर्वत्राऽस्तीति स एष परमात्माऽभि-

Page 308Permalink

२५६ बौधायन-धर्मसूत्रम् [ज्ञानकर्मसमुच्चयः

प्रेतः। ब्राह्मणस्येति जात्यवच्छिन्नस्सोपाधिकः क्षेत्रज्ञवर्ती च तयोर्व्यतिरेकार्थः। परमात्मा न कर्मणा अग्निहोत्रादिना वर्धते तत्फलभुग्भवति। अतस्ततोऽन्यः कर्ता भोक्ता च। तथा-नोऽपि न कनीयान् कर्मणा ब्रह्महत्यादिना निकृष्टो नरकभाग् भवतीत्यर्थः। यतोऽसौ पापमपि न करोति तस्मादेव तस्य ब्राह्मणस्य सोपाधिकस्य, एवशब्दः पादपूरणः, अवधार्याभावात्। तस्याऽऽत्मा परमात्मा पदवित्। पद्यते गम्यतेऽनेनार्थ इति वेदः पदं, अत एव 'नाऽवेदविन्मनुते तं बृहन्तम्' इत्युक्तम्। सततमात्मानमभेदेन विदित्वा न कर्मणा लिप्यते पापकेन शुभेन च।

तदुक्तम्- सम्यग्दर्शनसपन्नः कर्मभिर्न स बध्यते इति। तथा- भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः। क्षीयन्ते चाऽस्य कर्माणि तस्मिन् दृष्टे परावरे ॥ इति

एवं स्पष्टभाषिणा केवलज्ञानवादिना यः पर्यनुयुक्तः-

स यत् ब्रूयात् '-येन सूर्यस्तपति तेजसेद्धः पिता पुत्रेण पितृ-

मान् योनियोनौ। नाऽवेदविन्मनुते तं बृहन्तं सर्वानुभुमात्मानं साम्प- राये इति ॥ ३४ ॥

अनु०-यदि वह ऐसा कहता है तो इस पर ध्यान दे, जिसे वेद का ज्ञान नहीं

वह मृत्यु के समय उस महान्, सर्वानुभवी, आत्मा का ध्यान नहीं करता, जिसके द्वारा सूर्य प्रकाशमान है, तेज से युक्त होकर प्रकाश प्रदान करता है और पिता पुत्र का योनि से जन्म होने पर उसके माध्यम से पितृमान् होता है ॥ ३४ ॥

स ब्रूयात् परिहारत्वेनाऽधस्तनीसूचमित्यर्थः। सत्यमाह भवान् यदि

केवलादेव ज्ञानात् सर्वभेदप्रत्ययनिबर्हणान्मोक्ष इति, न त्वेतदेवम् । अपि कर्मणः। ननु 'एष नित्यो महिमा' इत्युक्तं, सत्यं, ज्ञानात्, तत्तु न कर्म निषे- धति । ननु-कर्मणां मोक्षं प्रत्यनुपायत्वात् निषेधत्येवेत्युक्तम्। मोक्षानभिज्ञः कर्मद्वेषी देवानां प्रियः। मोक्षेऽपि नाऽऽत्मनश्शरीरपरिग्रहाभावः। स च प्रागभावः प्रध्वंसाभावो वा ? न तावदात्मज्ञानेन शरीरं प्रध्वस्तम् , प्रत्यक्ष- विरोधात्। तदुक्तं 'बुद्धे चेत्क्षेमप्रापणं इहैव न दुःखमुपलभेत' इति। अथ मन्यसे सुखदुःखोपभोगार्थानि देहारम्भकाणि पुण्यापुण्यान्यदृष्टानि कर्माणि


१. अयमपि मन्त्रस्तैत्तिरीयब्राह्मणान्तर्गतकाठकभागस्य एव। त० ब्रा १२ ३.९

एकादशः खण्डः ] द्वितीयप्रश्ने षष्ठोऽध्यायः २५७

Page 309Permalink

एकादशः खण्डः ] द्वितीयप्रश्ने षष्ठोऽध्यायः २५७

क्षीयन्त इति । तदुक्तं-‘क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे’ इति । तदपि न, न हि कर्म क्षीयते फलमदत्त्वेत्याहुः । ननु प्रायश्चित्तेन क्षीयत इति त्वयाऽभ्युपगतमेव । नैतदेवम्; न हि तत्राऽपि चान्द्रायणादिभिः पापकर्मप्रध्वस्यते । दुःखानुभवप्रकारोऽयं वाचनिकः यथौषधपानम् । यथा चोपवासादिना शुष्कगात्रो ज्वरादिना नाऽभिभूयते तद्वदेतदपि । तदा मोक्षप्रागभाव इति, वदामः । सुखदुःखोपभोगार्थं देहग्रहणम्, तच्च सुखदुःखञ्च काम्यप्रतिषिद्धासेवया नित्यनैमित्तिककर्मानुष्ठानाच्च मोक्षसिद्धिः । आहुश्च मीमांसकाः-

