भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)
Bhamati of Vachaspati Mishra Hindi
वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द) द्वारा
स्रोत: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (उद्गम)
पृष्ठ 332, कुल 639 में से
संदर्भ में पढ़ें३१४ ब्रह्मसूत्रशाङ्करभाष्यम् [ अ. १ पा. २ सू. २४
तत्र संशयः—किं वैश्वानरशब्देन जाठरोऽग्निरुपदिश्यते, उत भूताग्निः, अथ तदभिमानिनी देवता, अथवा शारीरः, आहोस्वित् परमेश्वर इति । किं पुनरत्र संशयकारणम् ? वैश्वानर इति जाठरभूताग्निदेवतानां साधारणशब्दप्रयोगादात्मेति च शारीरपरमेश्वरयोः । तत्र कस्योपादानं न्याय्यं, कस्य वा हानमिति भवति संशयः ।
किं तावत्प्राप्तम् ? जाठरोऽग्निरिति, कुतः ? तत्र हि विशेषेण कचित्प्रयोगो दृश्यते—'अयम्ग्निवैश्वानरो योऽयमन्तः पुरुषे येनेदमन्नं पच्यते यदिदमद्यते' (बृह० ५।९) इत्यादौ । अग्निमात्रं वा स्यात् , सामान्येनापि प्रयोगदर्शनात्—'विश्वस्मा अग्निं भुवनाय देवा वैश्वानरं केतुमह्नामकृण्वन्' (ऋ० सं० १०।८८।१२) इत्यादौ । अग्निशरीरा वा देवता स्यात्, तस्यामपि प्रयोगदर्शनात्—'वैश्वानरस्य सुमतौ स्याम राजा हि कं भुवनानामभिश्रीः' (ऋ० सं० १।९८।१) इत्येवमाद्यायाः श्रुतेर्देवतायामैश्वर्याद्युपेततायां संभवात् । अथात्मशब्दसामानाधिकरण्यादुपक्रमे च 'को न आत्मा किं ब्रह्म' इति केवलात्मशब्दप्रयोगादात्मशब्दवशेन च वैश्वानरशब्दः परिणेय इत्युच्यते, तथापि शारीर आत्मा स्यात् , तस्य भोक्तृत्वेन वैश्वानरसन्निकर्षात् । प्रादेशमात्रमिति च विशेषणस्य तस्मिन्नुपाधिपरिच्छिन्ने संभवात् । तस्मान्नेश्वरो वैश्वानर इत्येवं प्राप्ते तत इदमुच्यते—वैश्वानरः परमात्मा भवितुमर्हतीति, कुतः ? साधारणशब्दविशेषात् । साधारणशब्दयोर्विशेषः साधारणशब्दविशेषः । यद्यप्येतावुभावप्यात्मवैश्वानरशब्दौ साधारणशब्दौ, वैश्वानरशब्दस्तु त्रयस्य साधारणः, आत्मशब्दश्च द्वयस्य, तथापि विशेषो दृश्यते, येन परमेश्वरपरत्वं तयोरभ्युपगम्यते, तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूर्धैव सुतेजाः' इत्यादि । अत्र हि परमेश्वर एव द्युमूर्धत्वादिविशिष्टोऽवस्थान्तरगतः प्रत्यगात्मत्वेनोपन्यस्त आधानायेति गम्यते, कारणत्वात् । कारणस्य हि सर्वाभिः कार्यगताभिरवस्थाभिरवस्थावत्त्वाद् द्युलोकाद्यवयवत्वमुपपद्यते । 'स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति' इति च सर्वलोकाद्याश्रयं फलं श्रूयमाणं परमकारणपरिग्रहे संभवति । 'एवं हाऽस्य सर्वे पाप्मानः प्रद्यूयन्ते' (छा० ५।२४।३) इति च तद्विदः सर्वपाप्मप्रदाहश्रवणम् । 'को न आत्मा किं ब्रह्म' इति चात्मब्रह्मशब्दाभ्यामुपक्रम इत्येवमेतानि लिङ्गानि परमेश्वरमेवावगमयन्ति । तस्मात्परमेश्वर एव वैश्वानरः ॥ २४ ॥
भामती
सारूप्यात् । “हृदयं गार्हपत्यः” । हृदयान्तरं “मनोऽन्वाहार्यपचनः” । “आस्यमाहवनीयः” । तत्र हि तदन्नं हूयते ॥ २४ ॥
भामती-व्याख्या
वेदि की समानाकारता होने के कारण उरस्थल को वेदि कह दिया गया है । बिछे हुए बर्हिः (कुशा) में रोमों की समानता होने के कारण बर्हिः को रोम कहा है। हृदय में गृहपति (जीव) का विशेष निवास होने के कारण हृदय को गार्हपत्य अग्नि और हृदय के अनन्तर मन को अन्वाहार्यपचन (दक्षिणाग्नि) कह दिया है [ 'अनु' अर्थात् दर्शपूर्णमास कर्म का अनुष्ठान करने के अनन्तर जो आहार्यते (ऋत्विजो को दक्षिणा के रूप में दिया जाता है), उस चरु द्रव्य को अन्वाहार्य कहते हैं और वह चरु जिस दक्षिणाग्नि में पकाया जाता है, उस अग्नि को अन्वाहार्यपचन कहते हैं]। आस्य (मुख) को आहवनीय अग्नि इस लिए कहा गया है कि उसमें अन्न की आहुति दी जाती है ॥ २४ ॥