BharatKosha
Back to the archive

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

by महाकवि कालिदास

Source: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (origin)

DevanagariHindipublished735 pages

दशमः सर्गः ३४१

Page 400Permalink

दशमः सर्गः ३४१

भाषार्थं—उन तीनों रानियों ने रात में स्वप्न देखा कि शंख, खड्ग, गदा, शार्ङ्ग नामक धनुष और चक्र लिये हुए कोई बौना पुरुष हमारी रक्षा कर रहा है ॥ ६० ॥

हेमपक्षप्रभाजालां गगने च वितन्वता ।
उह्यन्ते स्म सुपर्णेन वेगाकृष्टपयोमुचा ॥ ६१ ॥

अन्वयः—हेमपक्षप्रभाजालां वितन्वता वेगाकृष्टपयोमुचा सुपर्णेन गगने 'ताः' उह्यन्ते स्म ।

हेमेति । किञ्चेति चार्थः । हेम्नः सुवर्णस्य पक्षाणां प्रभाजालं कान्तिपुञ्जं वितन्वता विस्तारयता वेगेनाकृष्टाः पयोमुचा मेघा येन तेन । सुपर्णेन गरुत्मता गरुडेन गगने ता उह्यन्ते स्मोढाः ।

भाषार्थं—और यह भी देखा कि आकाश में सुनहले पंखों के प्रभाजाल को फैलाते हुए और अपने वेग से बादलों को भी खींचकर ले जाते हुए गरुड़ हमें आकाश में उड़ाकर ले जा रहे हैं ॥ ६१ ॥

विभ्रत्या कौस्तुभन्यासं स्तनान्तरविलम्बिनम् ।
पर्युपास्यन्त लक्ष्म्या च पद्मव्यजनहस्तया ॥ ६२ ॥

अन्वयः—स्तनान्तरविलम्बिनं कौस्तुभन्यासं बिभ्रत्या पद्मव्यजनहस्तया लक्ष्म्या च 'ताः' पर्युपास्यन्त ।

बिभ्रत्येति । किंच स्तनयोरन्तरे मध्ये विलम्बिनं लम्बमानम् । न्यस्यत इति न्यासः । कौस्तुभ एव न्यासस्तम् । पत्या कौतुकान्यस्तम् । कौस्तुभमित्यर्थः । बिभ्रत्या पद्ममेव व्यजनं हस्ते यस्यास्तया लक्ष्म्या पर्युपास्यन्तोपासिताः ।

भाषार्थं—भगवान् ने धरोहर के रूप में प्राप्त स्तनों के बीच में लटकते हुए कौस्तुभमणि को धारण करती हुई लक्ष्मी हाथ में कमल रूप पंखा लेकर हमारी सेवा कर रही हैं, यह भी देखा ॥ ६२ ॥

कृताभिषेकैर्दिव्यायां त्रिस्रोतसि च सप्तभिः ।
ब्रह्मर्षिभिः परं ब्रह्म गृणद्भिरुपतस्थिरे ॥ ६३ ॥

अन्वयः—दिव्यायां त्रिस्रोतसि कृताभिषेकैः परं ब्रह्म गृणद्भिः सप्तभिः ब्रह्मर्षिभिः 'ता' उपतस्थिरे ।

कृतेति । किंच । दिवि भवायां दिव्यायां त्रिस्रोतस्याकाशगङ्गायां कृताभिषेकैः कृतावगाहैः परं ब्रह्म वेदरहस्यं गृणद्भिः पठद्भिः सप्तभिर्ब्रह्मर्षिभिः कश्यपप्रभृ-तिभिरुपतस्थिरे उपासाञ्चक्रिरे ।

Page 401Permalink
३४२रघुवंशमहाकाव्ये

**भाषार्थ—**इतना ही नहीं आकाश गंगा में स्नान करके कश्यपादि सप्तर्षि वेदपाठ करते हुए हम लोगों की ही स्तुति करते है—इस प्रकार के स्वप्नों को देखकर रानियों ने राजा से कहा ॥ ६३ ॥

ताभ्यस्तथाविधान्स्वप्नाञ्छ्रुत्वा प्रीतो हि पार्थिवः।
मेने परार्ध्यमात्मानं गुरुत्वेन जगद्गुरोः॥ ६४॥

**अन्वयः—**पार्थिवः ताभ्यः तथाविधान् स्वप्नान् श्रुत्वा प्रीतः 'सन्' जगद्गुरोः गुरुत्वेन आत्मानं परार्ध्यं मेने हि।

ताभ्य इति। पार्थिवो दशरथस्ताभ्यः पत्नीभ्यः। "आख्यातोपयोगे" इत्यपादानत्वात्पञ्चमी। तथाविधानुक्तप्रकारान्स्वप्नाञ्छ्रुत्वा प्रीतः सन् आत्मानं जगद्गुरोर्विष्णोरपि गुरुत्वेन पितृत्वेन हेतुना परार्ध्यं सर्वोत्कृष्टं मेने हि।

**भाषार्थ—**रानियों से इस प्रकार के स्वप्नों को सुनकर राजा दशरथ अतिप्रसन्न हुए और उन्होंने समझ लिया कि अब संसार में मेरे समान कोई सौभाग्यशाली नहीं है क्योंकि मैं अब संसार के गुरु विष्णु का भी पिता बन रहा हूँ ॥ ६४ ॥

विभक्तात्मा विभुस्तासामेकः कुक्षिष्वनेकधा।
उवास प्रतिमाचन्द्रः प्रसन्नानामपामिव ॥ ६५॥

**अन्वयः—**एकः विभुः तासां कुक्षिषु प्रसन्नानां अपां 'कुक्षिषु' प्रतिमाचन्द्रः इव अनेकधा विभक्तात्मा 'सन्' उवास।

विभक्तेति। एक एकरूपो विभुर्विष्णुस्तासां राजपत्नीनां कुक्षिषु गर्भेषु प्रसन्नानां निर्मलानामपां कुक्षिषु प्रतिमाचन्द्रः प्रतिबिम्बचन्द्र इव। अनेकधा विभक्तात्मा सन् उवास।

**भाषार्थ—**यद्यपि भगवान् विष्णु का एक ही रूप है, फिर भी निर्मल जल के भीतर प्रतिबिम्बित चन्द्रमा के समान अनेक रूप में विभक्त होकर उन रानियों के गर्भ में निवास करने लगे ॥ ६५ ॥

अथाग्रमहिषी राज्ञः प्रसूतिसमये सती।
पुत्रं तमोपहं लेभे नक्तं ज्योतिरिवौषधिः॥ ६६॥

**अन्वयः—**अथ राज्ञः सती अग्रघमहिषी प्रसूतिसमये ओषधिः नक्तं तमोपहं ज्योतिः इव 'तमोपहं' पुत्रं लेभे।

अथेति। अथ राज्ञो दशरथस्य सती पतिव्रता। अग्र्या चासौ महिषी चाग्रघ-महिषी कौसल्या। प्रसूतिसमये प्रसूतिक़ाले ओषधीर्नक्तम् रात्रिसमये तमोऽपहन्तीति

Page 402Permalink

दशमः सर्गः ३४३

तमोपहम् । “अपे क्लेशतमसोः” इति डप्रत्ययः । ज्योतिरिव तमोपहं तमोनाशकरं पुत्रं लेभे प्राप ।

**भावार्थ—**इसके बाद साध्वी राजा दशरथ की पटरानी कौशल्या, प्रसव-काल पूर्ण होने पर दशवें मास में जिस प्रकार रात में दिव्य औषधि अन्धकार को नाश करनेवाले प्रकाश को प्राप्त करती है, उसी प्रकार तमोगुण को दूर करने वाला पुत्र प्राप्त किया ॥ ६६ ॥

राम इत्यभिरामेण वपुषा तस्य चोदितः ।
नामधेयं गुरुश्चक्रे जगत्प्रथममङ्गलम् ॥ ६७ ॥

**अन्वयः—**अभिरामेण वपुषा चोदितः गुरुः यस्य जगत्प्रथममंगलं राम इति नामधेयं चक्रे ।

राम इति । अभिरमन्तेऽत्रेत्यभिरामं मनोहरम् । अधिकरणार्थे घञ्प्रत्ययः । तेन वपुषा चोदितः प्रेरितो गुरुः पिता दशरथस्तस्य पुत्रस्य जगतां प्रथमं मङ्गलं सुलक्षणं राम इति नामधेयं चक्रे । अभिरामत्वमेव रामशब्दप्रवृत्तिनिमित्तमित्यर्थः ।

**भाषार्थ—**उस बाल के मनोहर शरीर को देखकर पिता दशरथ ने संसार में सबसे अधिक मंगलकारी यह नाम रखा ॥ ६७ ॥

रघुवंशप्रदीपेन तेनाप्रतिमतेजसा ।
रक्षागृहगता दीपाः प्रत्यादिष्टा इवाभवन् ॥ ६८ ॥

**अन्वयः—**रघुवंशप्रदीपेन अप्रतिमतेजसा तेन रक्षागृहगताः दीपाः प्रत्यादिष्टाः इव अभवन् ।

रध्विति । रघुवंशस्य प्रदीपेन प्रकाशकेन अप्रतिमतेजसा तेन रामेण रक्षागृहगताः सूतिकागृहगता दीपाः प्रत्यादिष्टाः प्रतिषिद्धा इवाभवन् । महादीपसमीपे नाल्पाः स्फुरन्तीति भावः ।

