भारतकोश
संग्रह पर लौटें

अगस्त्य संहिता (महर्षि अगस्त्य - पञ्चरात्र राम-उपासना एवं मन्त्र-विधान सटीक)

Agastya Samhita of Sage Agastya with Commentary

महर्षि अगस्त्य / पं. भवनाथ झा द्वारा

DevanagariSanskritpublished337 पृष्ठ

परिशिष्ट 4 (267) रामसेवापरो नित्यं स महात्मा महामतिः। भीष्मः सेनाभिधो नाम तुलायां रविवासरे॥42॥ द्वादश्यां माघकृष्णे तु पूर्वभाद्रपदे च भे। तदीयाराधने सक्तो ब्रह्मयोगे जनिष्यति॥43॥ श्रीमाघस्यासिताष्टम्यां वृश्चिके शनिवासरे। धनाभिधो बलिः साक्षात् पूर्वाषाढयुते शिवे॥44॥ वरो भक्तिमतां जातस्तदीयाराधने रतः। सदाचारपरो धीमान् गुरुपादाम्बुजार्चकः॥45॥ तत्त्वज्ञो गालवानन्दो जात एकादशीतिथौ। चैत्रे वैयासकिश्चन्द्रे कृष्णे लग्ने वृषे शुभे॥46॥ सर्वदा ज्ञाननिष्ठोऽयमुपदेशपरायणः। वेदवेदान्तिनरतो महायोगी महामतिः॥47॥ चैत्रशुक्लद्वितीयायां शुक्रे मेषेऽथ हर्षणे। यम एव रमादासस्त्वाष्ट्रे प्रादुर्भविष्यति॥48॥ पालनं वैष्णवाज्ञानां कुर्वन् नित्यमतन्द्रितः। धर्ममेवाचरँल्लोके धर्माधीश उदारधीः॥49॥ चैत्रशुक्लत्रयोदश्यां गुरौ कर्के ध्रुवान्विते। उत्तराफाल्गुनी संज्ञे जाता पद्मावती सती॥50॥ श्रीमदाचार्यसन्निष्ठा सा पद्मेवापरा सदा। धर्मज्ञा धर्मनिरता गुरुभक्तिपरायणा॥51॥ एवमेतादृशैस्तैस्तैः शिष्यैर्द्वादशभिर्महान्। शोभिष्यत्यर्चितो देव्या पद्मावव्या च सन्ततम्॥52॥ श्रीमानाचार्यवर्योऽयं रामानन्दो महामतिः। शिष्योपशिष्यैरन्यैश्च शोभितोऽहर्दिवं भुवि॥53॥ पूज्यो ध्येयश्च जगतां रामरूपो जगद्गुरुः। हेतुः कल्याणमार्गस्य शुभदो ज्ञानदोऽनिशम्॥54॥ यस्य दर्शनमात्रेण स्मरणेन सदा क्षितौ। नाम व्याहरणाद्धीना नरा मुक्ता न संशयः॥55॥ यदीयमतमालम्ब्य मन्त्रमन्त्रार्थभूषितम्। भूष्यते भूरियं लोकै राजितैर्मुनिंवृत्तिभिः॥56॥

