भारतकोश
संग्रह पर लौटें

भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)

Bhamati of Vachaspati Mishra Hindi

वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द) द्वारा

स्रोत: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (उद्गम)

DevanagariHindipublished639 पृष्ठ

३१४ ब्रह्मसूत्रशाङ्करभाष्यम् [ अ. १ पा. २ सू. २४

तत्र संशयः—किं वैश्वानरशब्देन जाठरोऽग्निरुपदिश्यते, उत भूताग्निः, अथ तदभिमानिनी देवता, अथवा शारीरः, आहोस्वित् परमेश्वर इति । किं पुनरत्र संशयकारणम् ? वैश्वानर इति जाठरभूताग्निदेवतानां साधारणशब्दप्रयोगादात्मेति च शारीरपरमेश्वरयोः । तत्र कस्योपादानं न्याय्यं, कस्य वा हानमिति भवति संशयः ।

किं तावत्प्राप्तम् ? जाठरोऽग्निरिति, कुतः ? तत्र हि विशेषेण कचित्प्रयोगो दृश्यते—'अयम्ग्निवैश्वानरो योऽयमन्तः पुरुषे येनेदमन्नं पच्यते यदिदमद्यते' (बृह० ५।९) इत्यादौ । अग्निमात्रं वा स्यात् , सामान्येनापि प्रयोगदर्शनात्—'विश्वस्मा अग्निं भुवनाय देवा वैश्वानरं केतुमह्नामकृण्वन्' (ऋ० सं० १०।८८।१२) इत्यादौ । अग्निशरीरा वा देवता स्यात्, तस्यामपि प्रयोगदर्शनात्—'वैश्वानरस्य सुमतौ स्याम राजा हि कं भुवनानामभिश्रीः' (ऋ० सं० १।९८।१) इत्येवमाद्यायाः श्रुतेर्देवतायामैश्वर्याद्युपेततायां संभवात् । अथात्मशब्दसामानाधिकरण्यादुपक्रमे च 'को न आत्मा किं ब्रह्म' इति केवलात्मशब्दप्रयोगादात्मशब्दवशेन च वैश्वानरशब्दः परिणेय इत्युच्यते, तथापि शारीर आत्मा स्यात् , तस्य भोक्तृत्वेन वैश्वानरसन्निकर्षात् । प्रादेशमात्रमिति च विशेषणस्य तस्मिन्नुपाधिपरिच्छिन्ने संभवात् । तस्मान्नेश्वरो वैश्वानर इत्येवं प्राप्ते तत इदमुच्यते—वैश्वानरः परमात्मा भवितुमर्हतीति, कुतः ? साधारणशब्दविशेषात् । साधारणशब्दयोर्विशेषः साधारणशब्दविशेषः । यद्यप्येतावुभावप्यात्मवैश्वानरशब्दौ साधारणशब्दौ, वैश्वानरशब्दस्तु त्रयस्य साधारणः, आत्मशब्दश्च द्वयस्य, तथापि विशेषो दृश्यते, येन परमेश्वरपरत्वं तयोरभ्युपगम्यते, तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूर्धैव सुतेजाः' इत्यादि । अत्र हि परमेश्वर एव द्युमूर्धत्वादिविशिष्टोऽवस्थान्तरगतः प्रत्यगात्मत्वेनोपन्यस्त आधानायेति गम्यते, कारणत्वात् । कारणस्य हि सर्वाभिः कार्यगताभिरवस्थाभिरवस्थावत्त्वाद् द्युलोकाद्यवयवत्वमुपपद्यते । 'स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति' इति च सर्वलोकाद्याश्रयं फलं श्रूयमाणं परमकारणपरिग्रहे संभवति । 'एवं हाऽस्य सर्वे पाप्मानः प्रद्यूयन्ते' (छा० ५।२४।३) इति च तद्विदः सर्वपाप्मप्रदाहश्रवणम् । 'को न आत्मा किं ब्रह्म' इति चात्मब्रह्मशब्दाभ्यामुपक्रम इत्येवमेतानि लिङ्गानि परमेश्वरमेवावगमयन्ति । तस्मात्परमेश्वर एव वैश्वानरः ॥ २४ ॥

भामती

सारूप्यात् । “हृदयं गार्हपत्यः” । हृदयान्तरं “मनोऽन्वाहार्यपचनः” । “आस्यमाहवनीयः” । तत्र हि तदन्नं हूयते ॥ २४ ॥

भामती-व्याख्या

वेदि की समानाकारता होने के कारण उरस्थल को वेदि कह दिया गया है । बिछे हुए बर्हिः (कुशा) में रोमों की समानता होने के कारण बर्हिः को रोम कहा है। हृदय में गृहपति (जीव) का विशेष निवास होने के कारण हृदय को गार्हपत्य अग्नि और हृदय के अनन्तर मन को अन्वाहार्यपचन (दक्षिणाग्नि) कह दिया है [ 'अनु' अर्थात् दर्शपूर्णमास कर्म का अनुष्ठान करने के अनन्तर जो आहार्यते (ऋत्विजो को दक्षिणा के रूप में दिया जाता है), उस चरु द्रव्य को अन्वाहार्य कहते हैं और वह चरु जिस दक्षिणाग्नि में पकाया जाता है, उस अग्नि को अन्वाहार्यपचन कहते हैं]। आस्य (मुख) को आहवनीय अग्नि इस लिए कहा गया है कि उसमें अन्न की आहुति दी जाती है ॥ २४ ॥

वैश्वानरस्य ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् ३१५

स्मर्यमाणमनुमानं स्यादिति ॥ २५ ॥

इतश्च परमेश्वर एव वैश्वानरः, यस्मात्परमेश्वरस्यैवाग्निरास्यं द्यौर्मूर्धेतीदृशं त्रैलोक्यात्मकं रूपं स्मर्यते - 'यस्याग्निरास्यं द्यौर्मूर्धा खं नाभिश्चरणौ क्षितिः । सूर्य-श्चक्षुर्दिशः श्रोत्रं तस्मै लोकात्मने नमः ।' इति । एतत्स्मर्यमाणं रूपं मूलभूतां श्रुतिमनु-मापयदस्य वैश्वानरशब्दस्य परमेश्वरपरत्वेऽनुमानं लिङ्गं गमकं स्यादित्यर्थः । इति-शब्दो हेत्वर्थः । यस्मादिदं गमकं तस्मादपि वैश्वानरः परमात्मैवेत्यर्थः । यद्यपि स्तुतिरियं 'तस्मै लोकात्मने नमः' इति । स्तुतित्वमपि नासति मूलभूते वेदवाक्ये सम्यगीदृशेन रूपेण सम्भवति । 'द्यां मूर्धानं यस्य विप्रा वदन्ति खं वै नाभिं चन्द्रसूर्यौ च नेत्रे । दिशः श्रोत्रे विद्धि पादौ क्षितिं च सोऽचिन्त्यात्मा सर्वभूतप्रणेता ॥' इत्येवं-जातीयका च स्मृतिरिहोदाहर्तव्या ॥ २५ ॥

शब्दादिभ्योऽन्तःप्रतिष्ठानाच्च नेति चेन्न, तथादृष्ट्युपदेशादसम्भवात्पुरुषमपि चैनमधीयते ॥ २६ ॥

अत्राह - न परमेश्वरो वैश्वानरो भवितुमर्हति, कुतः ? शब्दादिभ्योऽन्तःप्रति-ष्ठानाच्च । शब्दस्तावद्वैश्वानरशब्दो न परमेश्वरे संभवति, अर्थान्तरे रूढत्वात् । तथाऽ-ग्निशब्दः 'स एषोऽग्निर्वैश्वानरः' इति । आदिशब्दात् 'हृदयं गार्हपत्यः' (छा० ५।१८।२) इत्याद्यग्नित्रेताप्रकल्पनम् । 'तद्यद्भक्तं प्रथममागच्छेत्तद्धोमीयम्' (छा० ५।२०।१) इत्यादिना च प्राणाहुत्यधिकरणतासङ्कीर्तनम् । एतेभ्यो हेतुभ्यो जाठरो वैश्वानरः प्रत्येयव्यः । तथाऽन्तःप्रतिष्ठानमपि श्रूयते - 'पुरुषेऽन्तःप्रतिष्ठितं वेद' इति । तच्च जाठरे सम्भवति । तदप्युक्तं मूर्धेव सुतेजा इत्यादेर्विशेषात्कारणात्परमात्मा वैश्वानर इति । अत्र ब्रूमः - कुतो ह्येष निर्णयः ? यदुभयथापि विशेषप्रतिभाने सति परमेश्वरविषय एव विशेष आश्रयणीयो न जाठरविषय इति । अथवा भूताग्नेरन्तर्ब-


भामती

ननु को न आत्मा किं ब्रह्मेत्युपक्रमे आत्मब्रह्मशब्दयोः परमात्मनि रूढत्वेन तदुपपरक्तायां बुद्धौ वैश्वानराग्न्यादयः शब्दास्तदनुरोधेन परमात्मन्येव कथञ्चिन्नेतुं युज्यन्ते, न तु प्रथमावगतौ ब्रह्मात्मशब्दौ चरमावगतवैश्वानरादिपदानुरोधेनान्यथयितुं युज्येते । यद्यपि च वाजसनेयिनां वैश्वानरविद्योपक्रमे वैश्वानरं ह वै भगवान् सम्प्रति वेत्थ तं नो ब्रूहीत्यत्र नात्मब्रह्मशब्दौ स्तस्तथापि तत्समानार्थं छान्दोग्यवाक्यं तदुप-क्रममिति तेन निश्चिताथेन तद्विरोधेन वाजसनेयिवाक्यार्थो निश्चीयते । निश्चिताथेन ह्यनिश्चिताथं

भामती-व्याख्या

संशय - 'वैश्वानर' शब्द के द्वारा क्या जाठर अग्नि विवक्षित है ? या भूताग्नि ? या अग्न्यभिमान देवता ? या जीव ? अथवा परमेश्वर ?

पूर्वपक्ष - 'वैश्वानर' शब्द की शक्ति परमेश्वर में नहीं, अतः जाठराग्नि आदि में से किसी एक का ग्रहण किया जा सकता है।

शङ्का - "को न आत्मा किं ब्रह्म" - ऐसे उपक्रम वाक्य में 'आत्मा' और 'ब्रह्म' ये दोनों शब्द परमात्मा में रूढ होने के कारण पश्चात् उपस्थित 'वैश्वानर' शब्द में परमात्मपरता ही निश्चित होती है। प्रथमावगत 'ब्रह्म' और 'आत्मा' शब्द पश्चादुपस्थित वैश्वानरादि शब्दों के अनुरोध पर अन्य अर्थ (जाठराग्नि) के बोधक नहीं हो सकते। यद्यपि वाजसनेयी वृहदारण्यकोपनिषत् में वैश्वानर-विद्या का उपक्रम करते हुए कहा है - "वैश्वानरं ह वै भगवान्, सम्प्रति वेद तं नो ब्रूहि।" यहाँ न 'आत्म' शब्द है और न 'ब्रह्म' शब्द। तथापि उसके समानार्थक छान्दोग्योपनिषत् में वे दोनों शब्द प्रयुक्त हैं, अतः निश्चिताथंक वाक्य के

३१६ ब्रह्मसूत्रशाङ्करभाष्यम् [ अ. १ पा. २ सू. २६

द्विष्ठावतिष्ठमानस्यैष निर्देशो भविष्यति, तस्यापि हि द्युलोकादिसंबन्धो मन्त्रवर्णादवगम्यते—'यो भानुना पृथिवीं द्यामुतेमामाततान रोदसी अन्तरिक्षम्' (ऋ० सं० १०।८८।३) इत्यादौ। अथवा तच्छरीराया देवताया ऐश्वर्ययोगाद् द्युलोकाद्यवयवत्वं भविष्यति। तस्मान्न परमेश्वरो वैश्वानर इति। अत्रोच्यते ॐ न तथादृष्ट्युपदेशादिति ॐ ॥

भामती व्यवस्थाप्यते, नानिश्चिताथेन निश्चितार्थम्। कर्मवच्च ब्रह्मापि सर्वशाखाप्रत्ययमेकमेव। न च द्युमूर्द्धत्वादिकं जाठरभूताग्निदेवताजीवात्मनामम्यतमस्यापि सम्भवति? न च सर्वलोकाश्रयफलभागिता। न च सर्वपाप्मप्रदाह इति परिशेष्यात्परमात्मैव वैश्वानर इति निश्चिते कुतः पुनरयमाशङ्कः—शब्दादिभ्योऽन्तःप्रतिष्ठानान्नेति चेत् इति? उच्यते—तदेवोपक्रमानुरोधेनान्यथा नीयते, यन्नेतुं शक्यम्। अशक्यो च वैश्वानराग्निशब्दावम्यथा नेतुमिति शङ्कितुरभिमानः। अपि चान्तःप्रतिष्ठितत्वं प्रादेशमात्रत्वं च न सर्वव्यापिनोऽपरिमाणस्य च परब्रह्मणः सम्भवतः। न च प्राणाहुत्यधिकरणताऽम्यत्र जठराग्नेर्युज्यते। न च गार्हपत्याविहृदयाविता ब्रह्मणः सम्भविनो। तस्मात् यथायोगं जाठरभूताग्निदेवताजीवानामन्यतमो वैश्वानरः, न तु ब्रह्म। तथा च ब्रह्मात्मशब्दावुपक्रमगतावप्यन्यथा नेतव्यौ। द्युमूर्द्धत्वादयश्च स्तुतिमात्रम्। अथ वा अग्निशरीराया देवताया ऐश्वर्ययोगाद् द्युमूर्द्धत्वादय उपपद्यन्त इति शङ्कितुरभिसन्धिः।