**भावार्थ—**रघुवंश में दीपक के समान प्रकाशमान अपरिमित तेजस्वी उस राम से प्रसूति गृह में रखे हुए दीपक मानों फीके पड़ गये ॥ ६८ ॥

शय्यागतेन रामेण माता शातोदरी बभौ ।
सैकताम्भोजबलिना जाह्नवीव शरत्कृशा ॥ ६६ ॥

**अन्वयः—**शातोदरी माता शय्यागतेन रामेण सैकताम्भोजबलिना शरत्कृशा जाह्नवी इव बभौ ।

शय्येति । शातोदरी गर्भमोचनात्कृशोदरी माता शय्यागतेन रामेण । सैकते पुलिने योऽम्भोजबलिः पद्मोपहारस्तेन शरदि कृशा जाह्नवी गङ्गेव । बभौ ।

Page 403Permalink

३४४ रघुवंशमहाकाव्ये

भाषार्थ—बालक को उत्पन्न करने के कारण कृश उदरवाली माता कौशल्या नन्हें से राम को लेकर पलंग पर लेटी हुई ऐसी सुन्दर लगती थीं, मानों शरद ऋतु में पतली धार वाली गङ्गा के तट पर चढ़ाया हुआ नीला कमल हो ॥ ६९ ॥

कैकेय्यास्तनयो जज्ञे भरतो नाम शीलवान् ।
जनयित्रीमलंचक्रे यः प्रश्रय इव श्रियम् ॥ ७० ॥

अन्वयः—कैकेय्याः भरतः नाम शीलवान् तनयः जज्ञे यः प्रश्रयः श्रियम् इव जनयित्रीम् अलञ्चक्रे ।

कैकेय्या इति । कैकेयस्य राज्ञोऽपत्यं स्त्री कैकेयी । “तस्यापत्यम्” इत्यणि कृते “कैकेयमित्रयुप्रलयानां यादेरियः' इतीयादेशः । तस्या भरतो नाम शीलवांस्तनयो जज्ञे जातः । यस्तनयः प्रश्रयो विनयः श्रियमिव । जनयित्रीं मातरमलञ्चक्रे ।

भाषार्थ—कैकेयी को भरत नामक शीलवान् पुत्र उत्पन्न हुआ, जिसने लक्ष्मी को विनय के समान माता को सुशोभित किया ॥ ७० ॥

सुतौ लक्ष्मणशत्रुघ्नौ सुमित्रा सुषुवे यमौ ।
सम्यगाराधिता विद्या प्रबोधविनयाविव ॥ ७१ ॥

अन्वयः—सुमित्रा लक्ष्मणशत्रुघ्नौ यमौ सुतौ सम्यगाराधिता विद्या प्रबोधविनयौ इव सुषुवे ।

सुताविति । सुमित्रा लक्ष्मणशत्रुघ्नौ नाम यमौ युग्मजातौ सुतौ पुत्रौ । सम्यगाराधिता स्वभ्यस्ता विद्या प्रबोधविनयौ तत्त्वज्ञानेन्द्रियजाताविव सुषुवे ।

भाषार्थ—जिस प्रकार अच्छी तरह अभ्यास की हुई विद्या तत्त्वज्ञान और नम्रभाव को उत्पन्न करती है, उसी प्रकार सुमित्रा ने लक्ष्मण और शत्रुघ्न नामक दो पुत्रों को एक साथ उत्पन्न किया ॥ ७१ ॥

निर्दोषमभवत्सर्वमाविष्कृतगुणं जगत् ।
अन्वगादिव हि स्वर्गो गां गतं पुरुषोत्तमम् ॥ ७२ ॥

अन्वयः—सर्वं जगत् निर्दोषम् आविष्कृतगुणं च अभवत् स्वर्गः हि गां गतं पुरुषोत्तमम् अन्वगात् ।

निर्दोषमिति । सर्वं जगद्भूलोको निर्दोषं दुर्भिक्षादिदोषरहितम् आविष्कृतगुणं प्रकटीकृतारोग्यादिगुणं चाभवत् । अत्रोत्प्रेक्षते—गां भुवं गतमवतीर्णं पुरुषोत्तमं विष्णुं स्वर्गोऽप्यन्वगादिव । स्वर्गो हि गुणनान्निर्दोषश्चेत्यागमः । स्वर्गतुल्यमभूदित्यर्थः ।

दशमः सर्गः ३४५

Page 404Permalink

दशमः सर्गः ३४५

भाषार्थ—उन लोगों के जन्म से संसार के समस्त दोष दूर हो गये और गुणों का प्रादुर्भाव हो गया। उस समय ऐसा मालूम पड़ता था, मानों अवतार लेकर पृथ्वी पर आते हुए भगवान् विष्णु के पीछे-पीछे स्वर्ग भी उतर आया हो, अर्थात् भूलोक स्वर्ग के समान दोषवर्जित और समृद्धिसम्पन्न हो गया ॥ ७२ ॥

तस्योदये चतुर्मूर्तेः पौलस्त्यचकितेश्वराः ।
विरजस्कैर्नभस्वद्भिर्दिश उच्छ्वसिता इव ॥ ७३ ॥

अन्वयः—चतुर्मूर्तेः तस्य उदये सति पौलस्त्यचकितेश्वराः दिशः विरजस्कैः नभस्वद्भिः उच्छ्वसिताः इव।

तस्येति । चतुर्मूर्ते रामादिरूपेण चतूरूपस्य सतस्तस्य हरेरुदये सति । पौलस्त्याद्रावणच्चकिता भीता ईश्वरा नाथा इन्द्रादयो यासां ता दिशश्चतस्रो विरजस्कैरपधूलिभिर्नभस्वद्भिर्वायुभिः । मिषेण । उच्छ्वसिता इव इत्युत्प्रेक्षा । श्वसेः कर्तरि क्तः । स्वनाथशरणलाभसंतुष्टानां दिशामुच्छ्वासवाता इव वाता ववुरित्यर्थः । चतुर्दिगीशरक्षणं मूत्तिचतुष्टयप्रयोजनमिति भावः ।

भाषार्थ—सर्वत्र धूलि के बिना निर्मल हवा बहने लगी, वह ऐसी लगती थी मानों रावण से डरे हुए कुबेर आदि दिक्पालों ने पृथ्वी पर चार रूपों में आते हुए भगवान् विष्णु को पाकर सन्तोष की सांस ली हो ॥ ७३ ॥

कृशानुरपधूमत्वात्प्रसन्नत्वात्प्रभाकरः ।
रक्षोविप्रकृतावास्तामपविद्धशुचाविव ॥ ७४ ॥

अन्वयः—रक्षोविप्रकृतौः कृशानुः प्रभाकरः अपधूमत्वात् प्रसन्नत्वात् च अपविद्धशुचौ इव आस्ताम् ।

कृशानुरिति । रक्षसा रावणेन विप्रकृतावपकृतौ पीडितावित्यर्थः । कृशानुरग्निः प्रभाकरः सूर्यश्च यथासंख्यमपधूमत्वात्प्रसन्नत्वाच्चापविद्धशुचौ निरस्तदुःखाविवास्तामभवताम् ।

भाषार्थ—रावण से पीडित अग्नि तथा सूर्य सदा दुखी रहते थे, किन्तु भगवान् के जन्म लेने पर अग्नि निर्धूम होकर और सूर्य ने प्रकाश करके अपनी प्रसन्नता प्रकट की ॥ ७४ ॥

दशाननकिरीटेभ्यस्तत्क्षणं राक्षसश्रियः ।
मणिव्याजेनपर्यस्ताः पृथिव्यामश्रुबिन्दवः ॥ ७५ ॥

अन्वयः—तत्क्षणं राक्षसश्रियः अश्रुबिन्दवः दशाननकिरीटेभ्यः मणिव्याजेन पृथिव्यां पर्यस्ताः ।

Page 405Permalink
३४६रघुवंशमहाकाव्ये

दशाननेति । तत्क्षणं तस्मिन्क्षणे रामोत्पत्तिसमये राक्षसश्रियोऽश्रुबिन्दवो दशाननकिरीटेभ्यो मणीनां व्याजेन मिषेण पृथिव्यां पर्यस्ताः पतिताः । रामोदये सति तद्वधस्य रावणस्य किरीटमणिभ्रंशलक्षणं दुर्निमित्तभूदित्यर्थः ।

भाषार्थ—उसी समय रावण के मुकुट से कुछ मणि पृथ्वी पर गिर पड़े, वे ऐसे मालूम पड़े, मानों राक्षसों की लक्ष्मी के आंसू ही बह रहे हों ॥ ७५ ॥