(268) अगस्त्य-संहिता

शरच्चन्द्रायते लोके कीर्तिर्यस्य महात्मनः। विशदा पावनी पुण्या शृण्वतां पापनाशिनी॥५७॥ हरिभक्तिप्रदा नॄणां तथा ज्ञानप्रकाशिनी। मोहान्धकारसंघप्रध्वंसिनी शुभदायिनी॥५८॥ स एष भगवद्रूपो धर्मो विग्रहवानिव। द्विषतानिह दुर्धर्षः सेवनीयः सतां सदा॥५९॥ तज्जन्ममासर्क्षतिथौ तदीये- स्तदीयजन्मोत्सवमुत्सवोत्सुकैः । विधेयमेवं प्रतिवर्षमुत्तमं विधानविज्ञैर्विधिना हि वैष्णवैः॥६०॥ पूजोपहारै रुचिरैर्यथोचितं देवं समभ्यर्च्य सशिष्यसङ्घम्। वाद्यैर्मृदङ्गादिभिरद्भुतैः परै- र्नृत्यैस्तथा गीतवरैः प्रसादयेत्॥६१॥ तदीयजन्मोत्सवतत्कथाभि- स्तत्तोषहेतुस्तुतिभिस्तथैव । अन्यैस्तदीयाचरितैर्व्रतादिभि- र्निस्तन्द्रिरेवं गुरुभक्तितत्परः॥६२॥ एवं स कुर्वन् विधितस्तदर्चनं तत्तोषहेतुं च महोत्सवं बुधः। निरालसो भक्तियुतो लभेत स्वाभीष्टसिद्धिर्महती न संशयः॥६३॥ निशम्य तद्वाक्यमथो महात्मनो मुनेः प्रहृष्टः कलशोद्भवस्य। मुनिः सुतीक्ष्णः समुतीक्ष्णबुद्धि- र्विधिं च प्रष्टा हि तदर्चने पुनः॥६४॥ इतिश्रीमदगस्त्यसंहितायामगस्त्यसुतीक्ष्णसंवादे भविष्यखण्डे श्रीरामानन्दाचार्यावतारोपाख्यानं नाम द्वात्रिंशदुत्तरशततमोऽध्यायः॥१३२॥

परिशिष्ट 4 (269)

अथ त्रयस्त्रिंशदुत्तरशततमोऽध्यायः तज्जन्म पावनं पुण्यं कथितं परमं त्वया। तदर्चनविधिं मह्यं वक्तुमर्हस्यथाधुना।।1।। जगतामुपकर्ता त्वं दयालुर्धीमतां वरः। समभ्यर्च्य जना येनाचार्यं श्रेयः समाप्नुयुः।।2।। श्रूयतामिति चामन्त्र्य कथयिष्यति कुम्भजः। अम्बुजं वर्तुलाकारं द्वादशदलसंयुक्तम्।।3।। सुव्यक्तं तैर्दलैर्व्यक्तैर्दर्शनीयं सुशोभनम्। तन्मध्ये कर्णिकायान्तु यन्त्रषट्कोणमालिखेत्।।4।। तत्राचार्यवरं देवं रामानन्दमुदारधीः। विन्यसेत् साङ्गमर्काभं तं दिव्यगुणशालिनम्।।5।। सपूर्वदिशमारभ्य दलेषु क्रमशोन्यसेत्। अनन्तानन्दमुख्यांस्तान् द्वादशादित्यसन्निभान्।।6।। यन्त्रमेवं सुसम्पाद्य तदर्चनपरायणः। पूजयेत्तत्र तान् सर्वानर्घ्यपाद्यादिभिर्वरैः।।7।। पूजोपहारैः सकलैर्भक्त्या परमया युतः। एकाग्रमानसो भूत्वा तमेव मनसा स्मरन्।।8।। नम आचार्यवर्याय रामानन्दाय धीमते। मोक्षमार्गप्रकाशाय चतुर्वर्गप्रदाय च।।9।। इति मन्त्रविधानेन समर्चेद्विधिनार्चकः। अर्घ्यपाद्यादिभिस्तैस्तैर्गन्धपुष्पाक्षतैः फलैः।।10।। नैवेद्यैरुत्तमैः श्रेष्ठैः षड्रसैः सुमनोहरैः। ताम्बूलैर्दक्षिणाभिस्तं तोषयेन्नृत्यगीतिभिः।।11।। एवं दलेषु शिष्यांस्तान् पूजयेदमलात्मना। प्रणवादिचतुर्थ्यन्तनाममन्त्रैर्विधानतः ।।12।। स्तुवीत स्तुतिभिर्देवं सशिष्यं भक्तितत्परः। ज्ञानविज्ञानदीपं तमुदारयशसं प्रभुम्।।13।। जगद्गुरो! नमस्तेऽस्तु हरये विश्वबन्धवे। मोक्षमार्गप्रकाशाय प्रणतार्तिहराय ते।।14।।