अत्रोत्तरम्—न, कुतः? तथा दृष्ट्युपदेशात्। अद्धा चरममन्यथा सिद्धं प्रथमावगतमन्यथयति। न

भामती-व्याख्या अनुरोध पर वाजसनेयी बृहदारण्यक का वाक्यार्थ निश्चित हो जाता है, क्योंकि यह अत्यन्त प्रसिद्ध न्याय है कि "निश्चिताथेन ह्यनिश्चिताथं व्यवस्थाप्यते, न त्वनिश्चिताथेन निश्चितार्थम्"। जैसे कर्म अन्यान्य शाखाओं में प्रतिपादित होने पर भी एक ही माना जाता है, वैसे ही ब्रह्म भी विभिन्न शाखाओं से अवगत एकरूप ही माना जाता है। द्युलोक जिसका मस्तक है, ऐसा पदार्थ जाठराग्नि, भूताग्नि, देवता और जीव—इनमें से कोई भी नहीं, न सर्वलोक-फल का भोक्ता और न सर्व पाप का प्रदाहक है, परिशेषतः परमात्मा ही वैश्वानर निश्चित होता है, अतः यह पूर्वपक्ष कैसे उठ सकता है कि "शब्दादिभ्योऽन्तःप्रतिष्ठानान्न"। अर्थात् 'वैश्वानर' शब्द ऐसी जाठराग्नि में रूढ है, जो केवल उदर के अन्दर अवस्थित है, अतः 'वैश्वानर' शब्द ब्रह्म का बोधक नहीं हो सकता।

समाधान—उपसंहार-वाक्य के अनुरोध पर वहाँ ही उपक्रम का अन्यथा नयन होता है, जहाँ वैसा करना सम्भव हो। 'वैश्वानर' और 'अग्नि'—इन दोनों शब्दों का अन्यथा नयन (अग्नि से भिन्न ब्रह्म का बोधकत्व) सम्भव नहीं—ऐसी पूर्वपक्षी की धारणा है। दूसरी बात यह भी है कि श्रुति में जो वैश्वानर के लिए अन्तःप्रतिष्ठितत्व (उदर में रहना) और प्रादेशमात्र में परिमित [अंगूठा और तर्जनी को पूरी तरह फैला देने से जो लम्बाई निकलती है, उसे प्रदेश कहते हैं, उसमें रहनेवाले पदार्थ को प्रादेशमात्र कहते हैं, ऐसा] कहा गया है, वह कहना सर्व-व्यापक और अपरिमित पर ब्रह्म के लिए कभी सम्भव नहीं हो सकता। शरीर में अवस्थित प्राणों की आहुति जाठराग्नि में ही सम्भव है, ब्रह्म में नहीं। हृदयादि में निहित गार्हपत्यादि अग्नियों की रूपकता भी ब्रह्म में समञ्जस नहीं होती। अतः जाठराग्नि, भूताग्नि, देवता और जीव—इनमें से कोई एक ही वैश्वानरास्पद हो सकता है, ब्रह्म नहीं। ऐसा निश्चय हो जाने पर उपक्रम वाक्य में जो 'ब्रह्म' और 'आत्मा' शब्द उपात्त हुए हैं, उनमें गौणी वृत्ति के द्वारा जाठराग्नि आदि की बोधकता पर्यवसित होती है। द्युलोकादि में मस्तकादिरूपता का प्रतिपादन केवल स्तुतिपरक है। अथवा अग्नि के अधिष्ठातृ देव में सर्वैश्वर्य के योग से उक्त कथन उपपन्न हो जाता है—ऐसा पूर्वपक्षी का आशय है।

सिद्धान्त—कथित पूर्वपक्ष का निराकरण करने के लिए कहा गया है—"न",

वैश्वानरस्य ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् ३१७

न शब्दादिभ्यः कारणेभ्यः परमेश्वरस्य प्रत्याख्यानं युक्तम्, कुतः ? तथा जाठरापरित्यागेन दृष्ट्युपदेशात् । परमेश्वरदृष्टिर्हि जाठरे वैश्वानर इहोपदिश्यते - 'मनो ब्रह्मेत्युपासीत' ( छा० ३।१८।१ ) इत्यादिवत् । अथवा जाठरवैश्वानरोपाधिः परमेश्वर इह द्रष्टव्यत्वेनोपदिश्यते - 'मनोमयः प्राणशरीरो भारूपः' ( छा० ३।१४।२ ) इत्यादिवत् । यदि चेह परमेश्वरो न विवक्ष्येत, केवल एव जाठरोऽग्निर्विवक्ष्येत, ततो मूर्धैव सुतेजा इत्यादेर्विशेषस्यासंभव एव स्यात् । यथा तु देवताभूताग्निव्यपाश्रयेणाप्ययं विशेष उपपादयितुं न शक्यते, तथोत्तरसूत्रे वक्ष्यामः । यदि च केवल एव जाठरो विवक्ष्येत, पुरुषेऽन्तःप्रतिष्ठितत्वं केवलं तस्य स्यान्न तु पुरुषत्वम् । पुरुषमपि चैनमधीयते वाजसनेयिनः- 'स एषोऽग्निर्वैश्वानरो यत्पुरुषः स यो हैतमेवमग्निं वैश्वानरं पुरुषं पुरुषेऽन्तःप्रतिष्ठितं वेद' ( श० ब्रा० १०।६।१।११ ) इति । परमेश्वरस्य तु सर्वा-

भामती

तत्र चरमस्यानान्यथासिद्धिः प्रतीकोपदेशेन वा मनो ब्रह्मेतिवत् । तदुपाध्युपदेशेन वा मनोमयः प्राणशरीरो भारूप इतिवद् उपपत्तेः । व्युत्पत्त्या वा वैश्वानराग्निशब्दयोर्ब्रह्मवचनत्वान्नवान्यथासिद्धिः । तथा च ब्रह्माश्रयस्य प्रत्ययस्याध्यासन्तरे जाठरवैश्वानराह्वये क्षेपेण वा जाठरवैश्वानरोपाधिनि वा ब्रह्मण्युपास्ये वैश्वानरधर्माणां ब्रह्मधर्माणां च समावेश उपपद्यते । असम्भवादिति सूत्रावयवं व्याचष्टे ॐ यदि चेह परमेश्वरो न विवक्ष्येत इति ॐ । पुरुषमपि चैनमधीयत इति सूत्रावयवं व्याचष्टे ॐ यदि केवल एव इति ॐ । ब्रह्मोपाधितया नापि प्रतीकतयेत्यर्थः । न केवलमन्तःप्रतिष्ठं पुरुषमपीत्यपेरर्थः । अत एव यत् पुरुष इति पुरुषमनूद्य न वैश्वानरो विधीयते । तथा सति पुरुषे वैश्वानरदृष्टिरुपदिश्येत । एवं च परमेश्वरदृष्टिर्हि जाठरे वैश्वानर इहोपदिश्यत इति भाष्यं विरुध्येत । श्रुतिविरोधश्च - "स यो हैतमेवमग्निं वैश्वानरं पुरुषं पुरुषेऽन्तःप्रतिष्ठितं वेद" इति वैश्वानरस्य हि पुरुषत्ववेदनमत्रानूद्यते, न तु पुरुषस्य वैश्वानरत्ववेदनम् ।

भामती-व्याख्या

क्योंकि 'तथादृष्ट्युपदेशात्' [ जाठराग्नि आदि में केवल ब्रह्म की दृष्टि या भावना का ही विधान किया गया है, अतः 'वैश्वानर' पद के वाच्यार्थ का बाध नहीं होता, उसमें अन्य पदार्थ का केवल ध्यान किया जाता है ]। आशय यह है कि वही अन्तिम वाक्य उपक्रम का अन्यथा नयन कर सकता है, जो अन्यथा सिद्ध ( उपपन्न ) न हो सके, प्रकृत में जाठराग्नि को प्रतीक मान कर वैसे ही ब्रह्म का उपदेश हो सकता है, जैसे मन में ब्रह्म की भावना का विधान होता है। अथवा 'वैश्वानर' और 'अग्नि' शब्द के द्वारा उपस्थित जाठराग्निरूप उपाधि के द्वारा पर ब्रह्म की वैसे ही उपासना प्रतिपादित है, जैसे "मनोमयः प्राणशरीरो भारूपः" ( छां. ३।१४।२ ) इत्यादि वाक्यों में मन और प्राणादिरूप उपाधियों के द्वारा आत्मा की प्रवृत्ति, निवृत्ति और संसरणादि अभिहित हैं। अथवा "विश्वश्चायं नरश्च, विश्वेषां वाऽयं नरः विश्वे नरा अस्य" - इत्यादि व्युत्पत्ति के द्वारा वैश्वानरादि शब्द ब्रह्म के वाचक हैं, अतः वे अन्यथा सिद्ध नहीं हो सकते । सारांश यह है कि ब्रह्मविषयिणी प्रतीति का जाठर वैश्वानर में प्रक्षेप करके ( जाठराग्नि को प्रतीक मानकर ) या जाठर वैश्वानररूप उपाधि के द्वारा उपास्यमान ब्रह्म में ब्रह्म के द्युमूर्धत्वादि धर्मों का अन्वय उपपन्न हो जाता है।

सूत्रगत 'असम्भवात्' - इस पद की व्याख्या करते हैं- "यदि चेह परमेश्वरो न विवक्ष्येत केवल एव जाठरोऽग्निर्विवक्ष्येत, ततो मूर्धैव सुतेजाः इत्यादेर्विशेषस्यासम्भव एव स्यात्" । "पुरुषमपि चैनमधीयते" - इस सौत्र वाक्य की व्याख्या की जाती है- "यदि च केवल एव जाठरो विवक्ष्येत, पुरुषेऽन्तःप्रतिष्ठितत्वं केवलं तस्य स्यान्न तु पुरुषत्वम् ।" अर्थात् यदि ब्रह्म की उपाधि या प्रतीक के रूप में जाठराग्नि का निर्देश न होकर केवल जाठराग्नि

३१८ब्रह्मसूत्रशाङ्करभाष्यम्[ अ. १ पा. २ सू. २७

त्मत्वान्पुरुषत्वं पुरुषेऽन्तःप्रतिष्ठितत्वं चोभयमुपपद्यते। ये तु ‘पुरुषविधमपि चैनमधीयते’ इति सूत्रावयवं पठन्ति, तेषामेषोऽर्थः—केवलजाठरपरिग्रहे पुरुषेऽन्तःप्रतिष्ठितत्वं केवलं स्यान्न पुरुषविधत्वम्। पुरुषविधमपि चैनमधीयते वाजसनेयिनः—‘पुरुषविधं पुरुषेऽन्तःप्रतिष्ठितं वेद’ इति। पुरुषविधत्वं च प्रकरणाद्यदधिदैवतं द्युमूर्धत्वादि पृथिवीप्रतिष्ठितत्वान्तं, यच्चाध्यात्मं प्रसिद्धं मूर्धत्वादि चुबुकप्रतिष्ठितत्वान्तं तत्परिगृह्यते ॥ २६ ॥

अत एव न देवता भूतं च ॥ २७ ॥

यत्पुनरुक्तं भूताग्नेरपि मन्त्रवर्णे द्युलोकादिसंबन्धदर्शनान्मूर्धैव सुतेजा इत्याद्यवयवकल्पनं तस्यैव भविष्यतीति, तच्छारीराया देवताया वैश्वर्ययोगादिति। तत्परिहर्तव्यम्। अत्रोच्यते—अत एवोक्तेभ्यो हेतुभ्यो न देवता वैश्वानरः। तथा भूताग्निरपि न वैश्वानरः। नहि भूताग्नेरौष्ण्यप्रकाशमात्रत्मकस्य द्युमूर्धत्वादिकल्पनोपपद्यते; विकारस्य विकारान्तरात्मत्वासंभवात्। तथा देवतायाः सत्यप्यैश्वर्ययोगे न द्युमूर्धत्वादिकल्पना संभवति, अकारणत्वात्परमेश्वर्यत्वाच्च। आत्मशब्दासम्भवश्च सर्वेष्वेषु पक्षेषु स्थित एव ॥ २७ ॥


भामती

तस्मात् स एषोऽग्निर्वैश्वानरो यदिति यदः पूर्वेण सम्बन्धः, पुरुष इति तत्र पुरुषद्दष्टेरुपदेश इति युक्तम् ॥ २५, २६ ॥

अत एवैतेभ्यः श्रुतिस्मृत्यवगतद्युमूर्धत्वादिसम्बन्धसर्वलोकाश्रयफलभागित्वसर्वपाप्मप्रदाहात्मब्रह्मपदोपक्रमेभ्यो हेतुभ्य इत्यर्थः। ‘यो भानुना पृथिवीं द्यामुतेमाम्’ इति मन्त्रवर्णोऽपि न केवलोष्ण्यप्रकाशविभवमात्रस्य भूताग्नेरिममीदृशं महिमानमाहापि तु ब्रह्मविकारतया तद्रूप्येणेति भावः ॥ २७ ॥