नित्यनैमित्तिके कुर्यात् प्रत्यवायजिघांसया ।
मोक्षार्थी न प्रवर्तेत तत्र काम्यनिषिद्धयोः ॥ इति ॥

तद्धेतुकमात्मज्ञानं तदर्थानि चोपनिषद्वाक्यानि । एवमुपपद्यमाने नाऽन्यथा कल्पयितुं युक्तम् । न चाऽऽत्मानं मोक्षयेदेवेति वेदेन चोद्यते—

आत्मा ज्ञातव्य इत्येतन्मोक्षार्थं न च चोद्यते ।
कर्मप्रसिद्धिसिद्ध्यर्थं आत्मज्ञानस्य लभ्यते ॥

कथं तर्हि ? अयं परिहारः-‘येन सूर्यः’ इति ज्ञानकर्मसमुच्चयाभिधानात् साजात्येन तद् यद्यत्स्यात् । प्रजनने प्रजनन इत्यर्थः । ईदृक्कर्म मोक्षायाऽलं भवतीत्यभिप्रायः । अतो नाऽवेदवित् अवेदार्थवित् तत्कर्मकृच्च मनुमते जानाति कर्मठः परमात्मानं बृहन्तं सर्वानुभवितारं साम्पराये अपवर्गे निमित्तसप्तम्येषा॥

अवेदविन्न मनुते न जानाति इत्येतदुक्तं विस्तरेण । किञ्च-

‘इमे ये नाऽर्वाङ् न परश्चरन्ति न ब्राह्मणासो न सुतेकरासः । त एते वाचमभिपद्य पापया सिरीस्तन्त्रं तन्वते अप्रजज्ञय इति ॥ ३५ ॥

अनु०— जो न तो सच्चे ब्राह्मण हैं और न सोमयज्ञ करते हैं वे उसके लिए कार्य नहीं करते जो निकट हैं और न उसके लिए कार्य करते हैं जो दूर है । वे इस वचन को लेकर पापयुक्त वाणी से यज्ञ करते हैं ॥ ३५ ॥

बृहस्पत्यार्षं त्रिष्टुप्छन्दः । अज्ञाननिन्दया ज्ञानकर्मप्रशंसा । यत्तदोर्व्यत्यासः कर्तव्यः । इमे जना वाचं वेदं अभिपद्य अधीत्य पापया वाक्प्रतिरूपया धीराः 'तमसि शेते' इति सिरीः शरीरं तन्वते विस्तारयन्ति वेदविप्लवादिना पोषयन्तीत्यर्थः । तत्र कर्म अप्रजज्ञयः अजानन्तः अवेदार्थज्ञा इति यावत् । एते नार्वाङ्न अर्वाञ्चः नाऽपि पराञ्चः चरन्ति उभयभ्रष्टा इत्यर्थः । न ते ब्राह्मणाः नाऽपि सुतेकरासः सुतस्याऽकर्तारः अभिषवाद्यकर्तारः अयष्टारः अप्रजज्ञयो यद्यपि तन्तुं तन्वते तथापि न सुते करासो भवन्ति ॥ ३५ ॥


१. see, ऋ० सं० २. २४. ४.
२० बौ०ध०

Page 310Permalink

२५८ बौधायन-धर्मसूत्रम् [ ज्ञानकर्मसमुच्चयः

किञ्च—

प्रजामिरग्ने अमृतत्वमश्याम् ॥ जायमानो वै ब्राह्मणस्त्रिभिरृणवा जायते ब्रह्मचर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्य इति । एवमृणसंयोगादीन्यसंख्येयानि भवन्ति ॥ ३६ ॥