पुत्रजन्मप्रवेश्यानां तूर्याणां तस्य पुत्रिणः ।
आरम्भं प्रथमं चक्रुर्देवदुन्दुभयो दिवि ॥ ७६ ॥

अन्वयः—पुत्रिणः तस्य पुत्रजन्मप्रवेश्यानां तूर्याणाम् आरम्भं प्रथमं दिवि देवदुन्दुभयः चक्रुः ।

पुत्रेति । पुत्रिणो जातपुत्रस्य तस्य दशरथस्य पुत्रजन्मनि प्रवेश्यानां प्रवेशयितव्यानाम् । वादनीयानामित्यर्थः । तूर्याणां वाद्यानामारम्भमुपक्रमं प्रथमं दिवि देवदुन्दुभयश्चक्रुः । साक्षात्पितुर्दशरथादपि देवा अधिकं प्रहृष्टा इत्यर्थः ।

भाषार्थ—पुत्रवान् उस राजा दशरथ के पुत्रजन्म से बजाने योग्य बाजाओं का आरम्भ पहले स्वर्ग में देवताओं की दुन्दुभियों ने किया अर्थात् राजा दशरथ से अधिक प्रसन्नता देवताओं को हुई ॥ ७६ ॥

सन्तानकमयी वृष्टिर्भवने चास्य पेतुषी ।
सन्मङ्गलोपचाराणां सैवादिरचनाऽभवत् ॥ ७७ ॥

अन्वयः—अस्य भवने सन्तानकमयी वृष्टिः च पेतुषी सा एव सन्मङ्गलोपचाराणां आदिरचना अभवत् ।

सन्तानकेति । अस्य राज्ञो भवने सन्तानकानां कल्पवृक्षकुसुमानां विकारः सन्तानकमयी वृष्टिश्च पेतुषी पपात । "क्वसुश्च" इति क्वसुप्रत्ययः । "उगितश्च" इति ङीप् । सा वृष्टिरेव सन्तः पुत्रजन्मन्यावश्यका ये मङ्गलोपचारास्तेषामादिरचना प्रथमक्रियाऽभवत् ।

भाषार्थ—राजा दशरथ के राजभवन में आकाश से कल्पवृक्ष के फूलों की जो वर्षा हुई, उसी से उनके मांगलिक कार्यों का आरम्भ हुआ ॥ ७७ ॥

कुमाराः कृतसंस्कारास्ते धात्रीस्तन्यपायिनः ।
आनन्देनाग्रजेनेव समं ववृधिरे पितुः ॥ ७८ ॥

अन्वयः—कृतसंस्काराः धात्रीस्तन्यपायिनः ते कुमाराः अग्रजेन इव पितुः आनन्देन समं ववृधिरे ।

दशमः सर्गः ३४७

Page 406Permalink

दशमः सर्गः ३४७

कुमारा इति । कृताः संस्कारा जातकर्मादयो येषां ते । धात्रीणामुपमातृणां स्तन्यानि पयांसि पिबन्तीति तथोक्ताः । ते कुमारा अग्रे जातेनाग्रजेन ज्येष्ठेनेव स्थितेन पितुरानन्देन समं ववृधिरे । कुमारवृद्धया पितामहान्तमानन्दमवापेत्यर्थः । कुमारजन्मनः प्रागेव जातत्वादग्रजत्वोक्तिरानन्दस्य ।

भावार्थ—इन पुत्रों के उत्पन्न होने से पहले राजा दशरथ के हृदय में बड़ा आनन्द उत्पन्न हुआ । उस प्रथम उत्पन्न पिता के आनन्द के साथ जातकर्मादि संस्कारों से संस्कृत तथा धाई के दूध पीने वाले कुमार भी बढ़ने लगे ॥ ७८ ॥

स्वाभाविकं विनीतत्वं विनयकर्मणा ।
मुमूर्च्छ सहजं तेजो हविषेव हविर्भुजाम् ॥ ७९ ॥

अन्वयः—तेषां स्वाभाविकं विनीतत्वं विनयकर्मणा हविर्भुजां सहजं तेजः हविषा इव मुमूर्च्छ ।

स्वाभाविकमिति । तेषां कुमाराणां संबन्धि स्वाभाविकं सहजं विनीतत्वं विनयकर्मणा शिक्षया हविर्भुजामग्नीनां सहजं तेजो हविषाऽऽज्यादिकेनेव । मुमूर्च्छ ववृधे । निःसर्गसंस्काराभ्यां विनीता इत्यर्थः ।

भाषार्थ—जिस प्रकार घी आदि पड़ने से अग्नि का स्वाभाविक तेज बढ़ जाता है, उसी प्रकार राम आदि का स्वाभाविक विनय आदि उत्तमशिक्षा से और भी अधिक बढ़ गया ॥ ७९ ॥

परस्पराविरुद्धास्ते तद्रघोरनघं कुलम् ।
अलमुद्द्योतयामासुर्देवारण्यमिवर्तवः ॥ ८० ॥

अन्वयः—परस्पराविरुद्धाः ते तद् अनघं रघोः कुलम् ऋतवः देवारण्यम् इव अलम् उद्द्योतयामासुः ।

परस्परेति । परस्पराविरुद्धा अविद्विष्टाः । सौभ्रात्रगुणवन्त इत्यर्थः । ते कुमाराः तत्प्रसिद्धमनघं निष्पापं रघोः कुलम् । ऋतवो वसन्तादयो देवारण्यं नन्दनमिव । सहजविरोधानामप्यूतूनां सहावस्थानसंभावनार्थं देवविशेषणम् । अलमत्यन्तमुद्द्योतयामासुः प्रकाशयामासुः सौभ्रात्रवन्तः कुलभूषणायन्त इति भावः ।

भाषार्थ—जिस प्रकार सर्वदा सब प्रकार के पुष्पों की सम्पत्ति से परस्पर अविरोधी ऋतुओं ने नन्दन वन की शोभा बढ़ाई, उसी प्रकार परस्पर प्रेम से उन चारों राजकुमारों ने रघुकुल की शोभा बढ़ाई ॥ ८० ॥

समानेऽपि हि सौभ्रात्रे यथोभौ रामलक्ष्मणौ ।
तथा भरतशत्रुघ्नौ प्रीत्या द्वन्द्वं बभूवतुः ॥ ८१ ॥

Page 407Permalink

३४८ रघुवंशमहाकाव्ये

**अन्वयः—**सौभ्रात्रे समाने अपि हि यथा उभौ रामलक्ष्मणौ प्रीत्या द्वन्द्वं बभूवतुः तथा भरतशत्रुघ्नौ 'प्रीत्या' द्वन्द्वं बभूवतुः ।

समान इति । शोभनाः स्निग्धा भ्रातरो येषां ते सुभ्रातरः । “नद्यृतश्च” इति कन् न भवति “वन्दिते भ्रातुः” इति निषेधात् । तेषां भावः सौभ्रात्रम् । युवादिवादण् । तस्मिन्समाने चतुर्णां तुल्येऽपि यथोभौ रामलक्ष्मणौ प्रीत्या द्वन्द्वं बभूवतुः । तथा भरतशत्रुघ्नौ प्रीत्या द्वन्द्वं द्वौ द्वौ साहचर्येणाभिव्यक्तौ बभूवतुः । “द्वन्द्वं रहस्यमर्यादावचनव्युत्क्रमणयज्ञपात्रप्रयोगाभिव्यक्तिषु” इत्यभिव्यक्तार्थे निपातः । क्वचित्कस्यचित्स्नेहो नातिरिच्यत इति भावः ।

**भाषार्थ—**यद्यपि चारों भाइयों में परस्पर बहुत प्रेम था, फिर भी विशेष प्रेम के कारण जैसे राम और लक्ष्मण की एक जोड़ी थी, वैसे ही भरत और शत्रुघ्न ने भी अपनी जोड़ी बना ली ॥ ८१ ॥

तेषां द्वयोर्द्वयोरेक्यं विभिदे न कदाचन ।
यथा वायुविभावस्वोर्यथा चन्द्रसमुद्रयोः ॥ ८२ ॥

**अन्वयः—**तेषां 'मध्ये' द्वयोः द्वयोः चन्द्रसमुद्रयोः यथा वायुविभावस्वोर्यथा ऐक्यं कदाचन विभिदे ।

तेषामिति । तेषां चतुर्णां मध्ये द्वयोर्द्वयोः रामलक्ष्मणयोर्भरतशत्रुघ्नयोश्चेत्यर्थः । यथा वायुविभावस्वोर्वातवह्न्योरिव । चन्द्रसमुद्रयोरिव च । ऐक्यमैकमत्यं कदाचन न विभिदे । एककार्यत्वं समानसुखदुःखत्वं च क्रमादुपमाद्वयाल्लभ्यते । सहजः सहकारी हि वह्नेर्वायुः चन्द्रवृद्धौ हि वर्धते सिन्धुः, तत्क्षये च क्षीयत इति ।

