अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)
Abhijnanashakuntalam with Sanskrit-Hindi Commentary
महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा
पञ्चमोऽङ्कः
२२९
औत्सुक्यमात्रमवसादयति प्रतिष्ठा
क्लिश्नाति लब्धपरिपालनवृत्तिरेनम् ।
नातिश्रमापनयनाय ^१ न च श्रमाय
राज्यं स्वहस्तधृतदण्डमिवातपत्रम् ॥ ६॥
खेदं = कष्टम् अधिकारनियोगं = राज्यकार्यंकारणात् परिश्रमम्, निरूप्य अभिनोय, नाटयित्वा ) सर्वः = सकलः, जन्तुः = जीवः प्रार्थितम् = अभीष्टं स्वाभिलषितम्, अर्थं = वस्तु अधिगम्य = लब्ध्वा, ईप्सितं पदार्थं प्राप्य सुखी = सन्तुष्टः सम्पद्यते = भवति । सर्वेषामेव स्वेष्टसिद्धौ सुखसम्पत्तिर्जायते इत्यर्थः । राज्ञां = प्रजापालनाधिकृतानां नृपाणां तु चरितार्थता = अभीष्टसिद्धिः इष्टलाभः, राज्यप्राप्तिः, दुःखमुत्तरं यस्याः सा दुःखोत्तरा = दुःखमात्रसारैव । न्यूनसुखा = अधिकदुःखा च । अथवा चरितार्थता = अभीष्टार्थलाभजनितं सुखं दुःखान्तरा = दुःखान्तरावकाशसंपादिका । राज्ञां सुखमपि दुःखबहुलमेव भवतीति भावः । उक्तमर्थमुपपादयति—औत्सुक्यमात्रेति ।
अन्वयः—प्रतिष्ठा औत्सुक्यमात्रम् अवसादयति, लब्धपरिपालनवृत्तिः एनं क्लिश्नाति, स्वहस्तधृतदण्डम्, आतपत्रमिव राज्यम्, अतिश्रमापनयनाय न, श्रमाय च न ( भवति ) ।
उक्तमर्थमेवोपपादयति राजा दुष्यन्तः—औत्सुक्यमात्रमिति । प्रजापालनाधिकृतानां मादृशानां नृपाणां तु प्रतिष्ठा—सर्वोत्कृष्टं गौरवम्, औत्सुक्यमात्रम्=औत्सुक्यमेव औत्सुक्यमात्रम्–अशेषमुत्कण्ठाम् अवसादयति = समापयति, समाप्तिं नयति लब्धस्य = प्राप्तस्य फलस्य यत् परितः सर्वतोभावेन पालनं=रक्षणम् तत्र या वृत्तिः = व्यापारश्चेति लब्धपरिपालनवृत्तिः, एनं = नृपम्–क्लिश्नाति = पीडयति, क्लेशं जनयत्येव । राज्यप्रतिष्ठाजन्यं सुखं राज्यपरिपालने दुःखं निवारयितुं न शक्नोति । राज्यस्य फलंम् इच्छाविनोदमात्रम्, परं तद्रक्षणवर्द्धनादौ भूयान् प्रपञ्चः महानायासोऽपि भवति । यावत् सुखं राज्ये नास्ति, तावत्तत्र राज्यरक्षणे दुःखमेवेति भावः । स्वहस्ते = निजकरकमले धृतः = स्थापितः दण्डः = अवष्टम्भयष्टिविशेषः यस्य तत् स्वहस्तधृतदण्डम्–स्वकरतलकलितदण्डम् आतपात् त्रायते इत्यातपत्रम् = छत्रमिव राज्यम् अतिश्रमापनयनाय = श्रमाणा मत्यपनयनाय, सर्वथा श्रमंनिवारणाय न, श्रमाय च न=अतिश्रमाय च न । राज्ये यथा श्रमः तथा न सुखम्, नैव विश्रान्तिश्चेत्यर्थः ।
अभीष्ट वस्तु को पाकर सुखी हो जाते हैं, किन्तु राजाओं को तो अभीष्ट वस्तु की प्राप्ति भी दुःखप्रद ही होती है। क्योंकि—
राज्य की प्राप्ति से जो प्रतिष्ठा प्राप्त होती है, वह तो केवल मनुष्य की उच्च आकाङ्क्षा मात्र को ही शान्त करती है, किन्तु राज्य की रक्षा करना तो बड़ा ही कठिन एवं कष्टप्रद है। जैसे मनुष्य को छतरी से जितना सुख नहीं होता, उससे अधिक कष्ट उसकी डण्डी हाथ में पकड़े रहने से होता है। उसी प्रकार राज्य भी जितना सुख नहीं देता उससे अधिक परिश्रम और कष्ट ही देता है ॥६॥
विशेष—राज्यग्रहण करने वालों को जहाँ अधिकार मिलता है वहाँ कर्तव्य के कारण कष्ट भी उठाना पड़ता है। जैसे छाते के दण्ड को पकड़े रहने से परिश्रम ही ज्यादा होता है, उसकी अपेक्षा छाते से मनुष्य को सुख कम मिलता है, वैसे ही राज्य की प्राप्ति से जितना सुख नहीं मिलता उससे अधिक चिन्ता, कष्ट और परिश्रम ही होता है। इस प्रकार छाता जहाँ धूप आदि कष्ट से बचाता है
पाठा— १. यथा श्रमाय ।
२३० | अभिज्ञानशाकुन्तलम्
( नेपथ्ये )
वैतालिकौ—विजयतां देवः।
प्रथमः—
स्वसुखनिरभिलाषः खिद्यसे लोकहेतोः
प्रतिदिनमथवा ते ^१वृत्तिरेवंविधैव।
अनुभवति हि मूर्ध्ना पादपस्तीव्रमुष्णं
शमयति परितापं छायया संश्रितानाम् ॥ ७ ॥
अयं भावः—यथा पथिकैः स्वहस्ते ध्रियमाणं छत्रं तेषां केवलमातपदुःखं दूरीकरोति न च सर्वथा श्रमापनयनं विद्यते तथैव धृतदण्डेन राज्ञा परिपालितं राज्यं क्लेशसंमिश्रं सुखं जनयति। तस्मादुत्कण्ठानिवृत्यवसानमेव राज्यतन्त्रम्, नातिसुखम्, नातिदुःखमिति तत्त्वम्। अत्राऽप्रस्तुतप्रशंसा-काव्यलिङ्ग विरोधाभासोपमालङ्काराः वसन्ततिलकाछन्दश्च ॥ ६ ॥
अथावसरप्राप्तं वैतालिकवचनं दिदर्शयिषुराह—नेपथ्ये = जवनिकायाम् वैतालिकौ द्वौ चारणौ वन्दिनौ आहुतुः—विजयतां देवः = महाराजः उत्कर्षं लभतां सर्वोत्कर्षेण वर्तस्व। वैतालिकलक्षणं भावप्रकाशे—
'तत्तत्प्रहरकयोग्यैः रागैः तत्कालवाचिभिः श्लोकैः।
सरसमेव वितालं गायन् वैतालिको भवति ॥'
नृपतेर्दौर्मनस्यं दूरीकर्तुमधिकृतयोरवसरज्ञयोः वैतालिकयोः राजानमेवं स्तौति—स्वसुखेति।
अन्वयः—स्वसुखनिरभिलाषः ( त्वं ) प्रतिदिनं लोकहेतोः 'विद्यते' अथवा ते वृत्तिः एवंविधैव ( अस्ति ) हि पादपः मूर्ध्ना तीव्रम् उष्णम् अनुभवति छायया आश्रितानां परितापं शमयति।
अथावसरज्ञयोः राज्ञो दुष्मन्तस्य दौर्मनस्यं दूरीकर्तुमधिकृतयोर्वैतालिकयोरेको राज्ञः सामान्यजनाद् व्यतिरेकं वर्णयति—स्वसुखेति। हे राजन् स्वस्य स्वस्मिन् वा यत् सुखे = आनन्दे निरभिलाषनिस्पृहः इति स्वसुखनिरभिलाषः = स्वसुखेच्छारहितः त्वं प्रतिदिनं = प्रत्यहं, सर्वदा, लोकहेतोः = जनकल्याणाय खिद्यसे = क्लेशमनुभवसि। सर्वोऽपि जनः पर-
वहाँ दण्ड पकड़े रहने मे तकलीफ भी होती है। उसी प्रकार राज्य भी सुख से दुःखदायी है। राज्य की रक्षा में अधिक कष्ट उठाना पड़ता है। राज्य में सुख ही सुख है, यह सोचकर उसमें सर्वदा आसक्त नहीं होना चाहिए।
यहाँ दण्ड का दो अर्थ है—एक दण्ड=न्याय की व्यवस्था है और दूसरा दण्ड छाते का डण्डा। उच्चपद पर पहुँचने की उत्सुकता सभी को होती है, पर पद की प्राप्ति के बाद उत्सुकता शान्त हो जाती है, क्योंकि कर्तव्य पालन में कठिनाइयाँ बढ़ जाती है तथा सुख दुर्लभ हो जाता है।
( नेपथ्य में )
दोनों वैतालिक—महाराज की जय हो।
प्रथम—पहला चारण कहता है—
महाराज ! आप तो अपने सुख की इच्छा किए विना केवल लोकोपकार के लिए ही प्रतिदिन परिश्रम एवं कष्ट उठाते हैं। अथवा आपका जन्म ही इस कार्य के लिए है, क्योंकि वृक्ष अपने शिर-
पाठा०—१. सृष्टिरेवंविधैव ।
| पञ्चमोऽङ्कः | २३१ |
|---|
द्वितीयः--नियमयसि ^[१]कुमार्गप्रस्थितानात्तदण्डः प्रशमयसि विवादं कल्पसे रक्षणाय ।
सुखदुःखानिरपेक्षः केवलमात्मसुखसम्पादनायैव विद्यते, प्रत्युत भवांस्तु स्वसुखमनपेक्षमाणः सर्वदा प्रजाजनकल्याणार्थमेव परिश्राम्यसीति भावः । अथवा यद्वा त्वमिच्छापूर्वमेवं करोषीति न ते = तव राज्ञः वृत्तिः = वर्तनं, व्यापारः एवंविधा = ईदृशी परोपकारार्थमेव स्वधर्मानुष्ठाने का प्रशंसेति भावः । तत्र दृष्टान्तमाह--हि = यतः पादपः = पादपैः चरणैः पिबतीति पादपः = वृक्षः यद्वा । पक्षान्तरे-पादान् = चरणशरणगतान् पाति रक्षतीति पादपो भवान् मूर्ध्ना = मस्तकेन, अग्रभागेन तीव्रं = प्रचण्डं उष्णं = मध्याह्नसंभवमातपं घर्मं अनुभवन्ति सहते संश्रितानां = शरणागतानां तापं = आतपादिसमुत्थं क्लेशं छायया- अनातपेन शमयति = हरति लंघयति, दूरीकरोति वा ।
अर्थात्--पादपस्य पान्थानां छायादानेनातपसन्तापदूरीकरणमिव स्वसुखनिरपेक्ष-परसुखसम्पादकस्य निरन्तरप्रजापरिपालनक्लेशमनुभवतो भवतोऽपि स्वराज्ये निवसितां प्रजाजनानां सर्वाङ्गीणसुखसम्पादनमेव धर्म इति भावः ।
अत्र समासोक्ति-स्वभावोक्ति-काव्यलिङ्ग-दृष्टान्ताक्षेपेपानुुप्रासा अलंकाराः मालिनी-वृत्तं च ॥ ७ ॥
**द्वितीयः--**द्वितीयो वैतालिकः राज्ञो लोकोत्तरं कर्तव्यं तत्फलं वर्णयन्नाह--नियमयसीति ।
**अन्वयः--**आत्तदण्डः (सन् ) कुमार्गप्रस्थितान् नियमयसि, विवादं प्रशमयसि,
पर सूर्य के प्रखर प्रताप=सन्ताप को सहन कर के भी अपने आश्रितों का सदा अपनी छाया से सन्ताप दूर करता रहता है ॥ ७ ॥
