अगस्त्य संहिता (महर्षि अगस्त्य - पञ्चरात्र राम-उपासना एवं मन्त्र-विधान सटीक)
Agastya Samhita of Sage Agastya with Commentary
महर्षि अगस्त्य / पं. भवनाथ झा द्वारा
पृष्ठ 328, कुल 337 में से
संदर्भ में पढ़ेंपरिशिष्ट 4 (267) रामसेवापरो नित्यं स महात्मा महामतिः। भीष्मः सेनाभिधो नाम तुलायां रविवासरे॥42॥ द्वादश्यां माघकृष्णे तु पूर्वभाद्रपदे च भे। तदीयाराधने सक्तो ब्रह्मयोगे जनिष्यति॥43॥ श्रीमाघस्यासिताष्टम्यां वृश्चिके शनिवासरे। धनाभिधो बलिः साक्षात् पूर्वाषाढयुते शिवे॥44॥ वरो भक्तिमतां जातस्तदीयाराधने रतः। सदाचारपरो धीमान् गुरुपादाम्बुजार्चकः॥45॥ तत्त्वज्ञो गालवानन्दो जात एकादशीतिथौ। चैत्रे वैयासकिश्चन्द्रे कृष्णे लग्ने वृषे शुभे॥46॥ सर्वदा ज्ञाननिष्ठोऽयमुपदेशपरायणः। वेदवेदान्तिनरतो महायोगी महामतिः॥47॥ चैत्रशुक्लद्वितीयायां शुक्रे मेषेऽथ हर्षणे। यम एव रमादासस्त्वाष्ट्रे प्रादुर्भविष्यति॥48॥ पालनं वैष्णवाज्ञानां कुर्वन् नित्यमतन्द्रितः। धर्ममेवाचरँल्लोके धर्माधीश उदारधीः॥49॥ चैत्रशुक्लत्रयोदश्यां गुरौ कर्के ध्रुवान्विते। उत्तराफाल्गुनी संज्ञे जाता पद्मावती सती॥50॥ श्रीमदाचार्यसन्निष्ठा सा पद्मेवापरा सदा। धर्मज्ञा धर्मनिरता गुरुभक्तिपरायणा॥51॥ एवमेतादृशैस्तैस्तैः शिष्यैर्द्वादशभिर्महान्। शोभिष्यत्यर्चितो देव्या पद्मावव्या च सन्ततम्॥52॥ श्रीमानाचार्यवर्योऽयं रामानन्दो महामतिः। शिष्योपशिष्यैरन्यैश्च शोभितोऽहर्दिवं भुवि॥53॥ पूज्यो ध्येयश्च जगतां रामरूपो जगद्गुरुः। हेतुः कल्याणमार्गस्य शुभदो ज्ञानदोऽनिशम्॥54॥ यस्य दर्शनमात्रेण स्मरणेन सदा क्षितौ। नाम व्याहरणाद्धीना नरा मुक्ता न संशयः॥55॥ यदीयमतमालम्ब्य मन्त्रमन्त्रार्थभूषितम्। भूष्यते भूरियं लोकै राजितैर्मुनिंवृत्तिभिः॥56॥