अनु०— हे अग्नि हम पुत्रों के द्वारा अमृतत्त्व की प्राप्ति करे। ब्राह्मण उत्पन्न होता है। ब्रह्मचर्य द्वारा ऋषियों के ऋण से यज्ञ द्वारा देवों के ऋण से, तथा पुत्र उत्पन्न कर पितरों के ऋण से मुक्त होता है। इस प्रकार वैदिक ग्रन्थों में अनेक अनुच्छेदों में ऋण के संयोग का उल्लेख किया गया है ॥ ३६ ॥

अमृतत्वं जननमरणशून्यत्वं, मुक्तिरित्यनर्थान्तरम् । आश्रमभेदे सति कथमेवं ब्रूयात् ॥ ऋणवान् अनन्तराः पुत्राणां लोकाः ऋणमस्मिन् सन्नयति । ज्योत्स्ना ह पुत्रं परमे व्योमन्न प्रजात्वति गुण इत्यादि । तस्मादप्यैकाश्रम्यमेव ज्यायः ॥ ३६ ॥

त्रयीं विद्यां ब्रह्मचर्यं प्रजातिं श्रद्धां तपो यज्ञमनुप्रदानम् । य एतानि कुर्वते तैरित्सह स्मो रजो भूत्वा ध्वंसतेऽन्यत्प्रशंसन्निति प्रशंसन्निति ॥ ३७ ॥

इति द्वितीयप्रश्ने एकादशः खण्डः ।

अनु०— तीन वेदविद्या का अध्ययन, ब्रह्मचर्य का पालन, पुत्र की उत्पत्ति, श्रद्धा तप का अनुष्ठान, यज्ञ का सम्पादन तथा दान—जो इन कर्मों को करते हैं, वे ही हमारे साथ निवास करे, जो अन्य कार्यों की प्रशंसा करता है वह धूल में मिलकर नष्ट हो जाता है ॥ ३७ ॥

त्रयाणां वेदानां समाहारस्त्रयी ब्रह्मचर्यमित्यपावरणे तैरेव सह सार्धं स्मः अवामः नान्यैरन्यतरोपासकैर्वा । यस्त्वन्यतरदेवोपास्ते ज्ञानं कर्म वा प्रशंसन् स रजो भूत्वा प्रध्वंसते रजः पापं रजस्वलेति यथा । यद्वा रजस्सूक्ष्माणि चूर्णानि यथा तानि क्वचिदपि नाऽवतिष्ठन्ते तद्वन्नाऽऽस्पदं लभते । अथवा गुणो रजः सत्त्वं रजस्तम इति । अस्मिन् पक्षे मतुपो लोपो द्रष्टव्यः । आहोपुरुषिकयाऽन्यतरदेव प्रशंसन् रजस्वलो भूत्वा ध्वंसते । तस्मात् ज्ञानकर्मसमुच्चयस्साधीयान् ।

नन्वाश्रमभेदो नाऽस्तीत्युक्तं किमिदं प्रलप्यते त्रयीं विद्यामिति ? अविवेकापराधोऽयं नाऽऽयुष्मतो दोषः ।

द्वादशः खण्डः ] द्वितीयप्रश्ने सप्तमोऽध्यायः २५९

Page 311Permalink

द्वादशः खण्डः ] द्वितीयप्रश्ने सप्तमोऽध्यायः २५९

श्रौते नास्तीत्युक्तम् । न पुनस्मार्तेऽपि नाऽस्तीति । असंख्येयानि स्मृति- वाक्यानि सन्ति 'ब्रह्मचर्यादेव प्रव्रजेत् गृहाद्वा वनाद्वा' 'तस्याश्रमविकल्पमेके ब्रुवत' इति । आह च— 'आश्रमसमुच्चयं द्वितीयं' आयुषो भागं तृतीयम् । इति । तथा चापस्तम्बः- चत्वार आश्रमाः गार्हस्थ्यं आचार्यकुलं मौनं वानप्रस्थ्यमिति । तत्र भेदे सति आश्रमाणां बाधो विकल्पस्समुच्चयो वा सम्भवति । तत्र मानवे बाधपक्षस्स- हेतुकः प्रतिपादितः । 'सर्वेषामपि चैतेषां वेदश्रुतिविधानतः । गृहस्थ उच्यते श्रेष्ठस्स त्रीनेतान् बिभर्ति हि ॥ वेदश्रुत्या हि गृहस्थस्य स्त्र्युपादानप्रभृत्याश्मशानकरणात् सर्वं विधीयते स्मृत्या । भाष्यकारोऽपि बहु मन्यते स्माऽस्य च गृहस्थाश्रमस्य वेदे श्रुतिवि- धानतः श्रेष्ठ्यवचनात्तदविरोधेनाऽऽश्रमान्तरप्रतिपत्तिरवगम्यते इति वदन् । गौतमोऽपि तुशब्देनेतरौ पक्षौ व्यावृत्त्य सहेतुकममुं पक्षमेवोपसंहृतवान् 'ऐका- श्रम्यं त्वाचार्याः प्रत्यक्षविधानात् गार्हस्थ्यस्य' इति । आचार्याभिप्रायस्तु विस्त- रेण प्रदर्शितः । तस्मात् सूक्तं 'ये चत्वारः पथयो देवयाना इति कर्मवादो नाऽऽ- श्रमवादः' इति ॥ ३७ ॥