**विशेष--**उचित समय की सूचना देने के साथ-साथ वैतालिक, राजाओं की स्तुति करने वाले बन्दी, चारण या भाट को कहते हैं । वैतालिक का लक्षण भावप्रकाश में इस प्रकार किया गया हैं--
तत्तत्प्रहरकयोग्यै रागैस्तत्कालवाचिभिश्श्लोकैः । सरसममेव वितालं गायन् वैतालिको भवति ॥
वैतालिक शब्द की व्युत्पत्ति दो तरह से की जाती है--'विविधः तालः वितालः वितालः प्रयोजनं यस्य स वैतालिकः या, वितालं=वितालगांनं शिल्पमस्येति वैतालिकः ।
वैतालिक राजा की मनःस्थिति भाँपकर उससे मेल खाने वाली ही बात इस पद्य में बताते हुए कहता हैं कि जैसे वृक्ष की उत्पत्ति ही परोपकार के लिए है वैसे ही राजा=आपका भी जन्म प्रजा-पालन रूपी परोपकार के लिए ही है । अतः इस कार्य में खेद नहीं करना चाहिए, क्योंकि ईश्वर ने राजाओं की यही स्वाभाविक वृत्ति बनाई है । यहाँ वृक्ष की तुलना उस राजा से की गई है, जो हमेशा अपने आश्रित व्यक्तियों को अपनी सन्तान के समान पोष्य समझ कर उसकी रक्षा में तत्पर रहता है । जैसे छाते के डण्डे को पकड़े रहने में परिश्रम अधिक होता है, उसकी अपेक्षा मनुष्य को सुख कम ही मिलता है वैसे राज्य की प्राप्ति से जितना उससे सुख नहीं मिलता उससे अधिक चिन्ता मिलती है—
दूसरा वैतालिक— महाराज ! आप अपने हाथ में राजदण्ड धारण कर कु-मार्ग पर चलने वाले दुष्टों का नियमन =
पाठ०--१, विमार्गप्रस्थितानात्तदण्डः ।
२३२ | अभिज्ञानशाकुन्तलम्
अतनुषु विभवेषु ज्ञातयः सन्तु नाम
त्वयि तु परिसमाप्तं बन्धुकृत्यं प्रजानाम् ॥ ८ ॥
रक्षणाय कल्पसे, विभवेषु अतनुषु (सत्सु) ज्ञातयः नाम सन्तु प्रजानां बन्धुकृत्यं तु त्वयि परिसमाप्तम्।
राज्ञो लोकोत्तरं कर्तव्यं तथाविधं च तत्फलं वर्णयन्नाह—द्वितीयो वैतालिकः—
नियमयसीति। आत्तः = गृहीतो दण्डः = दुष्टमनाधिकारः शासनं येन स आत्तदण्डः यथापराधदण्डेनेत्यर्थः, कुमार्गे प्रस्थितान् कुमार्गे = धर्मशास्त्रादिविरुद्धे मार्गे प्रस्थितान् = प्रस्थातुमुद्यतान् नियमयसि = निरुध्य पुनः सुमार्गे स्थापयसि। यथा गोपालने परक्षेत्रेषु सस्यादिभक्षणप्रवृत्तानां गवां वारणं क्रियते तथैव गृहीतदण्डेन भवतापि दुर्वृत्ते प्रवृत्तान् वारयसीति भावः। तथा चोक्तं राज्ञा दण्डविषये—
'तदर्थं सर्वभूतानां गोप्तारं धर्ममात्मजम्।
ब्रह्मतेजोमयं दण्डमसृजत् परमेश्वरः ॥
स्वराष्ट्रे न्यायवृत्तिः स्यादुग्रदण्डश्च शत्रुपु ।
सुहृत्सु तिलस्निग्धेषु ब्राह्मणेषु क्षमान्वितः ॥'
विवादं = परस्परकलहं प्रशमयसि = वारयसि ये भूयो भूमिदाराद्रव्यादिषु विषयेषु विवादं विदधते तेषां विवादं धर्मज्ञैः सह व्यवहारदर्शनात् प्रशमयसीति भावः। रक्षणाय = प्रजानां परिपालनाय कल्पसे प्रभवसि, दैवीः मानुषीर्वाऽपदो निवारयन् प्रजानां परिपालनं कुरुषे। विमवेषु = धनादिषु अतनुषु = बहुलेषु ज्ञातयः = बान्धवाः सन्तु = भवन्तु नाम तु = परन्तु प्रजानां = जनानां बन्धुकृत्यं = बान्धवकर्तव्यम् त्वयि = भवति परिसमाप्तं = निष्पन्नं भवति। प्रजासु धनिनां धनस्य बान्धवा धनाधिकारिणो भवन्तु नाम तासां प्रजानां बन्धुकृत्यं = पालनावेक्षणादिकं तु भवानेव करोतीत्यहो ! भवतो निष्कारणोपकारप्रवणता।
अयं भावः—विभवे सत्येव ज्ञातयो बन्धुभावं दर्शयन्ति स्ववैभवमुपभुञ्जते च परं भवांस्तु प्रजानां वैभवमनपेक्ष्य तासां विनेतृत्वात् पिता, कलहशमनात् सुहृद्, रक्षणात् पुत्रश्चासीति सत्यमेव प्रजानां वास्तविको बन्धुरसीति भावः।
अत्र—काव्यलिङ्ग-कारकदीपक व्यतिरेकालङ्काराः मालिनी वृत्तं च ॥ ८ ॥
शासन करते हैं, उनका झगड़ा शान्त करते हैं और प्रजा की रक्षा के लिए सदा सन्नद्ध ही रहते हैं। जिनके पास अधिक धन है, ऐसे लोगों के लिए उनके बन्धु-बान्धव भले ही काम आते हों, किन्तु साधारण जनता के बन्धु-बान्धवों का कर्तव्य = रक्षा आदि तो केवल आप ही से होता है ॥ ८ ॥
विशेष—हिन्दू धर्मशास्त्रों में राज-व्यवस्था के अनुसार कुमार्गगामी व्यक्ति राष्ट्र का शत्रु माना गया है। उसके प्रति राजा का उग्रदण्ड से उसका नियमन करना राजधर्म बतलाया गया है—'उग्रदण्डश्च शत्रुपु'। अधिक धन रहने पर पराये भी अपना बन जाते हैं और निर्धन होने पर अपने भी पराये बन जाते हैं, किन्तु राजा प्रजा का सच्चा बन्धु हैं, वह हमेशा कारणनिरपेक्ष होकर प्रजा का पालन-पोषण करता है। बन्धु का कार्य है विपत्ति में सहायता पहुँचाना, आपस में उत्पन्न कलह को निपटाना तथा असन्मार्ग पर जाने से रोकना आदि। द्वितीय चारण का कहना है कि महाराज ! आपके द्वारा प्रजाओं के बन्धुओं के समस्त कार्य सम्पन्न होते हैं। भाई-बन्धु तो पैसे वालों के साथी होते हैं, किन्तु आप तो जनता के सच्चे भाई-बन्धु हैं।
पञ्चमोऽङ्कः २३३
राजा— एते क्लान्तमनसः पुनर्नवीकृताः स्मः । ( इति परिक्रामति )
प्रतीहारी— एसो अहिणवसम्मज्जणसस्सिरिओ सण्णिहिदहोमधेणू अग्गिसरणालिन्दो । आरुहदु देवो । [ एसोऽभिनवसंमार्जनसश्रीकः संनिहितहोमधेनुरग्निशरणालिन्दः । आरोहतु देवः ! ]
राजा— ( आरुह्य परिजनांसावलम्बी तिष्ठति ) वेत्रवति किमुद्दिश्य भगवता काश्यपेन मत्सकाशमृषयः प्रेषिताः स्युः ।
राजा— वैतालिकयोः वचनाभ्यां स्वक्लेशस्य धन्यत्वं साफल्यं चाकलयन् ब्रवीति— एते = वयं क्लान्तानि = श्रान्तानि मनांसि = चित्तानि येषां ते क्लान्तमनसः = क्लान्तिमनुभवन्तः नवीकृताः = उत्साहिताः, व्यपगतखेदाश्च कृताः पुनरपि स्वकार्यकरणस्य पर्युत्सुकाः स्म इति भावः ( इति = एवमुक्त्वा परिक्रामति = मण्डलाकारं गच्छति ) ।
प्रतिहारी— अभिनवं = नूतनं यत् संमार्जनं = स्वच्छता तेन सश्रीकः = सशोभः इति अभिनव सम्मार्जनसश्रीकः संनिहिता—आसन्ना होमधेनुः । हवनार्था = धेनुः सकृत् प्रसूता गौः यत्र स संनिहितहोमधेनुः । अग्निशरणस्य यज्ञशालाया आलिन्दः=बहिः द्वारि प्रकोष्ठः इति अग्निशरणालिन्दः, देवः = महाराजः आरोहतु = आरुह्योपविशतु ।
राजा— ( आरुह्य = आलिन्दस्योपरि आगत्य परिजनस्य = भृत्यस्य, द्वारपालिकाया अंसावलम्बी = स्कन्धाश्रित इति परिजनांसावलम्बी तिष्ठति = उपविशति ) किं निमित्तमेषां मुनीनामागमनमिति विकल्पयन् राजा पृच्छति-वेत्रवति = हे यष्टिधारिणि द्वारपालिके किं कार्यमुद्दिश्य = लक्ष्यीकृत्य भगवता = श्रीमता काश्यपेन = काश्यपगोत्रोत्पन्नेन महर्षिणा कण्वेन मत्सकाशं = मम समीपे ऋषयः = मुनयः प्रेषिताः = प्रहिताः स्युः = सम्भाव्यन्ते ?
राजा— इनकी इस प्रकार प्रोत्साहन देने वाली उक्ति सुनकर तो राज्यकार्य से परिश्रान्त होते हुए भी मैं पुनः उत्साहित हो गया हूँ ( घूमते हैं।)
प्रतिहारी— महाराज ! अभी-अभी तत्काल झाडू देने से साफ, सुपरिष्कृत और बँधी हुई होमधेनु से सुशोभित यज्ञशाला का यह अलिन्द = द्वार के बाहर का चबूतरा है, महाराज इस पर विराजमान हों।
विशेष— हवन के लिए दूध देने वाली गाय को कामधेनु कहते हैं। उसका दूध अत्यन्त पवित्र माना जाता हैं और सोम में मिलाकर देवताओं को अर्पित किया जाता है। कामधेनु का घी हवनीय द्रव्य में डालकर होम किया जाता है और उपयोगिता की दृष्टि से गौ रुद्रों की माता और प्रजापति ब्रह्मा की पुत्री मानी जाती है—'माता रुद्राणां'। अग्नि का शरण = आधार होने के कारण यज्ञशाला को अग्निशरण भी कहते हैं। अग्निशाला के बाहरी दरवाजे के चबूतरा या बरामदा को अलिन्द कहा जाता हैं।
राजा— ( चबूतरे पर चढ़कर किसी राज-पुरुष के कन्धे पर हाथ रखकर खड़े होकर ) हे द्वारपालिके ! बता तो सही, पूज्यपाद महर्षि कण्व मुनि ने इन तपस्वियों को मेरे पास किस लिए भेजा होगा ?