भामती-व्याख्या

का ही प्रतिपादन अपेक्षित होता, तब उस जाठराग्नि के लिए केवल अन्तःप्रतिष्ठितत्व ( शरीर के अन्दर रहना ) ही कहा जा सकता था, उसमें पुरुषत्व का विधान सम्भव नहीं होता, जैसा कि वाजसनेयी शाखा में कहा है—“स एषोऽग्निर्वैश्वानरो यत्पुरुषः” ( शत. ब्रा. १०.६।१।११ )। 'पुरुष' शब्द का अर्थ है—पूर्ण ( व्यापक )। जाठराग्नि व्यापक नहीं, अपितु उसके द्वारा उपलक्षित ब्रह्म ही पुरुष तत्त्व है। सूत्र में जो कहा है—“पुरुषमपि”, वहाँ प्रयुक्त 'अपि' शब्द का अर्थ यह है कि केवल अन्तःप्रतिष्ठितत्व का अभिधान न करके पुरुषत्व का भी विधान किया गया है। अत एव ( वैश्वानर में पुरुषत्व का विधान अपेक्षित होने के कारण ) पञ्चपादिकाकार का वह वक्तव्य भी निरस्त हो जाता है, जो कहा है कि 'उक्त श्रुति-वाक्य में पुरुष का अनुवाद करके वैश्वानरत्व का विधान किया गया है।' उस वक्तव्य को मान लेने पर पुरुष में वैश्वानर की भावना ( उपासना ) प्राप्त होगी। इतना ही नहीं “परमेश्वरदृष्टिर्हि जाठरे वैश्वानरे इहोपदिश्यते”—यह भाष्य भी विरुद्ध पड़ जाता है, अतः वैश्वानर में पुरुषत्व की भावना यहाँ अनुवादित है, पुरुष में वैश्वानरत्व की भावना नहीं। “स एषोऽग्निर्वैश्वानरो यत्”—यहाँ पर 'यत्' पद के द्वारा पूर्वोपस्थापित वैश्वानर का अनुवाद किया गया और ‘पुरुषः’—इस पद से पुरुषत्व का विधान किया जाता है॥ २५-२६ ॥

“अत एव न देवतां भूतं च”—इस सूत्र में 'अत एव' शब्द का अर्थ यह है कि ‘कथित श्रुति, स्मृति के द्वारा अवगत द्युमूर्धत्वादि का सम्बन्ध, सर्वलोकाश्रितफल-भोक्तृत्व, सर्वपाप-प्रदाह और आत्मा एवं ब्रह्म शब्द का उपक्रम’—इन हेतुओं से उक्त श्रुति में ‘वैश्वानर’ और ‘अग्नि’ पदों के द्वारा अग्नि के अभिमानी देव या भौतिक अग्नि का ग्रहण नहीं किया जा

[ वैश्वानरस्य ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् ३१९

साक्षादप्यविरोधं जैमिनिः ॥ २८ ॥

पूर्वं जाठराग्निप्रतीको जाठराग्न्युपाधिको वा परमेश्वर उपास्य इत्युक्तमन्तः- प्रतिष्ठितत्वाद्यनुरोधेन, इदानीं तु विनैव प्रतीकोपाधिकल्पनाभ्यां साक्षादपि परमेश्वरो- पासनपरिग्रहे न कश्चिद्विरोध इति जैमिनिराचार्यो मन्यते । ननु जाठराग्न्यपरिग्रहेऽ- न्तःप्रतिष्ठितत्ववचनं शब्दादीनि च कारणानि विरुध्येरन्निति । अत्रोच्यते--अन्तः- प्रतिष्ठितत्ववचनं तावन्न विरुध्यते । न हीह पुरुषविधं 'पुरुषेऽन्तःप्रतिष्ठितं वेद' इति जाठराग्न्यभिप्रायेणेदमुच्यते, तस्याप्रकृतत्वादसंशब्दितत्वाच्च । कथं तर्हि ? यत्प्रकृतं मूर्द्धादिचुबुकानेषु पुरुषावयवेषु पुरुषविधत्वं कल्पितं तदभिप्रायेणेदमुच्यते-'पुरुष- विधं पुरुषेऽन्तःप्रतिष्ठितं वेद' इति । यथा वृक्षे शाखां प्रतिष्ठितां पश्यतीति तद्वत् । अथवा यः प्रकृतः परमात्माऽध्यात्ममधिदैवतं च पुरुषविधत्वोपाधिस्तस्य यत्केवलं साक्षिरूपं तदभिप्रायेणेदमुच्यते-'पुरुषेऽन्तःप्रतिष्ठितं वेद' इति । निश्चिते च पूर्वापरा- लोचनवशेन परमात्मपरिग्रहे तद्विषय एव वैश्वानरशब्दः केनचिद्योगेन वर्तिष्यते । विश्वश्चायं नरश्चेति, विश्वेषां वाऽयं नरः, विश्वे वा नरा अस्येति । वि वानरः पर- मात्मा, सर्वात्मत्वात् । विश्वानर एव वैश्वानरः, तद्धितोऽनन्यार्थः, राक्षसवायसा-

भामती

यदेतत्प्रकृतं मूर्द्धादिषु चुबुंकान्तेषु पुरुषावयवेषु द्युप्रभृतीन् पृथिवीपर्यन्तांस्त्रैलोक्यात्मनो वैश्वानरस्यावयवान् सम्पाद्य पुरुषविधत्वं तदभिप्रायेणेदमुच्यते ॐ पुरुषविधं पुरुषेऽन्तःप्रतिष्ठितं वेद इति ॐ । अत्रावयवसम्पत्त्या पुरुषविधत्वं कार्यकारणसमुदायरूपपुरुषावयवमूर्द्धादिचुबुंकान्तः- प्रतिष्ठानाच्च पुरुषेऽन्तःप्रतिष्ठितत्वं समुदायमध्यपतितत्वात्तदवयवानां समुदायिनाम् । अत्रैव निदर्शनमाह ॐ यथा वृक्षे शाखाम् इति ॐ । शाखाकाण्डमूलस्कन्धसमुदाये प्रतिष्ठिता शाखा तन्मध्यपतिता भवतीत्यर्थः । समाधानान्तरमाह ॐ अथवा इति ॐ । अन्तःप्रतिष्ठत्वं माध्यस्थ्यं तेन साक्षित्त्वं लक्षयति । एतदुक्तं भवति वैश्वानरः परमात्मा चराचरसाक्षीति । पूर्वपक्षोक्तोऽनुशयमुन्मूलयति ॐ निश्चिते च इति ॐ । विश्वात्मकत्वाद् वैश्वानरः प्रत्यगात्मा, विश्वेषां वाऽयं नरस्तद्विकारत्वात्प्रपञ्चस्य विश्वे नरा जीवा

भामती-व्याख्या

सकता । "यो भानुना पृथिवीं द्यामृतेमामाततान रोदसी अन्तरिक्षम्" ( ऋ. सं. १०।८८।३ ) अर्थात् जिसने अपने तेज के द्वारा पृथिवी और द्युलोक को व्याप्त कर रखा है, ऐसी अद्भुत महिमा से सम्पन्न यह भौतिक अग्नि कभी नहीं हो सकती, अपितु ब्रह्म ही ऐसा है-"तस्य भासा सर्वमिद विभाति" ( मुण्ड. २।२।१० ) । उस ब्रह्म का विकार होने के कारण भौतिक अग्नि को अपने मौलिक ब्रह्मतत्त्व के रूप में अवश्य प्रस्तुत किया जा सकता है ॥ २७ ॥

पुरुष के मूर्धा ( मस्तक ) से लेकर चुबुक ( ठोढ़ी ) तक के अवयवों में त्रैलोक्यात्मक वैश्वानर के द्युलोकादि अवयवरूपता का सम्पादन ( आरोप ) करके पुरुषविधत्व ( पुरुष- सदृशत्व ) की कल्पना की गई है - 'पुरुषविधं पुरुषेऽन्तःप्रतिष्ठितम्' । उसके अभिप्राय से कहा गया है, अर्थात् जैसे वृक्ष के अवयव ( शाखादि ) में अवस्थित पक्षी को वृक्ष के अन्दर अवस्थित कहा जाता है, वैसे ही पुरुष के अवयवों में सम्पादित वैश्वानर को पुरुष के अन्दर अवस्थित कहा गया है, क्योंकि पुरुष अवयवी और मस्तकादि अवयव हैं, अवयवी में अवयव प्रतिष्ठित होते हैं, जैसे शाखा-काण्ड-मूल-स्कन्धादि वृक्ष में प्रतिष्ठित कहे जाते हैं । अन्तः प्रतिष्ठितत्व का उपपादन अन्य प्रकार से किया जाता है-'अथवा यः प्रकृतः परमात्मा" । अन्तः प्रतिष्ठितत्व का वाक्यार्थ है-मध्यस्थत्व, मध्यस्थत्व के द्वारा साक्षित्व उपलक्षित होता है । सारांश यह है कि वैश्वानरसंज्ञक परमात्मा समस्त चराचरात्मक प्रपञ्च के व्यवहार का

३२०ब्रह्मसूत्रशाङ्करभाष्यम्[ अ. १ पा. २ सू. ३१

दिवत् । अग्निशब्दोऽप्यग्रणीत्वादियोगाश्रयेण परमात्मविषय एव भविष्यति । गार्हपत्यादिकल्पनं प्राणाहुत्यधिकरणत्वं च परमात्मनोऽपि सर्वात्मत्वादुपपद्यते ॥ २८ ॥

कथं पुनः परमेश्वरपरिग्रहे प्रादेशमात्रश्रुतिरुपपद्यत इति तां व्याख्यातुमारभते —

अभिव्यक्तेरित्याश्मरथ्यः ॥ २९ ॥

अतिमात्रस्यापि परमेश्वरस्य प्रादेशमात्रत्वमभिव्यक्तिनिमित्तं स्यात् । अभिव्यज्यते किल प्रादेशमात्रपरिमाणः परमेश्वर उपासकानां कृते । प्रदेशविशेषेषु वा हृदयादिषूपलब्धिस्थानेषु विशेषेणाभिव्यज्यते । यतः परमेश्वरेऽपि प्रादेशमात्रश्रुतिरभिव्यक्तेरुपपद्यत इत्याश्मरथ्य आचार्यो मन्यते ॥ २९ ॥

अनुस्मृतेर्बादरिः ॥ ३० ॥

प्रादेशमात्रहृदयप्रतिष्ठेन वाऽयं मनसाऽनुस्मर्यते तेन प्रादेशमात्र इत्युच्यते । यथा प्रस्थमिता यवाः प्रस्था इत्युच्यन्ते, तद्वत् । यद्यपि च यवेषु स्वगतमेव परिमाणं प्रस्थसम्बन्धादुच्यते । तथापि प्रयुक्तायाः प्रादेशमात्रश्रुतेः सम्भवति यथाकथंचिदनुस्मरणमालम्बनमित्युच्यते । प्रादेशमात्रत्वेन वायमप्रादेशमात्रोऽप्यनुस्मरणीयः प्रादेशमात्रश्रुत्यर्थवत्त्वाय । एवमनुस्मृतिनिमित्ता परमेश्वरे प्रादेशमात्रश्रुतिरिति बादरिराचार्यो मन्यते ॥ ३० ॥

संपत्तेरिति जैमिनिस्तथा हि दर्शयति ॥ ३१ ॥

संपत्तिनिमित्ता वा स्यात्प्रादेशमात्रश्रुतिः । कुतः ? तथा हि — समानप्रकरणं वाजसनेयिब्राह्मणं द्युप्रभृतीन्पृथिवीपर्यन्तांस्त्रैलोक्यात्मनो वैश्वानरस्यावयवानध्यात्म-


भामती

वाऽऽत्मानोऽस्य तादात्म्येनेति ॥ २८ ॥

साकल्येनोपलब्धासम्भवादुपासकानामनुग्रहायानन्तोऽपि परमेश्वरः प्रादेशमात्रमात्मानमभिव्यनक्तीत्याह ॐ अतिमात्रस्यापि इति ॐ । अतिक्रान्तो मात्रां परिमाणमतिमात्रः । ॐ उपासकानां कृते ॐ उपासकार्थमिति यावत् । व्याख्यान्तरमाह ॐ प्रदेशविशेषेषु वा इति ॐ ॥ २९, ३० ॥

मूर्द्धानमुपक्रम्य चुबुकान्तो हि कायप्रदेशः प्रदेशमात्रः । तत्रैव त्रैलोक्यात्मनो वैश्वानरस्यावयवान् सम्पादयन् प्रादेशमात्रं वैश्वानरं दर्शयति ॥ ३१ ॥


भामती-व्याख्या

साक्षी है । अथवा 'विश्वे नरा जीवा आत्मानोऽस्य' इस व्युत्पत्ति के अनुसार 'वैश्वानर' शब्द का अर्थ सर्व जीव-तदात्म्यापन्न ब्रह्म ॥ २८ ॥

आचार्य आश्मरथ्य का कहना है कि ब्रह्म का साकल्येन उपलब्ध सम्भव नहीं, अतः वह अनन्त और अपरिमित होते हुए भी अपने उपासकों पर अनुग्रह करने के लिए अपने प्रादेशमात्र (प्रदेश के समान स्वल्प स्थान में रहने वाले) आंशिक स्वरूप को प्रकट कर देता है । 'अतिमात्र' शब्द का अर्थ अपरिमित या प्रमाणातीत है — 'अतिक्रान्तो मात्रामिति अतिमात्रः' । 'उपासकानां कृते' का अर्थ है — उपासकानुग्रहार्थम् । 'प्रादेशमात्र' शब्द की अन्य व्याख्या इस प्रकार की जा सकती है कि 'प्रदेशेषु हृदयादिषु अभिव्यज्यते' अर्थात् उस व्यापक अनन्त परमात्मा की अभिव्यक्ति हृदयादि रूप प्रदेशमात्र स्थानों में होती है, अतः उसे प्रादेशमात्र कह दिया गया है ॥ २९, ३० ॥

