अपरोक्षानुभूति (दीपिका व हिन्दी टीका सहित)
Aparokshanubhuti with Dipika & Hindi Commentary
आदि शङ्कराचार्य द्वारा
स्रोत: खेमराज श्रीकृष्णदास / गीताप्रेस · खेमराज श्रीकृष्णदास / गीताप्रेस · 1940 (उद्गम)
संस्कृतटीका-भाषाटीकासहिता ( ९७ )' सं. टी. ननु विचारजन्यापरोक्षज्ञानेन मुनेर्ब्रह्मत्वं भवतु नाम परन्तु परोक्षज्ञानिनः कथं भवेदित्याशंक्य तीव्रभावनया परोक्षज्ञानिनोपि ब्रह्मत्वं भवेदिति सह- ष्टांतमाह भावितमिति । अयम्भावः यद्यपि परोक्षज्ञानेन प्रमातृगतावरणनिवृत्तौ सत्यामपि प्रमेयगतमावरणं न निवर्त्तते तथापि निश्चयात्मना निश्चययुक्तबुद्धिमता पुरुषेण यद्वस्तु सच्चिदानंदं ब्रह्म तीव्रवेगेनाऽहर्निशं ब्रह्माकारवृत्त्याभावितं चिंतितं तद्वस्तु ज्ञेयमपरोक्षेण ज्ञातुं योग्यं ब्रह्म शीघ्रमाचिरेण पुमान् भवेत् प्रत्य- गभिन्नब्रह्मभावनया पुरुषो ब्रह्मरूपो भवतीत्यर्थः हीति विद्वत्प्रसिद्धौ । तत्र सर्वलोकप्रसिद्धं दृष्टांतमाह भ्रमर- कीटवदिति । भ्रमरेण कुतश्चिदानीय जीवन्नेव स्वकुट्यां प्रवेशितो यः कीटः स यथा भयात् भ्रमरध्यानेन भ्रम- रएव भवति तद्वदिति ॥ १४० ॥ भा. टी. निश्चयात्मा पुरुषकी तीव्रभावना करके जो मनुष्य जिस वस्तुकी चिन्ता करे है शीघ्रही भ्रमरकीटकी तरह तद्रूप होजाय है, जैसे भ्रमरकीट कीडाविशेष होयहै वह अपने स्थानमें जिस दूसरे कीडेको लाके धरे है वह लाया हुआ कीट भयके मारे भ्रमरकीटका विचार करे है विचार करते २ तद्रूप होजाय है ऐसी लोकमें प्रसिद्धि है, इसी प्रकार पुरुष ब्रह्मका विचार करता करता तद्रूप होजाय है ॥ १४० ॥ ५
( ९८ ) . अपरोक्षानुभूतिः । अदृश्यंभावरूपंच सर्वमेवचिदात्मक- म् ॥ सावधानतया नित्यं स्वात्मानंभा वयेद्बुधः ॥ १४१ ॥ सं० टी० यदि पूर्वश्लोकोक्तदृष्टांते भावनाबलादेवा- न्यस्यान्यत्वं भवेत् तर्हि ब्रह्मविवर्त्तत्वेन ब्रह्मरूपस्य विश्वस्य ब्रह्मभावनया तद्रूपता भवेदिति किमु वक्त- व्यमित्याशयेन सर्वात्मभावनामाह अदृश्यमिति । अ- दृश्यं परोक्षं भावरूपं प्रत्यक्षंच सर्वं विश्वं यद्वा अ- दृश्यं द्रष्ट्ररूपं भावरूपं दृश्यं चकाराद्दर्शनं एतत्सर्वं त्रिपुटात्मकं जगद्भ्रांत्याऽऽत्मभिन्नत्वेन भासमानमपि चिदात्मकं निर्विशेषस्फुरणमात्रस्वरूपं स्वात्मानमेव बुधः अद्वैतज्ञाननिष्ठः सावधानतया स्थिरवृत्त्या नित्यं भावयेत्सकलमिदमहं च ब्रह्मैवेति सर्वदा पश्येदि- त्यर्थः ॥ १४१ ॥ भा० टी० ज्ञानी पुरुष सदाही सावधान होकर अदृश्य दृश्य सम्पूर्ण संसारको चिन्मय ब्रह्म चिन्तना करै ॥ १४१ ॥ दृश्यं ह्यदृश्यतां नीत्वा ब्रह्माकारेण चिंतयेत् ॥ विद्वान्नित्यसुखे तिष्ठेद्धि- या चिद्रसपूर्णया ॥१४२॥ सं० टी० एतदेव विवृणोति दृश्यमिति दृश्यं घटादि- कमदृश्यतामधिष्ठानचिद्रूपतां नीत्वा हीति विद्वत्प्र-
संस्कृतटीका-भाषाटीकासहिता । (९९) सिद्धौ ब्रह्माकारेण कल्पितस्य परिच्छिन्नस्य नामरू- पादेर्निवृत्तिपूर्वकं बृहदाकारेणापरिच्छिन्नरूपेण चिंत- येदित्यर्थः ततः किमत आह विद्वानिति । चिद्रसपूर्णया चिदेवरसंश्चिद्रसश्चिदानंदस्तेन पूर्णया धिया नित्यसुखे अविनाशिसुखे विद्वांस्तिष्ठेदिति ॥ १४२ ॥ भा. टी. दृश्य वस्तुको अदृश्यकी तरह करके ज्ञानी पुरुष ब्रह्मस्वरूप चिन्तना करे तिस चिन्मय ज्ञानके होनेसे विद्वान् पुरुष चिन्मय रससे भरी हुई बुद्धिसे नित्य सुखसे अस्थान करै ॥ १४२ ॥ एभिरङ्गैःसमायुक्तो राजयोग उदाह- तः ॥ किंचित्पक्ककषायाणां हठयोगे- नसंयुतः ॥ १४३ ॥ सं. टी. इदानीमुक्तं स्वाभिमतयोगमुपसंहरति एभि- रिति । किंचित्स्वल्पं पक्वाः दग्धाः कषाया रागादयो येषां तेषां हठयोगेन पातंजलोक्तेन प्रसिद्धेनाष्टांगयोगेन संयुतोयं वेदांतोक्तो योग इति शेषं स्पष्टम् ॥ १४३ ॥ भा. टी. इन अङ्गोंसे युक्त योगको राजयोग कहैं हैं जिनका विषयोंमें राग नहीं रहे है तिस पक्षमें हठ योग युक्त योगही राजयोग कहावे है ॥ १४३ ॥ परिपक्कंमनोयेषां केवलॊयं च सिद्धिदः॥
( १०० ) अपरोक्षानुभूतिः । गुरुदैवतभक्तानां सर्वेषां सुलभोज़- वात् ॥ १४४ ॥ सं. टी. अयं राजयोग एव केषां योग्य इत्याकां- क्षायां सर्वग्रंथार्थमुपसंहरन्नाह परिपकमिति । येषां मनः परिपक्वं रागादिमलरहितमितियावत् तेषामित्यध्याहारः तेषां जितारिषड्वर्गाणां पुरुषधुरंधराणां केवलः पातंज- लाभिमतयोगनिरपेक्षः अयं वेदांताभिमतो योगः सिद्धिदः प्रत्यगभिन्नब्रह्मापरोक्षज्ञानद्वारा स्वस्वरूपावस्थानलक्ष- णमुक्तिप्रदः चकारोऽवधारणे नान्येषामपरिपक्वमनसा- मित्यर्थः ननु परिपक्वमनस्त्वमतिदुर्लभ मित्याकां- क्षायामस्यापि साधनत्वादतोप्यंतरंगसाधनमाह गुरुदै- वतभक्तानामिति जवाद्तिशीघ्रमित्यर्थः सर्वेषामिति वर्णाश्रमादिनिरपेक्षं मनुष्यमात्रं ग्रहीतव्यम् अतएव गुरुदैवतभक्तेरंतरंगत्वं