अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
DevanagariHindipublished2,600 पृष्ठ
पृष्ठ 2536, कुल 2600 में से
संदर्भ में पढ़ेंपृष्ठ 2536
गोपगोपीसुरैः सह' इति 'यद्वाचानभ्युदितं येन वागभ्युद्यत' इति यथाक्रमं श्रुतयः । अथ नन्दादीनां भावना नन्दमहोत्सवे स्वरूपभावना 'सद्द्ब्रह्मदृष्टिनिष्ठायाः स्मृतिबीजस्य बोधकाः' इति भाषापरि- च्छेदकारिकाया आनन्दसदृशं संपाद्य भावना । क्रीडाम्बिकावनगत्यादि, ब्रह्मणा सह क्रीडाभावना वा । 'भावः सर्वात्मभावः सेवारूपस्तस्य भावना यथा श्रिया युक्तोऽहं तथा भक्तो मम प्रियः 'मद्भक्ताचरितानि च' इति श्रुतिस्मृतिभ्यां मध्याधिकारे 'भगवद्धर्मनिष्ठातः स्वस्मिन् तद्धर्मशालिता' । एवंविधवाक्याश्लेष्मन् परमकाष्ठायामुत्तमाधिकारे स्मरणं नन्दादीनां वा कीर्तनानि 'आजु नन्दरायके आनन्द भयो' इत्यादीनि 'मन्दस्त्वालम्ब उत्पन्न' इत्यादि च स्मरणमुत्तमाधिकारकृतम् । श्रवणं च पूर्वोक्तानामेव । दासभावेनैव, आरात्रिका सेवासम्पूर्णत्वद्योतिका । पूजावत् । रूपकाणि वस्त्राणि चोत्तारणीयानि । अर्धरात्रजन्मनः प्राग् जन्मनो दिनमिति जन्मवर्षात्पञ्चमवर्षारम्भोत्सवः प्रवृत्त- स्तथैव क्रियते । उत्सवान् मङ्गलभोगो महान्, स्नानात्पूर्वं 'पत्रं पुष्पं फलं तोय'मिति वाक्यात् पीताम्बरादिकं समर्प्य पञ्चामृतेन स्नापयेत् । तत्स्वरूपमग्रे वक्ष्यन्ति पञ्चामृतेनेत्यादिना । ततोऽङ्गवस्त्रं ततोऽभ्यङ्गोद्वर्तनादीन् गन्धं च । रसोद्बोधकत्वाद्भारक्तान्याभरणानि श्वेतानि पीतानि हरितानि च विशिष्टानि । 'विशिष्टाऽलङ्कारे उत्सवः सार्वजनीनो भवती'ति सुबोधिन्याः । कमल- पत्राक्षनवेक्षणः । तदुत्तरं तिलकाक्षतमुपायनं चूर्णनीराजनं सङ्कल्पश्च मार्कण्डेयपूजावत् । अत एव 'सतिलं गुडसम्मिश्र पयोपि समर्पणीयम् । 'सतिलं गुडसम्मिश्रमङ्गल्यर्थं शृतं पयः, मार्कण्डेय महाबाहो चिरायुःसमृद्धये' इति वचनात् । 'लोकवत्तु लीलाकैवल्य'मिति सूत्रात् । न राजभोगो- चरम् । 'प्रातरेव प्रकुर्वीत देवतानां च पूजन'मिति मनुस्मरणात् । अस्मदादिकैस्तु सेवानवसर एव । 'आदरादलोप' इति सूत्रात् । नन्दादीनामयं भावः । दासदासीवत्स्थितानामप्ययं कर्तव्यः । तथा च भाष्यम् । उपपन्नस्तल्लक्षणसूत्रस्य 'दासीत्वेन दासत्वेन लीलायां सुहृत्त्वेन प्रभु- निकटे स्थितिरुक्ता भवती'ति । अत्र गोपीग्वाला वन्दनभक्तौ शूद्रनमस्कारं निषिद्धं मन्यन्ते तद- ज्ञानात् । 'ब्रह्मसम्बन्धकरणात् सर्वेषां देहजीवयोः सर्वदोषनिवृत्तिर्ही'ति ब्रह्मसम्बन्धिसमुदायपतितानां सर्वदोषनिवृत्त्या शूद्रत्वाभावात् । तदुक्तं ब्राह्मण्यदेवतावादे दशमे, तत एवानुसन्धेयम् ॥ अतः परं उत्सवान्तरवच्छयनारात्रिकपर्यन्तम् । ततो जागरणम् । स्कान्दे मार्गशीर्षमाहात्म्ये 'यावद्दिनानि कुरुते जागरं मम सन्निधौ । युगायुतानि तावन्ति वसते मम वेश्मनि' इति साधारणवाक्यम् । अन्यदुक्तम् । इयं लीला जन्मनः पञ्चमवर्षान्नवृत्ता प्रत्यब्दं नित्यत्वादाविर्भवतीत्याहुः प्रत्यब्दमिति । प्रत्यब्दं कार्यमेवं हि लीलानित्यत्वतः सदा ॥ ६॥ एवमुक्तपरामर्शेन सदा सर्वस्मिन् काले आशौचकालेऽन्यद्वारा । अशक्तावपि सिद्धान्तमुक्ताव- लीटीकायां 'नामचिद्विविक्केने'ति श्रुतिप्रामाण्यात्स्वयं नामानि वक्तव्यान्यन्यद्वारेवं कार्यम् । वामनजयन्ती । अत्र पूर्वं श्रीस्वामिनीजन्माष्टमी द्रष्टव्या दानैकादश्यपि । 'अन्यान्पि तथा कुर्यादुत्सवो यत्र वै हरे'रिति सेवाप्रकरणनिबन्धात् । 'रहस्यं श्रीराधेत्यखिलनिगमानामिद धनम्' इति स्वामिन्यष्टकम् । एतत्स्वरूपं 'श्रीराधे' इत्यस्य व्याख्याने उपारम्भे उपपादितम् । हरेरुत्सवस्तु पाद्मोत्तरखण्डे ।
१. रक्ताम्बरादिकम् । २. गौरस्य शृङ्गारोद्बोधकत्वादेतादृशमुत्सवाश्च काश्मीररञ्जितानि वस्त्राणि दुग्धाया अप्यविर्भाव इत्युक्तस्य भगवद्गौरवेत्थानिर्भालाद् रसोद्बोधकत्वाच्च भारक्तानि आभरणानि ।