भारतकोश
संग्रह पर लौटें

भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)

Bhamati of Vachaspati Mishra Hindi

वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द) द्वारा

स्रोत: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (उद्गम)

DevanagariHindipublished639 पृष्ठ
५०४ब्रह्मसूत्रशाङ्करभाष्यम्[ अ. १ पा. ४ सू. १७

जगत् सर्वनाम्नैतच्छब्देन निर्दिश्यते । क्रियत इति च तदेव जगत्कर्म । ननु जगदप्यप्रकृतमसंशब्दितं च । सत्यमेतत्, तथाप्यसति विशेषोपादाने साधारणेनार्थेन संनिहितवस्तुमात्रस्यायं निर्देश इति गम्यते, न विशिष्टस्य कस्यचित् । विशेषसंनिधानाभावात् । पूर्वत्र च जगदेकदेशभूतानां पुरुषाणां विशेषोपादानादविशेषितं जगदेवेहोपादीयत इति गम्यते । एतदुक्तं भवति — य एतेषां पुरुषाणां जगदेकदेशभूतानां कर्ता, किमनेन विशेषेण, यस्य कृत्स्नमेव जगदविशेषितं कर्मेति । वाशब्द एकदेशावच्छिन्नकर्तृत्वव्यावृत्त्यर्थः । ये बालाकिना ब्रह्मात्वाभिमताः पुरुषाः कीर्तितास्तेषामब्रह्मत्वख्यापनाय विशेषोपादानम् । एवं ब्राह्मणपरिव्राजकन्यायेन सामान्यविशेषाभ्यां जगतः कर्ता वेदितव्यतयोपदिश्यते । परमेश्वरश्च सर्वजगतः कर्ता सर्ववेदान्तेष्ववधारितः ॥ १६ ॥

जीवमुख्यप्राणलिङ्गान्नेति चेत्तद्व्याख्यातम् ॥ १७ ॥

अथ यदुक्तं — वाक्यशेषगताज्जीवलिङ्गान्मुख्यप्राणलिङ्गाच्च तयोरेवान्यतरस्येह ग्रहणं न्याय्यं न परमेश्वरस्येति, तत्परिहर्तव्यम् । अत्रोच्यते — परिहृतं चैतत् 'नोपासात्रैविध्यादाश्रितत्त्वादिह तद्योगात् (ब्र० सू० १।१।३१) इत्यत्र । त्रिविधं ह्युपासनमेवं सति प्रसज्येत — जीवोपासनं, मुख्यप्राणोपासनं, ब्रह्मोपासनं चेति । न चैतन्न्याय्यम् । उपक्रमोपसंहाराभ्यां हि ब्रह्मविषयत्वमस्य वाक्यस्यावगम्यते । तत्रोपक्रमस्य तावद् ब्रह्मविषयत्वं दर्शितम् । उपसंहारस्यापि निरतिशयफलश्रवणाद् ब्रह्मविषयत्वं दृश्यते — 'सर्वान्पाप्मनोऽपहृत्य सर्वेषां च भूतानां श्रेष्ठ्यं स्वाराज्यमाधिपत्यं पर्येति य एवं वेद इति । नन्वेवं सति प्रतर्दनवाक्यनिर्णयेनैदमपि वाक्यं निर्णीयते । न निर्णीयते, 'यस्य चैतत्कर्म' इत्यस्य ब्रह्मविषयत्वेन तत्रानिर्धारितत्वात् । तस्मादत्र जीवमुख्यप्राणशङ्का पुनरुत्पद्यमाना निवत्र्यते । प्राणशब्दोऽपि ब्रह्मविषयो दृष्टः —


भामती

स्योत्पत्तिस्ते यस्यैवं कर्मेति निर्दिश्येते ततः कुतः पौनरुक्त्यमित्यत आह ॐ नापि पुरुषविषयस्य इति ॐ । कर्तृशब्देनैव कर्तारमभिदधता तयोरुपात्तत्वादवाचिसत्त्वाच्चेह कृतिं विना कर्ता भवति नापि कृतिर्भावनापराभिधाना भूतिमुत्पत्तिं विनेत्यर्थः । ननु यदीदमा जगत्परामृष्टं ततस्तत्रान्तर्भूताः पुरुषा अपीति य एतेषां पुरुषाणामिति पुनरुक्तमत आह ॐ एतदुक्तं भवति — य एषां पुरुषाणाम् इति ॐ ॥ १६-१७ ॥


भामती-व्याख्या

समाधान — उक्त शङ्का का निरास करते हुए भाष्यकार कहते हैं — "नापि पुरुषविषयस्य करोत्यर्थस्य क्रियाफलस्य वाऽयं निर्देशः, कर्तृ-शब्देनैव तयोरुपात्तत्वात्" । आशय यह है कि 'कर्ता' शब्द मुख्यरूप से 'कृतिमान्' व्यक्ति का वाचक हो कर कृति और कृति-फल इन दोनों का आक्षेपक है, क्योंकि इन दोनों के बिना कर्तृत्व उपपन्न नहीं होता । अर्थात् कृति के बिना कर्त्ता और कृति-फल के बिना कृति उपपन्न नहीं । कृति को ही भाट्ट मतानुसार भावना कहा जाता है, वह कृति की फलभूत भूति (उत्पत्ति) के बिना क्योंकर सम्पन्न होगी ? वार्तिककार कहते हैं —

तेन भूतिषु कर्तृत्वं प्रतिपन्नस्य वस्तुनः ।
प्रयोजकक्रियामाहुर्भावनां भावनाविदः ॥ (तं० वा० पृ० ३८२)

यदि 'पुरुष' पद और 'एतत्' पद — इन दोनों के द्वारा कार्य पदार्थ का ही प्रतिपादन है, तब इन दोनों पदों में पुनरुक्ति क्यों नहीं ? इस प्रश्न का उत्तर भाष्यकार ने दिया है — "एतदुक्तं भवति" । अर्थात् उक्त दोनों वाक्यों में बाध्य-बाधकभाव है, पुनरुक्ति नहीं ॥१६-१७॥

बालाकिसंवादे ब्रह्मवादः ] हिन्दीसहितभामतीसंवलितम् ५०५

'प्राणबन्धनं हि सोम्य मनः' ( छा० ६।८।२ ) इत्यत्र । जीवलिङ्गमप्युपक्रमोपसंहार- योर्ब्रह्मविषयत्वादभेदाभिप्रायेण योजयितव्यम् ॥ १७॥

अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि चैवमेके ॥१८॥

अपि च नैवात्र विवदितव्यम्—जीवप्रधानं वेदं वाक्यं स्याद्, ब्रह्मप्रधानं वेति । यतोऽन्यार्थं जीवपरामर्शं ब्रह्मप्रतिपत्त्यर्थमस्मिन् वाक्ये जैमिनिराचार्यो मन्यते । कस्मात् ? प्रश्नव्याख्यानाभ्याम् । प्रश्नस्तावत्सुप्तपुरुषप्रतिबोधनेन प्राणादिव्यतिरिक्ते जीवे प्रतिबोधिते पुनर्जीवव्यतिरिक्तविषयो दृश्यते—'क्वैक एतद्बालाके पुरुषोऽशयिष्ट क्व वा एतदभूत्कुत एतदागात्' ( कौ० ब्रा० ४।१९ ) इति । प्रतिवचनमपि 'यदा सुप्तः स्वप्नं न कंचन पश्यत्यथास्मिन्प्राण एवैकधा भवति' इत्यादि 'एतस्मादात्मनः प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोकाः' ( कौ० ब्रा० ४।२० ) इति च । सुषुप्तिकाले च परेण ब्रह्मणा जीव एकतां गच्छति । परस्माच्च ब्रह्मणः प्राणादिकं जगज्जायत इति वेदान्तमर्यादा । तस्माद्यत्रास्य जीवस्य निःसंबोधतास्वच्छतारूपः स्वाप उपाधिजनितविशेषविज्ञानरहितं स्वरूपं, यतस्तद्विभ्रंशरूपमागमनं, सोऽत्र

भामती

ननु प्राण एवैकधा भवतीत्यादिकादपि वाक्याज्जीवातिरिक्तः कुतः प्रतीयत इत्यतो वाक्यान्तरं पठति ॐ एतस्मादात्मनः प्राणः इति ॐ । अपि च सर्ववेदान्तसिद्धमेतदित्याह ॐ सुषुप्तिकाले च इति ॐ । वेदान्तप्रक्रियायामेवोपपत्तिमपसंहारव्याजेनाह ॐ तस्माद्यत्रास्य ॐ । आत्मनो यतो निःसम्बोधस्तः स्वच्छ- तारूपमिव रूपमस्येति स्वच्छतारूपो न तु स्वच्छतैव लयविक्षेपसंस्कारयोस्तत्र भावात् समुद्राचरद्वृत्ति- विक्षेपाभावमात्रेणोपमानम् । एतदेव विभजते ॐ उपाधिभिः ॐ अन्तःकरणविधिः । ॐ जनितं ॐ यद्विशेष- विज्ञानं घटपटादिविज्ञानं तद्रहितं स्वरूपमात्मनः, यदि विज्ञानमित्येवोच्येत ततस्तदविशिष्टमनवच्छिन्नं सद्ब्रह्मैव स्यात्तच्च नित्यमिति नोपाधिजनितं नापि तद्रहितं स्वरूपं ब्रह्मस्वभावस्याग्रहाणात् । अत उक्तं ॐविशेषेतिॐ । यदा तु लयलक्षणाविद्योपबृंहितो विक्षेपसंस्कारः समुदाचरति तदा विशेषविज्ञानोत्पादात्

