भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)
Bhamati of Vachaspati Mishra Hindi
वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द) द्वारा
स्रोत: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (उद्गम)
पृष्ठ 522, कुल 639 में से
संदर्भ में पढ़ें| ५०४ | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. १ पा. ४ सू. १७ |
|---|
जगत् सर्वनाम्नैतच्छब्देन निर्दिश्यते । क्रियत इति च तदेव जगत्कर्म । ननु जगदप्यप्रकृतमसंशब्दितं च । सत्यमेतत्, तथाप्यसति विशेषोपादाने साधारणेनार्थेन संनिहितवस्तुमात्रस्यायं निर्देश इति गम्यते, न विशिष्टस्य कस्यचित् । विशेषसंनिधानाभावात् । पूर्वत्र च जगदेकदेशभूतानां पुरुषाणां विशेषोपादानादविशेषितं जगदेवेहोपादीयत इति गम्यते । एतदुक्तं भवति — य एतेषां पुरुषाणां जगदेकदेशभूतानां कर्ता, किमनेन विशेषेण, यस्य कृत्स्नमेव जगदविशेषितं कर्मेति । वाशब्द एकदेशावच्छिन्नकर्तृत्वव्यावृत्त्यर्थः । ये बालाकिना ब्रह्मात्वाभिमताः पुरुषाः कीर्तितास्तेषामब्रह्मत्वख्यापनाय विशेषोपादानम् । एवं ब्राह्मणपरिव्राजकन्यायेन सामान्यविशेषाभ्यां जगतः कर्ता वेदितव्यतयोपदिश्यते । परमेश्वरश्च सर्वजगतः कर्ता सर्ववेदान्तेष्ववधारितः ॥ १६ ॥
जीवमुख्यप्राणलिङ्गान्नेति चेत्तद्व्याख्यातम् ॥ १७ ॥
अथ यदुक्तं — वाक्यशेषगताज्जीवलिङ्गान्मुख्यप्राणलिङ्गाच्च तयोरेवान्यतरस्येह ग्रहणं न्याय्यं न परमेश्वरस्येति, तत्परिहर्तव्यम् । अत्रोच्यते — परिहृतं चैतत् 'नोपासात्रैविध्यादाश्रितत्त्वादिह तद्योगात् (ब्र० सू० १।१।३१) इत्यत्र । त्रिविधं ह्युपासनमेवं सति प्रसज्येत — जीवोपासनं, मुख्यप्राणोपासनं, ब्रह्मोपासनं चेति । न चैतन्न्याय्यम् । उपक्रमोपसंहाराभ्यां हि ब्रह्मविषयत्वमस्य वाक्यस्यावगम्यते । तत्रोपक्रमस्य तावद् ब्रह्मविषयत्वं दर्शितम् । उपसंहारस्यापि निरतिशयफलश्रवणाद् ब्रह्मविषयत्वं दृश्यते — 'सर्वान्पाप्मनोऽपहृत्य सर्वेषां च भूतानां श्रेष्ठ्यं स्वाराज्यमाधिपत्यं पर्येति य एवं वेद इति । नन्वेवं सति प्रतर्दनवाक्यनिर्णयेनैदमपि वाक्यं निर्णीयते । न निर्णीयते, 'यस्य चैतत्कर्म' इत्यस्य ब्रह्मविषयत्वेन तत्रानिर्धारितत्वात् । तस्मादत्र जीवमुख्यप्राणशङ्का पुनरुत्पद्यमाना निवत्र्यते । प्राणशब्दोऽपि ब्रह्मविषयो दृष्टः —
भामती
स्योत्पत्तिस्ते यस्यैवं कर्मेति निर्दिश्येते ततः कुतः पौनरुक्त्यमित्यत आह ॐ नापि पुरुषविषयस्य इति ॐ । कर्तृशब्देनैव कर्तारमभिदधता तयोरुपात्तत्वादवाचिसत्त्वाच्चेह कृतिं विना कर्ता भवति नापि कृतिर्भावनापराभिधाना भूतिमुत्पत्तिं विनेत्यर्थः । ननु यदीदमा जगत्परामृष्टं ततस्तत्रान्तर्भूताः पुरुषा अपीति य एतेषां पुरुषाणामिति पुनरुक्तमत आह ॐ एतदुक्तं भवति — य एषां पुरुषाणाम् इति ॐ ॥ १६-१७ ॥
भामती-व्याख्या
समाधान — उक्त शङ्का का निरास करते हुए भाष्यकार कहते हैं — "नापि पुरुषविषयस्य करोत्यर्थस्य क्रियाफलस्य वाऽयं निर्देशः, कर्तृ-शब्देनैव तयोरुपात्तत्वात्" । आशय यह है कि 'कर्ता' शब्द मुख्यरूप से 'कृतिमान्' व्यक्ति का वाचक हो कर कृति और कृति-फल इन दोनों का आक्षेपक है, क्योंकि इन दोनों के बिना कर्तृत्व उपपन्न नहीं होता । अर्थात् कृति के बिना कर्त्ता और कृति-फल के बिना कृति उपपन्न नहीं । कृति को ही भाट्ट मतानुसार भावना कहा जाता है, वह कृति की फलभूत भूति (उत्पत्ति) के बिना क्योंकर सम्पन्न होगी ? वार्तिककार कहते हैं —
तेन भूतिषु कर्तृत्वं प्रतिपन्नस्य वस्तुनः ।
प्रयोजकक्रियामाहुर्भावनां भावनाविदः ॥ (तं० वा० पृ० ३८२)
यदि 'पुरुष' पद और 'एतत्' पद — इन दोनों के द्वारा कार्य पदार्थ का ही प्रतिपादन है, तब इन दोनों पदों में पुनरुक्ति क्यों नहीं ? इस प्रश्न का उत्तर भाष्यकार ने दिया है — "एतदुक्तं भवति" । अर्थात् उक्त दोनों वाक्यों में बाध्य-बाधकभाव है, पुनरुक्ति नहीं ॥१६-१७॥