मस्तक से लेकर चुबुक-पर्यन्त यह काय-भाग प्रदेशमात्र है, इसी में त्रैलोक्यात्मक

वैश्वानरस्य ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् ३२१

मूर्धप्रभृतिषु चुबुकपर्यन्तेषु देहावयवेषु संपादयत्प्रादेशमात्रसंपत्तिं परमैश्वरस्य दर्श- यति—'प्रादेशमात्रमिव ह वै देवाः सुविदिता अभिसंपन्नास्तथा नु व एतान्वक्ष्यामि यथा प्रादेशमात्रमेवाभिसंपादग्रिष्यामीति । स होवाच मूर्धानमुपदिशन्नुवाचैष वा अतिष्ठा वैश्वानर इति। चक्षुषी उपदिशन्नुवाचैष वै सुतेजा वैश्वानर इति । नासिके उपदिशन्नुवाचैष वै पृथग्वर्त्मात्मा वैश्वानर इति। मुख्यमाकाशमुपदिशन्नुवाचैष बहुलो वैश्वानर इति । मुख्या अप उपदिशन्नुवाचैष वै रयिर्वैश्वानर इति । चुबुकमुपदिशन्नु- वाचैष वै प्रतिष्ठा वैश्वानर इति' । चुबुकमित्यधरं मुखफलकमुच्यते । यद्यपि वाजस- नेयके द्यौरतिष्ठात्वगुणा समाम्नायत आदित्यश्च सुतेजस्त्वगुणः । छान्दोग्ये पुनद्यौः सुतेजस्त्वगुणा समाम्नायत आदित्यश्च विश्वरूपत्वगुणः । तथापि नैतावता विशेषेण किंचिद्धीयतं, प्रादेशमात्रश्रुतेरविशेषात् । सर्वशाखाप्रत्ययत्वाच्च । संपत्तिनिमित्तां प्रादेशमात्रश्रुतिं युक्ततरां जैमिनिराचार्यो मन्यते ॥ ३१ ॥

आमनन्ति चैनमस्मिन् ॥ ३२ ॥

आमनन्ति चैनं परमेश्वरमस्मिन् मूर्धचुबुकान्तराले जाबालाः—'य एषोऽनन्तोऽ- व्यक्त आत्मा सोऽविमुक्ते प्रतिष्ठित इति । सोऽविमुक्तः कस्मिन्प्रतिष्ठित इति । वरणायां नास्यां च मध्ये प्रतिष्ठित इति । का वै वरणा का च नासीति' (जाबाल. १) । तत्र चेमामेव नासिकां या सर्वाणीन्द्रियकृतानि पापानि वारयतीति सा वरणा, सर्वाणीन्द्रियकृतानि पापानि नाशयतीति सा नासीति वरणा नासीति निरुच्य पुनरप्यामनन्ति—'कतमा चास्य स्थानं भवतीति । भ्रुवोर्ध्राणस्य च यः संधिः स एष द्युलोकस्य परस्य च संधिर्भवतीति' (जाबा. १) । तस्मादुपपन्ना परमेश्वरे प्रादेशमात्र- श्रुतिः । अभिविमानश्रुतिः प्रत्यगात्मत्वाभिप्रायो । प्रत्यगात्मतया सर्वैः प्राणिभिरभि- विमीयत इत्यभिविमानः । अभिगतो वाऽयं प्रत्यगात्मत्वाद्विमानश्च मानवियोगादित्य- भिविमानः । अभिविमिमीते वा सर्वं जगत्कारणत्वादित्यभिविमानः । तस्मात्परमेश्वरो


भामती

अत्रैव जाबालश्रुतिसंवादमाह सूत्रकारः — ॐ आमनन्ति चैनमस्मिन् अविमुक्तेअविद्योपाधिक- लिप्तावच्छेदे जीवात्मनि स खल्वविमुक्तः, तस्मिन् प्रतिष्ठितः परमात्मा तादात्म्यात् । अत एव हि श्रुतिः—अनेन जीवेनात्मनेति । अविद्याकल्पितत्वेन भेदमाश्रित्याधाराधेयभावः । वरणा भ्रूः । शेष-


भामती-व्याख्या

वैश्वानर के अवयवों का आरोप करके वैश्वानर में प्रादेशमात्रता का गौण व्यवहार महर्षि जैमिनि मानते हैं ॥ ३१ ॥

जाबालोपनिषत् में आए एक संवाद के द्वारा भी सूत्रकार प्रादेशमात्रता का उपपादन करते हैं—"आमनन्ति चैनमस्मिन्" । "एषोऽनन्तोऽव्यक्त आत्मा सोऽविमुक्ते प्रतिष्ठितः”—यहाँ जीव को अविमुक्त इस लिए कह दिया है कि वह अविद्यारूप उपाधि के द्वारा उपहित या परिच्छिन्न है । उस अविमुक्त ( जीव ) में तादात्म्येन परमात्मा अवस्थित है, इसी लिए परमेश्वर के वैसे ही संकल्प का प्रदर्शन श्रुति करती है—"अनेन जीवेनात्माननुप्रविश्य नामरूपे व्याकरवाणि" ( छां. ६।३।२ ) । यद्यपि जीव और ब्रह्म का वास्तविक भेद न होने के कारण 'एषोऽनन्तः अविमुक्ते प्रतिष्ठितः'—इस प्रकार का आधार-आधेयभाव सम्भव नहीं, तथापि अविद्या-कल्पित भेद को लेकर जीव को आधार और ब्रह्म को आधेय कह दिया गया है । उक्त श्रुति में आए 'वरणा' शब्द का सांकेतिक अर्थ भ्रू ( भौं ) है । शेष भाष्य सुगम और

४१

३२२ ब्रह्मसूत्रशाङ्करभाष्यम् [ अ. १ पा. २ सू. ३२

वैश्वानर इति सिद्धम् ॥ ३२ ॥
इति श्रीमच्छङ्करभगवत्पादकृतौ शारीरकमीमांसाभाष्ये
प्रथमाध्यायस्य द्वितीयः पादः ॥ २ ॥


भामती

मतिरोहितार्थम् ॥ ३२ ॥
इति श्रीवाचस्पतिमिश्रविरचिते शारीरकमीमांसाभाष्यविभागे भामत्यां
प्रथमाध्यायस्य द्वितीयः पादः


भामती-व्याख्या

स्पष्टार्थक है ॥ ३२ ॥
भामतीव्याख्यायां प्रथमाध्यायस्य
द्वितीयः पादः समाप्तः

द्युभ्वाद्यायतनस्य ब्रह्मत्वम् ] हिन्दोसहितभामतीसंवलितम् ३२३

प्रथमाध्याये तृतीयः पादः।

[ अत्रास्पष्टब्रह्मलिङ्गानां प्रायो ज्ञेयब्रह्मविषयाणां विचारः ]

( १ द्युभ्वाद्यधिकरणम्। सू० १-७ )

द्युभ्वाद्यायतनं स्वशब्दात् ॥ १ ॥

इदं श्रूयते — ‘यस्मिन्द्यौः पृथिवी चान्तरिक्षमोतं मनः सह प्राणैश्च सर्वैः। तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथामृतस्यैष सेतुः’ (मुण्ड० २।२।५) इति। अत्र यदेतद् द्युप्रभृतीनामामोतत्ववचनादायतनं किंचिदवगम्यते, तत्किं परं ब्रह्म स्याद्, आहोस्विदर्थान्तरमिति संदिह्यते। तत्रार्थान्तरं किमप्यायतनं स्यादिति प्राप्तम्, कस्मात्? ‘अमृतस्यैष सेतुः’ इति श्रवणात्। पारवान्हि लोके सेतुः प्रख्यातः। न च परस्य ब्रह्मणः पारवत्त्वं शक्यमभ्युपगन्तुम्, ‘अनन्तमपारम्’ (बृह० २।४।१२) इति श्रवणात्।

भामती

इह ज्ञेयत्वेन ब्रह्मोपक्षिप्यते। तत्र

पारवत्त्वेन सेतुत्वाद्भेदे षष्ठ्याः प्रयोगतः।
द्युभ्वाद्यायतनं युक्तं नामृतं ब्रह्म कर्हिचित् ॥

पारावारमध्यपाती हि सेतुः ताभ्यामवच्छिद्यमानो जलविधारको लोके दृष्टः, न तु बन्धहेतुमात्रम्, हडिनिगडादिष्वपि प्रयोगप्रसङ्गात्। न चानवच्छिन्नं ब्रह्म सेतुभावमनुभवति। न चामृतं सद् ब्रह्मामृतस्य सेतुरिति युज्यते। न च ब्रह्मणोऽन्यदमृतमस्ति, यस्य तत्सेतुः, स्यात्। न चाभेदे षष्ठ्याः प्रयोगो दृष्टपूर्वः। तदिदमुक्तम् ॐ अमृतस्यैष सेतुरिति श्रवणाद् इति ॐ । अमृतस्येति श्रवणात्,

भामती-व्याख्या

इस पाद में ज्ञेय ब्रह्म का विचार प्रस्तुत है। इस अधिकरण के विषयादि इस प्रकार हैं—

विषय — “यस्मिन् द्यौः पृथिवी चान्तरिक्षमोतं मनः सह प्राणैश्च सर्वैः। तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथामृतस्यैष सेतुः॥ (मुण्ड. २।२।५) अर्थात् जिस परम तत्त्व में द्युलोक' पृथिवी, आकाश, मन और सब इन्द्रियाँ अवस्थित हैं। उसी आधार तत्त्व को आत्मा समझो और अनात्मा (अपर विद्या) के प्रतिपादक वचनों का परित्याग करो। इसी एक तत्त्व का ज्ञान अमृत (मोक्ष) का सेतु (संसार सागर का पारगामी बाँध) है।

संशय — उक्त श्रुति के द्वारा प्रतिपादित द्युलोकादि का आधार तत्त्व क्या ब्रह्म से भिन्न कोई अन्य पदार्थ है? अथवा ब्रह्म?

पूर्वपक्ष —

पारवत्त्वेन सेतुत्वाद् भेदे षष्ठ्याः प्रयोगतः।
द्युभ्वाद्यायतनं युक्तं नामृतं ब्रह्म कर्हिचित् ॥

अर्थात् द्युलोकादि का आधार ब्रह्म से भिन्न कोई अन्य पदार्थ ही होगा, क्योंकि लोक में ऐसे बन्धे को सेतु कहा जाता है, जो सागर, नदी या तालाब के मध्य में मिट्टी या पत्थर से बाँधा गया हो एवं इस पार और उस पार के दोनों तटों के बीच में अवस्थित हो। 'षिञ् बन्धने' धातु से निष्पन्न 'सेतु' शब्द का प्रयोग उक्त अर्थ को छोड़ कर केवल बन्धन के साधन में नहीं होता, अन्यथा हडि [प्राचीन कारागारों में जिस बड़े काठ में छेद करके चोरादि का पैर फँसा दिया जाता था, जिसके आधार पर 'काठ मारना', 'काठ में पैर देना' आदि कहावतें प्रचलित हैं, उस काठ की बेड़ी को हडि कहते हैं] और निगड़ (लोहे की साँकल या हथकड़ी) आदि बन्धन-साधनों में 'सेतु' शब्द का प्रयोग प्रसक्त होगा। अनवच्छिन्न ब्रह्म सर्वथा अवच्छेद-

३२४ब्रह्मसूत्रशाङ्करभाष्यम्[ अ. १ पा. ३ सू. १

अर्थान्तरे चायतने परिगृह्यमाणे स्मृतिप्रसिद्धं प्रधानं परिग्रहीतव्यं, तस्य कारणत्वा-

भामती

सेतुरिति श्रवणाद् - इति योजना । तत्रामृतस्येति श्रवणादपि विशदतया न व्याख्यातम् । सेतुरिति श्रवणादिति व्याचष्टे ॐ पारवान् इति ॐ । तथा च पारवत्यमृतव्यतिरिक्ते सेतावनुश्रीयमाणे प्रधानं वा सांख्यपरिकल्पितं भवेत् । तत् खलु स्वकार्योपहितमर्यादतया पुरुषं यावदगच्छद्भवति पारवत्, भवति च द्युभ्वाद्यायतनं तत्प्रकृतित्वात् , प्रकृत्यायतनास्तत्वाच्च विकाराणां भवति चात्माऽऽत्मशब्दस्य स्वभाववचनत्वात् , प्रकाशात्मा प्रदीप इतिवत् । भवति चास्य ज्ञानमपवर्गोपयोगि, तदभावे प्रधानाद्विवेकेन पुरुषस्यानवधारणादपवर्गानुपपत्तेः । यदि त्वस्मिन् प्रमाणाभावेन न परितुष्यति, अस्तु तर्हि नामरूपबीजशक्तिभूतमव्याकृतं भूतसूक्ष्मं द्युभ्वाद्यायतनं, तस्मिन् प्रामाणिके सर्वस्योक्तस्योपपत्तेः । एतदपि प्रधानोपन्यासेन