भामती-व्याख्या

आचार्य जैमिनि ने जो कहा है कि प्राणादि का संकीर्तन ब्रह्म की प्रतिपत्ति के लिए है, वहाँ शङ्का होती है कि "प्राणे एवैकधा भवति"—यह वाक्य 'प्राण' शब्द के द्वारा हिरण्यगर्भसंज्ञक जीव का अभिधान करता है, अतः इस वाक्य के द्वारा जीव से अतिरिक्त ब्रह्म की प्रतिपत्ति क्योंकर होगी ? इस शङ्का का समाधान करते हुए भाष्यकार प्राण-घटित वाक्यान्तर प्रस्तुत करते हैं—"एतस्मादात्मनः प्राणा यथायतनं विप्रतिष्ठन्ते" ( कौ० ब्रा० ४।२० ) यहाँ पर 'आत्मा' शब्द ब्रह्म तत्त्व का वाचक है, वह जिस प्राण का विप्रतिष्ठापक है, उसका ज्ञान प्राण के द्वारा क्यों न होगा ? दूसरी बात यह भी है कि यह तो सर्व वेदान्त- सिद्ध है कि सुषुप्ति-काल में जीव ब्रह्म के साथ एकतापन्न हो जाता है और पर ब्रह्म से ही प्राणादि प्रपञ्च उत्पन्न होता है, अतः जिस ब्रह्म में यह जीव सो जाता है, अर्थात् घटादि विषय-विशेषरूप मल से रहित, अत एव स्वच्छ स्वरूप में आविर्भूत होता है और उस स्वापा- वस्था की निवृत्ति होने पर जीव फिर सोपाधिक विज्ञानावस्थारूप जागरण में आता है, वही स्वच्छ ब्रह्म वेदनीय है। यहाँ भाष्यकार 'विशेष विज्ञान'—ऐसा न कह कर यदि केवल 'विज्ञान' पद का प्रयोग करते, तब ब्रह्मरूप विज्ञान का ग्रहण होता । स्वापावस्था को यदि ब्रह्मरूप माना जाता है, तब नित्यस्वरूप ब्रह्म की निवृत्ति न होने से जागरण सम्भव न होता, अतः भाष्यकार ने कहा—"विशेषविज्ञानरहितम्"। जब कि लयावस्थारूप अविद्या से उपोद्वलित विक्षेप-संस्कार उद्भूत होते हैं, तब विशेष विज्ञानात्मक जागरण होता है।

६४

५०६ब्रह्मसूत्रशाङ्करभाष्यम्[ अ. १ पा. ४ सू. १८

परमात्मा वेदितव्यतया श्रावित इति गम्यते। अपि चैवमेके शाखिनो वाजसनेयिनोऽ- स्मिन्नेव बालाक्यजातशत्रुसंवादे स्पष्टं विज्ञानमयशब्देन जीवमाम्नाय तद्व्यतिरिक्तं परमात्मानमामनन्ति—'य एष विज्ञानमयः पुरुषः क्वैष तदाभूत्कुत एतदागात्' (बृ० २।१।१६) इति प्रश्ने। प्रतिवचनेऽपि 'य एषोऽन्तर्हृदय आकाशस्तस्मिञ्छेते' इति। आकाशशब्दश्च परमात्मनि प्रयुक्तः 'दहरोऽस्मिन्नन्तराकाशः (छा० ८।१।१) इत्यत्र। 'सर्व एत आत्मनो व्युच्चरन्ति' इति चोपाधिमतामात्मनामन्यतो व्युच्चरणमामनन्तः परमात्मानमेव कारणत्वेनामनन्तीति गम्यते। प्राणनिराकरणस्यापि सुषुप्तपुरुषोत्था- पनेन प्राणादिव्यतिरिक्तोपदेशोऽभ्युच्चयः ॥ १८ ॥


भामती

स्वप्नजागरावस्थातः परमात्मनो रूपाद् अंशरूपमागमनमिति। न केवलं कौषीतकिब्राह्मणे वाजसनेयेऽप्ये- वमेव प्रश्नोत्तरयोर्जीवव्यतिरिक्तमामनन्ति परमात्मानमित्याह ॐ अपि चैवमेक इति ॐ। नन्वेत्राकाशः शयनस्थानं तत् कुतः परमात्मप्रत्यय इत्यत आह ॐ आकाशशब्दश्च इति ॐ। न तावन्मुख्यस्याका- शस्यात्माधारत्वसम्भवः। यदपि च द्वासप्ततिसहस्रहिताभिधाननाडीसञ्चारेण सुषुप्त्यवस्थायां पुरीतदव- स्थानमुक्तं तदप्यन्तःकरणस्य। तस्माद् दहरोऽस्मिन्नन्तराकाश इतिवदाकाशशब्दः परमात्मनि मन्तव्य इति। प्रथमं भाष्यकृता जीवनिराकरणाय सूत्रमिदमवतारितं तत्र मन्दधियां नेवं प्राणनिराकरणायेति बुद्धिर्मा भूदित्यशायवानाह ॐ प्राणनिराकरणस्यापि इति ॐ। तौ ह बालाक्यजातशत्रू सुप्तं पुरुषमाज- ग्मतुस्तमजातशत्रुर्नामभिरामन्त्रयाञ्चक्रे बृहत्पाण्डुरवासः सोमराजनिति। स आमन्त्र्यमाणो नोत्तस्थौ। तं पाणिनापेषं बोधयाञ्चकार। स होत्तस्थौ स होवाचाजातशत्रुर्यत्रैष एतत् सुप्तोऽभूदित्यादि, सोऽयं सुप्त- पुरुषोत्थापनेन प्राणादिव्यतिरिक्तोपदेश इति ॥ १८ ॥

भामती-व्याख्या

केवल कौषीतकि ब्राह्मण में ही प्रश्नोत्तर के द्वारा जीव-भिन्न ब्रह्म वर्णित नहीं अपितु वाजसनेयी शाखा की बृहदारण्यक उपनिषद् में भी उसी प्रकार ब्रह्म आम्नात है—"अपि चैवमेके शाखिनो वाजसनेयिनः"। यहाँ स्वाप का आधार ब्रह्म न होकर आकाश है, अतः परमात्मा की प्रतिपत्ति क्योंकर होगी? इस प्रश्न का उत्तर है—"आकाशशब्दश्च परमात्मनि प्रयुक्तः"। मुख्याकाश (भूताकाश) आत्मा का आधार कभी नहीं हो सकता। बहत्तर हजार नाड़ियों की चर्चा कर पुरीतति में जो अवस्थान कहा है, वह भी आत्मा का नहीं, अन्तःकरण का है। फलतः "दहरोऽस्मिन्नन्तरकाशः" (छां. ८।१।१) यहाँ जैसे 'आकाश' शब्द परमात्मा का वाचक है, वैसे ही प्रकृत में भी।

भाष्यकार ने पहले जीव का निराकरण करने के लिए इस सूत्र का अवतरण बताया था, उससे मन्दाधिकारियों को यह भ्रम हो सकता था कि इस सूत्र के द्वारा प्राण का निराकरण नहीं किया गया। वह भ्रम न हो, अतः कहा गया है—"प्राणनिराकरणस्यापि।" यह कहा जा चुका है कि बालाकि और अजातशत्रु—दोनों सोए हुए पुरुष के पास गये। उस पुरुष को अजातशत्रु ने नाम लेकर पुकारा—बृहत्पाण्डुरवासा सोमराजन्! वह पुरुष अजात- शत्रु का शब्द न तो सुन सका और न उठा। अजातशत्रु ने फिर उसे हाथ लगाकर जगाया तब वह उठा। तब अजातशत्रु ने कहा—"यत्रैष एतत्सुप्तोऽभूत्"—इत्यादि। सुप्त पुरुष के उत्थापन से यह प्रदर्शित किया कि वह पुरुष प्राणादि से भिन्न है॥ १८॥

दृष्टृत्वेन ब्रह्मनिर्देशः ] हिन्दीसहितभामतीसंवलितम् ५०७

( ६ वाक्यान्वयाधिकरणम् सू० १९—२२ )

वाक्यान्वयात् ॥ १९॥

बृहदारण्यके मैत्रेयीब्राह्मणेऽधीयते—'न वा अरे पत्युः कामाय—' इत्युपक्रम्य 'न वा अरे सर्वस्य कामाय सर्वं प्रियं भवत्यात्मनस्तु कामाय सर्वं प्रियं भवत्यात्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेय्यात्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेदं सर्वं विदितम्' (बृ० ४।५।६) इति, तत्रैतद्विचिकित्स्यते—किं विज्ञानात्मैवायं द्रष्टव्यश्रोतव्यत्वादिरूपेणोपदिश्यत आहोस्वित्परमात्मेति । कुतः पुनरेषा विचिकित्सा ? प्रियसंसूचितेनात्मना भोक्त्रोपक्रमाद्विज्ञानात्मोपदेश इति प्रतिभाति । तथात्मविज्ञानेन सर्वविज्ञानोपदेशात्परमात्मोपदेश इति । किं तावत्प्राप्तम्?