| २३४ | अभिज्ञानशाकुन्तलम् |
|---|
किं तावद्व्रतिनामुपोढतपसां विघ्नैस्तपो दूषितं धर्मारण्यचरेषु केनचिदुत प्राणिश्वसच्चेष्टितम् । आहोस्वित्प्रसवो ममापचरितैर्विष्टम्भितो वीरुधा- मित्यारूढबहुप्रतर्कमपरिच्छेदाकुलं मे मनः ॥ ९ ॥
महर्षिकण्वद्वारात्मनः समीपे मुनीनां प्रेषणं कारणं सम्भावय राजा-विचारयति— किं तावदिति ।
अन्वयः— उपोढतपसां व्रतिनां तपः विघ्नैः दूषितं किं तावत् ! उत धर्मारण्यचरेषु प्राणिषु केनचित् असत् चेष्टितम्, आहोस्वित् वीरुधां प्रसवः मम अपचरितैः विष्टम्भितः ? इति आरूढबहुप्रतर्कं मे मनः अपरिच्छेदाकुलम् ( अस्ति ) ।
कुलपतेः कण्वस्य सन्देशमादाय समागतानां सस्त्रीकानां मुनीनामागमनं निशम्य किमर्थमेते ऋषयः समागता—इति निश्चेतुमपारयन् राजर्षिः दुष्यन्तो विकल्पयति—किं तावदिति । उपोढानि = अधिकानि तपांसि = तपस्याः ये ते तेषाम् उपोढतपसां = अतिप्रवृद्धतपोऽनुष्ठानानां यज्ञादिषु दीक्षितानां व्रतिनां = यमनियमवतां मुनीनाम् तपः = तपोव्रतादिकमं विघ्नैः = विघ्नकर्तृभिः राक्षसादिभिः दूषितं = विघ्नितम्, किं तावत् = किमु ? उत = अथवा धर्म्याणि = धर्मार्थानि धर्मकर्मसम्पादनार्थानि अरण्यानि = वनानि तत्र चरन्ति वर्तन्ते इति धर्मारण्यचरेषु = तपोवनविहारिषु प्राणिषु जीवेषु, मृगादिषु श्वापदेषु केनचित् = पामरेण असत् = अनुचितम्, चेष्टितम् = आचरितम् किम् ? आहोस्वित् = किस्वित् अथवा यद्वा मम = अपचरितैः = ममाज्ञातैः कुकृत्यैः वीरुधां = लतादीनां प्रसवः = प्रजननम्पत्, फलोत्पादनशक्तिः पत्रपुष्पफलादिसमुत्पत्तिश्च विष्टम्भितः = अवरुद्धः किम् ? आरूढाः = आकलिताः बहवः = अनेके प्रतर्काः = आशङ्का यस्मिन् तत् आरूढ-बहुप्रतर्का = नानातर्काकुलितं मे = मम मनः = मानसं वर्तते । राज्ञामनाचारेण तद्राज्ये-ऽनेका उपद्रवा जायन्त इत्यत्र शास्त्रमेव परमं प्रमाणमस्ति । तथा चोक्तम्—
'राज्ञोपचारात् पृथिवी स्वल्पसस्या भवेत् किल । अल्पायुषः प्रजाः सर्वाः दरिद्रा व्याधिपीडिताः ॥'
अर्थात्— पूर्वोक्तैर्बहुभिर्विकल्पैः व्याकुलो राजा दुष्यन्तः चिन्तयति यन्न जाने
क्या तपस्या में निरन्तर संलग्न इन ऋषियों की तपस्या किसी प्रकार के विघ्नों से दूषित हो गई है ? धर्मारण्य = आश्रमवासी ऋषि, मुनि, हरिण, मयूर आदि किन्हीं प्राणियों के प्रति-किसी दुष्ट ने कोई अनुचित आचरण किया है ? अथवा मेरे किसी अज्ञात कारण से वनस्पति लता एवं गुल्मों की फसल ही खराब हो गई है ? इस प्रकार मन में उठने वाले तर्क-वितर्कों से और शङ्काओं से तथा अनिश्चय से मेरा मन व्याकुल हो रहा है ॥ ९ ॥
विशेष— यहाँ विघ्न शब्द का तात्पर्य विघ्न करने वाले राक्षस हैं। धर्म-कार्य होने के कारण तपस्वियों के तपोवन को धर्मारण्य कहते हैं। उसकी रक्षा करना राजा का उत्तरदायित्व माना गया है। हिन्दू-शास्त्रों का निर्देश है कि राजा के कुकृत्य = अधर्म से प्रजा को कष्ट होता है—एवं उन पर विविध प्रकार की विपत्तियाँ आती हैं। इसलिए प्रजा की विपत्तियों का कारण राजा का पाप है। राजा के पापों से प्रजा अल्पायु, दरिद्र और रोगी होती हैं तथा उपज की कमी हो जाती है। जैसे—
राज्ञोपचारात् पृथिवी स्वल्पसस्या भवेत् किल । अल्पायुषः प्रजाः सर्वाः दरिद्रा व्याधिपीडिताः ॥
पञ्चमोऽङ्कः
२३५
प्रतीहारी—सुचरिदंणंदिणो इसीओ देवं समाजइदुं आअदेत्ति तक्केमि।
[ सुचरितनन्दिनो ऋषयो देवं सभाजयितुमागता इति तर्कयामि । ]
(ततः प्रविशन्ति गौतमीसहिताः शकुन्तलां पुरस्कृत्य मुनयः। पुरश्चैषां कञ्चुकी पुरोहितश्च)
कञ्चुकी—इत इतो भवन्तः।
शार्ङ्गरवः—सखे शारद्वत !
महाभागः कामं नरपतिरभिन्नस्थितिरहो
न कश्चिद्वर्णानामपथमपकृष्टोऽपि भजते ।
तथापीदं शश्वत्परिचितविविक्तेन मनसा
जनाकीर्णं मन्ये हुतवहपरीतं गृहमिव ॥ १० ॥
किन्निमित्तमेतेषां मुनीनामागमनं ममान्ते जातमिति अत्र छेक वृत्ति-श्रुत्यनुप्रासकाव्यलिङ्गा-लङ्काराः शार्दूलविक्रीडितं च छन्दः ॥ ९ ॥
प्रतिहारी—राज्ञ आकुलत्वं परिहर्तुं प्रतिहारी चाटुभाषणमारभते सुचरितनन्दिनो-सुचरितमभिनन्दन्ति तच्छीलाः सुचरिताभिनन्दिनः = धर्माचरणशीलसद्वृत्तमत्वाहशसृपानुप-रागिणः, धर्मप्रवणजनप्रियाः, ऋषयः = मुनयः देवं = महाराजं समाजायितुं = वर्धापयितुम् आगताः = प्राप्ता इति = एवं तर्कयामि = जाने । भवतः सुचरितमाशीभिरभिनन्दयितु-मेते मुनयः समागता इत्यत्रं न विकल्पः ।
( ततः = तत्पश्चात् गौतमीसहिताः = गौतम्या युक्ताः मुनयः = ऋषयः शकुन्तलां पुरस्कृत्य = अग्रे उपस्थाय प्रविशन्ति = रङ्गमूमावाविर्भवन्ति एषां = गौतमी-शार्ङ्गरव-शारद्वतानां पुरः = समक्षमग्रे कञ्चुकी = कञ्चुकीयः पुरोहितः = पुरोधाः सोमरातश्च गच्छन्तौ प्रविष्टौ )
कञ्चुकी—इत इतो भवन्तः = अनेन मार्गेण, अनेन मार्गेण भवन्तः = यूयं प्रविशत ।
अन्वयः—अभिन्नस्थितिः असौ नरपतिः कामं महाभागः वर्णानामपकृष्टोऽपि कश्चित् अपथं न भजते तथापि जनाकीर्णम् इदं शश्वत् परिचितविविक्तेन मनसा हुतवहपरीतं गृहमिव मन्ये ।
अथ शार्ङ्गरवो नगरप्रवेशेन मनसि किञ्चिद् विकारमिव सम्भावयन् शारद्वतं इति स्वानुभवं व्यनक्ति—महाभाग इति । न भिन्ना = त्यक्ता स्थितिः = मर्यादा येन स
प्रतिहारी—महाराज ! ऐसा मालूम पड़ता है कि आपके अच्छे जीवन = आचरण से प्रसन्न ऋषि लोग आपको धन्यवाद देने के निमित्त आये हुए हैं।
( इसके बाद तापसी गौतमी के साथ शकुन्तला को आगे कर ऋषि रंगमंच पर प्रवेश करते हैं, उनके आगे कञ्चुकी और पुरोहित हैं।)
कञ्चुकी—आप लोग इधर से आइए।
शार्ङ्गरव—हे सखे शारद्वत !