भामती-व्याख्या

विनिर्मुक्त होने के कारण सेतु नहीं कहा जा सकता, क्योकि अमृत का सेतु अमृत का प्रापक होता है, ब्रह्म स्वयं अमृतरूप है, किसी अन्य अमृत का प्रापक नहीं। ब्रह्म से भिन्न और कोई अमृत तत्त्व नहीं होता, जिसका प्रापक ब्रह्म हो सके। ब्रह्म से भिन्न यदि कोई अमृत नहीं, ब्रह्म ही अमृत है, तब उसके लिए जैसे 'ब्रह्म ब्रह्मणः सेतुः' - ऐसा प्रयोग नहीं होता, वैसे ही 'ब्रह्म अमृतस्य सेतुः'-ऐसा भी नहीं कहा जा सकता, क्योंकि षष्ठी विभक्ति का प्रयोग अभेद में नहीं, भेद में ही होता है। भाष्यकार यही कह रहे हैं- "अमृतस्यैष सेतुरिति श्रवणात्।" यहाँ 'अमृतस्येति श्रवणात्' और 'एष सेतुरिति श्रवणात्' - ऐसा अन्वय विवक्षित है, इस प्रकार पूर्व पक्षी अपने पक्ष की सिद्धि में दो हेतुओं का प्रदर्शन करना चाहता है-(१) भेदार्थक षष्ठी विभक्ति का प्रयोग और (२) परिच्छिन्नार्थ-बोधक 'सेतु' शब्द का ग्रहण। इन दो हेतुओं में प्रथम हेतु अत्यन्त स्पष्ट होने के कारण व्याख्या की अपेक्षा नहीं रखता, अतः द्वितीय हेतु 'सेतुरिति श्रवणात्' की व्याख्या की जा रही है- "पारवान् हि लोके सेतुः प्रख्यातः"। इस प्रकार परवान् [ जिस पदार्थ को पार किया जा सके, ऐसे देशतः परिच्छिन्न ] और अमृत ( ब्रह्म ) से भिन्न किसी सेतु पदार्थ का अनुसन्धान होने पर वह सांख्य-परिकल्पित प्रधान ( प्रकृति ) तत्त्व हो सकता है। वह यद्यपि सांख्य-मतानुसार नित्य ( कालतः अपरिच्छिन्न ) और व्यापक ( देशतः अपरिच्छिन्न ) माना गया है, तथापि वस्तु-परिच्छेद-रूप पार से युक्त ( पारवान् ) है, क्योंकि प्रकृति अपने प्राकृत कार्य-वर्ग से मर्यादित है अर्थात् वह अपने महदादि परिणाम को ही अपने आक्रोड ( तादात्म्य ) में ले सकती है, पुरुष-पर्यन्त नहीं जा सकती, पुरुष-तादात्म्यापत्ति को वस्तुतः प्राप्त नहीं कर सकती, जैसा कि श्रुति कहती है- "अव्यक्तात् पुरुषः परः, ( कठो. ३।११ ) । अत एव अमृत पुरुष से भिन्न और द्युभ्वादि का आयतन है, क्योंकि वह द्युभ्वादि की प्रकृति ( उपादान कारण ) है और समस्त विकार-वर्ग प्रकृत्यायतनेक ( प्रकृत्याश्रित ) होता है। "तमेव जानथ आत्मानम्" ( मुण्ड. २।२।५ ) इस वाक्य में कथित आत्मा भी प्रधान तत्त्व है, क्योंकि यहाँ 'आत्मा' शब्द स्वभाव का वाचक है, जैसे कहा जाता है- 'प्रकाशात्मा प्रदीपः', वैसे ही प्रधान भी त्रिगुणात्मा है। अमृत ( मोक्ष ) का सेतु ( प्रापक ) भी प्रधान है, क्योंकि उसका ज्ञान मोक्ष का उपयोगी है, प्रधान के ज्ञान का अभाव होने पर प्रधान और पुरुष का विवेक-ग्रह न हो सकेगा, तब अपवर्ग की प्राप्ति क्योंकर होगी? यदि सांख्य-सम्मत प्रधान की अशाब्दता ( अप्रामाणिकता ) के कारण प्रधान-पक्ष में परितोष नहीं, तब वेदान्त-सम्मत अव्यक्त ( भूतसूक्ष्म ) को द्युभ्वादि का आयतन माना जा सकता है, वह प्रामाणिक है, उसमें अपरतोष का कोई कारण नहीं। प्रधान-पक्ष-परिग्रह के द्वारा ही भाष्यकार ने अव्यक्त-पक्ष भी सूचित कर दिया है।

द्युभ्वाद्यायतनस्य ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् ३२५

द्यायतनत्वोपपत्तेः। श्रुतिप्रसिद्धो वा वायुः स्यात्, ‘वायुर्वै गोतम तत्सूत्रं वायुना वै गौतम सूत्रेणायं च लोकः परश्च लोकः सर्वाणि च भूतानि संदृब्धानि भवन्ति' (बृह० ३।७।२ इति वायोरपि विधारणत्वश्रवणात्। शारीरो वा स्यात्, तस्यापि भोक्तृत्वाद्भोग्यं प्रपञ्चं प्रत्यायतनत्वोपपत्तेरित्येवं प्राप्त इदमाह-द्युभ्वाद्यायतन-मिति। द्यौश्च भूश्च द्युभुवौ, द्युभुवावादी यस्य तदिदं द्युभ्वादि। यदेतदस्मिन्वाक्ये

भामती

सूचितम्। अथ तु साक्षाच्छ्रुत्युक्तं द्युभ्वाद्यायतनमाद्रियसे, ततो वायुरेवास्तु। ‘वायुना वै गौतम सूत्रेणायं च लोकः परश्च लोकः सर्वाणि च भूतानि संदृब्धानि भवन्ति' इति श्रुतेः। यदि त्वात्मशब्दाभिधेयत्वं न विद्यत इति न परितुष्यसि, भवतु तर्हि शारीरस्तस्य भोक्तुर्भोग्यान् द्युप्रभृतीन् प्रत्यायतनत्वात्। यदि पुनरस्य द्युभ्वाद्यायतनस्य सर्वज्ञश्रुतेरत्रापि न परितुष्यसि, भवतु ततो हिरण्यगर्भ एव भगवान् सर्वज्ञः सूत्रात्मा द्युभ्वाद्यायतनम्। तस्य हि कार्यत्वेन पारवत्त्वं चामृतात्परब्रह्मणो भेदश्चेत्यादि सर्वमुपपद्यते। अयमपि वायुना वै गौतम सूत्रेणेति श्रुतिमुपन्यस्यता सूचितः। तस्मादयं द्युप्रभृतीनामायतनमिति।

एवं प्राप्तेऽभिधीयते। द्युभ्वाद्यायतनं परब्रह्मैव, न प्रधानाद्याकृतवायुशारीरहिरण्यगर्भाः। कुतः? स्वशब्दात्।

धारणाद्धामृतत्वस्य साधनाद्वाऽस्य सेतुता।
पूर्वपक्षेऽपि मुख्यर्थः सेतुशब्दो हि नेष्यते॥

नहि मृद्दारुमयो मूर्त्तः पारावारमध्यवर्ती पाथसां विधारको लोकसिद्धः सेतुः प्रधानं वाऽव्याकृतं

भामती-व्याख्या

यदि साक्षात् श्रुति-प्रतिपादित पदार्थ को ही द्युभ्वादि का आयतन मानना अभीष्ट है, तब वायु का ग्रहण किया जा सकता है, क्योंकि श्रुति स्पष्ट कहती है—"वायुना वै गौतम सूत्रेणायं च लोकः पारश्च लोकः सर्वाणि च भूतानि संदृब्धानि भवन्ति” (बृह० उ० ३।७।१)। अर्थात् वायु ही वह एक सूत्र (धागा) है, जिसमें सभी लोक, और भूत गुंथे हुए हैं।

यदि वायु को 'आत्मा' शब्द का अभिधेय नहीं माना जा सकता, तब शारीर (जीवात्मा) को द्युभ्वादि का आयतन कहा जा सकता है, क्योंकि वह भोक्ता होने के कारण भोग्यरूप द्युलोकादि का आयतन हो सकता है। जीव अपने अदृष्टों के द्वारा जगत् का स्रष्टा (उपादान कारण) और ब्रह्म से भिन्न होने के कारण अमृत (ब्रह्म) का सेतु (प्रापक) भी है। यदि द्युभ्वादि के आयतन पदार्थ में “यः सर्वज्ञः सर्ववित्" (मुण्ड० २।२।७) इस प्रकार श्रुत सर्वज्ञत्व की जीव में उपपत्ति नहीं हो सकती, तब सर्वज्ञ भगवान् हिरण्यगर्भ को द्युभ्वादि का आयतन मान सकते हैं, क्योंकि वह विराट् शरीरावच्छिन्न होने के कारण कार्य (परिच्छिन्न) है, अतः पारवान् एवं अमृतरूप परब्रह्म से भिन्न होने के कारण अमृत का सेतु (प्रापक) है—इस प्रकार सभी विशेषणों का सामञ्जस्य हिरण्यगर्भ में हो जाता है। "वायुना वै गौतम सूत्रेण" (बृह० उ० ३।७।२) इस श्रुति का उल्लेख करके भाष्यकार ने यह सूत्रात्मा हिरण्यगर्भ का पक्ष भी सूचित किया है।

सिद्धान्त—द्युभ्वादि का आयतन परब्रह्म ही है, प्रधानादि (प्रधान, अव्याकृत, वायु, जीव और हिरण्यगर्भ) नहीं, क्योंकि स्वकीय (स्वोपस्थापक) आत्मादि शब्दों के द्वारा यहाँ पर ब्रह्म ही आयतनत्वेन उपस्थित है एवं

धारणाद्धामृतत्वस्य साधनाद्वाऽस्य सेतुता।
पूर्वपक्षेऽपि मुख्यार्थः सेतुशब्दो हि नेष्यते॥

'सेतु' शब्द का मुख्य अर्थ जो लोक में प्रसिद्ध है—'मिट्टी या लकड़ी का बाँध', वह तो

३२६ब्रह्मसूत्रशाङ्करभाष्यम्[ अ. १ पा. ३ सू. १

द्यौः पृथिव्यन्तरिक्षं मनः प्राणा इत्येवमात्मकं जगदोतत्वेन निर्दिष्टं तस्यायतनं परं ब्रह्म भवितुमर्हति । कुतः ? स्वशब्दाद्, आत्मशब्दादित्यर्थः । आत्मशब्दो हीह भवति — 'तमेवैकं जानथ आत्मानम्' इति । आत्मशब्दश्च परमात्मपरिग्रहे सम्यगवकल्पते, नार्थान्तरपरिग्रहे । क्वचिच्च स्वशब्देनैव ब्रह्मण आयतनत्वं श्रूयते — 'सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः' (छा० ६।८।४) इति । स्वशब्देनैव चेह पुरस्तादुपरिष्टाच्च ब्रह्म संकीर्त्यते — 'पुरुष एवेदं विश्वं कर्म तपो ब्रह्म परामृतम्' इति । 'ब्रह्मैवेदममृतं पुरस्ताद् ब्रह्म पश्चाद्ब्रह्म दक्षिणतश्चोत्तरेण (मुण्ड० २।२।११) इति च ।

भामती

वा वायुर्वा जीवो वा सूत्रात्मा वाऽभ्युपेयते । किन्तु पारवत्तामात्रपरो लाक्षणिकः सेतुशब्दोऽभ्युपेयः । सोऽस्माकं पारवत्तावर्जं विधारणत्वमात्रेण योगमात्राद्रूढिं परित्यज्य प्रवर्त्स्यति । जीवानामामृतत्वपदप्राप्ति-साधनत्वं वाऽऽत्मज्ञानस्य पारवत एव लक्षयिष्यति । अमृतशब्दश्च भावप्रधानः, यथा 'द्व्येकयोर्द्विवचनैक-वचने' इत्यत्र द्वित्वैकत्वे द्व्येकशब्दार्थो, अन्यथा द्व्यकेष्विति स्यात् । तदिदमुक्तं भाष्यकृता ॐ अमृतत्व-साधनत्वाद् इति ॐ । तथा चामृतस्येति च सेतुरिति च ब्रह्मणि द्युभ्वाद्यायतन उपपत्स्येते । अत्र च स्वशब्दादिति तन्त्रोच्चरितगात्मशब्दादिति च सदायतना इति सच्छब्दादिति च ब्रह्मशब्दादिति च सूचयति । सर्वे ह्येतेऽस्य स्वशब्दाः ।

भामती-व्याख्या

पूर्वपक्ष में भी नहीं अपनाया जा सकता, क्योंकि वैसा पदार्थ प्रधान, अव्याकृत, वायु, जीव और हिरण्यगर्भ में से कोई भी नहीं। हाँ, पारवत्ता (परिच्छिन्नता) मात्र में 'सेतु' शब्द की लक्षणा अवश्य की जा सकती है, वैसा तो हमारे (सिद्धान्ती के) पक्ष में भी सम्भव है अर्थात् पारवत्ता (परिच्छिन्नता) को छोड़ कर विधारणत्वमात्र की विवक्षा की जा सकती, अतः 'षिञ् बन्धने' धातु से निष्पन्न 'सेतु' शब्द अपने लोक-प्रसिद्ध रूढ अर्थ का परित्याग करके धारणरूप (बन्धनात्मक) योगार्थ को लेकर प्रवृत्त हो जायगा, अतः 'अमृतस्य सेतुः' का अर्थ 'अमृतत्वस्य धारकं ब्रह्म' — ऐसा अर्थ सम्पन्न हो जायगा । अथवा 'अमृतत्वस्य (जीवानां मोक्षस्य) साधनं ब्रह्मज्ञानम्' — ऐसे अर्थ में लक्षणा की जा सकती है । 'अमृत' शब्द अमृतत्वरूप भावार्थपरक वैसे ही माना जा सकता है, जैसे "द्व्येकयोर्द्विवचनैकवचने" (पा० सू० १।४।२२) यहाँ 'द्वि' और 'एक' शब्द से द्वित्व और एकत्व विवक्षित होता है, अत एव द्वित्व और एकत्व पदार्थों के दो होने के कारण 'द्व्यकयोः' यहाँ द्विवचन सम्पन्न हो जाता है, अन्यथा दो और एक को मिलाने पर बहुत संख्या हो जाती है, अतः 'द्व्यकेषु' — इस प्रकार का प्रयोग होना चाहिए । इस वस्तु-स्थिति को ध्यान में रख कर भाष्यकार ने कहा है — "अमृतत्वसाधनत्वात्" । इस प्रकार 'अमृतस्य' और 'सेतु' — ये दोनों निर्देश ब्रह्म को द्युभ्वादि का आयतन मान लेने पर उपपन्न हो जाते हैं। यहाँ 'स्वशब्दात्' — यह तन्त्रोच्चरित 'स्वशब्द' का एक वार उच्चारण किया गया है [तन्त्र और प्रसङ्ग का लक्षण श्री भाष्यकार ने किया है—