भामती

ननु मैत्रेयीब्राह्मणोपक्रमे याज्ञवल्क्येन गार्हस्थ्याश्रमादुत्तमाश्रमं यियासता मैत्रेय्या भार्ययाः कात्यायन्त्या सहार्थसंविभागकरण उक्ते मैत्रेयी याज्ञवल्क्यं पतिममृतत्वार्थिनी पप्रच्छ—यन्नु म इयं भगोः सर्वा पृथिवी वित्तेन पूर्णा स्यात्किमहं तेनामृता स्यामुत नेति । तत्र नेति होवाच याज्ञवल्क्यः । यथैवोपकरणवतां जीवितं तथैव ते जीवितं स्यादमृतत्वस्य तु नाशास्ति वित्तेन । एवं वित्तेनामृतत्वाशा भवेदपि वित्तसाध्यानि कर्माण्यमृतत्वाय युज्येरन् । तदेव तु नास्ति, ज्ञानसाध्यत्वादमृतत्वस्य । कर्मणां च ज्ञानविरोधिनां तत्सहभावित्वानुपपत्तेरिति भावः । सा होवाच मैत्रेयी येनाहं नामृता स्यां किमहं तेन कुर्यां यदेव भगवान् वेद तदेव मे ब्रूहि । अमृतत्वसाधनज्ञानोपन्यासाय वैराग्य-

भामती-व्याख्या

विषय—"आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः" (बृह० उ० ४।५।६) यह वाक्य विचारणीय है।

सन्देह—उक्त वाक्य में क्या विज्ञानात्मा (जीव) द्रष्टव्यत्वेन उपदिष्ट है? अथवा ब्रह्म?

पूर्वपक्ष—कर्त्ता-भोक्तारूप जीव का उपक्रम में निर्देश होने के कारण समस्त सन्दर्भ का तात्पर्य जीव के प्रतिपादन में पर्यवसित होता है।

शङ्का—बृहदारण्यकोपनिषद्गत मैत्रेयी ब्राह्मण के उपक्रम में याज्ञवल्क्य ने स्वयं गृहस्थाश्रम के त्याग एवं संन्यासाश्रम में प्रवेश करने की इच्छा से अपनी कात्यायनी और मैत्रेयी नाम की दोनों धर्मपत्नियों को धन का बंटवारा करने के लिए बुलाया और धन के बंटवारे का प्रस्ताव रखा। मैत्रेयी नाम की द्वितीय पत्नी ने जो अमृतत्व (मोक्ष) की कामना करती थी याज्ञवल्क्य से पूछा—"यन्नु म इयं भगोः ! सर्वा पृथिवी वित्तेन पूर्णा स्यात् स्यां त्वहं तेनामृताऽऽहो नेति" (बृह० उ० ४।५।३) अर्थात् हे भगोः (भगवन्!) यदि यह समस्त पृथिवी धन से परिपूर्ण कर मुझे दे दी जाय तो क्या इससे मैं अमृत (मुक्त) हो जाऊँगी ? अथवा नहीं? इस प्रश्न के उत्तर में याज्ञवल्क्य ने कहा—कभी नहीं। इससे केवल इतना होगा कि जैसे अशन-वसनादि साधन-सम्पन्न व्यक्तियों का जीवन लौकिक दृष्ट्या सुखी होता है, वैसा ही तुम्हारा जीवन भी होगा किन्तु "अमृतत्वस्य तु नाशा अस्ति वित्तेन' [मोक्ष-प्राप्ति की धन से कभी आशा नहीं की जा सकती]। इसी प्रकार धन के द्वारा यदि मोक्ष-प्राप्ति की आशा होती तो धन-साध्य यज्ञादि कर्म भी मोक्ष में उपयोगी होते, वह भी नहीं, क्योंकि मोक्ष की प्राप्ति केवल ब्रह्मज्ञान से होती है। कर्म तो ज्ञान के विरोधी हैं, अतः कर्मों में ज्ञान-सहभावित्व भी नहीं हो सकता। तब मैत्रेयी ने कहा—"येनाहं नामृता स्यां किमहं तेन कुर्याम् ? यदेव भगवान् वेद तदेव मे ब्रूहि"

५०८ब्रह्मसूत्रशाङ्करभाष्यम्[ अ. १ पा. ४ सू. १९

भामती

पूर्वकत्वात्तस्य रागविषयेषु तेषु तेषु पतिजायादिषु वैराग्यमुत्पादयितुं याज्ञवल्क्यो न वा अरे पत्युः कामायेत्यादिवाक्यसन्दर्भमुवाच । आत्मोपाधिकं हि प्रियत्वमेषां न तु साक्षात् प्रियाण्येतानि, तस्मादेतेभ्यः पतिजायादिभ्यो विरम्य यत्र साक्षात्प्रेम स एवात्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः । वाशब्दोऽवधारणे । आत्मैव द्रष्टव्यः साक्षात्कर्तव्यः । एतत्त्साधनानि च श्रवणादीनि विहितानि श्रोतव्य इत्यादिना । कस्मात् ? आत्मनो वारे दर्शनेन श्रवणादिसाधनेनेदं जगत्सर्वं विदितं भवतीति वाक्यशेषः ।

यतो नामरूपात्मकस्य जगतस्तत्त्वं पारमार्थिकं रूपमात्मैव भुजङ्गस्येव समारोपितस्य तत्त्वं रज्जुस्तस्मादात्मनि विदिते सर्वमिदं जगतत्त्वं विदितं भवति रज्जुभाविव विदितायां समारोपितभुजङ्गस्य तत्त्वं विदितं भवति, यतस्तस्मादात्मैव द्रष्टव्यो न तु तदतिरिक्तं जगत् स्वरूपेण द्रष्टव्यम् । कुतः ? यतो ब्रह्म तं परादाद् ब्राह्मणजातिर्ब्राह्मणोऽहमित्यभिमान इति यावत् । परादात् , पराकुर्यात् , अमृतत्वपदात् । कं ? योऽन्यत्रात्मनो ब्रह्म ब्राह्मणजातिं वेद । एवं क्षत्रादिष्वपि द्रष्टव्यम् । आत्मैव जगतस्तत्त्वं न तु तदतिरिक्तं तदिह्यत्रैव भगवती श्रुतिरुपपत्तिं दृष्टान्तप्रबन्धेनाह । यत् खलु यद्ग्रहं विना न शक्यते ग्रहीतुं तत्ततो न व्यतिरिच्यते । यथा रजतं शुक्तिकाया भुजङ्गो वा रज्जोः दुन्दुभ्यादिशब्दसामान्याद्वा तत्तच्छब्दभेदाः, न गृह्यन्ते च चिद्रूपग्रहणं विना स्थितिकाले नामरूपाणि, तस्मान्न चिदात्मनो भिद्यन्ते तदिदमुक्तं ॐ स यथा

भामती-व्याख्या

उसे लेकर मैं क्या करूँगी, अतः आप (याज्ञवल्क्य) जिस तत्त्व-ज्ञान के प्रभाव से इस धन-धान्यादि से सम्पन्न गृहस्थाश्रम को तुच्छ और हेय समझ रहे हैं, उस तत्त्व का उपदेश करें, जो कि अमृतत्व (मोक्ष) का सच्चा साधन है]। मैत्रेयी की उस प्रार्थना पर याज्ञवल्क्य ने सोचा कि एक सच्चे मुमुक्षु को मोक्ष के साधनीभूत ब्रह्मज्ञान का उपदेश करना है किन्तु उसके लिए सत्पात्र होना चाहिए, वैराग्य ही एकमात्र वह उपाय है, जो कि अपेक्षित सत्पात्रता एवं तत्त्वज्ञान में अपेक्षित परिव्रज्यादि साधन-सम्पत्ति का मार्ग प्रशस्त करता है, अतः वैराग्य का उत्पादन करने के लिए कहा—"न वा अरे पत्युः कामाय पतिः प्रियो भवति", (बृह० उ० ४।५।६) अर्थात् पुरुषों को पत्नी आदि और स्त्रियों को पति आदि अनात्म पदार्थ इसलिए प्रिय नहीं होते कि वे स्वरूपतः सुखरूप हैं, अपि तु आनन्दस्वरूप आत्मा की लिप्सा के लिए वे प्यारे लगते हैं । आत्मा में अनौपाधिक प्रियत्व और पत्नी आदि में औपाधिक प्रियत्व है । अतः पति-पत्नी आदि समस्त प्रपञ्च से विरत होकर साक्षात् प्रेमास्पद आत्मा का दर्शन, श्रवण, मननादि करना चाहिए—"आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः" (बृह० उ० ४।५।६) यहाँ 'वा' शब्द अवधारणार्थक है, अतः 'आत्मैव द्रष्टव्यः' यह अर्थ पर्यवसित होता है । आत्म-दर्शन के साधनीभूत श्रवणादि का विधान 'श्रोतव्यः' इत्यादि वाक्य से किया गया है । फलतः श्रवणादिसाधनक आत्म-वेदन सम्पन्न हो जाने पर समस्त जगत् विदित हो जाता है, क्योंकि नाम-रूपात्मक आरोपित जगत् का आत्मा मौलिक तत्त्व वैसे ही है, जैसे कि आरोपित सर्प का रज्जु तत्त्व । रज्जुरूप आधार तत्त्व के विदित हो जाने पर उसमें आरोपित सर्पादि का विदित हो जाना नैसर्गिक है, अतः प्रपञ्च का अधिष्ठानभूत आत्मतत्त्व ही द्रष्टव्य है, उससे अतिरिक्त जगत् स्वरूपेण द्रष्टव्य नहीं, क्योंकि "ब्रह्म तं परादाद् योऽन्यत्रात्मनो ब्रह्म वेद" (बृह० उ० ४।५।७) अर्थात् जो वही ब्रह्म (ब्राह्मण) उस व्यक्ति को श्रेयोमार्ग से च्युत कर देता है, जो व्यक्ति उस ब्राह्मण को आत्मा से भिन्न स्वरूपेण सत् मानता है [जैसे मिथ्या दृष्ट सर्प ही मिथ्यादर्शी का घातक होता है, वैसे ही प्रत्येक मिथ्या दृष्ट पदार्थ मिथ्यादर्शी का भ्रंशक होता है]। इसी प्रकार क्षत्रियादि भी मिथ्यादर्शी को कल्याण-मार्ग से वञ्चित कर देते हैं । सारांश यह है कि आत्मा