**भाषार्थ—**जिस प्रकार वायु और अग्नि की तथा समुद्र एवं चन्द्रमा की जोड़ी कभी अलग नहीं होती, उसी प्रकार राम और लक्ष्मण तथा भरत और शत्रुघ्न का साथ कभी नहीं छूटा ॥ ८२ ॥

ते प्रजानां प्रजानाथास्तेजसा प्रश्रयेण च ।
मनो जह्रुर्निदाघान्ते श्यामाभ्रा दिवसा इव ॥ ८३ ॥

**अन्वयः—**प्रजानाथाः ते तेजसा प्रश्रयेण च निदाघान्ते श्यामाभ्राः दिवसा इव प्रजानां मनः जह्रुः ।

त इति । प्रजानाथास्ते कुमारास्तेजसा प्रभावेण प्रश्रयेण विनयेन च निदाघान्ते ग्रीष्मान्ते श्यामान्यभ्राणि मेघा येषां ते श्यामाभ्राः । नातिशीतोष्णा इत्यर्थः । दिवसा इव प्रजानां लोकानां मनश्चित्तं जह्रुः हरन्ति स्म ।

**भाषार्थ—**जिस प्रकार गर्मी के अन्त में नीले रंग के सुहावने बादल वाले

दशमः सर्गः ३४६

Page 408Permalink

दशमः सर्गः ३४६

दिन प्रजाओं के मन को हरण कर लेते हैं, उसी प्रकार प्रजाओं के स्वामी उस चारों राजकुमारों ने अपने तेज और नम्र व्यवहार से प्रजाओं के मन को हर लिया ॥ ८३ ॥

स चतुर्धा बभौ व्यस्तः प्रसवः पृथिवीपतेः ।
धर्मार्थकाममोक्षाणामवतार इवाङ्गवान् ॥ ८४ ॥

अन्वयः—चतुर्धा व्यस्तः सः पृथिवीपतेः प्रसवः अङ्गवान् धर्मार्थकाममोक्षाणाम् अवतारः इव बभौ ।

स इति । स चतुर्धा । "संख्याया विधाऽर्थे धा" इत्यनेन धाप्रत्ययः । व्यस्तो विभक्तः पृथिवीपतेर्दशरथस्य प्रसवः संतानः चतुर्धाऽङ्गवान्मूर्तिमान्धर्मार्थकाममोक्षाणामवतार इव बभौ ।

भाषार्थ—चार प्रकार से विभक्त राजा दशरथ के वे चारों पुत्र ऐसे सुशोभित हो रहे थे, मानों धर्म, अर्थ, काम और मोक्ष इन चारों ने अवतार लिया हो ॥ ८४ ॥

गुणैराराधयामासुस्ते गुरुं गुरुवत्सलाः ।
तमेव चतुरन्तेशं रत्नैरिव महार्णवाः ॥ ८५ ॥

अन्वयः—गुरुवत्सलाः ते गुणैः गुरुं चतुरन्तेशं तम् एव महार्णवाः रत्नैः इव आराधयामासुः ।

गुणैरिति । गुरुवत्सलाः पितृभक्तास्ते कुमारा गुणैर्विनयादिभिर्गुरुं पितरं चतुर्णामन्तानां दिगन्तानामीशं चतुरन्तेशम् । "तद्धितार्थोत्तरपदसमाहारे च" इत्यनेनोत्तरपदसमासः । तं दशरथमेव महार्णवाश्चत्वारो रत्नैरिव । आराधयामासुरानन्दयामासुः ।

भाषार्थ—जिस प्रकार चारों समुद्रों ने अपने रत्नों से चारों दिशाओं के स्वामी दशरथ की सेवा की, उसी प्रकार उन चारों ने अपने विनय आदि गुणों से पिता दशरथ को प्रसन्न कर लिया था ॥ ८५ ॥

सुरगज इव दन्तैर्भग्नदैत्यासिधारै-
र्नय इव पणबन्धव्यक्तयोगैरुपायैः ।
हरिरिव युगदीर्घैर्दोर्भिरंशैस्तदीयैः
पतिरवनिपतीनां तैश्चकाशे चतुर्भिः ॥ ८६ ॥

अन्वयः—भग्नदैत्यासिधारैः चतुर्भिः दन्तैः सुरगज इव पणबन्धव्यक्तयोगैः चतुर्भिः उपायैः नयः इव युगदीर्घैः चतुर्भिः दोर्भिः हरिः इव तदीयैः अंशैः चतुर्भिः तैः अवनिपतीनां पतिः चकाशे ।

सुरगज इति । भग्ना दैत्यानामसिधारा यैस्तैश्चतुर्भिर्दन्तैः सुरगज ऐरावत इव ।

Page 409Permalink
३५०रघुवंशमहाकाव्ये

पणबन्धेन फलसिद्धया व्यक्तयोगैरनुमितप्रयोगैरुपायैश्चतुर्भिः सामादिभिर्नयो नीतिरिव। युगपद्दीर्घैश्चतुर्भिर्दोर्भिर्भुजैर्हरिर्विष्णुरिव। 'यानाद्यङ्गे युगः पुंसि' इत्यमरः। तदीयैर्हरिसम्बन्धिभिरंशैरंशभूतैश्चतुर्भिस्तैः पुत्रैरवनिपतीनां पती राजराजो दशरथश्चकाशे विदियुते।

इति महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमाख्यया व्याख्यया समेतो महाकविश्रीकालिदासकृतो रघुवंशे महाकाव्ये रामावतारो नाम दशमः सर्गः ॥ १० ॥

**भाषार्थ—**जिस प्रकार असुरों की तलवार की धार को कुण्ठित करनेवाले अपने चार दांतों से ऐरावत शोभा देता है, उसी प्रकार साम, दाम, दण्ड और भेद इन चार उपायों से राजनीति शोभा देती है और जिस प्रकार रथ के जुवे के समान लम्बी-लम्बी भुजाओं से विष्णु भगवान् शोभा देते हैं, उसी प्रकार राजा दशरथ भी अपने चार सुयोग्य पुत्रों से सुशोभित हुए ॥ ८६ ॥

यह त्रिपाठ्युपाह्व पं० श्रीकृष्णमणिशास्त्री द्वारा लिखित अन्वय ओर 'चन्द्रकला' नाम की हिन्दी टीका में रघुवंशमहाकाव्य का रामावतार नामक दशम सर्ग समाप्त हुआ ॥ १० ॥


एकादशः सर्गः

रामचन्द्रचरणारविन्दयोरन्तरङ्गचरभृङ्गलील या।
तत्र सन्ति हि रसाश्चतुर्विधास्तान्यथारुचि सदैव निर्विश ॥

कौशिकेन स किल क्षितीश्वरो राममध्वरविघातशान्तये।
काकपक्षधरमेत्य याचितस्तेजसां हि न वयः समीक्ष्यते ॥ १ ॥

**अन्वयः—**कौशिकेन एत्य सः क्षितीश्वरः अध्वरविघातशान्तये काकपक्षधरं रामं याचितः किल हि तेजस्विनां वयः न समीक्ष्यते।

कौशिकेनेति। कौशिकेन कुशिकापत्येन विश्वामित्रेणैत्याभ्यागत्य स क्षितीश्वरो दशरथः अध्वरविघातशान्तये यज्ञविघ्नविध्वंसाय काकपक्षधरं बालकोचितशिखाधरम्। 'बालानां तु शिखा प्रोक्ता काकपक्षकः शिखण्डकः' इति हलायुधः। रामं

दशमः सर्गः ३५१

Page 410Permalink

दशमः सर्गः ३५१

याचितः किल प्रार्थितः खलु। याचेर्द्विकर्मकादप्रधाने कर्मणि क्तः। 'अप्रधाने दुहादीनाम्' इति वचनात्। नायं बालाधिकार इत्याशङ्क्याह—तेजसां तेज- स्विनां वयो बाल्यादि न समीक्ष्यते हि अप्रयोजकमित्यर्थः। अत्र सर्गे रथोद्धता- वृत्तम्। उक्तं च—'रान्नराविह रथोद्धता लगौ' इति।

भाषार्थ—विश्वामित्रजी उस राजा दशरथ के पास आकर यज्ञ के विघ्न को शान्त करने के लिये काकपक्षधारी राम को मांगा। ठीक है, तेजस्वियों की अवस्था नहीं देखी जाती ॥ १ ॥

कृच्छ्रलब्धमपि लब्धवर्णभाक्तं दिदेश मुनये सलक्ष्मणम् ।
अप्यसुप्रणयिनां रघोः कुले न व्यहन्यत कदाचिदर्थिता ॥ २ ॥

अन्वयः—लब्धवर्णभाक् कृच्छ्रलब्धम् अपि सलक्षणं तं मुनये दिदेश। असु- प्रणयिनां अर्थिता रघोः कुले कदाचित् न व्यहन्यत।