यद्यपि ये महानुभाव राजा दुष्यन्त बड़ी तत्परता से धर्म की मर्यादा का पालन करने वाले हैं तथा प्रजा की पिता की तरह रक्षा करते हैं। यहाँ का कोई अपकृष्ट वर्ण भी कुमार्ग सेवन करने वाला नहीं है। तथापि हमेशा एकान्त सेवन करने का ही अभ्यास रहने से जनाकीर्ण यह स्थान भी अग्नि से जलते हुए घर की तरह मुझे अप्रिय तथा कष्ट कर प्रतीत होता है ॥ १० ॥
विशेष—शार्ङ्गरव राजा दुष्यन्त को श्रेष्ठ एवं मर्यादापालक समझता हुआ भी एकान्तसेवी
२३६ || अभिज्ञानशाकुन्तलम्
शारद्वतः—जाने भवान् पुरप्रवेशादित्थंभूतः संवृत्तः। अहमपि—
अभ्यक्तमिव स्नातः शुचिरशुचिमिव प्रबुद्ध इव सुप्तम्।
बद्धमिव स्वैरगतिर्जनमिह सुखसङ्गिनमवैमि ॥ ११ ॥
अभिन्नस्थितिः = स्थितेरभेत्ता असौ = पुरोवर्ती नरपतिः = राजा दुष्यन्तः कामं = अतिशयेन महाभागः = श्रेष्ठः महाभागलक्षणं यथा—
‘आरभ्योत्पत्तिमामृत्योः कलङ्को यस्य नो भवेत्।
स्याच्चैवानुपमा कीर्तिः महाभागः स उच्यते॥’
वर्णानां = चतुर्णां ब्राह्मणादीनां मध्ये अपकृष्टोऽपि = अन्त्यवर्णोऽपि नीचोऽपि कश्चित् मनुष्यः अपथम् = कुमार्गम्, अधर्मम् न भजते = न गच्छति तथापि जनाकीर्णं = जनव्याप्तं लोकसङ्कुलम् इदम् = एतत् शश्वत् = निरन्तरम् परिचितं = अभ्यस्तं विविक्तं = निरन्तरै-कान्तप्रवणेन तपोवनात्मकं विजनं = स्थानम् यस्य तत्तेन परिचितविविक्तेन मनसा = चेतसा उपलक्षितोऽहं हुतवहपरीतं हुतवहपरोतम् = पावकज्वालावलीढम् अग्निव्याप्तं गृहमिव = आलय इव सद्यस्त्याज्यं मन्ये = तर्कयामि, तस्मादुद्वेगमतुमवामि। अग्निपरीतं गृहमिव दूरतः परिहर्तव्यमेवेदं राजगृहूमिति सम्भावये। इदं तात्पर्यम् यथा अग्निज्वालावलीढे गृहे क्षणमपि निवासं कर्तुं न शक्यते तथैव बाल्यात् तपोवनात्मकविजन-स्थानस्य परिचयात् परितो जनसङ्कुलेऽत्र नगरेऽपि स्थातुं न योग्यमिति भावः ॥ १० ॥
शारद्वतः—महर्षेः कण्वस्य द्वितीयः शिष्यः प्रथमशिष्यस्योक्तिमनुवदन्नाह—जाने = अनुभवामि भवान् त्व पुरप्रवेशात् = नगरागमनात् प्रभृति एवं इत्थंभूतः = जना नुकूलं नगरं हुतवहपरीतं नगरमिव सम्भावयन् एवं रूपः संवृत्तः = जातः। अहमपि--अहमपीत्यमेव तर्कयामि--अभ्यक्तमिवेति।
अन्वयः—अहमपि इह सुखसङ्गिनं जनम्, स्नातः अभ्यक्तमिव शुचिः, अशुचिमिव प्रबुद्धः सुप्तमिव स्वैरगतिः बद्धमिव अवैमि।
शारद्वतोऽपि एवानुभव वर्णयन्नाह—अभ्यक्तमिवेति। अहमपि = भवानिवाहं शारद्वतोऽपि इह = नगरे सुखसङ्गिनं = विषयभोगासक्तं जनं = लोकम् स्नातः = कृतस्नानः अभ्यक्तं = तैलमर्दनेन सम्पादितदेहमलम्, तैलाभ्यक्तमशुचिमिव अस्नात मिव, शुद्धिः =
होने के कारण जनसङ्कुल नगर के वातावरण से वह उसी प्रकार खिन्नता का अनुभव कर रहा है। जिस प्रकार आग की लपटों से घिरा हुआ राजमहल भी अप्रिय और कष्टकारक प्रतीत होता है। आश्रम में उसे जो शान्ति मिलती है वह तो वहाँ बिलकुल ही नहीं है। ऋषियों का मन हमेशा एकान्तवासी होता है, उसे चारों ओर भीड़ से भरा हुआ राजमहल अच्छा नहीं लगता।
शारद्वत—हे सखे शाङ्गर्ख ! शान्त आश्रम के निवासी होने के कारण इस चहल-पहल वाले नगर में आने से तुम्हारे मन में उद्वेग आना सर्वथा उचित ही है और मैं भी—
विषय-सुखों में फँसे हुए यहाँ के नगरवासी लोगों को मैं उसी प्रकार समझता हूँ जैसे स्नान किया हुआ पुरुष तैल आदि लगाये हुए अशुचि व्यक्ति को समझता है। प्रबुद्ध = ज्ञानी पुरुष अज्ञानी को जैसे देखता है तथा स्वतन्त्र व्यक्ति जैसे जेल में बँधे हुए पुरुष को देखता है ॥ ११ ॥
विशेष—धर्मशास्त्रों में लिखा हुआ है कि शरीर में तेल लगाया हुआ व्यक्ति तबतक चाण्डाल = अशुचि, अस्पृश्य माना जाता है जब तक स्नान कर वह निर्मल नहीं हो जाता। स्नान किया हुआ व्यक्ति उसे अपवित्र तथा अस्पृश्य समझता है। जैसे—
पञ्चमोऽङ्कः २३७
शकुन्तला—( निमित्तं सूचयित्वा ) अम्महे किं मे वामेदरं णअणं विप्फुरदि
[ अहो किं वामेतरन्नयनं विस्फुरति । ]
**गौतमी—**जादे पडिहदं अमंगलं । सुहाई दे भत्तुकुलदेअदाओ वितरंदु ।
[ जाते प्रतिहतममङ्गलम् । सुखानि ते भर्तृकुलदेवता वितरन्तु ] ( इति परिक्रामति )
अन्तःशुद्धः, पवित्रः अशुचिम् = कलुषात्मानं पापिनमिव, प्रबुद्धः = जाततत्त्वावबोधः, मोहनिद्राप्राप्तमिव जागरितः सुप्तमिव=निद्रितमिव, स्वैरगतिः=स्वेच्छाचारी बद्धं=निगडित यन्त्रितम् अवैमि = प्रतीये ।
**अर्थ भावः—**सखे शाङ्गंरव ! भवान् जनाकुलमिदं नगरं पावकव्याप्तं गृहमिव जानासि, अहमप्यस्मिन्नगरे विषयासक्तं जनं यथा कृताभिषेको नरः कृततैलमर्दनं पुरुषं स्वापेक्षया मलिनं सम्भावयति, अन्तःशुद्धो जनः पापिनमिव एतन्नगरमिव दूरनिवासयोग्यम् मन्यते । तस्मादेतादृशं नगरमस्मादृशां सर्वथा निवासानर्हम् ।
अत्र मालोपमालङ्कारश्छन्दश्चास्ति शिखरिणी ॥ ११ ॥
शकुन्तला—( निमित्तमपशकुनं सूचयित्वा = अभिनय ) अहो, हन्त ! किं = किन्निमित्तं मे=मम, वामात् इतरत् वामेतरं=सव्येतरं, दक्षिणं नयनं=नेत्रम् परिस्फुरति=स्पन्दते । गर्गाचार्यानुसारं स्त्रीणां दक्षिणाक्षिपन्दनमनिष्टावाप्तिसूचकमूक्तमस्ति ।
'दक्षिणचक्षुः स्पन्दनं बन्धुदर्शनमर्थलाभं वा ।
वामचक्षुः स्पन्दनं बन्धुविच्छेदं धनहानिर्वा ।
स्त्रीणामेतत्फलमाविकलं दक्षिणे वैपरीत्यम् ॥'
**गौतमी—**शकुन्तलामाश्वासयन्ती गौतमी कथयति -जाते ! =पुत्रि ! अमङ्गलं = अनिष्टम्, प्रतिहतम् = नष्टं जातम् । ते = तव भर्तुः = पत्युः कुलस्य = वंशस्य देवताः = देवा इति भर्तृकुलदेवताः = दुष्यन्तकुलाधिष्ठात्र्यो देवता हरिरहाद्याः ते=तुभ्यं सुखानि=आनन्दान् वितरन्तु = प्रयच्छन्तु ( इति = एवमुक्त्वा परिक्रामति = मण्डलाकारं परिभ्राम्यति ) अमङ्गलनिरासेन कल्याणानि कुर्वन्तु ।
तैलाभ्यङ्गे चिताधूमे मैथुने क्षौरकर्मणि ।
तावद्भवति चाण्डालः यावत् स्नानं न चाचरेत् ॥
इसलिए हे शाङ्गंरव ! विषय-सुख में निरन्तर लीन व्यक्तियों को मैं भी वैसा ही समझ रहा हूँ, जैसे स्नान किये हुए व्यक्ति अस्नान किए हुए को समझता है एवं स्वतन्त्र व्यक्ति कारागार में बँधे हुए पुरुष को देखता है ।
शकुन्तला—( अपशकुन का अभिनय करती हुई ) अरी मैया री, मैया, मेरी यह दाहिनी आँख आज क्यों फड़क रही है ?
**विशेष—**निमित्त कहते हैं शकुन को । शकुन दो प्रकार का होता है—शुभ शकुन और अशुभ शकुन । पुरुष की दाहिनी और स्त्रियों की बायीं आँख का फड़कना शुभ = शुभशकुन माना जाता है । इसके विपरीत पुरुष का बाँया तथा स्त्रियों का दाहिना नेत्र फड़कना अशुभ = अपशकुन माना जाता है । यहाँ राजा दुष्यन्त के मिलन में बाधा पड़ जाना, फल है जिसका वर्णन आगे आयेगा ।
**गौतमी—**पुत्रि ! यह अमङ्गल दूर हो, तुझे सुख प्राप्त हो, तुम्हारे पतिदेव के कुलदेवता तुम्हारा मङ्गल करें । ( घूमती है ।)
२१८ अभिज्ञानशाकुन्तलम्
पुरोहितः—(राजानं निर्दिश्य) भो भोस्तपस्विनः। असावत्रभगवान् वर्णाश्रमाणां रक्षिता प्रागेव मुक्तासनो प्रतिपालयति। पश्यतैनम्।
**शार्ङ्गरवः—**भो महाब्राह्मण ! काममेतदभिनन्दनीयं तथापि वयमत्र मध्यस्था, कुतः—
भवन्ति नम्रास्तरवः ¹फलागमैर्नवाम्बुभिर्दूरविलम्बिनो घनाः। अनुद्धताः सत्पुरुषाः समृद्धिभिः स्वभाव एवैष परोपकारिणाम् ॥ १२ ॥
**पुरोहितः—**पुरोधाः=सोमरातः राजानं=नृपं दुष्यन्तम् निर्दिश्य=दर्शयित्वा वदति=**भोः भोः तपस्विनः=**हे हे तापसाः ! असौ = अयम् अत्रभवान् = श्रीमान् वर्णानां = ब्राह्मणादीनां आश्रमाणां = ब्रह्मचर्यादीनां रक्षिता = प्रागेव = भवद्दर्शनात् पूर्वमेव भवत्यतिशयात् = आदराधिक्याच्च **मुक्तासनः=**त्यक्तराजपीठः सन् वः = युष्मान् प्रतिपालयति = प्रतीक्षते। एनं = महाराजं पश्यत = अवलोकयत। ईदृग्विधस्यास्य एवंविधं दर्शनमाश्चर्यकरमिति भावः।
शार्ङ्गरवः—भो महाब्राह्मण ! = हे विप्रवर्य ! कामम् = अतिशयेन एतत् = इदम् अस्य एवंविधं विनीतत्वम् अभिनन्दनीयम् = प्रशंसनीयम्, स्तुत्यम् तदापि = तदपि अत्र विषये विनीतत्वे मध्यस्था = निस्पृहाः, न वयं राजप्रशंसावाचमुच्चारयामः। कुत इत्याह—भवन्तीति।
**अन्वयः—**तरवः फलागमैः नम्रा भवन्ति, घना नवाम्बुभिः दूरविलम्बिनः (भवन्ति) सत्पुरुषाः समृद्धिभिः अनुद्धता (भवन्ति) परोपकारिणामेष स्वभाव एव।
राज्ञो दुष्यन्तस्य विनीतत्वे न तत्र मम कोऽपि विस्मयो भवति। यदि अचेतनानां तरुघनादीनां विनम्रत्वं स्वभावसिद्धं तर्हि सद्वंशजस्य सज्जनस्य विनम्रत्वे किमाश्चर्यमित्याह—**भवन्ति नम्रा इति। तरवः=**वृक्षाः फलागमैः फलानाम् आसन्नात् गमा = उत्पत्तयः तैः फलोद्गमैः = फलोद्भवैः नम्राः = अधोमुखा विनीताश्च भवन्ति। घनाः = मेघाः नवाम्बुभिः वर्षाकालारम्भे अभिनवजलैः दूरं विलम्बन्ते तच्छीला प्रवर्षणशीला भवन्ति।
पुरोहित—(राजा की ओर इशारा करके) हे तपस्वियों ! यह देखिए, परम माननीय, ब्राह्मण, क्षत्रिय, वैश्य एवं शूद्र इन चारों वर्ण तथा ब्रह्मचर्य, गृहस्थ, वानप्रस्थ और संन्यास इन चारों आश्रमों को यथावत् रक्षा करने वाले ये महाराज दुष्यन्त पहले ही से राजसिंहासन से उठकर आपलोगों की प्रतीक्षा में यहाँ खड़े हैं, इनका दर्शन कीजिए।
**शार्ङ्गरव—**हे महात्मन् = पुरोहित जी ! राजा का ऋषियों का आदर करना यद्यपि प्रशंसनीय हैं तथापि हम तो इस विषय में मध्यस्थ ही हैं अर्थात् हम इसके लिए राजा की प्रशंसा नहीं कर सकते हैं, क्योंकि—
जिसप्रकार फल आने पर वृक्ष स्वभाव से ही नम्र हो जाते हैं = झुक जाते हैं, जल से भरे रहने पर नये मेघ भी स्वतः नीचे लटक जाते हैं। इसी प्रकार समृद्धि प्राप्त कर सज्जन लोग भी विनीत हो जाते हैं। यह तो उनका स्वाभाविक गुण ही है ॥ १२ ॥
**विशेष—**राजा की नम्रता के लिए इनकी प्रशंसा करना व्यर्थ ही है। हमारे लिए यह आनन्ददायक नहीं है, क्योंकि ऐसे महान् राजा के लिए तो यह स्वाभाविक ही है। यह तो इनके लिए छोटी बात है। हाँ, तपस्वियों से मिलते समय सिंहासन छोड़ देना, उनकी राह देखना, उनके
१. फलोद्गमैर्नवाम्बुभिर्दूरविलम्बिनो।