(270) अगस्त्य-संहिता

सपार्वदाय साङ्गाय सदा पावनकीर्तये। नमस्तेऽगाधबोधाय प्रणताभीष्टदायिने॥15॥ सत्यव्रताय शान्ताय दान्ताय जगदात्मने। नमोऽनन्ताय महते निर्जिताशेषविद्विषे॥16॥ विधृतज्ञानमुद्राय योगिने योगशालिने। नमस्तेऽस्तु दयासिन्धो! जगज्जन्मादिहेतवे॥17॥ भीमे भवार्णवेऽनन्यः शरणः पतितः प्रभो। पादपद्मद्वयं तेऽहं व्रजामि शरणं सदा॥18॥ इत्यभिष्टूय तं धीमान् दद्यात्पुष्पाञ्जलिं मुदा। प्रणमेद् दण्डवद्भूभौ साष्टाङ्गं विधिवत्ततः॥19॥ अथ जन्मकथान् तस्य शृणुयात् पापनाशिनीम्। गदतां शृण्वतामाशु विशदां तां शुभप्रदाम्॥20॥ एवं मुने! त्वं जानीहि तदर्चनविधिं महत्। लोकेऽनेन विधानेन तमभ्यर्च्यमहामुनीम्॥21॥ प्राप्स्यन्ति च क्षितौ लोकावाञ्छितार्थमसंशयम्। नरास्तद्भावनाव्युक्ताः प्रणताविशदाशयाः॥22॥ मुने! स भगवानित्थं सुतीक्ष्ण! जगदीश्वरः। सत्यसन्धोहरिर्जातो विधास्यति शुभं नृणाम्॥23॥ चार्वाकादिमतारूढान् बहुधा दुर्मतीन् कलौ। करिष्यति नरान् जित्वा रामभक्तिपरायणान्॥24॥ यत्प्रतापवशादेव भविष्यन्ति कलौ नराः। धर्मनिष्ठास्तपोनिष्ठा मोक्षमार्गरताः सदा॥25॥ तस्मिन् महीतलं याते नृणां किं वर्णयाम्यहम्। भाग्यं साक्षाद्धरौ प्रीते सच्चिदानन्दविग्रहे॥26॥ धन्यास्तदानन्मुखपङ्कजं नरा द्रक्ष्यन्ति ये तापहरं च पश्यताम्। श्रोष्यन्ति वाचं परमामतायनां भूरिभाग्या वत निर्मलाशायाः॥27॥ इति श्रीअगस्त्यसंहितायां सुतीक्ष्णागस्त्यसम्वादे भविष्यखण्डे साङ्गसशिष्यश्रीरामानन्दाचार्ययन्त्रार्चनप्रकारो नाम त्रयस्त्रिंशदुत्तर- शततमोऽध्यायः ॥१३३॥

परिशिष्ट 4 (271) अथ चतुस्त्रिंशदुत्तरशततमोऽध्यायः शिष्यैर्द्वादशभिः श्रीमानथैतैरर्कसन्निभैः। सूर्यैर्द्वादशभिर्नित्यं यथा विष्णुः प्रतापवान्॥१॥ विराजमानः सततं पर्यटन्नवनीमिमाम्। द्वारकादिषु तीर्थेषु तत्र तत्र जगद्गुरुः॥२॥ विद्विषां जित्वरो वादैः श्रुतिस्मृतिसमुत्थितैः। विपरीतान् वशीकुर्वन् कुर्वन् शिष्यांश्च तानथ॥३॥ षडक्षरं मन्त्रराजं तेभ्यश्चोपदिशन मुनिः। मन्त्रार्थं श्रावयन्नित्यं मन्त्रज्ञैस्तैरूपासितः॥४॥ आसमुद्रं चतुर्दिक्षु विचरन् धर्मतत्परः। कर्ता वै बहुधा लोकं रामभिरतमुत्तमम्॥५॥ लेष्यन्ति नास्तिकास्तस्य प्रतापहत्ततेजसः। तमोपहे यथासूर्येऽभ्युदिते तारकागणः॥६॥ एवमेवात्र सुतीक्ष्ण! विचरन् सर्वतो मुनिः। श्रेयः सम्पादयन् नृणां हरन्नज्ञानजं तमः॥७॥ राजिष्यते स्वयं स्वीयैर्भानुभिर्भानुमानिव। असंख्येयैर्गुणैः शुभ्रैर्जगत्पालनतत्परः॥८॥ प्रकृत्या शीलसम्पन्नो दयारत्नकरो महान्। धर्मत्राणाय लोकेऽस्मिन्नवतीर्णः परः पुमान्॥९॥ महाव्रतधरो धीमान् सर्वविद्याविशारदः। निस्पृहः सर्वकामेभ्यः स्वात्मारामोमहामुनिः॥१०॥ रामानन्द उदारकीर्तिरंतुलः श्रीयोगिवर्याग्रणीः पाखण्डाद्रिविभेदनाशनरहो धर्माभिसंवर्धनः। श्रीमान् दिव्यगुणालयो निजयशःस्तोमाङ्कितक्ष्मातलः सिद्धध्येयपदाम्बुजो विजयतेऽज्ञानान्धकारापहः॥११॥ वेदार्थसम्पादकसम्मुखाम्बुज- स्त्रितापसंहारकचारुलोचनः। भवाब्धिसन्तारकपादपङ्कजो निजेष्टपूर्त्यार्पितकल्पपादपः॥१२॥