साधारणं भवेत् तन्त्रं परार्थे त्वप्रयोजकः ।
एवमेव प्रसङ्गः स्याद् विद्यमाने स्वके विधौ ॥ (शा० भा० पृ० २०१६)

अनेक प्रधान कर्मों का उपकार जिस अङ्ग कर्म के एक वार के अनुष्ठान से ही सम्पन्न हो जाता है, उस अङ्ग कर्म को तन्त्रानुष्ठित और अनेक अर्थों का बोध कराने के लिए सकृत् उच्चरित शब्द को तन्त्रोच्चरित कहा जाता है । अन्यार्थ-प्रयुक्त कर्म का प्रसङ्गतः अन्यार्थ-साधन प्रसङ्ग कहलाता है, जैसे आभिक्षा की निष्पत्ति के लिए तपे दूध में दधि डालना

द्युभ्वाद्यायतनस्य ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् ३२७

तत्र त्वायतनायतनवद्भावश्रवणात् । सर्वं ब्रह्मेति च सामानाधिकरण्यात् । यथानेका- त्मको वृक्षः शाखा स्कन्धो मूलं चेत्येवं नानारसो विचित्र आत्मेत्याशङ्का सम्भवति, तां निवर्तयितुं सावधारणमाह ‘तमेवैकं जानथ आत्मानम्’ इति । एतदुक्तं भवति — न कार्यप्रपञ्चविशिष्टो विचित्र आत्मा विज्ञेयः । किं तर्हि ? अविद्याकृतं कार्यप्रपञ्चं विद्यया प्रविलापयन्तस्तमेवैकमायतनभूतमात्मानं जानथैकरसमिति । यथा यस्मि- न्नास्ते देवदत्तस्तदानयेत्युक्त आसनमेवानयति न देवदत्तम् , तद्वदायतनभूतस्यैवैकर- सस्यात्मनो विज्ञेयत्वमुपदिश्यते । विकारानृताभिसन्धस्य चापवादः श्रूयते—‘मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति (का० २।४।११) इति । सर्वं ब्रह्मेति तु सामा- नाधिकरण्यं प्रपञ्चविलापनार्थं, नानेकरसताप्रतिपादनार्थम् । ‘स यथा सैन्धवघनोऽ- नन्तरोऽबाह्यः कृत्स्नो रसघन एवैवं वा अरेऽयमात्मानन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एव’ (बृह० ४।५।१३) इत्येकरसताश्रवणात् । तस्माद् द्युभ्वाद्यायतनं परं ब्रह्म । यच्चोक्तं—सेतुश्रुतेः सेतोश्च पारवत्त्वोपपत्तेर्ब्रह्मणोऽर्थान्तरेण द्युभ्वाद्यायतनेन भवि-

भामती

स्यादेतत् — आयतनायतनवद्भावः सर्वं ब्रह्मेति च सामानाधिकरण्यं हिरण्यगर्भेऽप्युपपद्यते । तथा च स एवात्रास्त्वमृतत्वस्य सेतुरित्याशङ्क्य श्रुतिवाक्येन सावधारणेनोत्तरमाह ꣸ तत्रायतनायतन- वद्भावश्रवणाद् इति ꣸ । विकाररूपेऽनृतेऽनिर्वच्येऽभिसन्धोऽभिसन्धानं यस्य स तथोक्तः । भेदप्रपञ्चं सत्यमभिमन्यमान इति यावत् । तस्यापवादो दोषः श्रूयते — “मृत्योः” इति । “सर्वं ब्रह्मेति तु” इति । यत्सर्वमविद्यारोपितं तत्सर्वं परमार्थतो ब्रह्म , न तु यद् ब्रह्म तत्सर्वमित्यर्थः ।

भामती-व्याख्या

प्रसङ्गतः वाजिन द्रव्य का भी निष्पादक माना जाता है ] । जिन अनेक शब्दों का बोध कराने के लिए 'स्वशब्द' तन्त्रोच्चरित है, वे हैं—आत्मशब्द, 'सत् शब्द' और 'ब्रह्म शब्द' । “तमेवैकं जानथ आत्मानम्” ( मुण्ड० २।२।५ ), “सन्मूला सोम्येमाः सर्वाः प्रजाः” ( छां० ६।८।४ ), “ब्रह्मैवेदममृतं पुरस्तात्” ( मुण्ड० २।२।११ ) इत्यादि वाक्यों में प्रयुक्त आत्मादि शब्द साक्षात् ब्रह्म के जगदायतनत्वेन उपस्थापक हैं । आत्मादि सभी शब्द ब्रह्म के स्वशब्द ( स्वकीय शब्द ) हैं ।

यह जो शङ्का होती है कि “यस्मिन् द्यौः पृथिवी चान्तरिक्षम्” ( मुण्ड० २।२।५ ) इत्यादि वाक्यों में जगत् और आत्मा का आयतन-आयतनभाव ( आधाराधेयभाव ) एवं “ब्रह्मैवेदं विश्वम्” ( मुण्ड० २।२।११ ) इस प्रकार सामानाधिकरण्य श्रुत है, वह हिरण्यगर्भ में भी उपपन्न हो जाता है, अतः वह यहाँ अमृतत्व का सेतु क्यों नहीं माना जा सकता ? उस शङ्का को दूर करने के लिए भाष्यकार ने श्रुतिगत अवधारण को प्रस्तुत किया है—‘तां निवर्तयितुं सावधारणमाह—तमेवैकं जानथ आत्मानम्’ । एवकाररूप अवधारण के द्वारा अन्य-योग ( कार्य-प्रपञ्च का वैशिष्ट्य ) हटा कर शुद्ध ब्रह्म को ज्ञेय माना गया है, वह सकल भेद-रहित एक मात्र ब्रह्मतत्त्व ही है । “विकारानृताभिसन्धस्य चापवादः श्रूयते”—इस भाष्य का अर्थ यह है कि विकाररूप अनृत प्रपञ्च में जिस ( अज्ञानी का अभिसन्ध ( अभिमान ) है अर्थात् मिथ्या भेद-प्रपञ्च में जो सत्यत्व का अभिमान करता है, उसके लिए अपवाद ( दोष ) का अभिधान किया गया है—“मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति” । जो शाखा, स्कन्ध, मूलाद्यात्मक नानारूप वृक्ष के समान जगत् के आयतन को नानारस मानता है, वह जन्म-मरण के प्रवाह में ही पड़ा रहता है । “सर्वं ब्रह्मेति तु सामानाधिकरण्यं प्रपञ्च प्रविलापनार्थम्” । “यश्चौरः, स स्थाणुः”—इस प्रकार बाधित-सामानाधिकरण्य के समान ही

३२८ब्रह्मसूत्रशाङ्करभाष्यम्[ अ. १ पा. ३ सू. २

तव्यमिति । अत्रोच्यते—विधारणत्वमात्रमत्र सेतुश्रुत्या विवक्ष्यते, न पारवत्त्वादि । नहि मृद्दारुमयो लोके सेतुरदृष्ट इत्यत्रापि मृद्दारुमय एव सेतुरभ्युपगम्यते । सेतुशब्दार्थोऽपि विधारणत्वमात्रमेव न पारवत्त्वादि, षिञो बन्धनकर्मणः सेतुशब्दव्युत्पत्तेः ।

अपर आह—'तमेवैकं जानथ आत्मानम्' इति यदेतत्संकीर्तितमात्मज्ञानं, यच्चैतत् 'अन्या वाचो विमुञ्चथ' इति वाग्विमोचनं, तदत्रामृतत्वसाधनत्वात् 'अमृतस्यैष सेतुः' इति सेतुश्रुत्या संकीर्त्यते, न तु द्युभ्वाद्यायतनम् । तत्र यदुक्तं सेतुश्रुतेर्ब्रह्मणोऽर्थान्तरेण द्युभ्वाद्यायतनेन भाव्यमित्येतदयुक्तम् ॥ १ ॥

मुक्तोपसृप्यव्यपदेशात् ॥ २ ॥

इतश्च परमेव ब्रह्म द्युभ्वाद्यायतनम् । यस्मान्मुक्तोपसृप्यताऽस्य व्यपदिश्यमाना


भामती

अपर आह इति। नात्र द्युभ्वाद्यायतनस्य सेतुतोच्यते येन पारवत्ता स्यात् , किन्तु जानथेति यज्ज्ञानं कीर्तितं, यश्च वाचो विमुञ्चथेति वाग्विमोकः, तस्यामृतत्वसाधनत्वेन सेतुतोच्यते । तच्चोभयमपि पारवदेव । न च प्राधान्यादेष इति सर्वनाम्ना द्युभ्वाद्यायतनमात्रमेव परामृश्यते, न तु तज्ज्ञानवाग्विमोचने इति साम्प्रतम् , वाग्विमोचनात्मज्ञानभावनयोरेव विधेयत्वेन प्राधान्यात् । आत्मनस्तु द्रव्यस्याव्यापारतयाऽविधेयत्वात् । विधेयस्य व्यापारस्यैव व्यापारवतोऽमृतत्वसाधनत्वात् । न चेदमेकान्तिकं यत्प्रधानमेव सर्वनाम्ना परामृश्यते । क्वचिदयोग्यतया प्रधानमुत्सृज्य योग्यतया गुणोऽपि परामृश्यते ॥ १ ॥


भामती-व्याख्या

'यत्सर्वमिदमारोपितम्, तत्सर्वं परमार्थतो ब्रह्म'—ऐसी ही प्रतीति विवक्षित है, 'यद् ब्रह्म तत्सर्वम्'—ऐसी नहीं, क्योंकि बाध सामानाधिकरण्यस्थल पर बाध्यमान पदार्थ का बाध मन में रख कर सामानाधिकरण्य-व्यवहार होता है, अतः 'यत्सर्वं कल्पितम्'—इस प्रकार बाधित प्रपञ्च का ही निर्देश यत्पद के द्वारा होता है, ब्रह्म का नहीं, अन्यथा ब्रह्म का बाध एवं “कार्यप्रपञ्चं प्रविलापयन्तः”—इस भाष्य का विरोध प्रसक्त होगा ।

अन्य विचारकों का कहना है कि उक्त श्रुति में द्युभ्वादि के आयतन में सेतुरूपता विवक्षित नहीं कि ब्रह्म में पारवत्ता (परिच्छिन्नता) प्रसक्त हो, किन्तु 'जानथ' पद के द्वारा कीर्तित ज्ञान और “अन्या वाचो विमुञ्चथ”—इस वाक्य से निर्दिष्ट अपर विद्या के त्याग में सेतुता (मोक्ष-हेतुता) विवक्षित है, क्योंकि “ज्ञात्वा देवं मुच्यते” (श्वेता. १।८) और “त्यागेनैकेऽमृतत्वमानशुः” (कै. ३) इत्यादि श्रुतियों में ज्ञान और त्याग को ही मोक्ष का साधन माना गया है। ज्ञान और त्याग—दोनों ही पारवान् होने से सेतु पदार्थ हो सकते हैं। यदि कहा जाय कि “अमृतस्यैष सेतुः”—यहाँ पर 'एषः'—इस सर्वनाम पद के द्वारा प्रधानभूत आत्मा का परामर्श करके उसमें ही सेतुता विहित है, उसके ज्ञान और अन्यार्थ के त्याग में नहीं। तो वैसा नहीं कह सकते, क्योंकि प्रकृत में आत्मज्ञान और अन्यवाग्विमोचन ही विधेय होने के कारण प्रधान हैं। क्रिया का ही विधान होता है, आत्मा द्रव्य है, व्यापार (क्रिया) नहीं, अतः विधेय नहीं हो सकता। विधेयरूप प्रधान कर्म (ज्ञान) ही अपने सहायक व्यापारों (विवेकादि अङ्ग कर्मों) से युक्त होकर अमृतत्व का साधन होता है। दूसरी बात यह भी है कि सर्वनाम पदों के द्वारा प्रधानभूत अर्थ का ही परामर्श होता है—ऐसा कोई अकाट्य नियम नहीं, क्योंकि कहीं-कहीं अयोग्य होने के कारण प्रधानार्थ को छोड़ कर गौणीभूत योग्य पदार्थ का परामर्श होता है, जैसे कि “तप्ते पयसि दध्यानयति, सा वैश्वदेव्यामिक्षा”—इत्यादि स्थलों पर शब्दतः अप्रधानभूत पयः पदार्थ का परामर्श किया जाता है, फलतः प्रकृत में 'एष' पद के द्वारा ब्रह्म के बोध का परामर्श किया जा सकता है ॥ १ ॥