इति श्रीगोविन्दस्वामिविरचिते बौधायनधर्मसूत्रविवरणे द्वितीयप्रश्ने षष्ठोऽध्यायः ॥


द्वितीयप्रश्ने सप्तमोऽध्यायः

द्वादशः खण्डः

स्नानमुक्तं महायज्ञाश्च । अथेदानीमवसरप्राप्तं भोजनमारभते—

अथ शालीनयायावराणामात्मयाजिनां प्राणाहूतीर्व्याख्या- स्यामः ॥ १ ॥

**अनु०—**अब हम आत्मयाजी (आत्मा में ही अग्नि का आधान कर यज्ञ करने वाले) गृहस्यों और यायावरों की प्राण देवता की आहुतियों का विवेचन करेंगे ॥१॥

**टि०—**शालीन का अर्थ गृहस्थ और यायावर का भ्रमणशील अर्थ है । इन शब्दों की व्युत्पत्ति का संकेत आगे तृतीय प्रश्न के प्रथम अध्याय सूत्र ३ में किया गया है । 'शालाश्रयत्वाच्छालीनत्वम् । वृत्त्या वरया यातीति यायावरत्वम् । अनुक्रमणचरणा-

Page 312Permalink

२६० बौधायन-धर्मसूत्रम् [ भोजनविधिः

च्चकचरत्वम् ।" गोविन्दस्वामी—"विस्तीर्णाभिः शालाभिर्युक्ताः शालीनाः । यहाँ 'प्राण' शब्द से अपान आदि का भी अर्थ ग्राह्य है ।

शालीनयायावराश्च गृहस्था एव केनचिद् वृत्तिविशेषेणोच्यन्ते । 'आत्मयाजी पुनः 'जीर्णस्स्यात् तस्याऽग्निहोत्रचेष्टायाम्' इत्यनेन विधानेनाऽऽत्मनि समारूढाग्निः 'तस्यैवं विदुषो यज्ञस्याऽऽत्मा यजमानः' इत्यत्रोक्तो वा । एतेषामुपादानं मुनेरपि वक्ष्यमाणेन विधिना भोक्तव्यम्, किमङ्ग पुनरन्यैराश्रमिभिरित्येतत्प्रदर्शयितुम् । प्राणदेवत्या आहुतयः प्राणाहुतयः । प्राणशब्दोऽपानादीनामप्युपलक्षणाय ॥ १ ॥

सर्वावश्यकावसाने संमृष्टोपलिप्ते देशे प्राङ्मुख उपविश्य तद्भूतमाह्रियमाणं भूर्भुवस्सुवरोमित्युपस्थाय वाचं यच्छेत् ॥ २ ॥

**अनु०—**दिन के सभी आवश्यक कर्मों को कर लेने के बाद अच्छी प्रकार स्वच्छ किए गये और लिपे हुए स्थान पर पूर्व की ओर मुख कर बैठे हुए लाये जाते हुए भोज्य अन्न की 'भूः भुवः स्वः ओम्' कहकर पूजा करे और मौन रहे ॥ २ ॥

अवश्यं भाव्यावश्यकं तन्नियोगतोऽहरहः कर्तव्यम् । सर्वावश्यकपरिसमाप्तिर्मध्यन्दिनात् प्रागेव¹ 'पूर्वाह्ने वै देवानां मध्यन्दिने मनुष्याणामपराह्णे पितॄणाम्' इति श्रुतेः । तथा दक्षेणाऽप्युक्तम्— 'पञ्चमे भोजनं स्मृतम्' इति । संमृष्टः शोधितः । उपलिप्तो गोमयेनोदकेन च । देशग्रहणं भूमौ पादनिधानार्थम् । तेन पादावासनमारोप्य न भुञ्जीतेति गम्यते । प्राङ्मुखत्वं नित्यवत् कर्तव्यम् । उपवेशनग्रहणात् स्थानशयननिवृत्तिः प्रतीयते । ²तेनाऽनेन मन्त्रेण उपस्थाय नमस्कृत्य मौनी भवेत् ॥ २ ॥