पञ्चमोऽङ्कः। २३९
प्रतिहारी—देव पसन्नमुहवण्णा दीसंति। जाणामि विसद्धकज्जा इसीओ। [ देव प्रसन्नमुखवर्णा दृश्यन्ते। जानामि विश्रब्धकार्या ऋषयः। ] राजा—( शकुन्तलां दृष्ट्वा ) अथ अत्रभवती।
का स्विद्वगुण्ठनवती नातिपरिस्फुटशरीरलावण्या। मध्ये तपोधनानां किसलयमिव पाण्डुपत्राणाम्॥ १३॥
दूरविलम्बिनः = अत्यर्थं लम्बमानाः, अतिशयवर्षुकाः, सत्पुरुषाः = सज्जनाः = समृद्धिभिः धनविद्याधिकारादिसम्पत्तिभिः अनुद्धताः = विनीता एव औद्धत्यविरोधिनः भवन्ति। एषः नम्रत्वानुद्धतवादिरूपः परोपकारिणाम् = परोपकारपरायणानां दुष्यन्तसदृशानाम् स्वभाव एव = निसर्ग एव किं तन्नास्माकं प्रशंसापरम्पराभिरिति भावः।
अतो हि सत्कुलोत्पन्नानां परोपकारनियतानां महापुरुषाणां विनम्रत्वं स्वभावसिद्ध एवास्ति। एष महाराजो दुष्यन्तोऽपि तथाविध एवास्ति। अतोऽस्य नम्रत्वे विस्मयस्य नास्त्यवकाशः। अत्राप्रस्तुतप्रशंसा प्रतिवस्तूपमा-अर्थान्तरन्यासातिशयोक्ति-काव्यलिङ्गा-लङ्काराः वृत्तं च वंशस्थम् ॥ १२ ॥
प्रतिहारी—प्रसन्नमुखान् मुनीन् वीक्ष्य राजानमूचे–देव ! महाराज ! प्रसन्नमुख-वर्णाः = प्रसन्नाननाकृतयः ऋषयः = मुनयो दृश्यन्ते प्रतीयन्ते अतो जानामि = मन्ये विश्रब्धकार्याः विश्रब्धं = शान्तं कार्यं कृत्यं येषां ते विश्रब्धकार्याः = अनुद्घटप्रशान्त-कार्याः ऋषयः सन्ति। नैते विघ्नप्रतिकारादि-कार्यार्थिनः अपितु भवद्दर्शनादि-सामान्य-कार्यार्थिन एवेति मन्ये, इति भावः।
राजा—( शकुन्तलां दृष्ट्वा = अवलोक्य ) शापतिरोहितविस्मृतिः शकुन्तलामजा-नन् राजा पृच्छति-अथ = अहो, अत्र भवती = महोदया काऽस्ति ? विकल्पमान आह—का स्विदिति।
अन्वयः—पाण्डुपत्राणां मध्ये किसलयमिव तपोधनानां ( मध्ये ) अवगुण्ठनवती नाति-परिस्फुटशरीरलावण्या ( अत्र भवती ) का स्वित्।
मुनिकुमाराणां मध्येऽवगुण्ठनवतीमति कलेवरसंगतानुमीयमानातिसौन्दर्यां केयमिति विकल्पयन् ब्रवीति राजा दुष्यन्तः—का स्विदिति। पाण्डुपत्राणां = पाण्डूनि च तानि
प्रति विशेष आदर व्यक्त करता है। यदि वृक्ष तथा बादल अचेतन होकर भी परोपकार में सदा निरत हैं, तो चेतन राजा का क्या कहना है ? परोपकार तो जड़ चेतन में समान ही अभिनन्दनीय है।
कविवर कालिदास के समय में ब्राह्मण शब्द के पूर्व में लगाया हुआ महा शब्द प्रशंसार्थ था निन्दार्थक नहीं। आजकल ब्राह्मण, ज्योतिषी, वैद्य, मांस, यात्रा = मार्ग, निद्रा, तेल तथा शंख के पूर्व में जोड़ा गया महा शब्द निन्दा अर्थ को सूचित करता है। जैसे—
शंखे तैले तथा मांसे वैद्ये ज्योतिषके द्विजे।
यात्रायां पथि निद्रायां महच्छब्दो न दीयते॥
प्रतिहारी—महाराज ये ऋषि तो प्रसन्नमुख मालूम पड़ते हैं। अतः किसी प्रकार की आशंका की बात नहीं मालूम पड़ती है। अर्थात् ये अपने किसी कष्ट को कहने के लिए नहीं आये हुए प्रतीत हो रहे हैं।
राजा—( शकुन्तला का ओर देखकर ) यहां इन ऋषियों के साथ अपरिस्फुट कान्तिवाली
२४० | अभिज्ञानशाकुन्तलम्
पत्राणि च पाण्डुपत्राणि तेषां पाण्डुपत्राणां—परिणामपाण्डुराणां पत्राणां मध्ये किसलय-मिव = कोमलपल्लवमिव तपोधनानां = तापसानां मध्ये अवगुण्ठनवती = आवरणयुक्तपट-प्रावृतसर्वावयवा शरीरं च लावण्यं च शरीरलावण्यं = देहकान्ती नातिस्फुटे = अपूर्णव्यक्ते अनतिप्रकटे शरीरलावण्ये यस्याः सा स्फुटशरीरलावण्या = अनतिविभाव्यमानाङ्गसौन्दर्य-विभवा अत्रभवती = एषा प्रशस्ता ललना का स्वित् = का वा भवेत् ?
अर्थात् यथा जीर्णपाण्डुरपर्णस्याभिनवपल्लवस्य शोभां स्पष्टमविभाव्य द्रष्टुं चित्तं न चमत्कृतं भवति तथैव लम्बकूर्चानां मुनीनां मध्ये माना केयमवगुण्ठनवतीति भावः । अत्रोपमा काव्यलिङ्गोऽलङ्कारो आर्यावृत्तं च ।। १३ ।।
उभड़ते हुए शरीर और यौवन वाली घूँघट, निकाले हुए ऋषियों के बीच में खड़ी हुई, पीले-पुराने पत्तों के बीच में कोमल अभिनव पल्लवों की भाँति शोभायमान यह सुन्दरी युवती कौन हैं ? ।।१३।।
**विशेष—**यहाँ अवगुण्ठन शब्द का प्रयोग ऐतिहासिक दृष्टि से बड़े महत्त्व का है। इससे प्रतीत होता है कि अतिप्राचीन काल में अवगुण्ठन प्रथा का प्रचलन था। राजपरिवार तथा बड़े घरानों की स्त्रियाँ प्राचीन काल में भी घूँघट किया करती थीं। घूँघट तथा पर्दा प्रथा में अन्तर है। साड़ी के अञ्चल भाग से मुख का ढँकना घूँघट है और साड़ी के अतिरिक्त दूसरे वस्त्र उत्तरीय आदि से शरीर का ढँकना पर्दा प्रथा है, जिसका विकास यवनकाल से विशेष माना जाता है।
घूँघट की प्रथा इस देश की पुरानी प्रथा है। आदिकवि महर्षि वाल्मीकि रामायण से लेकर कविवर कालिदास आदि की रचनाओं तक इसका स्पष्ट उल्लेख मिलता है। कुछ विशेष अवसरों को छोड़कर स्त्रियाँ अवगुण्ठन करती थीं। जैसे—अतिसङ्कट, युद्ध स्वयंवर, व्रत, यज्ञ एवं विवाद के अवसर पर अवगुण्ठन के अभाव में स्त्रियों का दूसरों की दृष्टि में आना दोष नहीं माना जाता।
व्यसनेषु च कृच्छ्रेषु न युद्धे न स्वयंवरे। न व्रतौ न विवाहे च दर्शनं दूष्यते स्त्रियः ।। वा० रा० ११४।२८
और यह सीता इस समय विपत्ति में है, मानसिक कष्ट से भी युक्त है, विशेषकर मेरे पास है। इसलिए इस समय अवगुण्ठन के बिना सबके सामने आना दोष की बात नहीं है।
सैषा विपद्गता चैव कृच्छ्रेण च समन्विता। दर्शने नास्ति दोषोऽस्या मत्समीपे विशेषतः ।। ११४।२९
महाभारत में शल्यपर्व में कहा गया है—
अदृष्टपूर्वा या नार्यो भास्करेणापि वेश्मसु। ददृशुस्ता महाराज ! जना याता पुरं प्रति ।।
प्रतिमानाटक में भास ने लिखा है कि 'निर्दोषदृश्या हि भवन्ति नार्यो यज्ञे, विवाहे, व्यसने च (१।२०)। इसी प्रकार महावैयाकरण महर्षि पाणिनि ने अपनी अष्टाध्यायी के 'असूर्य्यललाटयोः दृशितपोः (३।१।३६) सूत्र का उदाहरण दिया है कि सूर्य्यं न पश्यन्तीति असूर्यंपश्या। अर्थात् जिन पर सूर्य तक की नजर न गई हो वे राजदाराएँ राजमहलों से बाहर नहीं निकलती थीं। जिन्हें सूर्य तक न देख पाये उस असूर्यंपश्या शब्द से स्पष्ट है कि स्त्रियाँ केवल पुरुषों की दृष्टि से ही नहीं बचाई जाती थीं, किन्तु धूप से भी बचाई जाती थीं। इस प्रकार स्त्रियों के प्रति पुरुषों का आकर्षण तथा स्त्रियों को सुन्दरता का विषय बनाने के लक्ष्य से घूँघट प्रथा का प्रचलन था क्योंकि स्वच्छन्दता से धूप में बाहर घूमने पर शरीर का रंग साँवला पड़ जाता है, और शरीर का लावण्य निकल जाता है। अद्भुत सुन्दरता के लिए लावण्य शब्द का प्रयोग होता है। मोती के ऊपर जो चमक दिखाई पड़ती है उसे लावण्य कहते हैं—
मुक्ताफलेषु छायायास्तरत्वमिवान्तरा। प्रतिभाति यदङ्गेषु तल्लावण्यमुच्यते ।।
पञ्चमोऽङ्कः | २४१
प्रतीहारी—देव कुदूहलगब्भोपहिदो ण मे तक्को पसरदि। णं दंसणीआ उण से आकिदी लक्खीअदि। [ देव कुतूहलगर्भोपहितो न मे तर्कः प्रसरति। ननु दर्शनीया पुनरस्या आकृतिर्लक्ष्यते। ]
राजा—भवतु अनिर्वर्णनीयं परकलत्रम्।
शकुन्तला—( हस्तमुरसि कृत्वा आत्मगतम् ) हिअअ किं एव्वं वेवसि ! अज्जउत्तस्स भावं ओहारिअ धीरं दाव होहि। [ हृदय किमेवं वेपसे। आर्यपुत्रस्य भावमवधार्य धीरं तावद्भव। ]
प्रतिहारी—देव ! = महाराज ! कुतूहलेन = कौतुकेन औत्सुक्येन गर्भे = मध्ये उपहितः युक्त इति कुतूहलगर्भोपहितः आश्चर्यभराक्रान्तः तर्कः = ऊहः मे = मम अनुमानं न प्रसरति = न विकसितो भवति, केयमिति निश्चेतुमसमर्थोऽहमित्यर्थः। ननु दर्शनीया = द्रष्टुं योग्या अस्या आकृतिः = शरीरावयवस्थानम् लक्ष्यते = अनुमीयते। भव्याकृतिरियम्-वश्यं भवता दृश्यतामिति भावः।
राजा—प्रतिहार्युक्तं तद्दर्शनं निषेधति—भवतु = अस्तु तावन् या वा, काधेयं भवतु, परकलत्रं = अन्यस्य दाराः अनिवर्णनोयम्=निवर्णनं=निपुणं विलोकनं तत् कर्तुमनुचितम्। अद्रष्टव्यमित्यर्थः। अनालोचनीयः खलु परपरिग्रहो भवतीति भावः।
शकुन्तला—दुर्निमित्तैर्दूयमानं मानसं शकुन्तला प्रत्याह (हस्तं = करम् उरसि =
प्रतिहारी—प्रभो, इसके विषय में मुझे भी कौतूहल हो रहा है आधार के बिना मेरा तर्क यहाँ काम नहीं दे रहा है। हाँ, इसकी आकृति तो अवश्य सुन्दर, दर्शनीय तथा आकर्षक मालूम होती है।
राजा—अच्छा, जाने दो, दूसरे की स्त्री को इस प्रकार ध्यान से देखना भी ठीक नहीं है।
विशेष—पराई स्त्री को घूर-घूर कर देखना भारतीय सदाचार के विरुद्ध है। दूसरे की स्त्री पर बुरी दृष्टि न देने की परम्परा भारत का प्राचीन आदर्श है और राष्ट्र की पवित्रता का द्योतक है। प्रसन्नराघव में भाद्रो मास के शुक्लपक्ष की चतुर्थी तिथि को चन्द्रमा के दर्शन की तरह पराई स्त्री को देखने का निषेध करते हुए कहा गया है कि—भाद्रपदचतुर्थी चन्द्रदर्शनमिव।
उदर्कभूतिमिच्छद्भिः सद्भिः खलु न दृश्यते।
चतुर्थी चन्द्रलेखेव परस्त्रीभालपट्टिका ॥
इसी का अनुवाद गोस्वामी तुलसीदास जी ने अपने रामचरितमानस में यों किया है—
जो पर नारि ललाट गोसाँई। तजहु चौथ चन्दा की नाईं।
मृच्छकटिक नाटक में भी पराई स्त्री का दर्शन निषेध किया गया है—
न युक्तं परकलत्रदर्शनम्।
अविवाहिता कन्याओं के देखने का वैसा निषेध नहीं है जैसा कि विवाहित स्त्रियों का। इसलिए भास कवि ने अपने प्रतिज्ञायौगन्धरायण में कुमारी कन्याओं को देखना दोषरहित बताया है—‘कन्यादर्शनं हि निर्दोषम्’ यही भाव नागानन्द में भी निर्दिष्ट है—‘कन्यका हि निर्दोषदर्शना भवन्ति’।
शकुन्तला—( छाती पर हाथ रखकर, मन ही मन ) हृदय ! क्यों इस प्रकार धड़क रहे हो। पतिदेव के पूर्व प्रदर्शित प्रेम को समझकर जरा धैर्य तो धारण करो।
विशेष—शकुनशास्त्र के अनुसार हृदय का धड़कना भावी अमङ्गल का सूचक है।
6 १६ शाकु०
२४२ | अभिज्ञानशाकुन्तलम्
पुरोहितः— (पुरो गत्वा) एते विधिवदर्चितास्तपस्विनः। कश्चिदेषामुपाध्याय-संदेशः। तं देवः श्रोतुमर्हति।
राजा— अवहितोऽस्मि।
ऋषयः— (हस्तानुद्यम्य) विजयस्व राजन्।
राजा— सर्वानभिवादये।
ऋषयः— इष्टेन युज्यस्व।
राजा— अपि निर्विघ्नतपसो मुनयः?