कृच्छ्रलब्धमिति। लब्धा वर्णाः प्रसिद्धयो यैस्ते लब्धवर्णा विचक्षणाः। 'लब्धवर्णो विचक्षणः' इत्यमरः। तान्भजत इति लब्धवर्णभाक्। विद्वत्सेवीत्यर्थः। स राजा कृच्छ्रलब्धमपि सलक्ष्मणं तं रामं मुनये दिदेशातिसृष्टवान्। तथाहि असुप्रणयिनां प्राणार्थिनामप्यर्थिता याच्ञा रघोः कुले कदाचिदपि न व्यहन्यत न विहता। न विफलीकृतेत्यर्थः। यैरर्थिभ्यः प्राणा अपि समर्प्यन्ते तेषां पुत्रादि- त्यागो न विस्मयावह इति भावः।

भाषार्थ—यद्यपि राजा दशरथ ने बड़ी तपस्या से राम और लक्ष्मण को पाया था, तथापि वे विद्वानों के बड़े भक्त थे, इसलिए लक्ष्मण सहित राम को विश्वामित्र मुनि के लिए दे दिया; क्योंकि रघुवंशियों की सदा से यह रीति चली आती है कि यदि कोई उनसे प्राण भी मांगे, तो याचक को विमुख नहीं लौटाते ॥ २ ॥

यावदादिशति पार्थिवस्तयोर्निर्गमाय पुरमार्गसंस्क्रियाम् ।
तावदाशु विदधे मरुत्सखैः सा सपुष्पजलवर्षिभिर्घनैः ॥ ३ ॥

अन्वयः—पार्थिवः तयोः निर्गमाय पुरमार्गसंस्क्रियां यावत् आदिशति तावत् मरुत्सखैः सपुष्पजलवर्षिभिः घनैः सा आशु विदधे।

यावदिति। पार्थिवः पृथिवीश्वरस्तयो रामलक्ष्मणयोर्निर्गमाय निष्क्रमणाय पुरमार्गसंस्क्रियां धूलिसम्मार्जनगन्धोदकसेचनपुष्पोपहाररूपसंस्कारं यावदादि- शत्याज्ञापयति तावन्मरुत्सखैर्वायुसखैः। अनेन धूलिसम्मार्जनं गम्यते।

Page 411Permalink

३५२ रघुवंशमहाकाव्ये

सपुष्पजलवर्षिभिः पुष्पसहितजलवर्षिभिर्घनैः सा मार्गसंस्क्रिया आशु विदधे विहिता। एतेन देवकार्यप्रवृत्तयोर्देवानुकूल्यं सूचितम् । भावार्थ—राजा दशरथ ने जब तक उन दोनों को नगर से बाहर जाने के लिए मार्ग सजाने की आज्ञा दी, तब तक वायु ने धूलि साफ कर दी, मेघों ने जल को छिड़कने का कार्य कर दिया और देवताओं ने आकाश से पुष्प वर्षा कर मार्ग की सजावट कर दी ॥ ३ ॥

तौ निदेशकरणोद्यतौ पितुर्धन्विनौ चरणयोर्निपेततुः । भूपतेरपि तयोः प्रवत्स्यतोर्नम्रयोरुपरि बाष्पविन्दवः ॥ ४ ॥

अन्वयः—निदेशकारणोद्यतौ धन्विनौ तौ पितुः चरणयोः निपेततुः भूपतेः अपि बाष्पविन्दवः प्रवस्यतोः तयोः उपरि (निपेतुः) । ताविति। निदेशकरणोद्यतौ पित्राज्ञाकरणोद्युक्तौ धन्विनौ धनुष्मन्तौ तौ कुमारौ पितुश्चरणयोर्निपेततुः। प्रणतावित्यर्थः। भूपतेरपि बाष्पविन्दवः प्रवत्स्यतोः प्रवासं करिष्यतोः अत एव नम्रयोः प्रणतयोः । “नमिकम्पि०” इति रप्रत्ययः । तयोरुपरि निपेततुः पतिताः । भावार्थ—पिता की आज्ञा का पालन करने के लिए प्रस्तुत और धनुष लिये हुए उन दोनों राजकुमारों ने अपने पिता के चरणों पर झुक कर प्रणाम किया और बाहर जाने के लिए उद्यत एवं अपने चरणों पर झुके हुए उन दोनों के ऊपर दशरथ जी की आंखों से आंसू के बूंद टपक पड़े ॥ ४ ॥

तौ पितुर्नयनजेन वारिणा किञ्चिदुक्षितशिखण्डकावुभौ । धन्विनौ तमृषिमन्वगच्छतां पौरदृष्टिकृतमार्गतोरणौ ॥ ५ ॥

अन्वयः—पितुः नयनजेन वारिणा किञ्चित् उक्षितशिखण्डकौ तौ उभौ पौर- दृष्टिकृतमार्गतोरणौ तं ऋषि अन्वगच्छताम् । ताविति। पितुर्नयनजेन वारिणा किञ्चिदुक्षितशिखण्डकावीषत्सिक्तचूडौ । 'शिखा चूडा शिखण्डः स्यात्' इत्यमरः । “शेषाद्विभाषा” इति कप्प्रत्ययः । धन्विनौ तावुभौ पौरदृष्टिभिः कृतानि मार्गतोरणानि सम्पाद्यानि कुवलयानि ययोस्तौ तथोक्तौ । सदृशो निरीक्ष्यमाणावित्यर्थः। तमृषिमन्वगच्छताम् । भावार्थ—राजा दशरथ के नेत्र से निःसृत जलबिन्दुओं से कुछ भीगे हुए काकपक्ष वाले धनुर्धारी वे दोनों राजकुमार विश्वामित्रजी के पीछे चले जा रहे थे, उस समय उठे हुए पुरवासियों की आंखें ऐसी दीखती थीं, मानों नेत्रों का तोरण मार्ग में सजाया गया हो ॥ ५ ॥

एकादशः सर्गः ३५३

Page 412Permalink

एकादशः सर्गः ३५३

लक्ष्मणानुचरमेव राघवं नेतुमच्छदृषिरित्यसौ नृपः । आशिषं प्रयुयुजे न वाहिनीं सा हि रक्षणविधौ तयोः क्षमा ॥ ६ ॥

**अन्वयः—**ऋषिः लक्ष्मणानुचरं एवं नेतुं ऐच्छत् इति असौ नृपः आशिषं प्रयुयुजे वाहिनीं न हि सा एव तयोः रक्षणविधौ क्षमा ( आसीत् ) ।

लक्ष्मणेति । ऋषिलक्ष्मणानुचरमेव लक्ष्मणमात्रानुगं तं राघवं नेतुमैच्छदिति हेतोः, असौ नृप आशिषं प्रयुयुजे प्रयुक्तवान् । वाहिनीं सेनां न प्रयुयुजे न प्रेषितवान् । हि यस्मात्साऽऽशीरेव तयोः कुमारयोः रक्षणविधौ क्षमा शक्ता ।

**भाषार्थ—**विश्वामित्र जी लक्ष्मण के साथ राम को ले जाना चाहते थे, इस लिए राजा दशरथ ने उनकी सहायता के लिए अपनी सेना नहीं भेजी, केवल आशीर्वाद दिया, क्योंकि उनका आशीर्वाद ही रक्षा के लिए पर्याप्त था ॥ ६ ॥

मातृवर्गचरणस्पृशौ मुनेस्तौ प्रपद्य पदवीं महौजसः । रेजतुर्गतिवशात्प्रवर्तिनौ भास्करस्य मधुमाधवाविव ॥ ७ ॥

**अन्वयः—**मातृवर्गचरणस्पृशौ तौ महौजसः मुनेः पदवीं प्रपद्य भास्करस्य गतिवशात्प्रवर्तिनौ मधुमाधवौ इव रेजतुः ।

मातृवर्गेति । मातृवर्गस्य चरणान्स्पृशत इति मातृवर्गचरणस्पृशौ कृतमातृवर्ग-नमस्कारावित्यर्थः । "स्पृशोऽनुदके क्विन्" इति क्विन्प्रत्ययः । तौ महौजसो मुनेः पदवीं प्रपद्य महौजसो भास्करस्य गतिवशान्मेषादिराशिसंक्रान्त्यनुसारात्प्रवर्तिनौ मधुमाधवाविव चैत्रवैशाखाविव रेजतुः । "फणां च सप्तानाम्" इति वैकल्पिकायोत्त्वा-ऽभ्यासलोपौ । 'स्याच्चै त्रे चैत्रिको मधुः' इति 'वैशाखे माधवो राधः' इति चामरः ।

**भाषार्थ—**माताओं के चरणों को छूकर वे दोनों राजकुमार उस महातेजस्वी मुनि के पीछे-पीछे चलते हुए ऐसे सुशोभित होते थे, मानों सूर्य के पीछे-पीछे चैत्र और वैशाख मास चले जा रहे हों ॥ ७ ॥

वीचिलोलभुजयोस्तयोर्गतं शैशवाच्चपलमप्यशोभत । तोयदागम इवोद्धभिद्ययोर्नामधेयसदृशं विचेष्टितम् ॥ ८ ॥