न्यस्तमन्नं महाव्याहृतिभिः प्रदक्षिणमुदकं परिषिच्य सव्येन पाणिनाऽविमुञ्च 'नमृतोपस्तरणमसी' ति पुरस्तादपः पीत्वा पञ्चान्नेन प्राणाहुतीर्जुहोति "प्राणे निविष्टोऽमृतं जुहोमि शिवो माऽऽविशाऽप्रदाहाय प्राणाय स्वाहे" ति ॥ ३ ॥

**अनु०—**सम्मुख रखे हुए भोज्यान्न के चारो ओर महाव्याहृतियों के उच्चारण के साथ दाहिने ओर से जल छिड़क कर, बायें हाथ से भोजन पात्र को पकड़े हुए ही "अमृतोपस्तरणमसि" ( तुम अमृत अन्न के उपस्तरण हो ) कहकर जल पिये । फिर पाँच बार अन्न से प्राणों के लिए यह कहते हुए. आहुति करे "प्राणे निविष्टोऽ-


१. पूर्वाह्णः, मध्यन्दिनः, अपराह्नः, इति प्रथमान्तपाठः शाबरभाष्ये ।
२. मानवमतेन ग. पु.

द्वादशः खण्डः ] द्वितीयप्रश्ने सप्तमोऽध्यायः २६१

Page 313Permalink

द्वादशः खण्डः ] द्वितीयप्रश्ने सप्तमोऽध्यायः २६१

मृतं जुहोमि शिवो माऽऽविशाऽप्रदाहाय प्राणाय स्वाहा" ( मैं प्राण के लिए अमृत की आहुति करता हूँ, तुम मुझमें कल्याण के लिए प्रवेश करो, प्राण को स्वाहा ) ॥३॥

न्यस्त भाजने प्रक्षिप्तमन्नं महाव्याहृतिभिः 'भूरग्नये च पृथिव्यै चे' त्यादिभिः प्रदक्षिणमुदकं परिषिच्य, सव्येन पाणिना भोजनपात्रं अविमुञ्चन् अविस्सृजन् 'अमृतोपस्तरणमसी' त्यपः पिबेत् । पुरस्ताद् ग्रहणात् परिधानमे- तदन्नस्येति ज्ञापयति, तथोपरिष्टादिति । इतरथाऽन्यदन्नं भवेत्। 'अन्नममृतं च' इति श्रुतिः। अमृतमन्नं तस्योपस्तरणमुदकं तदेवाऽपिधानं तत्त्वमसोत्युदकमा- मन्त्रयते । 'अपोऽशान, कर्म कुरु' इति यदुक्तमुपनयनसमये तदिदम् । 'प्राणे निविष्टः' इत्यन्तेन जुहोतीति सम्बन्धः । प्राणे प्राणार्थमभिनिविष्टोऽहममृतमन्नं जुहोमि मय्येव । मां च शिवस्सुखहेतुः आविश अप्रदाहाय च भव । स्वाहेति प्रदानप्रतिपादकः । प्रयच्छामीति यावत् । एवमुत्तरेष्वपि यथासम्भवं योज- नीयम् ॥ ३ ॥

पञ्चान्नेन प्राणाहूतीर्हुत्वा तूष्णीं भूयो व्रतयेत्प्रजापतिं मनसा ध्यायन् ॥ ४ ॥

अनु०— प्राणों के लिए पाँच आहुतियाँ करने के बाद चुपचाप रहकर मन से प्रजापति का ध्यान करते हुए भोजन करे ॥ ४ ॥

अन्नेन पञ्चप्राणाहूत्यनन्तरं यथेष्टं व्रतयेद् भुञ्जीत । तूष्णींग्रहणेन वाग्यम- निवृत्तिः मन्त्रनिवृत्तिर्वा गृह्यते । ध्यायेदिति शेषः । तेषामपाठः । तथा भूय- श्शब्दात् षष्ठो ग्रासो गृह्यते ॥ ४ ॥