वक्षसि कृत्वा = विधाय आत्मगतं = स्वगतम् विचारयति—हे हृदय ! = हे अन्तःकरण ! किं = कथं, एवं = अनेन प्रकारेण वेपसे = कम्पसे अनिष्टाशङ्कयाऽवधीरणाभयाद्वा हृदयस्य कम्पः। आर्यपुत्रस्य = स्वामिनः भावं = प्रेम अवधार्य = विचार्य धीरं = धैर्ययुतं तावत् भव = एधि। तादृशी प्रीतिर्न विकल्पते। अतश्चिन्ता न कार्येत्यर्थः।
पुरोहितः— पुरोधाः सोमरातः (पुरो गत्वा = अग्रे राज्ञः समीपे उपस्थाय) ब्रवीति-एते पुरोवर्तिनः तपस्विनः = तापसाः विधिवत् = यथाशास्त्रम्, अर्चिताः = पूजिताः सत्कृताश्च, कश्चित् = कोऽपि एषाम् = अमीषाम् उपाध्यायस्य सन्देशः उपाध्यायसन्देशः आचार्यमहर्षिकण्वस्य सन्दिष्टम् विद्यते तं = वाचनिकं देवः—महाराजः अर्हति श्रोतुम् = आकर्णयितुम्।
राजा— अवहितोऽस्मि = पूज्यस्य महर्षेः कण्वस्य सन्देशं भवन्मुखेभ्यः श्रोतुं सावधानोऽस्मि।
ऋषयः— (हस्तान् = करान्, उद्यम्य = उत्थाय) अब्रुवन्—राजन् = महाराज ! विजयस्व, विजयं लभताम् सर्वोत्कर्षेण वर्तस्वेति भावः।
राजा— सर्वान् = शार्ङ्गरवं शारद्वतं पुरोहितं गौतमी च सकलान् अभिवादये = प्रणमामि।
ऋषयः— ते ऊचुः = इष्टेन = अभिलषितेन फलेन युज्यस्व = युक्तो भव।
राजा— अपि = किम्, निर्विघ्नतपसः-निर्विघ्नानि तपांसि तपस्या येषां ते निर्विघ्न-तपसः = तपश्चरणेषु विघ्नरहिताः मुनयः = ऋषयः सन्ति वा न वा?
पुरोहित— (आगे आकर) महाराज का कल्याण हो। हे महाराज ! इन तपस्वियों को शास्त्रोक्त विधि से पूजा कर दी गई है, और इनके पास इनके गुरु जी महर्षि कण्व का कुछ सन्देश है, उसको आप सावधान होकर सुनें।
राजा— मैं सुनने के लिए सावधान हूँ, कहिए।
ऋषिगण— (हाथ उठाकर) हे राजन् ! आपकी हमेशा विजय हो, आप विजयी बनें।
राजा— मैं आप सबको प्रणाम करता हूँ, और आशीर्वाद की याचना करता हूँ
ऋषिगण— महाराज का कल्याण हो।
राजा— आपलोगों की तपस्या में किसी प्रकार का कोई विघ्न तो नहीं है, न?
पञ्चमोऽङ्कः २४३
ऋषयः—
कुतो धर्मक्रियाविघ्नः सतां रक्षितरि त्वयि ।
तमस्तपति घर्मांशौ कथमाविर्भविष्यति ॥ १४ ॥
राजा—( आत्मगतम् ) अर्थवान् खलु मे राजशब्दः । ( प्रकाशम् ) अथ भगवाँ-ल्लोकानुग्रहाय कुशली काश्यपः ।
ऋषयः— मुनयो निर्विघ्नतां वर्णयन्ति—कुत इति ।
अन्वयः— त्वयि रक्षितरि ( सति ) सतां धर्मक्रियाविघ्नः कुतः ? घर्मांशौ तपति ( सति ) तमः कथमाविर्भविष्यति ।
अथ मुनय आत्मतपसो निर्विघ्नतां वर्णयितुमुपक्रमन्ते—कुत इति । त्वयि भवति महाराजे दुष्यन्ते रक्षितरि = पालयितरि प्रजापालके, रक्षाकर्मकुर्वति सति सतां = सज्जनानां धार्मिकाणां धर्मक्रियाविघ्नः धर्मक्रियासु = धर्माचरणेषु विघ्नः = अन्तरायः धर्मानुष्ठान-विघ्नः कुतः = कस्माद्वा स्यात् संभवेत् । भवति रक्षके विद्यमाने सतां क्रियामात्रविघ्नोऽपि न सम्भाव्यते इति सुतरां धर्मक्रियाविघ्न इति भावः । तत्र दृष्टान्तमाह—घर्मांशो = सूर्ये तपति सति, पूर्णबलेन प्रकाशमाने सति तमः = अन्धकारः कथं = केन प्रकारेण आविर्भवति = प्रकाशमागमिष्यति । अतश्च हे राजन् ! त्वयि रक्षके। जागरूक्रे सति कथं धर्मक्रियानुष्ठाने विघ्नस्य शङ्कापि सम्भवतीति भावः । अर्थात्—राजन् ! सावधानेन मनसा प्रजापालनकर्म कुर्वति भवति जागरूक्रे समेषां सामान्यक्रियामात्रेऽपि न कश्चनान्तरायः सम्भवति, धर्मानुष्ठानविघ्नस्योपस्थितः कथैव का ? अतो वयं निश्चिन्ता सन्तः स्वेषु स्वेषु कर्मसु प्रवर्तामहे । यथा दिवाकरे उदीयमाने तमः स्वयमेव दूरीभवति । तथैव सूर्यसदृशस्य तेजस्विनोर्भवतो व्यवस्थयाऽस्माकं सर्वं यज्ञानुष्ठानादिकं सम्यक् सततं प्रचलति न तत्रास्ति कोऽप्यन्तराय इति भावः ।
अत्र दृष्टान्तः प्रतिवस्तूपमा वालङ्कारः, अनुष्टुप् छन्दश्च ॥ १४ ॥
राजा—अर्थवान् = सार्थकः खलु=निश्चयेन मे = मम राजशब्दः = राजा इति पदम् । सुष्ठु प्रजापरिपालनेन जनानुञ्जनादन्वर्थः राजशब्दः-राजते दीयते, रञ्जयतीति च राजशब्दव्युत्पत्तिः ।
'ब्राह्मणं कुशलं पृच्छेत् क्षत्रबन्धुमनामयम् ।
वैश्यं क्षेमं समागत्य शूद्रमारोग्यमेव च ॥ २ । १२७ ॥
ऋषिगण— हे राजन ! सज्जनों के रक्षक आपके रहते हमारी तपस्या में विघ्न हो ही कैसे सकता हैं ! क्योंकि प्रचण्ड किरण वाले भास्कर के रहते अन्धकार का आविर्भाव ही कैसे हो सकता है ? ॥ १४ ॥
राजा—( मन ही मन ) मेरा राजा कहलाना आज सर्वथा सार्थक हुआ जबकि ये तपस्वी लोग इस प्रकार विघ्न बाधाओं से रहित होकर तपश्चर्या कर रहे हैं। ( प्रकट में ) महातपस्वी महर्षि कण्व जी प्रसन्न एवं कुशल पूर्वक हैं, न !