द्रष्टृंष्टव्यत्वेन ब्रह्मनिर्देशः ] हिन्दीसहितभामतीसंवलितम् ५७९

भामती दुन्दुभेर्हन्यमानस्य इति ॐ । दुन्दुभिग्रहणेन तद्गतं शब्दसामान्यमुपलक्षयति । न केवलं स्थितिकाले नामरूपप्रपञ्चश्चिदात्मातिरेकेणाग्रहणाच्चिदात्मनो न व्यतिरिच्यतेऽपि तु नामरूपोत्पत्तेः प्रागपि चिद्रूपा-वस्थानात् तदुपादानत्वाच्च नामरूपप्रपञ्चस्य तद्व्यतिरेकः, रज्जूपदानस्येव भुजङ्गस्य रज्जोरव्यतिरेक इत्येतद् दृष्टान्तेन साधयति भगवती श्रुतिः । स यथाऽऽर्द्रेन्धेनेरभ्याहितस्य पृथग्धूमा विनिश्चरन्त्येवं वा अरेऽस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेद इत्यादिना चतुर्विधो मन्त्र उक्तः, इतिहास इत्यादिनाऽष्टविधं ब्राह्मणमुक्तम् ।

एतदुक्तं भवति — यथाग्निमात्रं प्रथममवगम्यते क्षुद्राणां विस्फुलिङ्गानामुपादानम् । अथ ततो विस्फुलिङ्गा व्युच्चरन्ति न चैतेऽग्नेस्तत्त्वान्यत्वाभ्यां शक्यन्ते निर्वक्तुम् । एवमृग्वेदादयोऽप्यशेषप्रप-ञ्चात् ब्रह्मणो व्युच्चरन्तो न ततस्तत्त्वान्यत्वाभ्यां निरूच्यन्ते श्रृङ्गादिभिर्नामोपलक्ष्यते, यदा च नामधेय-

भामती-व्याख्या ही जगत् का एकमात्र तत्त्व है, उससे अतिरिक्त और कुछ भी नहीं। इसी तथ्य का निगमन भगवती श्रुति ने एक दृष्टान्त के माध्यम से किया है—"स यथा दुन्दुभेर्हन्यमानस्य न बाह्यान् शब्दान् शक्नुयाद् ग्रहणाय, दुन्दुभेस्तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीतः" (बृह० उ० ४।५।८) ! जो पदार्थ जिस वस्तु के ग्रहण के बिना गृहीत नहीं होता, वह पदार्थ उस वस्तु से भिन्न नहीं होता, जैसे रजत शुक्ति से, सर्प रज्जु से, शब्द-विशेष दुन्दुभ्यादि शब्द सामान्य से भिन्न गृहीत नहीं होते, वैसे ही नाम-रूपादि प्रपञ्च अपने स्थिति-काल में भी चिद्रूप-ग्रहण के बिना गृहीत नहीं होता, अतः वह चिदात्मा से भिन्न नहीं । श्रुतिगत 'दुन्दुभि' शब्द के द्वारा शब्द-सामान्य उपलक्षित होता है। नामरूपादि प्रपञ्च केवल अपने स्थिति-काल में ही चिदात्म-ग्रहण के बिना अगृहीत होकर चिदात्मा से अभिन्न सिद्ध नहीं होता, अपि तु अपनी उत्पत्ति से पहले भी चिद्रूपेण अवस्थित होता है, क्योंकि नामरूपादि कार्य चिदुपादानक होने के कारण उपादान कारण से भिन्न कहाँ अवस्थित होगा ? फलतः नामरूपात्मक प्रपञ्च अपनी उत्पत्ति के पूर्व भी चिद्रूप आत्मा से भिन्न वैसे ही नहीं, जैसे रज्जूपदानक सर्प रज्जु से भिन्न नहीं होता। प्रत्येक कार्य अपने उपादान कारण से समुद्भूत होता है—"स यथार्द्रेन्धाग्नेरभ्याहि-तस्य पृथग्धूमा विनिश्चरन्त्येवं वा अरेऽस्य महतो भूतस्य निःश्वसितमेतद् यद् ऋग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्या-नानि व्याख्यानानि इष्टं हुतमाशितं यामितं च लोका परश्च लोकः सर्वाणि च भूतानि" (बृह० उ० ४।५।११) । 'ऋग्वेदः' इत्यादि से ऋचादि चतुर्विध मन्त्र, 'इतिहासः' इत्यादि से आठ प्रकार का ब्राह्मण-वर्ग वर्णित है [ "तच्चोदकेषु मन्त्राख्या" (जं० सू० २।१।३२) । 'शेषे ब्राह्मणशब्दः' (जै० सू० २।१।३३) इन दोनों सूत्रों में मन्त्र और ब्राह्मण के जो लक्षण किये गये हैं, वे प्रायिक ही बताये गये हैं। इस विषय में वैदिकों के व्यवहार को प्रायः प्रमाण माना गया है। अथर्ववेद के वाक्यों का भी उसी व्यवहार के आधार पर वर्गीकरण किया जा सकता है। वृत्तिकार ने ब्राह्मण वाक्यों का भेद बताते हुए कहा है—

हेतुनिर्वचन निन्दा प्रशंसा संशयो विधिः ।
परक्रिया पुराकल्पो व्यवधारणकल्पना ॥
उपमानं दशेते तु विधयो ब्राह्मणस्य तु ।
एतत् स्यात् सर्ववेदेषु नियतं विधिलक्षणम् ॥ (शाबर० पृ० ४३६)

इन्हीं विधाओं के अनुसार इतिहासादि रूप वैदिक वाक्यों को ब्राह्मण की संज्ञा दी जा सकती है ]। जैसे नन्हीं-नन्ही चिनगारियाँ (विस्फुलिंग) की उपादानकारणभूत अग्नि ही पहले प्रतीत होती है, उसी से चिनगारियाँ फूटती है। चिनगारियाँ वस्तुतः अग्नि से भिन्न न सत् कही जा सकती हैं, न असत् । वैसे ही ऋग्वेदादि पदार्थ ब्रह्म से विना किसी

५१०ब्रह्मसूत्रशाङ्करभाष्यम्[ अ. १ पा. ४ सू. १९

भामती

स्येयं गतिस्तदा तत्पूर्वकस्य रूपधेयस्य कैव कथेति भावः। न केवलं तदुपादानत्वात्ततो न व्यतिरिच्यते नामरूपप्रपञ्चः, प्रलयसमये च तदनुप्रवेशात्ततो न व्यतिरिच्यते। यथा सामुद्रमेवाम्भः पृथिवीतेजः-सम्पर्कात् काठिन्यमुपगतं सैन्धवखिल्यः, स हि स्वाकरे समुद्रे क्षिप्तोऽम्भ एव भवत्येवं चिदम्भोघो लीनं जगच्चिदेव भवति न तु ततोऽतिरिच्यत इति। एतद्दृष्टान्तप्रबन्धेनाह ॐ स यथा सर्वासामपाम् इत्याविः। दृष्टान्तप्रबन्धमुक्त्वा दार्ष्टान्तिके योजयति ॐ एवं वा अरे इदं महत् इति ॐ। वृद्धत्वेन ब्रह्मोक्तम्। इदं ब्रह्मेत्यर्थः। भूतं सत्यम्, अनन्तं नित्यम्, अपारं सर्वगतं, विज्ञानघनो विज्ञानैकरस इति यावत् । एतेभ्यः कार्यकारणभावेन व्यवस्थितेभ्यो भूतेभ्यः समुत्थाय साम्येनोत्थाय कार्यकारणसङ्घातस्य ह्यवच्छेदाद् दुःखित्वशोकित्वादयस्तदवच्छिन्ने चिदात्मनि तद्विपरीतेऽपि प्रतीयन्ते यथोदकप्रतिबिम्बिते चन्द्रमसि तोयगताः कम्पादयस्तदिदं साम्येनोत्थानं, यदा त्वागमाचार्योपदेशपूर्वकमनननिदिध्यासनप्रकर्षपर्यन्तजोऽस्य ब्रह्मस्वरूपसाक्षात्कार उपावर्तते, तदा निर्मृष्टनिखिलवासनाविद्यामलस्य कार्यकारणसङ्घातभूतस्य विनाशे तान्येव भूतानि नश्यन्त्यनु तदुपाधिश्चिदात्मनः खिल्यभावो विनश्यति । ततो न प्रेत्य कार्यकारणभूतनिवृत्तौ रूपगन्धादिसंज्ञास्तीति ।

