बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
पृष्ठ 195, कुल 366 में से
संदर्भ में पढ़ेंद्वे फलके । इतरे पञ्चदशाङ्गुले पूर्वपश्चिमे । संख्यापूरणार्थं चतुरस्राध्यर्धेष्टके पूर्वापरे समस्य तयोः पूर्वा प्रागुदक्सविशेषां अक्ष्णयापच्छिन्द्यात् । एवं नव करणानि । उपधाने प्रथमे प्रस्तारे चतुरस्रस्य अवान्तरदिक्षु स्रक्तयः । चतुरस्रमध्ये चतुश्चत्वारिंशच्छतमिष्टकाः । प्रधिमूलमध्येषु चतुर्विंशतिश्चतुरस्राः । प्रधिषु अष्टाविंशतिः । पूर्वस्मिन् प्रधौ प्रधिमध्यमां शिरस्युपधाय तस्या अवस्ताद् द्वे चतुर्थ्यर्ध्ये उपदध्यात् । चतुर्षु पादेषु मण्डलसन्धावेकैकां अन्तर्वक्रां ह्रस्वेष्टकाम् । पुरस्ताद् बहिर्वक्रां बृहतीम् । एवं षडिष्टका अतिरिच्यन्ते । चतुरस्रस्रक्तिषु अग्नि- धर्मानुरोधेन अष्टादश चतुरस्रा उद्धृत्य द्वादशाध्यर्धेष्टका उपदध्यात् । एवं द्विशतः प्रस्तारः । अपरस्मिन् प्रस्तारे मण्डलमध्यचतुरस्रस्य महादिक्षु स्रक्तयः । पादेषु प्रधि- मध्यमानामुपधानम् । तेषामभ्यन्तराइचतर्थ्यर्धाः । शिरसि ह्रस्वबृहत्योरुपधानम् । अत्रापि षडतिरिच्यन्ते । मण्डलमध्यचतुरस्रं पूर्ववदष्टादश चतुरस्रेष्टका उद्धृत्य अग्निधर्मानुरोधेन द्वादशाध्यर्धा उपदध्यात् । एवं द्विशतः प्रस्तारः ॥ १३९ ॥ व्यत्यासं चिनुयाद् यावतः प्रस्तारांश्चिकीर्षेत् ॥ १४० ॥ व्यत्यासमिति । सर्वशेषार्थमन्ते वचनम् ॥ १४० ॥ कूर्मस्यान्ते तनुपुरीषमुपदध्यात् । मध्ये बहुलम् । एतदेव द्रोणे विपरीत्तम् ॥१४१॥ कल्पसूत्रे मध्य उत्पृष्ठ इति कूर्मस्योन्नतपृष्ठत्वमुक्तम्, तत्संपादनार्थ- माह—कूर्मस्यान्त इति । ( अन्ते ? ) पर्यन्ते तनु अल्पं पुरीषमुपदध्या- न्मध्ये प्रभूतमपदध्यात् , लोके कूर्मस्य पृष्ठं यादृशं भवति तादृशमुपदध्यात् । द्रोणचितं मध्ये निम्नमिव करोतीति कल्पसूत्रोक्तविकृतिसम्पादनमाह— एतदेवेति । मध्येऽल्पं पर्यन्ते बहुलं यथा अन्नपात्रद्रोणाकृतिर्भवति तथोप- दध्यात् ॥१४१॥ कूर्मस्येति । अन्ते पर्यन्ते । तनु अल्पम् । पुरीषमुपदध्यात् । मध्य इति । प्रभूतं मध्ये । उत्पृष्ठ इति कल्पे उक्तमेतत् । पुरीषेणैव संपाद्यमिति भावः । एतदिति । मध्ये तनु पुरीपम् । अन्ते बहुलमिति । मध्ये निम्नमिव करोतीति (बौ० श्रौ० सू० १७।२९) द्रोणचित्युक्तम् । एवं संपाद्यमिति भावः । अत्र कल्पोक्तो विशेषोऽनुसन्धेयः ( बौ० श्रौ० सू० १७।३० पृ० ३०९) । तत्रैवमुक्तम् । अथ हैष द्रोणचिद् ब्राह्मणो मध्य उत्पृष्ठः परितस्तनुः । तस्यैवं सतोऽरत्नि-