विशेष— राजकुल में उत्पन्न होने से तो सभी राजा कहे जाते हैं, किन्तु वस्तुतः वही राजा है जो लोकरञ्जन करे, मानो निरन्तर प्रजाओं का कल्याण करें । जो प्रजा की शुभाशंसा में निरत रहता हैं और हमेशा प्रजाओं का कल्याण करता रहता है, सच्चे अर्थ में वही राजा है । 'लोकान् रञ्जयतीति राजा' यह व्युत्पत्ति लोकरञ्जक राजा में ही घटती है ।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
२४४
अभिज्ञानशाकुन्तलम्
ऋषयः— स्वाधीनकुशलाः सिद्धिमन्तः। स भवन्तमनामयप्रश्नपूर्वकमिदमाह।
राजा— किमाज्ञापयति भगवान्।
शाङ्गंरवः— ^१यन्मिथः समयादिमां मदीयां दुहितरं ^२भवानुपायंस्त तन्मया प्रीतिमता युवयोरनुज्ञातम्। कुतः—
त्वमर्हतां प्राग्रसरः स्मृतोऽसि नः शकुन्तला ^३मूर्तिमती च सत्क्रिया।
समानयंस्तुल्यगुणं वधूवरं चिरस्य वाच्यं न गतः प्रजापतिः ॥ १५ ॥
मनुवचनानुसारं राजा महर्षेः कुशलं पृच्छति—अथ = किम् भगवान् = श्रीमान् लोकानुग्रहाय = जनकल्याणै कुशली = सकुशलः काश्यपः = महर्षिः कण्वः त्रिभुवनानुग्राह-कत्वेन महर्षेः लोकोत्तराः तपःसिद्धिः, परोपकारनियत्तत्वं च ध्वन्यते।
ऋषयः— स्वाधीनकुशलाः-स्वाधीनं = आत्मायत्तं कुशलं = कुशलता येषां ते स्वाधीन कुशलाः = स्वतन्त्रसुखा आत्माराम्रा वा सिद्धिमन्तो = अलौकिकशक्तियुक्ताश्च महर्षयो भवन्ति। तत्र महर्षि कण्वः, सिद्धिमन्, अतः स्वाधीनकुशल इत्यर्थः। स महर्षिः कण्वः भवन्तं - त्वाम्, अनामयप्रश्नपूर्वकम् = अनामयस्य प्रश्नः पूर्वं यस्मिन् कर्मणि तत् अनामयप्रश्नपूर्वकम् = आरोग्यप्रश्नपुरःसरम् अपि अनामयः असि इति प्रथमं पृष्ट्वेत्यर्थः। इदं = वक्ष्यमाणम् आह = उक्तवान्।
राजा— भगवान् = श्रीमान् कण्वः किम् आज्ञापयति = किं वदति ?
शाङ्ग्ररवः— उक्तवान्-यत् भवान् = त्वम् मिथः समयात् = परस्परसङ्केतात, अन्योन्यानुरागेण 'गान्धर्वः समयान्मिथ' इति याज्ञवल्क्योक्ते गान्धर्वेण विवाहेनेत्यर्थः, इमां = पुरो निधीयमानां मदीयां = मामकीनां दुहितरम् उपायंस्त = परणीतवान् तत् = इदमनुचितमपि स्वेच्छाचरितमुपयमनरूपं तव कायंम् प्रीतिमता = प्रसन्नेन मया कण्वेन युवयोः = वाम् उभयोः अनुज्ञातं = अनुमतं, स्वीकृतम्, कुतो = मयानुज्ञातमित्यत आह—त्वमहंतामिति ।
अन्वयः— त्वं नः अर्हतां प्राग्रसरः स्मृतोऽसि, शकुन्तला च मूर्तिमती सत्क्रिया। तुल्यगुणं बन्धुवरं समानयन् प्रजापतिः चिरस्य वाच्यं न गतः।
अथ कुलपतेः कण्वस्य सन्देशं निवेदयन् तदीयशिष्यः शार्ङ्गरवो नृपतिं दुष्यन्तमाह—त्वमहंतामिति। त्वं = भवान् नः = अस्माकम्, अर्हतां = पूज्यानां प्राग्रसरः प्रकर्षण
ऋषिगण— हे राजन् कण्व सदृश योगसिद्धिशाली महात्मा लोग तो हमेशा ही सकुशल रहते हैं। तपस्या के प्रभाव से उनकी तो कुशलता सर्वथा सिद्ध है। हाँ हमारे गुरुजी ने पहले आपकी आरोग्यता का प्रश्न करके पुनः यह सन्देश आपसे कहा है। मिलने पर ब्राह्मणों से कुशलता और क्षत्रियों से निरोगता पूछना चाहिए। 'ब्राह्मणं कुशलं पृच्छेत् क्षत्रबन्धुमनामयम्'
राजा— कहिए, महर्षि कण्व ने मुझको क्या आज्ञा दी है ?
शाङ्ग्ररव— भगवान् कण्व ने आपसे कहा है कि हे राजन् ! आपने परस्पर की अभिलाषा से ही गान्धर्व विधि से ही स्वेच्छापूर्वक मेरी अनुमति के बिना ही इस कन्या शकुन्तला के साथ जो विवाह कर लिया है, तुम दोनों की स्वेच्छा से किये हुये उस गान्धर्व विवाह को मैंने प्रसन्नता पूर्वक स्वीकार कर लिया है, क्योंकि—
आप राजा होने के कारण हम आदरणीयों में श्रेष्ठ समझे जाते हैं और यह शकुन्तला भी
पाठा०—१. यन्मिथःसमवायादिमां। २. भवानुपयेमे। ३. मूर्तिमतीव सत्क्रिया।
पञ्चमोऽङ्कः २४५
तदिदानीमापन्नसत्त्वा प्रतिगृह्यतां सहधर्मचरणायेति ।
अग्रसरः पुरोगामी मुख्यः स्मृतोऽसि = मतोऽसि, वयं त्वां सत्क्रियार्हाणाम् अग्रणी मन्यामहे । शकुन्तला च मूर्तिमती शरीरधारिणी, धृतशरीरा सत्क्रिया = शोभना क्रियेव, सत्कारस्य साक्षान्मूर्तिरिव, सकलजनाभिनन्दनीयास्तीति यावत् । तुल्याः = समानाः गुणाः यस्य तत् तुल्यगुणं = समानगुणम्, वधूश्च वरश्चानयो समाहारः वधूवरं = वधूं च वरं च इमां च त्वां च वरवध्वौ समानयन् = संयोजयन् प्रजापतिः विधाता चिरस्य = बहोः कालात् वाच्यम् = असमानवधूवरयोजनरूपम् अपवादम् ।
वाच्यं वक्तव्यमित्येतौ प्रवर्तेते प्रपादने ।
वचो हे कुत्सिते हीने दूषणेऽभिधयोदिते ॥ इति धरणी
न गतः = न प्राप्तः । अर्थात् राजन् ! परस्परानुरागेण त्वमिमां गान्धर्वविवाहविधिना परिणीतवान् । तत्रानन्दमेवानुभवामि, यतो हि त्वं कुलीनानामग्रणी इयं च शकुन्तला साक्षात् शरीरधारिणी सत्क्रियैवास्ति । अतस्त्वमस्या अनुरूपः, इयं च त्वदनुरूपा, युवयोः परस्परं प्रेम महता सौभाग्येन सम्पन्नम् । बहोः कालात् लोके प्रवृत्तम् असमानदम्पति संयोजनात्मकम् अपवादमसहमानो विधाता शकुन्तलामिमां त्वां दुष्मन्तं च समानगुणौ निर्मायात्मनःकलङ्कं मार्जितवानिति मन्ये ।
अत्रोत्प्रेक्षानुप्रासकाव्यलिङ्गालङ्कारा सन्ति, छन्दश्चास्ति वंशस्थम् ॥ १५ ॥
तत् = तस्मात् कारणात् त्वया शकुन्तलापरिणयस्य कृतत्वात् मया तदनुमतत्वाच्च इदानीं = अधुना एषा सत्त्वमापन्ना = आपन्नसत्वा यद्वा आपन्नं = प्राप्तं सत्त्वं = जीवं यामिति आपन्नसत्त्वा = गर्भिणीति सहधर्मचरणाय सह = सहैव धर्मस्य = यज्ञादेः चरणाय
साक्षात् शरीरधारिणी सत्क्रिया ही है। अतः अधिक समय के बाद ऐसे तुल्य गुण वधू वर का जोड़ा मिलाने से ब्रह्मा जी संसार की प्रशंसा के पात्र हुए हैं ॥ १५ ॥
**विशेष—**विधाता वधू-वर के जोड़े को कम मिलाते हैं, यदि कहीं कन्या सुन्दर होती है तो वर उसके अनुरूप नहीं रहता, यदि कहीं वर गुणी युवा एवं सुन्दर है तो कन्या कुरूपा एवं निर्गुणी होती है। इसलिए लोग ब्रह्माजी की निन्दा किया करते हैं, परन्तु तुम दोनों समान गुण एवं रूप वालों का यह जोड़ा बड़े सौभाग्य से विधाता ने बनाकर सदा की तरह निन्दा के पात्र न होकर प्रशंसा के ही पात्र हुए हैं। अर्थात् तुम दोनों का किया हुआ यह विवाह मुझे स्वीकार है।
अष्ट दिक्पालों के अंश से उत्पन्न धार्मिक प्रवृत्ति वाला राजा संसार के समस्त आदरणीय व्यक्तियों में श्रेष्ठतम माना जाता है। श्रेष्ठ व्यक्तियों का सत्कार श्रेष्ठ वस्तुओं से ही करना समुचित है। आप सत्कार्य हैं तो शकुन्तला सत्कारस्वरूप है। अतः इससे आपका सम्मान समुचित ही है। पतिपत्नी का मेल विधाता गलत करते हैं। इसलिए कहा गया है—'या सुन्दरी सा पतिना विहीना' बेमेल व्यक्तियों का विवाह करने की जो ब्रह्मा जी के मस्तक पर कलङ्क की टीका लगी हुई थी उसको तुम दोनों शकुन्तला दुष्यन्त की जोड़ी बनाकर उन्होंने अब धो दिया है। ऐसी सुन्दर जोड़ी विधाता ने इससे पहले नहीं बनाई थी, जिससे वह निन्दा का पात्र था, अब बना दी, जिससे अब वैसा नहीं रहा क्योंकि शकुन्तला तथा दुष्यन्त अपने समय के बेजोड़ स्त्री पुरुष हैं।
और अब आपकी धर्मपत्नी शकुन्तला गर्भिणी हैं। अतः इसको धर्माचरण के लिए अपने पास रखिए।
**विशेष—**आपन्नसत्त्वा का अर्थ गर्भवती हैं। विवाहित व्यक्ति जो धर्म का आचरण अकेला करता है तो वह निष्फल हो जाता है। इसलिए विवाहित को अपनी पत्नी अपने पास रखकर
२४६ अभिज्ञानशाकुन्तलम्
गौतमी—अज्ज किंपि वत्तुकामम्हि । ण मे वअणावसरो अस्ति । कहंति । [ आर्य किमपि वक्तुकामास्मि । न मे वचनावसरोग्स्ति । कथमिति ] ।
णापेक्खिओ गुरुअणो इमाइ ण हु पुच्छिदो अ बंधुअणो । एक्कक्कमेव्व चरिण् भणामि किं एक्कमेक्कस्स ॥ १६ ॥ [ नापेक्षितो गुरुजनोऽनया न खलु पृष्टश्च बन्धुजनः । एकैकमेव चरिते भणामि किमेकमेकस्य ॥ ]
= गृहस्थाश्रमधर्मपरिपालनाय दम्पत्योः सहाधिकारादिति नियमेन सपत्नीकस्यैव पुंसो धर्माचरणेऽधिकारस्य शास्त्रबोधितत्वादितिभावः ।
गौतमो—आर्य ! = श्रीमन् ! किमपि = किञ्चित् वक्तुकामा = कथयितुकामा अस्मि, किन्तु मे = मम वचनावसरः = कथनावकाशः न अस्ति = न विद्यते कथमिव = केन प्रकारेण–कुतो न वचनावकाशः इति चेदुच्यते । तदेवाह—