नान्तरा वाचं विसृजेद्यदन्तरा वाचं विसृजेद्भूर्भुवस्सुवरोमिति जपित्वा पुनरेव भुञ्जीत ॥ ५ ॥

अनु०— भोजन करते समय बोलना नहीं चाहिए, यदि बीच में बोले तो फिर भूः, भुवः स्वः ओम् का जपकर पुनः भोजन करे ॥ ५ ॥

ऋञ्जेतत् ॥ ५ ॥

त्वक्केशनखकीटाखुपुरीषाणि दृष्ट्वा तं देशं पिण्डमुद्धृत्याऽद्भिर- भ्युक्ष्य भस्माऽवकीर्य पुनरद्भिः प्रोक्ष्य वाचा च प्रशस्तमुपयुञ्जीत ॥६॥

अनु०— यदि भोजन में चमड़े का टुकड़ा, केश, नख, कीड़ा चूहे का मल दिखायी पड़े तो उस स्थान से भोजन का पिण्ड निकाल कर उस पर जल छिड़के, भस्म बिखेरे, पुनः जल से प्रोक्षण कर और शेष भोजन को खाने योग्य विहित किये जाने पर भोजन करे ॥ ६ ॥

Page 314Permalink

२६२ बौधायनधर्मसूत्रम् [ भोजनविधिः

केशग्रहणं लोमनखादीनामपि प्रदर्शनार्थम् । कीटः बृहतीफलादिप्रभवो घुणः । तद्ग्रहणं चाऽजीवन्मक्षिकापिपीलिकादीनामपि प्रदर्शनार्थम् । जीवता- मपवादश्रवणात् 'मशकैर्मक्षिकाभिश्च निलीनं नोपहन्यते' इति । आखुपुरीषं गुदादिपुरीषग्रहणार्थं विड्वराहश्लोकसंगृहीतपरिग्रहार्थं च । यो देशः कीटादि- संयुक्तः तं देशम् । वाचा प्रशस्तस्योपयोगः प्रशस्तमित्युच्चरिते उपयोगः । उच्चा- रयिता च स्वयं वाऽन्यो वा यस्तदा प्रयतो भवति ॥ ६ ॥

अथाऽप्युदाहरन्ति— आसीनः प्राङ्मुखोऽश्नीयाद्वाग्यतोऽन्नमकुत्सयन् । अस्कन्दयंस्तन्मनाश्च भुक्त्वा चाऽग्निमुपस्पृशेदिति ॥ ७ ॥

अनु०—इस विषय में निम्नलिखित पद्य उद्धृत करते हैं—"पूर्व की ओर मुख कर चुप रहकर, भोजन की निन्दा न करते हुए, पृथ्वी पर भोजन का अंश न गिराते हुए, भोजन पर ही ध्यान देते हुए भोजन करे तथा भोजन करने के बाद अग्नि का स्पर्श करे ॥ ७ ॥"

आसनप्राङ्मुखत्वयोः पुनरुपादानं पञ्चप्राणाहुत्यन्ते तयोः पर्यवसानं मा भूदिति । वाग्यतोऽन्नं व्रतयेत् । तूष्णींग्रहणेनैव सिद्धत्वादनुवादः । अकुत्सयन् अगर्हयन् अपकतुषपर्णपातादिदोषैः । अस्कन्दयम् भूमावनवकिरन् तन्मनाः अन्नमेव चिन्तयन् भुक्त्वा चाऽऽचान्तश्चाऽग्निमुपस्पृशेदिति योजना ॥ ७ ॥

सर्वभक्ष्यापूपकन्दमूलफलमांसादीनि दन्तैर्नाऽवद्येत् ॥ ८ ॥

अनु०—अपूप, कन्द, मूल, फल, मांस आदि जो बिना काटे ही खाये जा सकते हों उन्हें दाँतों से काट कर न खाए ॥ ८ ॥

सर्वभक्ष्योदाहरणत्वेनाऽपूपादिग्रहणम् । एतानि दन्तैर्नाऽवद्येत् न खण्डयेत् दन्तखण्डितावशिष्टं पुनर्भक्षणाय नाऽऽदद्यादित्यर्थः ॥ ८ ॥

नाऽतिसुहितः ॥ ९ ॥

अनु०—अधिक भोजन न करे ॥ ९ ॥

अत्यशनं वर्जयेत् । उक्तं च— 'न भुञ्जीतोध्दृतस्नेहं नातिसौहित्यमाचरेत्' इति । अतो मिताशनमिति ॥ ९ ॥