द्युभ्वाद्यायतनस्य ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् ३२९

दृश्यते । मुक्तैरुपसृप्यं मुक्तोपसृप्यम् । देहादिष्वनात्मस्वहमस्मीत्यात्मबुद्धिरविद्या, ततस्तत्पूजनादौ रागस्तत्परिभवादौ द्वेषस्तदुच्छेददर्शनाद्भयं मोहश्चेत्येवमयमनन्त- भेदोऽनर्थव्रातः संततः सर्वेषां नः प्रत्यक्षः । तद्विपर्ययेणाविद्यारागद्वेषादिदोषमुक्तैरुप- सृप्यं गम्यमेतदिति द्युभ्वाद्यायतनं प्रकृत्य व्यपदेशो भवति । कथम् ? 'भिद्यते हृदय- ग्रन्थिश्च्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे' ( मुण्ड० २।२।८ ) इत्युक्त्वा ब्रवीति — 'तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम्' ( मुण्ड० ३।२।८ ) इति । ब्रह्मणश्च मुक्तोपसृप्यत्वं प्रसिद्धं शास्त्रे — 'यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः । अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते' ( बृह० ४।४।७ ) इत्येवमादौ । प्रधानादीनां तु न क्वचिन्मुक्तोपसृप्यत्वमस्ति प्रसिद्धम् । अपि च 'तमे- वैकं जानथ आत्मानमन्या वाचो विमुञ्चथामृतस्यैष सेतुः' इति वाग्विमोकपूर्वकं विज्ञेयत्वमिह द्युभ्वाद्यायतनस्योच्यते । तच्च श्रुत्यन्तरे ब्रह्मणो दृष्टम् — 'तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः । नानुध्यायाद्बहूञ्छब्दान्वाचो विग्लापनं हि तत्' । ( बृह० ४।४।२१ ) इति । तस्मादपि द्युभ्वाद्यायतनं परं ब्रह्म ॥ २ ॥

नानुमानमतच्छब्दात् ॥ ३ ॥

यथा ब्रह्मणः प्रतिपादको वैशेषिको हेतुरुक्तो नैवमर्थान्तरस्य वैशेषिको हेतुः

भामती

द्युभ्वाद्यायतनं प्रकृत्याविद्यादिदोषमुक्तैरुपसृप्यं व्यपदिश्यते 'भिद्यते हृदयग्रन्थिः' इत्यादिना । तेन तद् द्युभ्वाद्यायतनविषयमेव । ब्रह्मणश्च मुक्तोपसृप्यत्वं 'यदा सर्वे प्रमुच्यन्ते' इत्यादौ श्रुत्यन्तरे प्रसिद्धम् । तस्मान्मुक्तोपसृप्यत्वाद् द्युभ्वाद्यायतनं ब्रह्मेति निश्चीयते । हृदयग्रन्थिश्चाविद्यारागद्वेषभयमोहाः । मोहश्च विषादः शोकः, परं हिरण्यगर्भाद्यवरं यस्य तद् ब्रह्म तथोक्तम्, तस्मिन् ब्रह्मणि यद् दृष्टं दर्शनं तस्मिन् तदर्थमिति यावत्; यथा 'चर्मणि द्वीपिनं हन्ति' इति चर्मार्थमिति गम्यते । नामरूपावित्यप्यविद्याभिप्रायम् । 'कामा येऽस्य हृदि श्रिताः' इति कामा इत्यविद्यामुपलक्षयति ॥ २ ॥

नानुमानमित्युपलक्षणं, नाव्याकृतमित्यपि द्रष्टव्यं, हेतोरुभयत्रापि साम्यात् ॥ ३ ॥

भामती-व्याख्या

प्रक्रान्त द्यु और भू आदि प्रपञ्च के आयतन में अविद्यादि दोषों से मुक्त पुरुषों के द्वारा उपसृप्यता ( प्राप्यता ) का प्रतिपादन किया गया है — "विद्वान् नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम्" ( मुण्ड. ३।२।८ ) । मुक्त पुरुषों के द्वारा ब्रह्म ही प्राप्य है, ऐसा अन्य श्रुतियों में प्रसिद्ध है — "मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते" ( बृह. उ. ४।४।७ ) । फलतः मुक्तोपसृप्य होने के कारण द्युलोकादि का आयतन ब्रह्म ही है — ऐसा निश्चित हो जाता है । उक्त श्रुति में 'ग्रन्थि' पद के द्वारा अविद्या, राग, द्वेष, भय और मोह का ग्रहण किया गया है । मोह नाम है — विषाद का, जिसे शोक भी कहते हैं । "तस्मिन् दृष्टे परावरे" — यहाँ 'परावर' पद का अर्थ है — 'परं हिरण्यगर्भादि अवरं ( निकृष्टं ) यस्मात्, तत्' किन्तु भाष्यकार ने कहा है — "परं च कारणात्मनाऽवरं च कार्यात्मना, तस्मिन् परावरे" ( मुण्ड. पृ. ३१ ) । "तस्मिन् दृष्टे" — यहाँ पर निमित्तार्थक सप्तमी विभक्ति प्रयुक्त है । जैसे 'चर्मणि द्वीपिनं हन्ति' — इस वाक्य का अर्थ होता है — 'चर्मार्थं द्वीपिनं हन्ति', वैसे ही 'तस्मिन् दृष्टे' का अर्थ है — 'तदर्थम् । "नामरूपाद् विमुक्तः" — यहाँ पर अविद्या का बोध कराने के लिए 'नामरूप' का प्रयोग किया गया है, उसी प्रकार "कामा येऽस्य हृदि श्रिताः" — यहाँ 'काम' पद भी अविद्या का उपलक्षक है ॥ २ ॥

"नानुमानम्" — यहाँ प्रधानार्थक 'अनुमान' पद 'अव्याकृत' का भी उपलक्षक है, अतः

४२

३१०ब्रह्मसूत्रशाङ्करभाष्यम्[ अ. १ पा. ३ सू. ५.

प्रतिपादकोऽस्तीत्याह—नानुमानिकं सांख्यस्मृतिपरिकल्पितं प्रधानमिह द्युभ्वाद्यायतनत्वेन प्रतिपत्तव्यम् । कस्मात् ? अतच्छब्दात् । तस्याचेतनस्य प्रधानस्य प्रतिपादकः शब्दस्तच्छब्दः, न तच्छब्दोऽतच्छब्दः । न ह्यत्राचेतनस्य प्रधानस्य प्रतिपादकः कश्चिच्छब्दोऽस्ति, येनाचेतनं प्रधानं कारणत्वेनायतनत्वेन वाऽवगम्येत । तद्विपरीतस्य चेतनस्य प्रतिपादकशब्दोऽत्रास्ति—'यः सर्वज्ञः सर्ववित्' ( मुण्ड० १।१।९ ) इत्यादिः । अत एव न वायुरपीह द्युभ्वाद्यायतनत्वेनाश्रीयते ॥ ३ ॥

प्राणभृच्च ॥ ४ ॥

यद्यपि प्राणभृतो विज्ञानात्मन आत्मत्वं चेतनत्वं च संभवति तथाप्युपाधिपरिच्छिन्नज्ञानस्य सर्वज्ञत्वाद्यसंभवे सत्यस्मादेवात्तच्छब्दात्प्राणभृदपि न द्युभ्वाद्यायतनत्वेनाश्रयितव्यः । न चोपाधिपरिच्छिन्नस्याविभोः प्राणभृतो द्युभ्वाद्यायतनत्वमपि सम्यक्संभवति । पृथग्योगकरणमुत्तरार्थम् ॥ ४ ॥

कुतश्च न प्राणभृद् द्युभ्वाद्यायतनत्वेनाश्रयितव्यः—

भेदव्यपदेशात् ॥ ५ ॥

भेदव्यपदेशश्चेह भवति—'तमेवैकं जानथ आत्मानम्' इति ज्ञेयज्ञातृभावेन । तत्र प्राणभृत्तावन्मुमुक्षुत्वाज्ज्ञाता, परिशेषादात्मशब्दवाच्यं ब्रह्म ज्ञेयं द्युभ्वाद्यायतनमिति गम्यते, न प्राणभृत् ॥ ५ ॥


भामती

चेनातच्छब्दत्वं हेतुरनुकृष्यते । स्वयंश्च भाष्यकृद्धेतुमाह ॐ न चोपाधिपरिच्छिन्नस्य इति ॐ । ॐ न सम्यक् सम्भवति ॐ नाञ्जसमित्यर्थः । भोग्यत्वेन हि आयतनत्वमतिश्लिष्टम् । स्यादेतत्—यद्यतच्छब्दत्वादित्यत्रापि हेतुरनुकृष्यः, हन्त कस्मात् पृथग्योगकरणं, यावता न प्राणभृदनुमाने इत्येक एव योगः कस्मान्न कृत इत्यत आह ॐ पृथग् इति ॐ । भेदव्यपदेशादिना हि प्राणभृदेव निषिध्यते, न प्रधानं, तच्चैकयोगकरणे दुर्विज्ञानं स्यादिति ॥ ४-५ ॥


भामती-व्याख्या

'नाव्यक्तम्'—ऐसा भी निरास किया जा सकता है, क्योंकि प्रधान और अव्यक्त—इन दोनों के निराकरण में समान हेतुओं का उपन्यास किया जाता है ॥ ३ ॥

"प्राणभृत् च"—इस सूत्र में प्रयुक्त चकार के द्वारा पूर्व सूत्र में अवस्थित 'अतच्छब्दात्'—इस हेतु की अनुवृत्ति की जाती है, जैसा कि स्वयं भाष्यकार कहते हैं—अस्मादेवात्तच्छब्दात् प्राणभृदपि न द्युभ्वाद्यायतनत्वेनाश्रयितव्यः” अर्थात् 'यस्मिन् द्यौः पृथिवी'—यहाँ पर जैसे प्रधान का वाचक कोई शब्द न होने के कारण प्रधान को द्युलोकादि का आयतन नहीं माना जा सकता, वैसे ही प्राणभृत् (जीव) का भी वाचक शब्द न होने के कारण जीव को भी द्युभ्वादि का आयतन नहीं माना जा सकता । "प्राणभृतो द्युभ्वाद्यायतनत्वमपि न सम्यक् सम्भवति"—यहाँ प्रयुक्त सम्यक् पद के द्वारा सहजभाव से आयतनत्व के उपपादन का जीव में निषेध किया गया है, अतः भोग्य प्रपञ्च का भोक्ता होने के कारण जो जीव को द्युभ्वादि का आयतन कहा गया था, वह क्लिष्ट कल्पनामात्र है। यदि प्रधान और जीव—दोनों का निषेध विवक्षित है, तब दोनों सूत्रों को मिला कर "नानुमानमतच्छब्दात् प्राणभृच्च"—ऐसा एक ही सूत्र बनाना चाहिए, प्राणभृच्च—ऐसा पृथक् सूत्र क्यों किया ? इस प्रश्न का उत्तर यह है कि "भेदव्यपदेशात्"—इस उत्तर सूत्र में निर्दिष्ट हेतु के द्वारा केवल प्राणभृत् (जीव) का निषेध किया गया है, प्रधानादि का नहीं, अतः योग-विभाग किया गया कि उत्तर सूत्र के साथ प्रधानादि का भी अन्वय प्रसक्त न हो ॥ ४-५ ॥

द्युभ्वाद्यायतनस्य ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् ३३१

कुतश्च न प्राणभृद् द्युभ्वाद्यायतनत्वेनाश्रयितव्यः— प्रकरणात् ॥ ६ ॥

प्रकरणं चेदं परमात्मनः, 'कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति' (मु० १।१।३) इत्येकविज्ञानेन सर्वविज्ञानापेक्षणात् । परमात्मनि हि सर्वात्मके विज्ञाते सर्वमिदं विज्ञातं स्यान्न केवले प्राणभृति ॥ ६ ॥

कुतश्च न प्राणभृद् द्युभ्वाद्यायतनत्वेनाश्रयितव्यः— स्थित्यदनाभ्यां च ॥ ७ ॥

द्युभ्वाद्यायतनं च प्रकृत्य 'द्वा सुपर्णा सयुजा सखायाः' (मु० ३।१।१) इत्यत्र स्थित्यदने निर्दिश्येते । 'तयोरन्यः पिप्पलं स्वाद्वत्ति' इति कर्मफलाशनम्, 'अनश्नन्नन्योऽभिचाकशीति' इत्यौदासीन्येनावस्थानं च । ताभ्यां च स्थित्यदनाभ्यामीश्वरक्षेत्रज्ञौ तत्र गृह्येते । यदि चेश्वरो द्युभ्वाद्यायतनत्वेन विवक्षितस्ततस्तस्य प्रकृतस्येश्वरस्य क्षेत्रज्ञात्पृथग्वचनमवकल्पते । अन्यथा ह्यप्रकृतवचनमाकस्मिकमसंबद्धं स्यात् । ननु तवापि क्षेत्रज्ञस्येश्वरात्पृथग्वचनमाकस्मिकमेव प्रसज्येत । न, तस्याविवक्षितत्वात् । क्षेत्रज्ञो हि कर्तृत्वेन भोक्तृत्वेन च प्रतिशरीरं बुद्ध्याद्युपाधिसंबद्धो लोकत एव प्रसिद्धो नासौ श्रुत्या तात्पर्येण विवक्ष्यते । ईश्वरस्तु लोकतोऽप्रसिद्धत्वाच्छ्रुत्या तात्पर्येण विवक्ष्यत इति न तस्याकस्मिकं वचनं युक्तम् । 'गुहां प्रविष्टावात्मानौ हि'


भामती

न खलु हिरण्यगर्भादिषु ज्ञातेषु सर्वं ज्ञातं भवति किन्तु ब्रह्मण्येवेति ॥ ६ ॥

यदि जीवो हिरण्यगर्भो वा द्युभ्वाद्यायतनं भवेत्, ततस्तत्प्रकृत्यानश्नन्नन्यो अभिचाकशीतीति परमात्माभिधानमाकस्मिकं प्रसज्येत । न च हिरण्यगर्भ उदासीनः तस्यापि भोक्तृत्वात् । न च जीवात्मनैव द्युभ्वाद्यायतनं, तथा सति स एवात्र कथ्यते तत्कथनाय च ब्रह्मापि कथ्यते, अन्यथा सिद्धावह्नेऽपि जीवात्म-कथनमाकस्मिकं स्यादिति वाच्यम् । यतोऽनधिगतार्थावबोधनस्वरसेनाम्नायेन प्राणभृन्मात्रप्रसिद्धजीवात्मा