भामती-व्याख्या

विशेष यत्न के समुद्भूत होकर तत्त्व या अन्यत्वरूप से निरूपित नहीं होते। ऋगादि पदों के द्वारा नामरूपात्मक प्रपञ्च में से 'नाम' उपलक्षित है। जब 'नाम' पदार्थ की यह गति है, तब 'रूप' पदार्थ की बात ही क्या? क्योंकि नाम के माध्यम से ही 'रूप' की सृष्टि प्रतिपादित है— "वेदशब्देभ्य एवादौ पृथक्संस्थाश्च निर्ममे" (मनु. १.२१)। सृष्टि प्रक्रिया के द्वारा ही नाम-रूपात्मक प्रपञ्च अपने उपादानकारणभूत ब्रह्म से भिन्न सिद्ध नहीं होता, प्रलय के समय भी ब्रह्म में ही प्रवेश कर जाने के कारण ब्रह्म से भिन्न नहीं हो सकता। जैसे समुद्र से समुद्भूत नमक पृथिवी आदि के सम्पर्क से कठिन होकर एक घन (डले) के रूप में आ जाता है, और वही सैन्धव-घन अपने आकर (समुद्र) में प्रक्षिप्त होकर समुद्ररूप हो जाता है। वैसे ही नामरूपात्मक प्रपञ्च भी चैतन्य महासागर से भिन्न नहीं, यह रहस्य एक दृष्टान्त के द्वारा प्रकट किया जाता है— "स यथा सर्वासामपां समुद्र एकायनम्” (बृह. उ. ४।५।१२) दार्ष्टान्त में उसी का समन्वय किया गया है— "एवं वा अरे अयमात्माऽनन्तरोऽ-बाह्यः” । 'इदं महद्भूतमन्तमपारं विज्ञानघन एवैतेभ्यो भूतेभ्य समुत्थाय तान्येवानुविन-श्यति" (बृह. उ. २।४।१२) इस श्रुति में 'इदं' शब्द से ब्रह्म का ग्रहण किया गया है, क्योंकि वही महत् (बृहत्) है। 'भूतम्' का अर्थ 'सत्यम्', 'अनन्तम्' का 'नित्यम्' और 'अपारम्' का 'सर्वगतम्' है। 'विज्ञानघनः' का अर्थ विज्ञान से विजातीय पदार्थों के संसर्ग से रहित वा विज्ञानैकरस है [जैसा कि भाष्यकार ने कहा है— "घनशब्दो जात्यन्तरप्रतिषेधार्थः यथा सुवर्णघनोऽयोगनः ] । आशय यह है कि यद्यपि यह जीवात्मा सत्, चित्, अनन्त, जन्म-मरण से रहित शुद्ध ब्रह्मरूप है। तथापि अविद्या-वश कार्य और करण (स्थूल और सूक्ष्म शरीर) के रूप में परिणत आकाशादि भूतों से अपना समुत्थान (साम्यापत्ति या तादात्म्या-ध्यास अनुभव करता है, उनके दुःखी और सुखी होने पर स्वयं को दुःखी और सुखी समझता है। जैसे जलगत चन्द्र-प्रतिबिम्ब में जल के कम्पनादि धर्म प्रतीत होते हैं, वैसे ही शरीरावच्छिन्न आत्मा में शरीर के कर्तृत्वानि धर्म आरोपित हो जाते हैं।

जब आगम और आचार्य का उपदेश पा कर मानव श्रवण, मनन, निदिध्यासनपूर्वक ब्रह्म का साक्षात्कार कर लेता है, तब समस्त वासनाओं (संस्कारों) से युक्त अविद्यारूप मल विनष्ट हो जाता है, अविद्या के कार्यभूत शरीरादि उपाधियाँ समाप्त हो जाती है, आत्मा का वह खिल्यभाव (तादात्म्याध्यास) सदैव के लिए क्षीण हो जाता है, कर्तृत्वादि का भानरूप

द्रष्टव्यत्वेन ब्रह्मनिर्देश ] | हिन्दीसहितभामतोसंवलितम् | ५११

विज्ञानात्मोपदेश इति। कस्मात् ? उपक्रमसामर्थ्यात्। पतिजायापुत्रवित्तादिकं हि भोग्यभूतं सर्वं जगदात्मार्थतया प्रियं भवतीति प्रियसंसूचितं भोक्तारमात्मानमुपक्रम्यानन्तरमिदमात्मनो दर्शनाद्युपदिश्यमानं कस्यान्तरस्यात्मनः स्यात् ? मध्येऽपि 'इदं महद्भूतमन्तमपारं विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति न प्रेत्य संज्ञाऽस्ति' इति प्रकृतस्यैव महतो भूतस्य द्रष्टव्यस्य भूतेभ्यः समुत्थानं विज्ञानात्मभावेन ब्रुवन्विज्ञानात्मन एवेदं द्रष्टव्यत्वं दर्शयति। तथा 'विज्ञातारमरे केन विजानीयाद्' इति कर्तृवचनेन शब्देनोपसंहरन्विज्ञानात्मानमेवेहोपदिष्टं दर्शयति । तस्मादात्मविज्ञानेन सर्वविज्ञानवचनं भोक्तृअर्थत्वाद्भोग्यजातस्यौपचारिकं द्रष्टव्यमिति। एवं प्राप्ते ब्रूमः,-

भामती

न प्रेत्य संज्ञास्तीति संज्ञामात्रनिषेधादात्मा नास्तीति मन्यमाना सा मैत्रेयी होवाच, अत्रैव मा भगवान्मुमुहन्नमोहितवान् न प्रेत्य संज्ञास्तीति । स होवाच याज्ञवल्क्यः स्वाभिप्रायं द्वैते हि रूपादिविशेष-संज्ञानिबन्धनो दुःखित्वाद्यभिमानः। आनन्दज्ञानैकरसब्रह्माद्वयानुभवे तु तत् केन कं पश्येत् ब्रह्म वा केन विजानीयात् नहि तदास्य कर्मभावोऽस्ति स्वप्रकाशत्वात्। एतदुक्तं भवति - न संज्ञामात्रं मया व्यासेधि किन्तु विशेषसंज्ञेति। तदेवममृतत्वफलेनोपक्रमान्मध्ये चात्मविज्ञानेन सर्वविज्ञानं प्रतिज्ञाय तदुपपादनात्, उपसंहारे च महद्भूतमन्तमित्यादिना च ब्रह्मरूपाभिधानाद् द्वैतनिन्दया च चाद्वैतगुणकीर्त्तनाद् ब्रह्मैव मैत्रेयीब्राह्मणे प्रतिपाद्यं न जीवात्मेति नास्ति पूर्वपक्ष इत्यनारभ्यमेवेदमधिकरणम् ।

अत्रोच्यते - भोक्तृत्वज्ञातृताजीवरूपोत्थानसमाश्रये मैत्रेयीब्राह्मणे पूर्वपक्षेणोपक्रमः कृतः। पतिजा-यादिभोग्यसम्बन्धो नाभोक्तुर्ब्रह्मणो युज्यते नापि ज्ञातकर्तृत्वमकर्तुः साक्षाच्च महतो भूतस्य विज्ञाना-त्मभावेन समुत्थानाभिधानं विज्ञानात्मन एव द्रष्टव्यत्वमाह। अन्यथा ब्रह्मणो द्रष्टव्यत्वपरेऽस्मिन् ब्राह्मणे तस्य विज्ञानात्मत्वेन समुत्थानाभिधानमनुपयुक्तं स्यात्तस्य तु द्रष्टव्यत्वमुपयुज्यते इत्युपक्रममात्रं