(272) अगस्त्य-संहिता

विधूतशत्रुर्धृतिमान् धरातलं यशस्समूहैर्विदधत् सुनिर्मलम्। प्रकाशमानात्मविभूतिभूषितः प्रभूतविद्याप्रभवः प्रभाववान्।।13।। प्रतापसन्तापितशत्रुमण्डलः सुसद्यशोऽलंकृतभूमिमण्डलः। समीहिताशेषजगत्सुमङ्गलः सदर्चनीयोऽखिलमङ्गलायनः।।14।। सत्सम्प्रदायाम्बुजभास्करोऽग्रणी विनीतनीताखिलवाञ्छितार्थकः। निगूढवेदार्थविदीपनस्तै रुदारवृत्तैर्महितो महात्मभिः।।15।। गुणेन शीलेन श्रुतेन कर्मणा प्रकाशमानः किरणैर्यथा रविः। हरंस्तमो नैशमुदारदीधिति- र्विनिर्जिताशेषसपत्नसंहतिः।।16।। करोतु नोऽदभ्रदयोधिमङ्गलं सपार्षदो दर्शितभूर्यनुग्रहः। गृहीतधर्मायतनाकृतिः कृती कृतार्थयंल्लोकमिमं चराचरम्।।17।। उपप्लुतं धर्मविरोधिभिर्जगत्- सनाथमाद्योविदधत्कृपानिधिः। विधत्सुरस्याघनिवर्हणं यश- स्तनोतु नोऽजस्रमसौ सुमङ्गलम्।।18।। जगत्प्रतीपानभितोनिरस्य- श्चकार धर्माभिरतं सतां प्रभुः। अशेषसत्पूजितपादपङ्कजः सुमङ्गलं नो वितनोतु सर्वदा।।19।। इति श्रीअगस्त्यसंहितायां भविष्यखण्डे श्रीरामानन्दाचार्य- दिग्विजयवर्णनं नाम चतुस्त्रिंशदुत्तरशततमोऽध्यायः।।१३४।।

परिशिष्ट 4 (273)