**अन्वयः--**वीचिलोलभुजयोः तयोः शैशवात् चपलं अपि गतम् अशोभत किमिव तोयदागमे उद्धघभिद्ययोः नामधेयसदृशम् विचेष्टितम् इव ।

वीचीति । वीचिलोलभुजयोस्तरङ्गचञ्चलबाह्वोः । इदं विशेषणं नदोपमान-सिद्ध्यर्थं वेदितव्यम् । तयोश्चपलं चञ्चलमपि गतं गतिः शैशवाद्धेतोरशोभत । किमिव ? तोयदागमे वर्षासमये उज्जहत्युदकमित्युद्धघः । भिनत्ति कूलमिति भिद्यः । "भिद्योद्धघोनदे" इति क्यबन्तो निपातितौ । उद्धघभिद्ययोर्नदविशेष-

२३ र० स०

Page 413Permalink
३५४रघुवंशमहाकाव्ये

योर्नामधेयसदृशं नामानुरूपं विचेष्टितमिव उदकोज्झन-कूलभेदनरूपव्यापार इव । समयोत्पन्नं चापलमपि शोभत इति भावः ।

भाषार्थ—बचपन के कारण लहरों के समान चंचलबाहु वाले उन दोनों राजकुमारों का चलना ऐसा सुन्दर लग रहा था, मानो वर्षार्ऋतु में उद्घ और भिद्य नामक दो नद लहराते इठलाते और तटों को तोड़ते हुए चले जा रहे हों ॥ ८ ॥

तौ बलातिबलयोः प्रभावतो विद्ययोः पथि मुनिप्रदिष्टयोः ।
मम्लतुर्न मणिकुट्टिमोचितौ मातृपार्श्वपरिवर्तिनाविव ॥ ९ ॥

अन्वयः—मणिकुट्टिमोचितौ तौ पथि मुनिप्रदिष्टयोः बलातिबलयोः विद्ययोः प्रभावतः सामर्थ्यान्मातृपार्श्वपरिवर्तिनौ इव न मम्लतुः ।

ताविति । मणिकुट्टिमोचितौ मणिबद्धभूमिसंचारोचितौ तौ मुनिप्रदिष्टयोः कौशिकेनोपदिष्टयोर्बलातिबलयोर्विद्ययोर्बलातिवलाख्ययोर्मन्त्रयोः प्रभावतः सामर्थ्यान्मातृपार्श्वपरिवर्तिनौ मातृसमीपवर्तिनाविव पथि न मम्लतुः । न म्लानावित्यर्थः । अत्र रामायणश्लोकः—'क्षुत्पिपासे न ते राम ! भविष्येते नरोत्तम ! बलामतिबलां चैव पठतः पथि राघव !' इति ।

भाषार्थ—मार्ग में विश्वामित्र जी ने उन्हें बला और अतिबला नाम की दो विद्यायें सिखा दीं, जिससे मार्ग में चलते हुए उन दोनों राजकुमारों को न तो थकान मालूम हो रही थी, न भूख प्यास ही लगती थी । उन्हें ऐसा सुख हो रहा था, मानों मणियों से जड़े हुए अपने भवनों में अपनी माताओं के आस-पास घूम रहे हों ॥ ६ ॥

पूर्ववृत्तकथितैः पुराविदः सानुजः पितृसखस्य राघवः ।
उह्यमान इव वाहनोचितः पादचारमपि न व्यभावयत् ॥ १० ॥

अन्वयः—वाहनोचितः सानुजः राघवः पुराविदः पितृसखस्य पूर्ववृत्तकथितैः उह्यमानः इव पादचारम् अपि न व्यभावयत् ।

पूर्वेति । वाहनोचितः सानुजो राघवः पुराविदः पूर्ववृत्ताभिज्ञस्य पितृसखस्य मुनेः पूर्ववृत्तकथितैः पुरावृत्तकथाभिरुह्यमान इव वाहनेन प्राप्यमाण इव । वहेर्घातोः कर्मणि शानच् । 'उह्यमानः' इत्यर्थे दीर्घादिरपपाठः दीर्घप्राप्त्यभावात् । पादचारमपि न व्यभावयन्न ज्ञातवान् ।

भाषार्थ—जो राम और लक्ष्मण हाथी, घोड़ा, रथ आदि वाहनों पर चढ़ कर चलते थे, उन्हें पैदल चलते हुए तनिक भी थकावट नहीं हुई, क्योंकि उनके पिता

एकादशः सर्गः । ३५५

Page 414Permalink

एकादशः सर्गः । ३५५

के मित्र पुराने और इतिहास के ज्ञाता विश्वामित्रजी उन्हें पुरानी कथायें सुनाते चले जा रहे थे । अर्थात् पुराने इतिहासों को सुनते हुए चलने के कारण पैदल चलने पर भी उन्हें कष्ट नहीं हुआ ॥ १० ॥

तौ सरांसि रसवद्भिरम्बुभिः कूजितैः श्रुतिसुखैः पत्रिणः ।
वायवः सुरभिपुष्परेणुभिश्छायया च जलदाः सिषेविरे ॥ ११ ॥

अन्वयः—सरांसि रसवद्भिः अम्बुभिः पत्रिणः श्रुतिसुखैः कूजितैः वायवः सुरभिपुष्परेणुभिः जलदाः छायया च तौ सिषेविरे ।

ताविति । तो राघवौ कर्मभूतौ सरांसि कर्तॄणि रसवद्भिर्मधुरैरम्बुभिः सिषेविरे । पत्रिणः पक्षिणः सुखयन्तीति सुखानि पचाद्यच् । श्रुतीनां सुखानि तैः कूजितैः वायवः सुरभिपुष्परेणुभिः सुगन्धिपरागैः जलदाश्छायया च सिषेविरे इति सर्वत्र संबध्यते ।

भाषार्थ—सरोवरों ने मधुर जल से, पक्षियों ने कानों को सुखप्रद कलरवों से, वायु ने सुगन्धित पुष्प परागों से, मेघों ने शीतल छाया से उन दोनों राजकुमारों की सेवा की ॥ ११ ॥

नाम्भसां कमलशोभिनां तथा शाखिनां च न परिश्रमच्छिदाम् ।
दर्शनेन लघुना यथा तयोः प्रीतिमापुरुभयोस्तपस्विनः ॥ १२ ॥

अन्वयः—तपस्विनः कमलशोभिनां अम्भसां तथा न परिश्रमच्छिदां शाखिनाम् च न यथा उभयोः तयोः लघुना दर्शनेन प्रीतिम् आपुः ।

नेति । तप एषामस्तीति तपस्विनः । "तपःसहस्राभ्यां विनीनो" इति विनिप्रत्ययः । लघुनेष्टेन । 'त्रिष्विष्टेऽल्पे लघुः' इत्यमरः । तयोरुभयोः कर्मभूतयोः दर्शनेन यथा प्रीतिमापुः तथा कमलशोभिनामम्भसां दर्शनेन नापुः । परिश्रमच्छिदां शाखिनां दर्शनेन च नापुः ।

भाषार्थ—कमलों से शोभायमान जल के दर्शन से परिश्रम को दूर करने वाले वृक्षों की छाया को देखकर भी आश्रमवासी तपस्वी इतना प्रसन्न नहीं हुए थे, जितना इन दोनों राजकुमारों को देखकर वे प्रसन्न हुए ॥ १२ ॥

स्थाणुदग्धवपुषस्तपोवनं प्राप्य दाशरथिरात्तकार्मुकः ।
विग्रहेण मदनस्य चारुणा सोऽभवत्प्रतिनिधिर्न कर्मणा ॥ १३ ॥

अन्वयः—स आत्तकार्मुकः दाशरथिः स्थाणुदग्धवपुषः तपोवनं प्राप्य चारुणा विग्रहेण मदनस्य प्रतिनिधिः अभवत् कर्मणा न ।

स्थाण्विति । स आत्तकार्मुकः दशरथस्यापत्यं पुमान्दाशरथी रामः । "अत

Page 415Permalink
३५६रघुवंशमहाकाव्ये

इन्,'' इतीञ्प्रत्ययः । स्थाणुर्हरः । 'स्थाणुः कीले हरे स्थिरे' इति विश्वः । तेन दग्धवपुषो मदनस्य तपोवनं प्राप्य चारुणा विग्रहेण कायेन 'विग्रहः समरे काये' इति विश्वः । प्रतिनिधिः प्रतिकृतिः सदृशोऽभवत्कर्मणा न पुनः देहेन मदनसुन्दर इति भावः ।

**भावार्थ—**जिस तपोवन में भगवान् शंकर ने काम को जलाया था, वहाँ जब दशरथनन्दन राम धनुष लिये हुए पहुँचे, तब मालूम पड़ा कि मानों वे वहां अपने शरीर की सुन्दरता से कामदेव के प्रतिनिधि बनकर आये हों, किन्तु कार्य से (कामदेव के प्रतिनिधि) नहीं ॥ १३ ॥

तौ सुकेतुसुतया खिलीकृते कौशिकाद्विदितशापया पथि ।
निन्यतुः स्थलनिवेशिताटनी लीलयैव धनुषी अधिज्यताम् ॥ १४ ॥