भामती-व्याख्या

विशेष ज्ञान या संज्ञान कभी नहीं होता। "न प्रेत्य संज्ञाऽस्ति" इस प्रकार ज्ञानमात्र का अभाव हो जाने पर आत्मा की सत्ता भी समाप्त हो जायगी—ऐसा समझ कर मैत्रेयी बोली—"अत्रैव मा भगवान् अमूमुहत् 'न प्रेत्यसंज्ञाऽस्तीत्यत्र" अर्थात् आप (याज्ञवल्क्य) ने मुझ (मैत्रेयी) को यह कह कर फिर मोह में डाल दिया कि मरने के बाद किसी प्रकार का भी ज्ञान नहीं रहता। याज्ञवल्क्य ने उत्तर दिया—"न वा अरेऽहं मोहं ब्रवीमि, अलं वा अरे इदं विज्ञानाय यत्र हि द्वैतमिव भवति, तदितर इतरं जिघ्रति। यत्र वा अस्य सर्वमात्मैवाभूत् तत्केन कं जिघ्रेत्" (बृ. उ. ४।५।१४)। अर्थात् जिस (अज्ञान की) अवस्था में द्वैत प्रपञ्च की काल्पनिक सत्ता रहती है, तब रूपादि अनुकूल-प्रतिकूल विषय की प्रतीति से आत्मा में सुखित्व-दुःखित्वादि का भान होता है। आनन्दज्ञानैकरस ब्रह्म की साक्षात्कारावस्था में मैं (याज्ञवल्क्य) ने संज्ञानमात्र का निषेध नहीं किया किन्तु विशेष ज्ञान का ही निराकरण किया है। इस प्रकार जहाँ अमृतत्वरूप फल के संकीर्तन से उपक्रम किया गया, मध्य में आत्मविज्ञान के द्वारा सर्व-ज्ञान की प्राप्ति कही गई और उपसंहार में महद्भूतम्—इत्यादि पदों के द्वारा ब्रह्म का अभिधान किया गया । इतना ही नहीं, द्वैत-निन्दा के द्वारा अद्वैत की स्तुति की गई। ऐसे मैत्रेयी ब्राह्मण का प्रतिपाद्य एकमात्र ब्रह्म ही निश्चित होता है, अतः न तो यहाँ जीवात्मा का सन्देह होता है और जीवात्मा के प्रतिपादन का पूर्व पक्ष । फलतः यह अधिकरण निरर्थक-सा है।

समाधान - मैत्रेयी ब्राह्मण जीवपरक है, ऐसा पूर्वपक्ष में प्रस्तावमात्र किया गया है, वह इस लिए कि भोक्तृत्वादि के द्वारा जो जीव-ब्रह्म के भेद की शङ्का की गई है, उसका समाधान हो सके। ब्रह्म अभोक्ता और अकर्ता है, अतः भोग्य-सम्बन्धरूप भोक्तृत्व और ज्ञान-

५१२ब्रह्मसूत्रशाङ्करभाष्यम्[ अ. १ पा. ४ सू. २०

परमात्मोपदेश एवायम् । कस्मात् ? वाक्यान्वयात् । वाक्यं हीदं पौर्वापर्येणावेक्ष्यमाणं परमात्मानं प्रति अन्वितावयवं लक्ष्यते । कथमिति ? तदुपपाद्यते—'अमृतत्वस्य तु नाशास्ति वित्तेन इति याज्ञवल्क्यादुपश्रुत्य 'येनाहं नामृता स्यां किमहं तेन कुर्यां यदेव भगवान् वेद तदेव मे ब्रूहि' इत्यमृतत्वमाशासानायै मैत्रेय्या याज्ञवल्क्य आत्म-विज्ञानमिदमुपदिशति । न चान्यत्र परमात्मविज्ञानादमृतत्वमस्तीति श्रुतिस्मृतिवादा वदन्ति । तथा चात्मविज्ञानेन सर्वविज्ञानमुच्यमानं नान्यत्र परमकारणविज्ञानान्मुख्य-मवकल्पते । नचैतदौपचारिकमाश्रयितुं शक्यं, यत्कारणमात्मविज्ञानेन सर्वविज्ञानं प्रतिज्ञायानन्तरेण ग्रन्थेन तदेवोपपादयति—'ब्रह्म तं परादाद्योऽन्यत्रात्मनो ब्रह्म वेद' इत्यादिना । यो हि ब्रह्मक्षत्रादिकं जगदात्मनोऽन्यत्र स्वातन्त्र्येण लब्धसद्भावं पश्यति तं मिथ्यादर्शिनं तदेव मिथ्यादृष्टं ब्रह्मक्षत्रादिकं जगतपराकरोतीति भेददृष्टिमपोद्य 'इदं सर्वं यदयमात्मा' इति सर्वस्य वस्तुजातस्यात्माव्यतिरेकमवतारयति । दुन्दुभ्यादि-दृष्टान्तैश्च ( बृ० ४।५।८ ) तमेवान्यतिरेकं द्रढयति 'अस्य महतो भूतस्य निःश्वसि-तमेतद्यदृग्वेदः' ( बृ० ४।५।११ ) इत्यादिना च प्रकृतस्यात्मनो नामरूपकर्मप्रपञ्च-कारणतां व्याचक्षाणः परमात्मानमेनं गमयति । तथैकैकायनप्रक्रियायामपि ( बृ० ४।५।१२ ) सविषयस्य सेन्द्रियस्य सान्तःकरणस्य प्रपञ्चस्यैकायनमनन्तरमबाह्यं कृत्स्नं प्रज्ञानघनं व्याचक्षाणः परमात्मानमेनं गमयति । तस्मात्परमात्मन एवायं दर्शनाद्युप-देश इति गम्यते ॥ १९ ॥

यत्पुनरुक्तं—प्रियसंसूचितोपक्रमाद्विज्ञानात्मन एवायं दर्शनाद्युपदेश इति, अत्र ब्रूमः—

प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः ॥ २० ॥

अस्त्यत्र प्रतिज्ञा 'आत्मनि विज्ञाते सर्वमिदं विज्ञातं भवति', 'इदं सर्वं यदय-


भामती

पूर्वपक्षः कृतः । ॐ भोक्त्रर्थत्वाच्च भोग्यजातस्येति ॐ तदुपोद्वलनमात्रम् । सिद्धान्तस्तु निगदव्याख्यातेन भाष्येणोक्तः ॥ १९ ॥

तदेवं पौर्वापर्यालोचनया मैत्रेयीब्राह्मणस्य ब्रह्मदर्शनपरत्वे स्थिते भोक्त्रा जीवात्मनोपक्रममा-चार्य्यै देशीयमतेन तावत्समाधत्ते सूत्रकारः— ॐ प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः ॐ । यथा हि वह्नेर्विकारा व्युच्चरन्तो विस्फुलिङ्गा न वह्नेरत्यन्तं भिद्यन्ते तद्रूपनिरूपणस्वाभाव्यापि ततोऽत्यन्तमभिन्नावह्नेरिव परस्पर-


भामती-व्याख्या

जनकत्वरूप कर्तृत्व के प्रतिपादन का ब्रह्म में कोई उपयोग नहीं। व्यापक एवं भूतरूप ब्रह्म के जीवरूप से समुत्थान ( जन्म ) का प्रतिपादन भी जीव की द्रष्टव्यता सूचित करता है। यदि इस ब्राह्मण में ब्रह्म की द्रष्टव्यता का अभिधान माना जाता है, तब जीवरूप से ब्रह्म की उत्पत्ति का प्रतिपादन अनुपयुक्त हो जाता है और जीव की द्रष्टव्यता का अभिधान मानने पर उक्त समुत्थान का कथन उपयुक्त हो जाता है—इस प्रकार पूर्वपक्षी का उपक्रम मात्र है और "भोक्त्रर्थत्वाच्च भोग्यजातस्य"—ऐसा कहना उस उपक्रम का उपोद्वलक ( पोषक ) है। फलतः पूर्वपक्ष उपपन्न हो जाता है, जिसके निराकरण में अधिकरण की सार्थकता सिद्ध हो जाती है। सिद्धान्त-भाष्य नितान्त सुबोध ॥ १९ ॥

पौर्वापर्य की आलोचना से मैत्रेयी ब्राह्मण की ब्रह्म-दर्शनपरता निश्चित हो जाने पर जो यह प्रश्न उठता है कि भोक्तारूप जीव का उपक्रम इस ब्राह्मण में क्यों किया गया ?