'अमृतापिधानमसि' इत्युपरिष्टादपः पीत्वाऽऽचान्तो हृदयदेशम-

द्वादशः खण्डः ] द्वितीयप्रश्ने सप्तमोऽध्यायः २६३

Page 315Permalink

द्वादशः खण्डः ] द्वितीयप्रश्ने सप्तमोऽध्यायः २६३

मिमृशति—"प्राणानां ग्रन्थिरसि रुद्रो मा विशान्तकस्तेनाऽन्नेनाऽऽ- प्यायस्वे"ति ॥ १० ॥

अनु०—उसके बाद "अमृतापिधानमसि" कहकर जल पिए, आचमन कर "प्राणानां ग्रन्थिरसि रुद्रो मा विशान्तकस्तेनाऽन्नेन आप्यायस्व" (तुम प्राणों को जोड़ने वाला ग्रन्थि हो, तुम रुद्र हो, अन्त करने वाले मृत्यु बनकर मुझमें प्रवेश न करो। इस अन्न द्वारा वृद्धि प्राप्त करो ) कहकर हृदय प्रदेश का स्पर्श करे ॥ १० ॥

अमृतस्याऽपिधानमुपरि प्रच्छादनं उदकं तत्त्वमसीति मन्त्रार्थः। अभिम- र्शनमन्त्रस्य वामदेव ऋषिः काण्डर्षिर्वा। निचृद्गायत्री छन्दः जीवो देवता। हृदयं जीवायतनं तत्रस्थो जीव आमन्त्र्यते। ग्रन्थिः बन्धनं प्राणायतनं असि रुद्रः अन्तकः अन्तकरस्सन् मा अन्तःविश अन्तको मा भूरित्यर्थः। यज्जीवितं मम तेनाऽन्नेन मां आप्यायस्व वर्धय ॥ १० ॥

पुनराचम्य दक्षिणे पादाङ्गुष्ठे पाणी निस्रावयति"अङ्गुष्ठमात्रः पुरुषोऽङ्गुष्ठं च समाश्रितः। ईशस्सर्वस्य जगतः प्रभुः प्रीणाति विश्व- भुगि"ति ॥ ११ ॥

अनु०—पुनः दूसरी बार आचमन कर, दाहिने पैर के अँगूठे पर अपने हाथ से जल की बूंदें यह कहते हुए गिराए—"अङ्गुष्ठमात्रः पुरुषोऽङ्गुष्ठं च समाश्रितः। ईशस्सर्वस्य जगतः प्रभुः प्रीणाति विश्वभुक्" ( अङ्गुष्ठ के आकार का पुरुष जो अंगु- ष्ठ मात्र आकाश का आश्रय लेता है, सम्पूर्ण संसार का स्वामी है, विश्व का भोक्ता है, प्रसन्न होवे ) ॥ ११ ॥

पाणिभ्यामिति द्विवचनात् द्वाभ्यां हस्ताभ्यामुदकं निस्रावयेत्। अङ्गुष्ठमात्र इत्यृचः वामदेव ऋषिः अनुष्टुप्छन्दः आत्मा देवता। मात्रच्प्रत्ययः। अद्य परमात्मा स्मृतः पुरुषः पुरि शेत इति व्युत्पत्त्या। आह च कृष्णद्वैपायनस्सा- वित्र्युपाख्याने— अङ्गुष्ठमात्रं पुरुषं विचकर्ष यमो बलात् ॥ इति ॥ तत्परिमाणश्च तदाश्रयश्चाऽसावीश्वरः जगतो जङ्गमस्य सर्वशब्दात्स्थावर- स्य प्रभुः प्रभूतं प्रियतमं विश्वं भुनक्ति भुङ्क्त इति वा विश्वभुक् ॥ ११ ॥

हुतानुमन्त्रणमूर्ध्वहस्तस्समाचरेत्—"श्रद्धायां प्राणे निविश्या- ऽमृतं हुतम्। प्राणमन्नेनाऽऽप्यायस्वे"ति पञ्च ॥ १२ ॥

अनु०—हाथ ऊपर उठाकर हुत अन्न का "श्रद्धायां प्राणे निविश्यामृतं हुतम्। प्राणमन्नेनाप्यायस्व।" आदि पाँच मन्त्रों से अनुमन्त्रण करे ॥ १२ ॥