**अन्वयः—**कौशिकात् विदितशापया सुकेतुसुतया खिलीकृते पथि तौ स्थलनिवेशिताटनी लीलया एव धनुषी अधिज्यतां निन्यतुः ।

ताविति । रामायणवचनम्—‘‘अगस्त्यः परमःक्रुद्धस्ताडकामभिशप्तवान् । पुरुषादी महायक्षी विकृता विकृतानना । इदं रूपमपहाय दारुणं रूपमस्तु ते ।।’’ इति । तदेतदाह—विदितशापयेति । कौशिकादाख्यातुः । ‘‘आख्यातोपयोगे’’ इत्यापादानात्पञ्चमी । विदितशापया सुकेतुसुतया ताडकया खिलीकृते पथि । ‘खिलमप्रहतं स्थानम्’ इति हलायुधः । तौ रामलक्ष्मणौ स्थले निवेशिते अटनी धनुःकोटी याभ्यां तौ तथोक्तौ । ‘कोटिरस्याटनिः’ इत्यमरः । लीलयैव धनुषी अधिकृते । ज्ये मौर्व्यौ ययोस्ते अधिज्ये । ‘ज्या मोर्वीमातृभूमिषु’ इति विश्वः । तयोर्भावस्तत्तामधिज्यतां निन्यतुर्नीतवन्तौ नयतिर्द्विकर्मकः ।

**भावार्थ—**मार्ग में उन्हें वह सुकेतु की कन्या ताड़का नामक राक्षसी मिली। जिसने सारे वन को उजाड़ बना दिया था और जिसके शाप की कथा विश्वामित्र जी ने राम को पहले ही सुना दी । उसे देखते-देखते ही उन दोनों भाइयों ने अपने धनुष को पृथ्वी पर टेककर डोरी चढ़ा ली ॥ १४ ॥

ज्यानिनादमथ गृह्णती तयोः प्रादुरास बहुलक्षपाछविः ।
ताडका चलकपालकुण्डला कालिकेव निबिडा बलाकिनी ॥ १५ ॥

**अन्वयः—**अथ तयोः ज्यानिनादं गृह्णती बहुलक्षपाछविः चलकपालकुण्डला ताडका निबिडा बलाकिनी कालिका इव प्रादुः आस ।

ज्येति । अथ तयोर्ज्यानिनादं गृह्णती जानती । शृण्वतीत्यर्थः बहुलक्षपाछविः कृष्णपक्षरात्रिवर्णा । 'बहुलः कृष्णपक्षे च' इति विश्वः । चले कपाले एव कुण्डले

Page 416Permalink

एकादशः सर्गः ३५७

यस्याः सा तथोक्ता ताडका निबिडा सान्द्रा बलाकिनी वलाकावती । “व्रीह्या-दिभ्यश्च” इतीनिः । कालिकेव घनावलीव । 'कालिका योगिनीभेदे काष्ण्ये गौर्यां घनावलो' इति विश्वः । प्रादुरास प्रादुर्बभूव ।

**भाषार्थ—**इसके बाद उन दोनों के द्वारा किये गये धनुष टंकार को सुनते ही कानों में लटकी हुई मनुष्यों की खोपड़ियों को हिलाती हुई, अमावस्या की रात्रि के समान, काली कलूटी ताडका उनके आगे आकर इस प्रकार खड़ी हो गई, मानों बगुलों की पंक्ति में काली बदली हो ॥ १५ ॥

तीव्रवेगधुतमार्गवृक्षया प्रेतचीवरवसा स्वनोग्रया ।
अभ्यभावि भरताग्रजस्तया वात्ययेव पितृकाननोत्थया ॥ १६ ॥

**अन्वयः—**तीव्रवेगधुतमार्गवृक्षया प्रेतचीवरवसा स्वनोग्रया तया पितृकाननोत्थया वात्यया इव भरताग्रजः अभ्यभावि ।

तीव्रेति । तीव्रवेगेन धुताः कम्पिता मार्गवृक्षा यया तथोक्तया । प्रेतचीवराणि वस्त इति प्रेतचीवरवसाः तया प्रेतचीवरवसा । वसतेराच्छादनार्थात्क्विप् । स्वनेन सिंहनादेनोग्रया तया ताडकया पितृकानने श्मशान उत्थोत्पन्ना । “आतश्चोपसर्गे” इत्युत्पूर्वात्तिष्ठतेः कर्तरि कप्रत्ययः । तया वात्ययेव वातसमूहेनेव । “पाशादिभ्यो यः” । भरताग्रजो रामोऽभ्यभाव्यभिभूतः । कर्मणि लुङ् । तीव्रवेगेत्यादिविशेषणानि वात्यायामपि योज्यानि ।

**भाषार्थ—**बड़े वेग से मार्ग के वृक्षों को कंपाती हुई, प्रेतों का कफन पहनी हुई, भयंकर गर्जनेवाली और श्मशान से उठे बवंडर के समान आकृति वाली वह ताड़का राम के ऊपर टूट पड़ी ॥ १६ ॥

उद्यतैकभुजयष्टिमायतीं श्रोणिलम्बिपुरुषान्त्रमेखलाम् ।
तां विलोक्य वनितावधे घृणां पत्रिणा सह मुमोच राघवः ॥ १७ ॥

**अन्वयः—**उद्यतैकभुजयष्टिं आयतीं, श्रोणिलम्बिपुरुषान्त्रमेखलां तां विलोक्य राघवः वनितावधे घृणां पत्रिणा सह मुमोच ।

उद्यतेति । उद्यतोन्नमितैको भुज एव यष्टिर्यस्यास्ताम् । आयतीमायान्तीम् इण् धातोः शतरि “उगितश्च” इति ङीप् । श्रोणिलम्बीनि पुरुषाणामन्त्राण्येव मेखला यस्यास्ताम् इति विशेषणद्वयेनाप्याततायित्वं सूचितम् । अतएव तां विलोक्य राघवो वनितावधे स्त्रीवधनिमित्ते घृणां जुगुप्सां करुणां वा । 'जुगुप्सा करुणे घृणे' इत्यमरः । पत्रिणेषुणा सह । 'पत्री रोप इषुद्वयोः' इत्यमरः । मुमोच मुक्तवान् । आततायिवधे मनुः— “आततायिनमायान्तं हन्यादेवाविचारयन् । जिघांसन्तं जिघांसीयान्न तेन ब्रह्महा भवेत् ॥ नाततायिवधे दोषो हन्तुर्भवति कश्चन ॥” इति ।

Page 417Permalink
३५८रघुवंशमहाकाव्ये

भाषार्थ— लाठी के समान एक भुजा को ऊपर उठाई हुई और मनुष्यों की आंतों की करधनी बनाकर कमर में पहनी हुई उस ताड़का को आती हुई देखकर राम ने स्त्रीवध करने की घृणा और वाण दोनों एक साथ छोड़े ॥ १७ ॥

यच्चकार विवरं शिलाघने ताडकोरसि स रामसायकः।
अप्रविष्टविषयस्य रक्षसां द्वारतामगमदन्तकस्य तत् ॥ १८ ॥

अन्वयः— स रामसायकः शिलाघने ताडकोरसि यत् विवरं चकार तत् रक्षसां अप्रविष्टविषयस्य अन्तकस्य द्वारतां अगमात् ।

यदिाति । स रामसायकः शिलावद्घने सान्द्रे ताडकोरसि यद्विवरं रन्ध्रं चकार, तद्विवरं रक्षसामप्रविष्टविषयस्य । अप्रविष्टरक्षोदेशस्येत्यर्थः । सापेक्षत्वेऽपि गमकत्वात्समासः । 'विषयः स्यादिन्द्रियार्थे देशे जनपदेऽपि च' इति विश्वः । अन्तकस्य यमस्य द्वारतामगमत् । इयं प्रथमा रक्षोमृतिरिति भावः ।

भाषार्थ— रामचन्द्रजी के उस बाण ने पत्थर की चट्टान के समान अति कठोर ताड़का की छाती में जो छिद्र किया, वह ऐसा लगा मानों राक्षसों के देश में नहीं पहुँचे हुए यमराज को प्रवेश करने के लिए द्वार खोल दिया हो ॥ १८ ॥

बाणभिन्नहृदया निपेतुषी सा स्वकाननभुवं न केवलम्।
विष्टपत्रयपराजयस्थिरां रावणश्रियमपि व्यकम्पयत् ॥ १९ ॥

अन्वयः— बाणभिन्नहृदया निपेतुषी ( सती ) सा केवलं स्वकाननभुवं न व्यकम्पयत् ( किन्तु ) विष्टपत्रयं पराजयस्थिरां रावणश्रियं अपि व्यकम्पयत् ।