तथाचश्रुतिः "यस्यदेवे पराभक्ति- र्यथादेवे तथागुरौ । तस्यैते कथिताह्यर्थाः प्रकाशंते महा- त्मनः" इति । स्मृतयश्च “तद्विद्धिप्रणिपातेन । श्रद्धा- वाँल्लभतेज्ञानम्” इत्याद्याः । अयंभावः परिपक्वमनसा- मपि दुःसाध्यानि साधनानि गुरुदैवतभक्तानां सुसाध्या- निभवंतीतिहेतोर्गुरुदैवतभजनमेव स्वधर्माविरोधेन सर्वैः कार्यमिति परमं मंगलम् ॥ १४४ ॥ भा. टी. जिनका मन परिपक्व होजाय है उनको केव
संस्कृतटीका-भाषटीकासहिता । ( १०१ ) यही योग सिद्धिको देय है और जिनकी गुरु और देवताओं में भक्ति होयहै उनको यह योग अति सुलभ होयहै ॥१४४॥ ॥ इति श्रीपरमहंसपरिव्राजकाचार्य- श्रीमच्छंकरभगवता विरचिताऽपरोक्षा नुभूतिः समाप्ता ॥ पूर्णेयमापरोक्ष्येण नित्यात्मज्ञानकाशिका । अपरो क्षानुभूत्याख्यग्रंथराजप्रदीपिका ॥ १ ॥ नमस्तस्मैभ- गवते शंकराचार्य्यरूपिणे ॥ येनवेदांतविद्येयमुद्धतावेद- सागरात् ॥ २ ॥ यद्ययं शंकरः साक्षाद्वेदांतांभोजभा- स्करः॥नोदेष्यत्तर्हिकाशेत कथंव्यासादिसूत्रितम् ॥ ३ ॥ अत्रयत्संमतंकिंचित्तद्गुरोरेवमेनहि ॥ असंमतंतुयत्किंचि- तन्ममैवगुरोर्नहि ॥ ४ ॥ यत्प्रसादादहंशब्दप्रत्यया- लंबनोहियः॥अहंसजगदालंबः कार्यकारणवर्जितः॥५॥ तस्यश्रीगुरुराजस्य पादाब्जेतुसमर्पिता । दीपिकामालि- कासेयं तत्कृपागुणगुंफिता ॥ ६ ॥ योहंस्वाज्ञानमात्रा- ज्जगदिदमभवंखादिदेहांतमादौ स्वस्वप्नादिवदेवसोहम- धुनास्वज्ञानतःकेवलम् ॥ ब्रह्मैवास्म्यद्वितीयंपरमसुखमयं निर्विकारंविबाधं जाग्रत्स्थानवदेवदेवगुरुसत्स्वल्पप्र- सादोत्थितात् ॥ ७॥ इति श्रीपरमहंसपरिव्राजकाचार्य-
( १०२ ) अपरोक्षानुभूतिः । श्रीविद्यारण्यमुनिविरचिताऽपरोक्षानुभूतिदीपिका समा- प्तिमगमत् ॥ इति श्रीशङ्कराचार्य्यविरचिता रुहेलखण्डान्तःपातिरा- मपुरवास्तव्यश्रीयुतभोलानाथआत्मजपण्डितरा- मस्वरूपद्विवेदिगौडविरचितभाष्यास- मलङ्कृता चापरोक्षानुभूतिः समा- प्तिमफाणीत् । श्रीहरि- हराभ्यामर्पये । इदं पुस्तकं खेमराजश्रीकृष्णदास इत्यनेन स्वकीये " श्रीवेङ्कटे- श्वर" स्टीम्मुद्रणयंत्रालयेऽङ्कयित्वा प्रसिद्धिमानितम् । संवत् १९६५ शके १८३०. सर्व प्रकारका पुस्तक मिलनेका पत्ता पं. गोपीनाथ गंगाविष्णु बुकसेलर. भुलेश्वर चकला फोफलवाडी बम्बई नं २. सूचीपत्रकेवास्ते टिकट भेज देना.
इस पृष्ठ पर कोई पाठ (टेक्स्ट) उपलब्ध नहीं है (यह पृष्ठ रिक्त है)।