**अन्वयः—**अनया गुरुजनः नापेक्षितः ( त्वयापि ) बन्धुजनः न पृष्टः खलु एकैकम् एव चरिते एकस्य एकं किं भणामि ।
अथ गौतमी शकुन्तला पतिग्रहविषये किमपि वक्तुमनावश्यकं मत्वा ब्रवीति— नापेक्षित इति । अनया = शकुन्तलया गुरुजनः = मान्यजनो महर्षिः कण्वः अहं च न अपेक्षितः=न गणितः गुरुजनापेक्षा न कृता वयमेव कर्तव्यं निर्णीतमित्यर्थः त्वयापि बन्धुजनः = एतद्बन्धुवर्गः कन्याबन्धुः न पृष्टः = शकुन्तलार्थे न याचितः इत्यमितरनिरपेक्षम् एकैकमेव चरिते = एकेन एकेनैव परस्परावाचारेणानुष्ठिते गन्धर्वलक्षणे विवाहे लक्षण कर्माणि एकस्य युवयोरेकस्य तव एकं=किमपि किं भणामि न भणामीत्यर्थः ! शकुन्तलायाः तव च तुल्यदोषात् त्वयाऽनुचितं कृतमिति शकुन्तला पक्षपातेन त्वामहं न वच्मि । अतो नोचितं त्वं कृतवानिति ध्वन्यते ।
राजन् ! पूर्वं विवाहकाले त्वमियं च द्वावपि अन्योन्यरागान्धतया न किमपि समुदाचारं स्मृतवन्तौ, अतोऽधुनापि अस्याः प्रतिग्रहविषये नारमणीयं किञ्चिद्वक्तुमुचितम् । तथाविधं स्वैच्छिकं परस्परानुरागं विचार्य त्वमिमां कण्वस्य प्रियदुहितरं शकुन्तलामनुगृहाणेतिभावः अत्रार्थापत्तिरलङ्कारो गाथा छन्दश्च ॥ १६ ॥
धर्माचरण करना चाहिए । क्योंकि शास्त्रों में सपत्नीक होकर धर्माचरण करना उचित माना गया है—‘सपत्नीको धर्ममाचरेत्’ । पत्नी के साथ-साथ धर्माचरण का आदेश देकर धर्माचार्यों ने पत्नियों को अत्यन्त ऊँचा स्थान दिया है । गान्धर्व विधि से किया गया विवाह भी धर्मविवाह माना जाता है । इसलिए शकुन्तला के साथ रहकर धर्माचरण का आदेश दिया गया है ।
गौतमी—श्रीमन् ! मैं भी कुछ कहना चाहती हूँ, पर, मेरे लिए कहने का मौका ही नहीं रह गया है, क्योंकि—
हे राजन् ! इस गान्धर्व विवाह के सम्बन्ध में न तो इस शकुन्तला ने अपने गुरुजनों का कुछ ख्याल किया, न आपने ही अपने बन्धु-बान्धवों से कुछ पूछा । अतः तुम दोनों एक प्रकार के दोषी हो । अतः किसको दोष दिया जाय ? एक अपराधी हो तो उसे कुछ कहा सुना जाय, पर जब दोनों ही दोषी हैं । तब किसके लिए दोष दिया जाय ? ॥ १६ ॥
**विशेष—**गौतमी लोकव्यवहार में अति कुशल है । जिस समय शार्ङ्गरव महर्षि कण्व का सन्देश सुना रहे थे उस समय राजा की मुखाकृति पर अस्वीकृति अनभिज्ञता तथा घृणा के भाव उमड़
पञ्चमोऽङ्कः
२४७
शकुन्तला—( आत्मगतम् ) किं णु खु अज्जउत्तो भणादि [ किं नु खल्वार्यपुत्रो भणति । ]
**राजा—**किमिदमुपन्यस्तम् ।
शकुन्तला—( आत्मगतम् ) पावओ खु वअणोवण्णासो । [ पावकः खलु वचनोपन्यासः । ]
**शाङ्गंरवः—**कथमिदं नाम । भवन्त एव सुतरां लोकवृत्तान्तनिष्णाताः ।
शकुन्तला—( आत्मगतं स्वगतम् ) वदति आर्यपुत्र ! = श्रेष्ठः स्वामी किं नु खलु भणति = किमुत्तरं दद्यात् ।
**राजा—**महर्षेः दुर्वाससः शापबलेन विस्मृतविवाहवृत्तान्ते राजा पृच्छति—किमिदं किमुपर्युक्तं स्वेच्छापरिणयादिकम् उपन्यस्तम्=कथितम्, किमिदमनारब्धमित्यर्थः । अस्योपन्यासस्यासम्बद्धत्वात् तदर्थो मया नावबुध्यत इति भावः ।
**शकुन्तला—**दुर्वाससा दत्तस्य शापस्य वृत्तान्तमजानन्ती शकुन्तला राज्ञो वचनमाकर्ण्य आत्मगतं विचारयति—पावकः=अनलः खलु एव साक्षात् अग्निसमो वचनोपन्यासः= वाग्विन्यासः स्वामिनो वचनोपन्यासस्य हृदयदहकत्वादग्निसमत्वमुक्तम् ।
**शाङ्गंरवः—**अथ राज्ञः दुर्वाससः शापहेतुकं शकुन्तलाविस्मरणमजानन् शाङ्गंरवो राजोक्तेरनौचित्यं बोधयितुमुपक्रमते—कथमिदं नाम = कथं = केन प्रकारेण इदम् उपर्युक्तं संभाव्यते, किमिदमुपन्यस्तमिति राजोक्तौ इदं पदं कुतः प्रयुज्यते । अस्मदुदीरितं वृत्तान्तमजानन्निव किमिति पृच्छतीति भावः । भवन्तः = यूयम् एव सुतराम् = सुष्ठु लोकस्य = जगतः वृत्तान्ते = व्यवहारे निष्णाताः = दक्षा इति लोकवृत्तान्तनिष्णाताः = लोकव्यवहारपटवः, वर्णाश्रमधर्मस्य पालकत्वाद् भवन्तो राजान एव अस्मदपेक्षया सुतरां लोकव्यवहारस्य वृत्तज्ञाः, वयन्तु तपोवनवासित्वाङ्गलोकवृत्तान्तभिज्ञाः । तथापि यावदवगतं लोकवृत्तं वदाम इति भावः ।
रहे थे, गौतमी ने उन भावों को ताड़ लिया और वात्सल्यपूर्ण सुझाव देना आरम्भ किया। वस्तुतः शकुन्तला को इसमें अपने गुरुजनों तथा बन्धुजनों की अनुमति ले लेनी चाहिए थी तथा आपको भी अपने बन्धुओं एवं शकुन्तला के बन्धुओं से बातचीत कर लेनी चाहिए थी, जिससे इस प्रकार के गुप्त रूप से गान्धर्व विवाह करने को आवश्यकता ही नहीं पड़ती। अतः इस विषय में आप दोनों समान ही दोषी हैं। जब दोनों का समान ही दोष है, तो एक दूसरे को दोष न देकर अपना ही दोष स्वीकार करना चाहिए, और दूसरे पर आश्चर्य या क्रोध करना उचित नहीं है।
शकुन्तला—( मन ही मन ) देखें, अब आर्यपुत्र इस विषय में क्या कह रहे हैं ?
**राजा—**हैं ! हैं ! यह क्या कहा जारहा है, आप लोग यह कैसी बात कह रहे हैं ?
शकुन्तला—( मन ही मन ) हा धिक् ! हा धिक् ! इनका यह वचन तो आग की तरह जलाने वाला है ।
**शाङ्गंरव—**आप यह क्या कह रहे हैं कि यह क्या बात है ? हे राजन् आप तो स्वयं लोक व्यवहार को अच्छी तरह जानने वाले हैं। देखिए—
२४८ | अभिज्ञानशाकुन्तलम्
सतीमपि ज्ञातिकुलैकसंश्रयां जनोऽन्यथा भर्तृमतीं विशङ्कते ।
अतः समीपे परिणेतुरिष्यते प्रियाप्रिया वा प्रमदा स्वबन्धुभिः ॥ १७ ॥
**राजा—**किं चात्रभवती मया परिणीतपूर्वा ?
**अन्वयः—**ज्ञातिकुलैकसंश्रयां भर्तृमतीं सतीमपि जनः अन्यथा विशङ्कते । अत स्वबन्धुभिः प्रिया अप्रिया वा प्रमदा परिणेतुः समीपे इष्यते ।
तमेव लोकव्यवहारं निर्दिशति—सतीमपीति। ज्ञातिकुलैकसंश्रयां भर्तृमतीं सतीमपि जनः अन्यथा विशङ्कते । अतः स्वबन्धुभिः प्रिया अप्रिया वा प्रमदा परिणेतुः समीपे इष्यते ज्ञातिकुलं = पितृकुलं बान्धवगोत्रमेव एकः = केवलः संश्रयो यस्याः सा ज्ञातिकुलैकसंश्रयां = पितृगृहमात्रवासशीलां, बान्धवगृहवासिनीं वा भर्तृमतीं = सभर्तृकां, विद्यमानधवां, सधवां सुवासिनीम् सतीमपि पतिव्रतां साध्वीमपि जनः = लोकः अन्यथा = अन्यप्रकारेण असतीमिति विशङ्कते = सम्भावयति । अतः = अस्मादेव खलु कारणात् लोकापवादभयात् स्वबन्धुभिः = वधूबन्धुभिः प्रिया = भर्तुरभिमता अप्रिया भर्तुरनभिमता वा प्रकृष्टो मदः = तारुण्यमदो यस्यां सा प्रमदा = स्त्रीमात्रम् परिणेतुः = वोढुः, पत्युः समीपे = निकटे, सन्निधौ इष्यते = वाञ्छ्यते प्रार्थ्यते । यत एवमतो लोकापवादभीरुणा गुरुणा त्वयोपेक्षिता साध्वी तव धर्मपत्नीयं शकुन्तला त्वत्समीपं प्रापिता तदिदानीं धर्माचरणाय प्रतिगृह्यताम्।
अर्थात् तपोवननिवासिनो वयं न सम्यक् लोकवृत्तमवगच्छामः । राजन् ! युवतीनां चारित्र्यं सर्वदा भवति संशयास्पदम् । यदि काचिदपि सधवा सती स्त्री पितृगेहं तिष्ठेत्तदा साधारणोऽपि जनः तत्र सन्दिहानोऽसती तां सम्भावयति । अतो लोकापवादभिया वयं तव सन्निधौ इमामानीतवन्तः । यदिदं तव परिणीता प्रिया पत्नी चेत्तदा मां गृहिणीं मत्वा गृहाण, अन्यथा दासीवत् परिपालनीया । यतो हि भवन्तमन्तरा अस्या नान्या कापि गतिरिति तात्पर्यम् अत्राप्रस्तुतप्रशंसा काव्यलिङ्गानुप्रासालङ्कारा वंशस्थवृत्तञ्च ॥ १७ ॥
**राजा—**कण्वान्तेवासिनः शार्ङ्गरवस्योक्त्या तदर्थमवगच्छन् राजा पृच्छति—मया = दुष्मन्तेन अत्रभवती = मान्येयं तापसदुहिता पूर्वं परिणीता = परिणीतपूर्वा = प्राक्कृतो-
जिसका पति मौजूद है, ऐसी युवती स्त्री यदि हमेशा पिता या बन्धु-बान्धवों के ही घर पर रहे तो, चाहे वह कितनी सती क्यों न हो, परन्तु लोग तो उसके विषय में अनेक प्रकार की विपरीत शङ्काएँ करने लगते ही हैं। अतः युवती स्त्री को चाहे वह पतिप्रिया हो या न हो, तो भी बन्धु-बान्धव उसे पति के घर ही छोड़ना चाहते हैं ॥ १७ ॥
**विशेष—**यदि कोई विवाहिता स्त्री अपने पिता के यहाँ रह जाती है तो लोग उसके सम्बन्ध में अनेक शङ्काएँ उठाते रहते हैं। कोई कहता है कि यह अमुक युवक से फँसी हुई है अतः पति के घर रहना नहीं चाहती है; तो कोई कहता है कि यह दुश्चरित्रा है अतः इसका पति इसे अपने यहाँ नहीं रखता है परन्तु वास्तविक बात कोई नहीं जानता। अतः भारतीय शास्त्रों में पति के जीवित रहते स्त्रियों का अपने पति के घर रहना उचित है, पिता के घर रहना अनुचित बतलाया गया है। देखिए पद्मपुराण का भी कहना है—
कन्या पितृगृहे नैव सुचिरं वास मर्हति ।
लोकापवादः सुमहान् जायते पितृवेश्मनि ॥
**राजा—**तो, क्या मैंने इस श्रीमती से कभी विवाह किया है ?