बाणेति । बाणभिन्नहृदया निपेतुषी निपतिता सती ‘’क्वसुश्च’’ इति क्वसु-प्रत्ययः । ‘’उगितश्च’’ इति ङीप् । सा केवलामेकाम् । ‘निर्णति केवलमिति त्रिलिङ्गं त्वेक कृत्स्नयोः’ इत्यमरः । स्वकाननभुवं न व्यकम्पयत् किंतु विष्टपत्रयस्य लोकत्रयस्य पराजयेन स्थिरां रावणश्रियमपि व्यकम्पयत् । ताड़कावधश्रवणेन रावणस्यापि भयमुत्पन्नमिति भावः ।

भाषार्थ— राम के बाण से ताड़का की छाती फट गई और वह नीचे गिर गई, उसके गिरने से केवल उस जंगल की भूमि ही नहीं कांप उठी किन्तु तीनों लोकों को जीतने से पाई हुई रावण की राजलक्ष्मी भी कांप उठीं ॥ १९ ॥

अत्र ताडकाया अभिसारिकायाः समाधिरभिधीयते—
राममन्मथशरेण ताडिता दुःसहेन हृदये निशाचरी।
गन्धवद्रुधिरचन्दनोक्षिता जीवितेशवसतिं जगाम सा ॥ २० ॥

एकादशः सर्गः ३५९

Page 418Permalink

एकादशः सर्गः ३५९

अन्वयः—सा निशाचरी दुःसहेन राममन्मथशरेण हृदये ताडिता गन्धव-द्रुधिरचन्दनोक्षिता जीवितेशवसतिं जगाम।

रामेति। सा निशासु चरतीति निशाचरी राक्षसी अभिसारिका च। दुःसहेन सोढुमशक्येन राम एव मन्मथः। अन्यत्राभिरामो मन्मथः तस्य । शरेण हृदय उरसि मनसि च। ‘हृदयं मनउरसोः’ इति विश्वः। ताडिता विद्धाङ्गा गन्धवद्दुर्गन्धि यद्रुधिरमसृक्तदेव चन्दनं तेनोक्षिता लिप्ता। अपरत्र गन्धवती सुगन्धिनी ये रुधिरचन्दने कुङ्कुमचन्दने ताभ्यामुक्षिता। यद्वा गन्धवत् रुधिरमिव चन्दनं। हरिचन्दनमित्यर्थः। ‘रुधिरं कुङ्कुमासृजोः’ इत्युभयत्रापि विश्वः। जीवितेशस्यान्तकस्य प्राणेश्वरस्य च वसतिं जगाम।

भाषार्थ—कामदेव के समान सुन्दर राम के दुःसह बाण से हृदय में विद्ध और दुर्गन्ध रुधिर से लथपथ हुई ताड़का, इस प्रकार यमराज की पुरी में चली गई, मानो दुःसह काम के बाण से घायल हुई कोई अभिसारिका नायिका चन्दन का लेप करके अपने प्रिय के घर जा रही हो॥ २०॥

नैर्ऋतघ्नमथ मन्त्रवन्मुनेः प्रापदस्त्रमवदानतोषितात् ।
ज्योतिरिन्धननिपाति भास्करात्सूर्यकान्त इव ताडकान्तकः ॥ २१ ॥

अन्वयः—अथ ताडकान्तकः अवदानतोषितात् मुनेः नैर्ऋतघ्नं मन्त्रवद् अस्त्रं सूर्यकान्तः भास्करात् इन्धननिपाति, ज्योतिः इव प्रापत् ।

नैर्ऋतेति । अथानन्तरं ताडकान्तको रामः अवदानं पराक्रमः । ‘पराक्रमोऽवदानं स्यात्’ इति भागुरिः । तेन तोषितान्मुनेः नैर्ऋतान् राक्षसान् हन्तीति नैर्ऋतघ्नम् । “अमनुष्यकर्तृके च” इति ठक् । मन्त्रवन्मन्त्रयुक्तमस्त्रं सूर्यकान्तो मणिविशेषो भास्करादिन्धनानि निपातयतीतीन्धननिपाति काष्ठदाहकं ज्योतिरिव प्रापत् प्राप्तवान् ।

भाषार्थ—इसके बाद ताड़का का वध करनेवाले राम ने ताड़का के मारने से परम प्रसन्न विश्वामित्र मुनि से राक्षसों का संहार करने वाला मंत्र सहित दिव्य अस्त्र इस प्रकार प्राप्त किया, जिस प्रकार सूर्यकान्तमणि सूर्य से लकड़ी को जलाने वाला तेज प्राप्त करता है, अर्थात् विश्वामित्र ने राम को दिव्यास्त्र दिया ॥ २१॥

वामनाश्रमपदं ततः परं पावनं श्रुतमृषेरुपेयिवान्।
उन्मनाः प्रथमजन्मचेष्टितान्यस्मरन्नपि बभूव राघवः ॥ २२ ॥

अन्वयः—ततः परं राघवः ऋषेः श्रुतं पावनं वामनाश्रमपदं उपेयिवान् प्रथमजन्मचेष्टितानि अस्मरन् अपि उन्मना बभूव ।

वामनेति। ततः परं राघवः ऋषेः कौशिकादाख्यातु। श्रुतं पावनं शोधनं वाम-

Page 419Permalink

३६० रघुवंशमहाकाव्ये

नस्य स्वपूर्वावतारविशेषस्याश्रमपदमूपेयिवानुपगतः सन्। "उपेयिवाननाश्वाननूचा- नश्च" इति निपातः। प्रथमजन्मचेष्टितानि रामवामनयोरैक्यात्स्मृतियोग्यान्यपि रामस्याज्ञानावतारत्वेन संस्कारदौर्बल्यादस्मरन्नपि उन्मना उत्सुको बभूव।

**भाषार्थ—**वहां से रामजी वामन के पवित्र आश्रम में गये, जिसके विषय में विश्वामित्रजी ने उन्हें पहले ही सब बता दिया था। वहां अपने पूर्व जन्म (वामनावतार) की लीलाओं का ठीक-ठीक स्मरण न होने पर वे कुछ उत्कण्ठित से हो गये ॥ २२ ॥

आससाद मुनिरात्मनस्ततः शिष्यवर्गपरिकल्पितार्हणम् । बद्धपल्लवपुटाञ्जलिद्रुमं दर्शनोन्मुखमृगं तपोवनम् ॥ २३ ॥

**अन्वयः—**ततः मुनिः शिष्यवर्गपरिकल्पितार्हणं बद्धपल्लवपुटाञ्जलिद्रुमं दर्शनोन्मुखमृगं तपोवनं आससाद ।

आससादेति। ततो मुनिः शिष्यवर्गेण परिकल्पिता सज्जिताऽर्हणा पूजासामग्री यस्मिंस्तत्तथोक्तम्। 'सपर्याचार्हणाः समाः इत्यमरः। बद्धा पल्लवपुटा एवाञ्जलयो यैस्ते तथाभूता द्रुमा यस्मिंस्तत्तथोक्तं दर्शनेन मुनिदर्शनेनोन्मुखा मृगा यस्मिंस्तत्तत् आत्मनस्तपोवनमाससाद। एतेन विशेषणत्रयेणातिथिसत्कारतच्छील्यविनय-शान्तयः सूचिताः।

**भाषार्थ—**वहां से विश्वामित्रजी अपने उस आश्रम पर पहुँच गये, जहाँ शिष्यों ने पूजा की सब सामग्री इकट्ठी कर रखी थी, वृक्ष अपने पत्तों की अञ्जलि बाँधे खड़े और मृग बड़ी उत्सुकता से इन लोगों को देख रहे थे ॥ २३ ॥

तत्र दीक्षितमृषिं ररक्षतुर्विघ्नतो दशरथात्मजौ शरैः । लोकमन्धतमसात्क्रमोदितौ रश्मिभिः शशिदिवाकराविव ॥ २४ ॥

**अन्वयः—**तस्य दशरथात्मजौ दीक्षित ऋषिं शरैः विघ्नतः क्रमोदितौ शशिदिवाकरौ रश्मिभिः अन्धतमसात् लोकम् इव ररक्षतुः ।

तत्रेति। तत्र तपोवने आश्रमे दशरथात्मजौ दीक्षितं दीक्षासंस्कृतमृषिं शरैर्विघ्नतो विघ्नेभ्यः क्रमेण पर्यायेण रात्रिदिवसयोरुदितौ शशिदिवाकरौ रश्मिभिः किरणैरन्धतमसाद्गाढध्वान्तात् । 'ध्वान्ते गाढेऽन्धतमसम्' इत्यमरः। अवसमन्धे-ष्यस्तमसः" इति समासान्तोऽच्प्रत्ययः। लोकमिव ररक्षतुः। रक्षणप्रवृत्तावभूतामित्यर्थः।

**भाषार्थ—**जिस प्रकार उदय को प्राप्त हुए सूर्य और चन्द्रमा बारी-बारी से अपनी किरणों से पृथ्वी का अन्धकार दूर करते हैं, उसी प्रकार आश्रम में राजा दशरथ के दोनों पुत्र राम और लक्ष्मण ने यज्ञ करने के लिए दीक्षित विश्वामित्रजी की बाणों द्वारा विघ्नों से रक्षा की ॥ २४ ॥