भारतकोश
वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

Veda Swaroop Vimarsha of Swami Karpatri Maharaj

धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा

DevanagariHindipublished237 पृष्ठ

पृष्ठ 101, कुल 237 में से

संदर्भ में पढ़ें
पृष्ठ 101

१०८ वेदस्वरूप-विमर्शः तु ईश्वरप्रणीताः। पुरुषाणां तु न पश्यन्त्या वाच उत्पादने व्यापार इत्युक्तमेव उपरिष्टात्। अथ आदिश्वक्तॄणां ज्ञानप्रयोज्यशब्दसमूहाभिप्रायेण श्रोतॄणां ज्ञान- प्रयोजकशब्दसमूहाभिप्रायेण वा प्रयुक्ते वेदशब्दे तु ऋषिप्रणीताः वेदाः, ऋषिभिरेव ईश्वरप्रसादेन ज्ञानमवाप्य मन्त्र-ब्राह्मणात्मकशब्दसमूहस्य प्रयुक्तत्वात्। तत्रापि शब्दनित्यतावादे वाक्यरचनाभिप्रायेण प्रणीतत्वम्, अनित्यतावादे तु शब्दाभिप्रायेणापि, वाक्य-स्फोटवादिनां वाक्यनित्यता- पक्षे तादृश-वाक्याभिव्यञ्जकप्रयत्नव्यञ्जिकर्तृत्वमात्रेण प्रणेतृत्वमिति। तदपि पूर्वोक्तरीत्याऽसङ्गतमेव; मन्त्रब्राह्मणात्मकशब्दराशौ तद्विशेष- नियताक्षरपद्य-गद्य-गीति-तन्मिश्रात्मकेषु ऋगादिष्वेव वेद-तद्विशेष- शब्दानां सर्वत्र प्रयोगदर्शनेन उक्तसमुदायवाचकत्वाभावात्, अन्यत्र तु प्रयोगस्य लाक्षणिकत्वात्। यद्यपि 'वेदनं वेदः, विद्यतेऽनेनेति वेदः, वेद्यतेऽनेनेति वेदः, विद्यन्ते वेद्यन्तेवा ये ते वेदा' इत्यादिद्व्युत्पत्तिभिः प्रत्यक्षादिप्रमाणेषु आलोकादि- सहकारिकारणेषु घटादिव्यर्थेषु च वेदशब्दप्रयोगः प्रसज्यते, परं न तथा शिष्टप्रयोगो दृश्यते। वेदशब्दस्य अनेके अर्था भवन्तु नाम, प्रकृते तु रूढिर्योगमपहरतीति न्यायेन योगरूढार्थस्यैव शिष्टैः परिगृहीतत्वात्, तत्रैव पौरुषेयत्वाऽपौरुषेयत्व-जीवेश्वर-कृतत्वाद्विना विप्रतिपत्तिरिति ज्ञानाद्यंशेन अपौरुषेयत्वसमर्थनाभासो व्यर्थ एव, तत्र विप्रतिपत्तेरेवा- भावात्। समुदाये प्रयुक्तस्य शब्दस्य तदवयवेषु प्रवृत्तिः रूढ्यर्थाभिप्राये- णैव, 'पञ्चाल आगतः, ग्रामो दग्धः, ग्राम आगत' इति रूढशब्दानाम् उदाहरणरूपेण ग्रहणात्। नात्र समुदाये वेद-शब्दस्य रूढिः, योगेन तु सम्पाद्यतेऽनेकार्थता। 'त्रयो वेदाः, त्रयी विद्या, त्रयं ब्रह्म' इत्यादि-वेद-ब्रह्म-विद्या-शब्दा अपि शब्दराशिपरा एव। न च शब्दे विद्याशब्दप्रयोगाभावः शङ्कनीयः; "पञ्चाक्षरी-विद्या, पञ्चदशी, षोडशी विद्येत्यादौ मन्त्रेषु विद्याशब्द- प्रयोगदर्शनात्, 'विद्यां जपेत्' इति शिष्टप्रयोगदर्शनाच्च। नहि 'वेदं वेदस्वरूप-विमर्शः १०९ कृत्वा वेदिं करोति' इत्यादौ वेदशब्दस्य व्युत्पत्तिलभ्यास्ते तेऽर्था ग्रहीतुं शक्याः केनापि, पारम्पर्यविरोधात्। यदप्युक्तम्- "मन्त्रशब्दः शब्दोपदिष्टविज्ञाने रूढः शब्देऽपि प्रवर्तते" इति। तदपि न युक्तम्; निष्प्रमाणकत्वात्। 'मन्त्रान् सम्प्राहुरित्यत्र तु शब्दाभिप्रायेणैव तत्प्रयोगस्य युक्तत्वात्, तथैव शिष्टसम्मतत्वाच्च। न च 'यदेतन्मण्डलं तपति तन्महदुक्थम्, 'मण्डलमेवर्च्ः', 'वाग्वा असा- वादित्यः' इत्यादिषु तेषु तेषु वैज्ञानिकेष्वर्थेषु वागादिशब्दप्रयोगेण अस्यैव समुदायवाचकतेति वाच्यम्; 'प्राणो वा अर्णवः, मनो वै समुद्रः' इत्यादिष्वित् उपासनार्थमौपचारिकभेदप्रयोगस्यैव तत्र तत्रोक्तत्वात्। यथा 'प्राणो वा' इत्यादिना प्राणार्णवयोर्न भेदः, न वा अर्णवस्य प्राण- शब्दवाच्यत्वं ज्ञायते, तथैव नोक्थादित्ययोः अभेदो न वा आदित्यस्य उक्थादिशब्दवाच्यत्वम् 'वाग्वा' इत्यादिना विज्ञायते। किन्तु केनचिद् योगेन

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय) · पृष्ठ 101, कुल 237 में से · BharatKosha