भारतकोश
अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

Abhijnanashakuntalam with Sanskrit-Hindi Commentary

महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा

DevanagariSanskritpublished540 पृष्ठ

पृष्ठ 311, कुल 540 में से

संदर्भ में पढ़ें
पृष्ठ 311

पञ्चमोऽङ्कः

२२९

औत्सुक्यमात्रमवसादयति प्रतिष्ठा
क्लिश्नाति लब्धपरिपालनवृत्तिरेनम् ।
नातिश्रमापनयनाय ^१ न च श्रमाय
राज्यं स्वहस्तधृतदण्डमिवातपत्रम् ॥ ६॥

खेदं = कष्टम् अधिकारनियोगं = राज्यकार्यंकारणात् परिश्रमम्, निरूप्य अभिनोय, नाटयित्वा ) सर्वः = सकलः, जन्तुः = जीवः प्रार्थितम् = अभीष्टं स्वाभिलषितम्, अर्थं = वस्तु अधिगम्य = लब्ध्वा, ईप्सितं पदार्थं प्राप्य सुखी = सन्तुष्टः सम्पद्यते = भवति । सर्वेषामेव स्वेष्टसिद्धौ सुखसम्पत्तिर्जायते इत्यर्थः । राज्ञां = प्रजापालनाधिकृतानां नृपाणां तु चरितार्थता = अभीष्टसिद्धिः इष्टलाभः, राज्यप्राप्तिः, दुःखमुत्तरं यस्याः सा दुःखोत्तरा = दुःखमात्रसारैव । न्यूनसुखा = अधिकदुःखा च । अथवा चरितार्थता = अभीष्टार्थलाभजनितं सुखं दुःखान्तरा = दुःखान्तरावकाशसंपादिका । राज्ञां सुखमपि दुःखबहुलमेव भवतीति भावः । उक्तमर्थमुपपादयति—औत्सुक्यमात्रेति ।

अन्वयः—प्रतिष्ठा औत्सुक्यमात्रम् अवसादयति, लब्धपरिपालनवृत्तिः एनं क्लिश्नाति, स्वहस्तधृतदण्डम्, आतपत्रमिव राज्यम्, अतिश्रमापनयनाय न, श्रमाय च न ( भवति ) ।

उक्तमर्थमेवोपपादयति राजा दुष्यन्तः—औत्सुक्यमात्रमिति । प्रजापालनाधिकृतानां मादृशानां नृपाणां तु प्रतिष्ठा—सर्वोत्कृष्टं गौरवम्, औत्सुक्यमात्रम्=औत्सुक्यमेव औत्सुक्यमात्रम्–अशेषमुत्कण्ठाम् अवसादयति = समापयति, समाप्तिं नयति लब्धस्य = प्राप्तस्य फलस्य यत् परितः सर्वतोभावेन पालनं=रक्षणम् तत्र या वृत्तिः = व्यापारश्चेति लब्धपरिपालनवृत्तिः, एनं = नृपम्–क्लिश्नाति = पीडयति, क्लेशं जनयत्येव । राज्यप्रतिष्ठाजन्यं सुखं राज्यपरिपालने दुःखं निवारयितुं न शक्नोति । राज्यस्य फलंम् इच्छाविनोदमात्रम्, परं तद्रक्षणवर्द्धनादौ भूयान् प्रपञ्चः महानायासोऽपि भवति । यावत् सुखं राज्ये नास्ति, तावत्तत्र राज्यरक्षणे दुःखमेवेति भावः । स्वहस्ते = निजकरकमले धृतः = स्थापितः दण्डः = अवष्टम्भयष्टिविशेषः यस्य तत् स्वहस्तधृतदण्डम्–स्वकरतलकलितदण्डम् आतपात् त्रायते इत्यातपत्रम् = छत्रमिव राज्यम् अतिश्रमापनयनाय = श्रमाणा मत्यपनयनाय, सर्वथा श्रमंनिवारणाय न, श्रमाय च न=अतिश्रमाय च न । राज्ये यथा श्रमः तथा न सुखम्, नैव विश्रान्तिश्चेत्यर्थः ।


अभीष्ट वस्तु को पाकर सुखी हो जाते हैं, किन्तु राजाओं को तो अभीष्ट वस्तु की प्राप्ति भी दुःखप्रद ही होती है। क्योंकि—

राज्य की प्राप्ति से जो प्रतिष्ठा प्राप्त होती है, वह तो केवल मनुष्य की उच्च आकाङ्क्षा मात्र को ही शान्त करती है, किन्तु राज्य की रक्षा करना तो बड़ा ही कठिन एवं कष्टप्रद है। जैसे मनुष्य को छतरी से जितना सुख नहीं होता, उससे अधिक कष्ट उसकी डण्डी हाथ में पकड़े रहने से होता है। उसी प्रकार राज्य भी जितना सुख नहीं देता उससे अधिक परिश्रम और कष्ट ही देता है ॥६॥

विशेष—राज्यग्रहण करने वालों को जहाँ अधिकार मिलता है वहाँ कर्तव्य के कारण कष्ट भी उठाना पड़ता है। जैसे छाते के दण्ड को पकड़े रहने से परिश्रम ही ज्यादा होता है, उसकी अपेक्षा छाते से मनुष्य को सुख कम मिलता है, वैसे ही राज्य की प्राप्ति से जितना सुख नहीं मिलता उससे अधिक चिन्ता, कष्ट और परिश्रम ही होता है। इस प्रकार छाता जहाँ धूप आदि कष्ट से बचाता है


पाठा— १. यथा श्रमाय ।