अथ पञ्चत्रिंशोत्तरशततमोऽध्यायः रामानन्दमहं वन्दे योगिध्येयाङ्घ्रिपङ्कजम्। उदारयशसं देवं शान्तमूर्तिं शुभप्रदम्॥१॥ अष्टोत्तरशतं वक्ष्ये नाम्नां यस्य महात्मनः। यैरिज्यमानो भगवान् कामानाशु प्रदास्यति॥२॥ पठतां पठितैर्ध्यातैर्धायतां शृण्वतां श्रुतैः। शुभप्रदैः सतां ग्राह्यैर्महापापप्रणाशनैः॥३॥ रामानन्दो रामरूपो राममन्त्रार्थवित्कविः। राममन्त्रप्रदो रम्यो राममन्त्ररतः प्रभुः॥४॥ योगिवर्यो योगगम्यो योजगज्ञो योगसाधनः। योगिसेव्यो योगनिष्ठो योगात्मा योगरूपधृक्॥५॥ सुशान्तः शास्त्रकृत् शास्ता शत्रुजिच्छान्तिरूपधृक्। समयज्ञः शमी शुद्धः शुद्धधीः शुद्धवेषधृक्॥६॥ महान् महामतिर्मान्यो वदान्यो भीमदर्शनः। भयहृद् भयकृद् भर्त्ता भव्यो भवभयापहः॥७॥ भगवान् भूतिदो भोक्ता भूतेज्यो भूतभृद् विभुः। ज्ञातज्ञेयोऽतिगम्भीरो गुरुज्ञानप्रदो वशी॥८॥ अमोघोऽमोघदृग्दान्तोऽमोघभक्तिरमोघवाक् । सत्यः सत्यव्रतः सभ्यः सत्प्रियः सत्परायणः॥९॥ सुसिद्धः सिद्धिदः साधुः सिद्धिभृत् सिद्धिसाधनः। सिद्धसेव्यः शुभकरः सामवित् सामगो मुनिः॥१०॥ पूतात्मा पुण्यकृत् पुण्यः पूर्णः पूर्तिकरोऽघहा। अर्च्योऽर्चकः कृती सौम्यः कृतज्ञः ऋतुकृत् ऋतुः॥११॥ अजय्यः शीलवान् जेता विनेता नीतिमान् स्वभूः। वाग्मी श्रुतिधरः श्रीमान् श्रीदः श्रीनिधिरात्मदः॥१२॥ सर्वज्ञः सर्वगः साक्षी समः समदृशिः सदृक्। शुभज्ञः शुभदः शोभी शुभाचरः सुदर्शनः॥१३॥ जगदीशो जगत्पूज्यो यशस्वी द्युतिमान् ध्रुवः। इतीदं कीर्तिदं यस्य नाम्नामष्टोत्तरं शतम्॥१४॥

(274) अगस्त्य-संहिता

अधीयताथ शृणुयाद्यश्चापि परिकीर्तयेत्। अवाप्नुयच्छ्रियं लोके विपुलं श्रद्धया युतः॥15॥ अर्चेत् स्तवेन यो नित्यमुचारैः सुसम्भृतैः। अनेन विधिवत्तस्य प्रसीदेत् स गुणाकरः॥16॥ तस्मिन् देवे प्रसन्ने तु न किञ्चित्तस्य दुर्लभम्। इह लोके परत्रापि जगदीशे जगद्गुरौ॥17॥ श्रद्धया माघमासेऽर्चेत् सप्तम्यां तुं विशेषतः। सम्वत्सरार्चनाज्जातमाप्नुयात् फलमुत्तमम्॥18॥ श्रद्धालवे सुशीलाय गुरुभक्तियुताय च। प्रदिशेद् ब्रह्मनिष्ठाय वेदव्रतरताय च॥19॥ गोपनीयमिदं सद्भिः सदा सर्वप्रयत्नतः। न देयं नास्तिकायाथ निन्दकाय गुरुद्रुहे॥20॥ सुपूजितेष्टप्रदपादपङ्कजः समर्चकानां विदधातु मङ्गलम्। सतामजस्रं जगदीशवरो हरि- र्यथाश्रितोऽसौ कलिकल्पपादपः ॥21॥ विराजतेऽयं तपसां प्रसूति- र्गुणाकरः सच्चरितोद्विजार्यभूः। ससज्जनाग्र्याभिश्रुतो वशंवदो बृहद्व्रतश्चारुनृपावलीडितः ॥22॥ इति श्रीअगस्त्यसंहितायां भविष्यखण्डे अगस्त्यसुतीक्ष्णसंवादे श्रीरामानन्दाचार्याष्टोत्तरशतनामार्चनमाहात्म्यवर्णनं नाम पञ्चत्रिंशोत्तर शततमोऽध्यायः॥१३५॥

प्रस्तुत पृष्ठ पूरी तरह से रिक्त (blank/white) है, इसमें कोई पाठ (text), श्लोक या सामग्री उपलब्ध नहीं है।

The provided image is completely blank (a plain yellow/beige background) and does not contain any text to transcribe.