द्रष्टव्यत्वेन ब्रह्मनिर्देशः ] हिन्दीसहितभामतीसंवलितम् ५१३

मात्मा' इति च। तस्याः प्रतिज्ञायाः सिद्धिं सूचयत्येतल्लिङ्गं यत्प्रियसंसूचितस्या- त्मनो द्रष्टव्यत्वादिसंकीर्तनम्। यदि हि विज्ञानात्मा परमात्मनोऽन्यः स्यात्ततः पर- मात्मविज्ञानेऽपि विज्ञानात्मा न विज्ञात इत्येकविज्ञानेन सर्वविज्ञानं यत्प्रतिज्ञातं तद्धीयेत। तस्मात्प्रतिज्ञासिद्धयर्थं विज्ञानात्मपरमात्मनोरभेदांशेनोपक्रमणमित्या- श्मरथ्य आचार्यो मन्यते ॥ २० ॥

उत्क्रमिष्यत एवंभावादित्यौडुलोमिः ॥ २१ ॥

विज्ञानात्मन एव देहेन्द्रियमनोबुद्धिसंघातोपाधिसंपर्कात्कलुषीभूतस्य ज्ञानध्या- नादिसाधनानुष्ठानात् संप्रसन्नस्य देहादिसंघातादुत्क्रमिष्यतः परमात्मैक्योपपत्तेरिदम-

भामती

व्यावृत्त्यभावप्रसङ्गात्, तथा जीवात्मानोऽपि ब्रह्मविकारा न ब्रह्मणोऽत्यन्तं भिद्यन्ते चिद्रूपस्वभावप्रसङ्गा- ज्ञाप्यत्यन्तं न भिद्यन्ते परस्परं व्यावृत्त्यभावप्रसङ्गात्, सर्वज्ञं प्रत्युपदेशवैयर्थ्याच्च। तस्मात् कथम्चिद्भेदो जीवात्मनामभेदश्च। तत्र तद्विज्ञानेन सर्वविज्ञानप्रतिज्ञासिद्धये विज्ञानात्मपरमात्मनोरभेदमुपादाय परमा- त्मनि दर्शयितव्ये विज्ञानात्मनोपक्रम इत्याश्मरथ्य आचार्यो मेने ॥ २० ॥

आचार्यदेशीयान्तरमतेन समाधत्ते — उत्क्रमिष्यत एवंभावादित्यौडुलोमिः। जीवो हि परमात्मनोऽ- त्यन्तं भिन्न एव सन् देहेन्द्रियमनोबुद्ध्युपधानसम्पर्कत्संवदा कलुषस्तस्य च ज्ञानध्यानादिसाधनानुष्ठानात् सम्प्रसन्नस्य देहेन्द्रियादिसङ्घातादुत्क्रमिष्यतः परमात्मनैक्योपपत्तेरिदमभेदेनोपक्रमणम्। एतदुक्तं भवति—

भामती-व्याख्या

उसका उत्तर आचार्य आश्मरथ्य की दृष्टि से दिया जाता है— "प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः"। जैसे अग्नि से निकलनेवाली अग्नि की विकारभूत चिनगारियां अग्नि से अत्यन्त भिन्न नहीं होतीं, क्योंकि वे भी अग्निरूप ही समझी जाती हैं। इसी प्रकार उन चिनगारियों को अग्नि से अत्यन्त अभिन्न भी नहीं कह सकते, क्योंकि 'अग्नेः विस्फुलिङ्गाः'—यहाँ पर 'अग्नि' पद और 'विस्फुलिङ्ग' पद का परस्पर जो व्यावर्य-व्यावर्तकभाव माना जाता है, वह अत्यन्त अभेद में नहीं बन सकेगा [ जैसे 'शङ्खस्य शुक्लता'— यहाँ पर 'शङ्ख' पद घट-पटादि द्रव्य का एवं 'शुक्लता' पद नीलादि गुणों का व्यावर्तक माना जाता है। वैसे ही 'अग्नेः विस्फुलिङ्गाः' इत्यादि-षष्ठ्यन्त-प्रयोग या उद्देश्य-विधेयभावस्थल पर प्रायः सर्वत्र परस्पर व्यावर्य- व्यावर्तकभाव माना जाता है ]। वैसे ही ब्रह्म के विकारभूत जीवात्मा भी ब्रह्म से न तो अत्यन्त भिन्न होते हैं और न अत्यन्त अभिन्न, क्योंकि एक ब्रह्म के विज्ञान से सभी जीवों का ज्ञान तभी हो सकता है, जब कि जीव और ब्रह्म का अभेद हो और 'आत्मायं द्रष्टव्यः' 'अहं ब्रह्म'—इत्यादि स्थलों पर जीवात्मा के उद्देश्य से द्रष्टव्यत्व या ब्रह्मत्व का विधान तभी हो सकता है, जब कि जीव और ब्रह्म का कुछ भेद भी हो। भेदाभेद-पक्ष में ही जीवरूपेण उपक्रम और एक के विज्ञान से सर्व-विज्ञान की प्रतिज्ञा ये दोनों प्रक्रियाएँ उपपन्न होती हैं—ऐसा आचार्य आश्मरथ्य मानते हैं ॥ २० ॥

आश्मरथ्य के द्वारा उद्भावित पूर्वपक्ष का समाधान आचार्य औडुलोमि के मत से किया जाता है— "उत्क्रमिष्यते एवंभावादित्यौडुलोमिः"। आचार्यवर औडुलोमि का कहना है कि जीव ब्रह्म से अत्यन्त भिन्न है और देह, इन्द्रिय, मन एवं बुद्धिरूप उपाधियों के सम्पर्क से सदैव कलुषित रहता आया है। ज्ञान-ध्यानादि साधनों के अनुष्ठान से विमल होकर देहेन्द्रियादि-संघात से उत्क्रमण करने पर जीव का ब्रह्म से ऐक्य स्थापित हो जाता है, इस भावी ऐक्य ( अभेद ) को ध्यान में रख कर जीव का उपक्रम किया गया है, अतः एक के विज्ञान से सर्व-विज्ञान का प्रतिपादन विरुद्ध नहीं। संसारावस्थाक भेद भी मोक्षावस्थाक

६५

५१४ब्रह्मसूत्रशाङ्करभाष्यम्[ अ. १ पा. ४ सू. २२

भेदेनोपक्रमणमित्यौडुलोमिराचार्यो मन्यते । श्रुतिश्चैवं भवति — ‘एष संप्रसादोऽस्मा- च्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते’ (छा० ८।१२।३) इति । क्वचिच्च जीवाश्रयमपि नामरूपं नदीनिदर्शनेन ज्ञापयति—‘यथा नद्यः स्यन्द- मानाः समुद्रेऽस्तं गच्छन्ति नामरूपे विहाय । तथा विद्वाञ्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम्’ (मुण्ड० ३।२।८) इति । यथा लोके नद्यः स्वाश्रयमेव नामरूपं विहाय समुद्रमुपयन्त्येवं जीवोऽपि स्वाश्रयमेव नामरूपं विहाय परं पुरुषमुपैतीति हि तत्रार्थः प्रतीयते दृष्टान्तदार्ष्टान्तिकयोस्तुल्यतायै ॥ २१ ॥

अवस्थितेरिति काशकृत्स्नः ॥ २२ ॥

अस्यैव परमात्मनोऽनेनापि विज्ञानात्मभावेनावस्थानादुपपन्नमिदमभेदेनोपक्रमण-


भामती

भविष्यन्तमभेदमपादाय भेदकालेऽप्यभेद उक्तः, यथाहूः पाञ्चरात्रिकाः—
आमुक्तेर्भेद एव स्याज्जीवस्य च परस्य च ।
मुक्तस्य तु न भेदोऽस्ति भेदहेतोरभावतः ॥ इति ।
अत्रैव श्रुतिमुपन्यस्यति ॐ श्रुतिश्चैवम् इति ॐ । पूर्वं देहेन्द्रियाद्युपाधिकृतं कालुष्यमात्मन उक्तं, सम्प्रति स्वाभाविकमेव जीवस्य नामरूपप्रपञ्चाश्रयत्वलक्षणं कालुष्यं पार्थिवानांमणूनामिव श्यामत्वं केवलं पाकेनेव ज्ञानध्यानादिना तदपनोद्य जीवः परात्परतरं पुरुषमुपैतीत्याह ॐ क्वचिच्च जीवाश्रयमपि इति ॐ । नदीनिदर्शनं यथा सोम्येमा नद्य इति ॥ २१ ॥
तदेवमाचार्यदेशीयमतद्वयमुक्त्वाऽत्र परितुष्यन्नाचार्यमतमाह सूत्रकारः— अवस्थितेरिति काशकृत्स्नः । एतद् व्याचष्टे ॐ अस्यैव परमात्मनः इति ॐ । न जीव आत्मनोऽन्यो नापि तद्विकारः किन्त्वात्मैवाविद्यो-पधानकल्पितावच्छेदः, आकाश इव घटमणिकादिकल्पितावच्छेदो घटाकाशो मणिकाकाशो न तु परमा-