भामती-व्याख्या

आयतन तत्त्व के प्रकरण में ही कहा गया है—कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति” (मुण्ड० १।१।३) । इससे यह नितान्त स्पष्ट है कि जिस एक तत्त्व के ज्ञान से सभी पदार्थों का ज्ञान हो जाता है, वही द्युलोकादि का आयतन है। प्रधान, अव्यक्त, जीव या हिरण्यगर्भादि के ज्ञान से समस्त जगत् ज्ञात नहीं होता, अपितु ब्रह्म के ज्ञान से ही सब कुछ ज्ञात हो जाता है, अतः ब्रह्म ही जगत् का आयतन सिद्ध होता है ॥ ६ ॥

यदि जीव या हिरण्यगर्भ को द्युलोकादि का आयतन माना जाता है, तब उसके प्रकरण में “अनश्नन्नन्योऽभिचाकाशीति”—इस प्रकार परब्रह्म का अभिधान आकस्मिक और अप्रासङ्गिक हो जायगा । हिरण्यगर्भ को उदासीन (अभोक्ता) नहीं कहा जा सकता, क्योंकि वह भी भोक्ता ही है।

शङ्का—यदि जीवात्मा को ही द्युलोकादि का आयतन माना जाता है, तब उसी का ज्ञान कराने के लिए ब्रह्म की चर्चा माननी होगी, अन्यथा जीव का उल्लेख अप्रासङ्गिक हो जायगा।

समाधान—शास्त्रों का प्रामाण्य अज्ञातार्थ के बोधन में ही निहित होता है, जीव तो लोक में अत्यन्त प्रसिद्ध है, अतः उसके बोधन से शास्त्रों में प्रामाण्य ही नहीं आता, तब उसका ज्ञान कराने के लिए ही ब्रह्म चर्चित है—ऐसा कहना सम्भव नहीं, भाष्यकार ने यही कहा है—“तस्याविवक्षितत्वात्”।

३३२ ब्रह्मसूत्रशाङ्करभाष्यम् [ अ. १ पा. ३ सू. ८

( ब्र० १।२।१।१३ ) इत्यत्राप्येतद्दर्शितं 'द्वा सुपर्णा' इत्यस्यामृचीश्वरक्षेत्रज्ञावुच्येते इति । यदापि पैङ्ग्युपनिषत्कृतेन व्याख्यानेनास्यामृचि सत्त्वक्षेत्रज्ञावुच्येते, तदापि न विरोधः कश्चित् । कथम् ? प्राणभृद्धीह घटादिच्छिद्रवत्सत्त्वाद्युपाध्यभिमानित्वेन प्रतिशरीरं गृह्यमाणो द्युभ्वाद्यायतनं न भवतीति निषिध्यते । यस्तु सर्वशरीरेषूपाधि-भिर्विनोपलक्ष्यते, परमात्मैव स भवति । यथा घटादिच्छिद्राणि घटादिभिरुपाधिभि-र्धिनोपलक्ष्यमाणानि महाकाश एव भवन्ति, तद्वत् प्राणभृतः परस्मादन्यत्वानुपपत्तेः प्रतिषेधो नोपपद्यते । तस्मात्सत्त्वाद्युपाध्यभिमानिन एव द्युभ्वाद्यायतनत्वप्रतिषेधः । तस्मात्परमेव ब्रह्म द्युभ्वाद्यायतनम् । तदेतद् 'अदृश्यत्वादिगुणको धर्मोक्तेः' ( ब्र० १।२।२।१६ ) इत्यनेनैव सिद्धम् । तस्यैव हि भूतयोनिवाक्यस्य मध्य इदं पठितम् । 'यस्मिन् द्यौः पृथिवी चान्तरिक्षम्' इति । प्रपञ्चार्थं तु पुनरुपन्यस्तम् ॥ ७ ॥


( २ भूमाधिकरणम् । सू० ८-६ )

भूमा संप्रसादादध्युपदेशात् ॥ ८ ॥

इदं समामनन्ति—'भूमा त्वेव विजिज्ञासितव्य इति भूमानं भगवो विजिज्ञास


भामती

धिगमायात्यन्तानवगतमलौकिकं ब्रह्मावबोधयत इति सुभाषितम् । ॐ यदापि पैङ्गुपनिषत्कृतेन व्याख्यानेन इति ॐ । तत्र ह्यनश्नन्नन्यो अभिचाकशीतीति जीव उपाधिरहितेन रूपेण ब्रह्मस्वभाव उदासीनोऽभोक्ता दर्शितः । तदर्थमेवाचेतनस्य बुद्धिसत्त्वस्यापारमार्थिकं भोक्तृत्वमुक्तम् । तथा चेत्थम्भूतं जीवं कथयतानेन मन्त्रवर्णेन द्युभ्वाद्यायतनं ब्रह्मैव कथितं भवति, उपाध्यवच्छिन्नश्च जीवः प्रतिषिद्धो भवतीति न पैङ्गिब्राह्मणविरोध इत्यर्थः । ॐ प्रपञ्चार्थम् इति ॐ । तन्मध्ये न पठितमिति कृत्वाचिन्त्येयमधिशरणं प्रवृत्तमित्यर्थः ॥ ७ ॥


भामती-व्याख्या

भाष्यकार ने जो कहा है कि "यदापि पैङ्ग्युपनिषत्कृतेन व्याख्यानेनास्यामृचि सत्त्व-क्षेत्रज्ञावुच्येते, तदापि न विरोधः"। पैङ्गी उपनिषत् में यह कहा गया है कि "अनश्नन्नन्योऽ-भिचाकशीति—इस ऋचा-खण्ड के द्वारा जीव को उपाधि-रहित ब्रह्मावस्था में अभोक्ता कहा गया, उसका उपपादन करने के लिए ही अचेतन बुद्धि-तत्त्व में अपारमार्थिक भोक्तृत्व कहा गया है।" इस प्रकार जीव के स्वरूप का कथन करनेवाले उक्त मन्त्र के द्वारा ब्रह्म में ही द्युभ्वादि की आयतनता प्रतिपादित होती है और उपाधि से अवच्छिन्न जीव में आयतनत्व का निषेध हो जाता है, अतः पैङ्गी-ब्राह्मण के साथ किसी प्रकार का विरोध नहीं आता ।

यद्यपि द्युभ्वादि की आयतनता ब्रह्म में "अदृश्यत्वादिगुणको धर्मोक्तेः" ( ब्र. सू. १।२।२१ ) इस सूत्र के द्वारा ही सिद्ध हो जाती है, क्योंकि उसी भूत-वर्ग की ब्रह्मगत कारणता-प्रतिपादन के प्रकरण में ही "यस्मिन् द्यौः पृथिवी चान्तरिक्षम्" (मुण्ड. २।२।५) यह वाक्य भी पठित है। तथापि उसी अधिकरण का विस्तार करने के लिए पुनः वाक्यान्तर के माध्यम से वही विचार प्रस्तुत किया गया है। अथवा कृत्वाचिन्ता-न्याय से [ अर्थात् "यस्मिन् द्यौः पृथिवी चान्तरिक्षम्"—यह वाक्य ब्रह्मगते जगत्कारणता-प्रतिपादन के प्रकरण में पठित नहीं—ऐसा समझ कर ] उसी सिद्धान्त का पुनः प्रतिपादन किया गया है ॥ ७ ॥


विषय—अग्निहोत्रादि कर्म-विद्या में निपुण होने पर भी आत्मज्ञान से वञ्चित होने के

भूम्नो ब्रह्मत्वम् ] हिन्दीसहितभामतीसंवलितम् ३३३

इति । यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमाऽथ यत्रान्यत्पश्यत्य- न्यद्विजानाति तदल्पम्' ( छा० ७।२३, २४ ) इत्यादि । तत्र संशयः—किं प्राणो भूमा स्यात् , आहोस्वित्परमात्मेति । कुतः संशयः ?

भामती नारदः खलु देवर्षिः कर्मविदनात्मवित्त्या शोच्यमात्मानं मन्यमानो भगवन्तमात्मज्ञमाजानसिद्धं महायोगिनं सनत्कुमारमुपससाद । उपसद्य चोवाच—भगवंश्चानात्मज्ञताजनितशोकसागरपारमुत्तारयतु मां भगवानिति । तत्तदुपश्रुत्य सनत्कुमारेण नामब्रह्मेत्युपास्स्वेत्युक्ते नारदेन पृष्टं किं नाम्नोऽस्ति भूय इति । तत्र सनत्कुमारस्य प्रतिवचनं वाग्वाव नाम्नो भूयसी । तदेवं नारदसनत्कुमारयोर्भूयसि प्रश्नोत्तरे वागिन्द्रियमुपक्रम्य मनःसङ्कल्पचित्तध्यानविज्ञानबलान्नततोयवायुसहिततेजोनभःस्मराशाप्राणेषु पर्यवसिते । कर्त्तव्याकर्त्तव्यविवेकः सङ्कल्पः, तस्य कारणं पूर्वापरविषयनिमित्तप्रयोजननिरूपणं चित्तम् । स्मरः, स्मरणम् : प्राणस्य च समस्तक्रियाकारकफलभेदेन पित्राद्यात्मत्वेन च रथारनाभिदृष्टान्तेन सर्वप्रतिष्ठत्वेन च प्राणभूयस्त्वदर्शिनोऽतिवादित्वेन च नामादिप्रपञ्चादाशान्ताद् भूयस्त्वमुक्त्वाऽपृष्ट एव नारदेन सनत्कुमार एकग्रन्थेन 'एष तु वातिवदति यः सत्येनातिवदतीति सत्यादीन् कृतिपर्यन्तानुक्त्वोपदिदेश, 'सुखं त्वेव विजिज्ञासितव्यम्' इति । तदुपश्रुत्य नारदेन सुखं भगवो विजिज्ञासेत्युक्ते सनत्कुमारो यो वै भूमा तत् सुखमित्युपक्रम्य भूमानं व्युत्पादयाम्बभूव, यत्र नान्यत्पश्यतीत्यादिना । तदीदृशे विषये विचार आरभ्यते । तत्र संशयः—किं प्राणो भूमा स्यादाहो परमात्मेति । भावभवित्रोस्तादात्म्यविवक्षया सामानाधिकरण्यं

भामती-व्याख्या कारण शोकाकुल देवर्षि नारद ने महायोगी ब्रह्मवेत्ता भगवान् सनत्कुमार की शरण में जाकर प्रार्थना की—भगवन् ! मैं अनात्मज्ञ होने के कारण शोक-सागर में डूब रहा हूँ, कृपया आप इस दीन जन का उद्धार करें। नारद की प्रार्थना सुनकर भगवान् सनत्कुमार ने पहले कहा— "नाम ब्रह्मेत्युपास्स्व" ( छां. ७।१।४ )। अर्थात् 'जैसे प्रतिमा की विष्णु-बुद्धया उपासना की जाती है, वैसे ही नाम (शब्द) की ब्रह्म-भावना से उपासना करनी चाहिए। ऐसा सुन कर श्री नारद ने पूछा—"अस्ति भगवो नाम्नो भूयः" ( छां. ७।१।५ ) अर्थात् क्या नाम से भी बढ़ कर कोई अधिक उपयुक्त माध्यम है ? इस प्रश्न का उत्तर भगवान् सनत्कुमार ने दिया— "वाग्वाव नाम्नो भूयसी" ( छां. ७।२।१ )। इस प्रकार नारद और सनत्कुमार की लम्बी प्रश्नोत्तर-परम्परा में 'वाक्' इन्द्रिय से लेकर मन, संकल्प, चित्त, ध्यान, विज्ञान, बल, (मानस सामर्थ्य), अन्न, जल, वायु-सहित तेज, आकाश, स्मर, आशा (अभिलाषा) और प्राण की उत्तरोत्तर श्रेष्ठता कही गई। उनमें कर्त्तव्याकर्त्तव्य का विवेक संकल्प पदार्थ है, उसका कारण है—चित्त (अतीतादि विषयों के द्वारा साध्य प्रयोजन का ज्ञान)। 'स्मर' पद का अर्थ स्मरण है। अन्त में प्राण तत्त्व की श्रेष्ठता का प्रतिपादन करते हुए कहा गया है कि जैसे पहिए की नाभि में अर (नाभि और नेमि को जोड़नेवाली लम्बी लकड़ी) प्रविष्ट होती है, वैसे ही इस प्राण तत्त्व में सब कुछ अवस्थित है। प्राण ही सकल कारक, करण और क्रियारूप है, प्राण ही पिता, माता, स्वसा और आचार्य है। प्राण में सर्वतः भूयस्त्व-दर्शी को अतिवादी (उत्कृष्टवादी) कह कर उसी प्रकरण में सनत्कुमार ने नारद के बिना पूछे ही "एष तु वा अतिवदति यः सत्येनातिवदति"—इस प्रकार सत्यादि से लेकर कृति (प्रयत्न) पर्यन्त पदार्थों की चर्चा की और अन्त में "सुखं त्वेव विजिज्ञासितव्यम्"—ऐसा उपदेश दिया। उसको सुन कर नारद ने प्रार्थना की कि तब भगवन् सुख तत्त्व का उपदेश करें। श्री सनत्कुमार ने कहा—"यो वै भूमा तत्सुखम्" ( छां. ७।२३।१ ) और भूमा पदार्थ का व्युत्पादन किया—"यत्र नान्यत् पश्यति नान्यच्छृणोति नान्यद्विजानाति, स भूमा" ( छां. ७।२४।१ )। इस अधिकरण का यही विचारणीय विषय है।