भामती-व्याख्या

अभेद में पर्यवसित हो जाता है । पाञ्चरात्रिक आचार्यगण कहते हैं—
आमुक्तेर्भेद एवासीज्जीवस्य परस्य च ।
मुक्तस्य तु न भेदोऽस्ति भेदहेतोरभावतः ॥
इसी मत के समर्थन में श्रुति प्रस्तुत की जाती है—“श्रुतिश्चैवं भवति” एष सम्प्रसादोऽस्मात् शरीरात् समुत्थाय परं ज्योतिरुपसम्पद्य” (छां० ८।१२।३) ।
पहले देहेन्द्रियादि उपाधियों के द्वारा आहित जीवगत कालुष्य कहा गया, अब जीव में नाम-रूपात्मक प्रपञ्च का आश्रयत्वरूप कालुष्य स्वाभाविक कहा जाता है—“क्वचिच्च जीवाश्रयमपि नामरूपं नदीनिदर्शनेन ज्ञापयति” । नदी का दृष्टान्त इस प्रकार है—“यथा नद्यः स्यन्दमानाः समुद्रेऽस्तं गच्छन्ति नामरूपे विहाय” (मुण्ड० ३।२।८) । अर्थात् जैसे नदियाँ अपने स्वाभाविक नाम (गङ्गादि) और रूप (श्वेत प्रवाहादि) का परित्याग करके समुद्र रूप हो जाती हैं, वैसे ही जीव भी अपने स्वाभाविक प्रपञ्चाश्रयत्वरूप कालुष्य को छोड़कर ब्रह्मरूप हो जाता है ॥ २१ ॥
कथित दोनों आचार्यों के मतों में असन्तोष व्यक्त करते हुए आचार्य काशकृत्स्न का सिद्धान्त सूत्रकार ने प्रस्तुत किया है— “अवस्थितेरिति काशकृत्स्नः” । इस सूत्र की भाष्यकार व्याख्या कर रहे हैं— “अस्यैव परमात्मनः” । जीव न तो ब्रह्म से भिन्न है और न उसका विकार, किन्तु ब्रह्म ही अविद्यारूप उपाधि के द्वारा कल्पित भेद से वैसे ही भिन्न प्रतीत होता है, जैसे घटादि उपाधियों से परिच्छिन्न होकर ‘घटाकाश’, ‘मणिकाश’ इत्यादि । घटाकाशादि भी न तो परमाकाश से भिन्न होते हैं और न उसके विकार । इस प्रकार उक्त श्रुति-सन्दर्भ में

[द्रष्टव्यत्वेन ब्रह्मनिर्देशः ] हिन्दीसहितभामतीसंवलितम् ५१५

मिति काशकृत्स्न आचार्यो मन्यते। तथाच ब्राह्मणम्—'अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि' ( छा० ६।३।२ ) इत्येवंजातीयकं परस्यैवात्मनो जीवभावेनावस्थानं दर्शयति। मन्त्रवर्णश्च—'सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन् यदास्ते' ( तै० आ० ३।१२।७ ) इत्येवंजातीयकः। न च तेजःप्रभृतीनां सृष्टौ जीवस्य पृथक्सृष्टिः श्रुता, येन परस्मादात्मनोऽन्यस्तद्विकारो जीवः स्यात्। काशकृत्स्नस्याचार्यस्याविकृतः परमेश्वरो जीवो नान्य इति मतम्। आश्मरथ्यस्य तु यद्यपि जीवस्य परस्मादनन्यत्वमभिप्रेतं, तथापि प्रतिज्ञासिद्धेरिति सापेक्षत्वाभिधानात्कार्यकारणभावः कियानप्यभिप्रेत इति गम्यते। औडुलोमिपक्षे पुनः स्पष्टमेवावस्थान्तरापेक्षौ भेदाभेदौ गम्येते। तत्र काशकृत्स्नीयं मतं श्रुत्यनुसारोति गम्यते, प्रतिपिपादयिषिता-

भामती

काशाद्व्यस्तद्विकारो वा । ततश्च जीवात्मनोपक्रमः परमात्मनैवोपक्रमस्तस्य ततोऽभेदात् । स्थूलदर्शिलोकप्रतीतिसौकर्यायौपाधिकेनात्मरूपेणोपक्रमः कृतः । अत्रैव श्रुतिं प्रमाणयति ॐ तथा च इति ॐ । अथ विकारः परमात्मनो जीवः कस्मान्न भवत्याकाशादिवदित्याह ॐ न च तेजःप्रभृतीनाम् इति ॐ । नहि यथा तेजःप्रभृतीनामात्मविकारत्वं श्रूयते एवं जीवस्येति । आचार्यत्रयमतं विभजते ॐ काशकृत्स्नस्याचार्यस्य इति ॐ । आत्यन्तिके सत्यभेदे कार्यकारणभावाभावात् अनात्यन्तिकोऽभेद आस्थेयस्तथा च कथञ्चिद् भेदोऽपीति तमास्थाय कार्यकारणभाव इति । कियानपीत्युक्तं मतत्रयमुक्त्वा काशकृत्स्नीयमतं साधुत्वेन निर्धारयति ॐ तत्र तेषु मध्ये काशकृत्स्नीयं मतम् इति ॐ । आत्यन्तिके हि जीवपरमात्मनोरभेदे तात्त्विकेऽनाद्यविद्योपाधिकल्पितो भेदस्तत्त्वमसीति जीवात्मनो ब्रह्मभावत्वोपदेशश्रवणमनननिदिध्यासनप्रकर्षपर्यन्तजमना साक्षात्कारेण विद्यया शक्यः समूलकाषं कषितुं रज्जुवामहिविभ्रम इव रज्जुतत्त्वसाक्षात्कारेण, राजपुत्रस्येव च म्लेच्छकुले वर्द्धमानस्यात्मनि समारोपितो म्लेच्छभावो राजपुत्रोऽसीति प्राप्तोपदेशेन । न तु मृद्विकार-

भामती-व्याख्या

जीव का उपक्रम वस्तुतः ब्रह्म का ही उपक्रम है, क्योंकि जीव का ब्रह्म से अभेद है। स्थूल में दृष्टिवाले लौकिक व्यक्तियों की सुविधा को ध्यान रख कर औपाधिक रूप से आत्मा का उपक्रम किया गया है। इस अर्थ में श्रुति प्रमाण प्रदर्शित करते हैं—"तथा च ब्राह्मणम्" । जीव ब्रह्म का विकार क्यों नहीं ? इस प्रश्न का उत्तर है—न च तेजः प्रभृतीनां सृष्टौ जीवस्य पृथक् सृष्टिः श्रुतः"। जैसे "तत् तेजोऽसृजत" ( छां० ६।२।३ ) इत्यादि श्रुतियों में तेज आदि की सृष्टि प्रतिपादित है, वैसे जीव की सृष्टि कहीं भी अभिहित नहीं, अतः जीव विकार नहीं हो सकता।

सूत्रित आचार्य-त्रयी के मतों का सिंहावलोकन किया जाता है—"काशकृत्स्नस्याचार्यस्य"। आशय यह है कि आत्यन्तिक अभेद मानने पर कार्य-कारणभाव नहीं बन सकता, अतः जीव और ब्रह्म का अनात्यन्तिक ( कथंचित् ) अभेद मानना होगा, तब कथंचित् भेद भी सम्भव हो जाता है, उस (भेद) को लेकर कार्य-कारणभाव उपपन्न हो जाता है, भाष्यकार ने यही कहा है—"कार्यकारणभावः कियानपि अभिप्रेतः"। तीनों का परिचय देकर उनमें काशकृत्स्नीय मत को उपनिषदंसारी बताया जाता है—'तत्र' अर्थात् 'तेषु मध्ये' "काशकृत्स्नायं मतं श्रुत्यनुसारीति गम्यते"। सारांश यह है कि जीव और ब्रह्म का आत्यन्तिक अभेद तात्त्विक होने पर भी अनादि अविद्यारूप उपाधि के द्वारा कल्पित जो भेद प्रतीत होता है उसका "तत्त्वमसि"—इत्यादि महावाक्यों के द्वारा जीव में ब्रह्मभाव के तात्त्विक श्रवण, मनन और निदिध्यासन के अनुष्ठान से समुत्पन्न अभेद-साक्षात्कार वैसे ही समूल नाश कर दिया करता है, जैसे रज्जु में समुत्पन्न सर्प-भ्रम को रज्जुतत्त्व का साक्षात्कार। अथवा जैसे म्लेच्छ-कुल में परिपोषित होने के कारण राज-पुत्र में समारोपित

५१६ब्रह्मसूत्रशाङ्करभाष्यम्[ अ १ पा. ४ सू. २३

र्थानुसारत्वात् 'तत्त्वमसि' इत्यादिश्रुतिभ्यः। एवं च सति तज्ज्ञानादमृतत्वमवकल्पते। विकारात्मकत्वे हि जीवस्याभ्युपगम्यमाने विकारस्य प्रकृतिसम्बन्धे प्रलयप्रसङ्गान्न तज्ज्ञानादमृतत्वमवकल्पेत। अतश्च स्वाश्रयस्य नामरूपस्यासंभवादुपाध्याश्रयं नामरूपं जीव उपचर्यते। अत एवोत्पत्तिरपि जीवस्य कचिदग्निविस्फुलिङ्गोदाहरणेन श्राव्यमाणोपाध्याश्रयैव वेदितव्या। यदप्युक्तं—प्रकृतस्यैव महतो भूतस्य द्रष्टव्यस्य

भामती

शरावादिः शतशोपि मृन्मृदिति चिन्त्यमानस्तज्जन्मना मृद्भावसाक्षात्कारेण शक्यो निवर्तयितुं, तत् कस्य हेतोः? तस्यापि मृदो भिन्नाभिन्नस्य तात्त्विकत्वात्, वस्तुनस्तु ज्ञानेनोच्छेत्तुमशक्यत्वात्, सोऽयं प्रतिपिपादयिषिताथानुसारः। अपि च जीवस्यात्मविकारत्वे तस्य ज्ञानध्यानादिसाधनानुष्ठानात् स्वप्रकृतावप्यये सति नामृतत्वस्याशास्तीत्यपुरुषार्थत्वममृतत्वप्राप्तिश्रुतिविरोधश्च। काशकृत्स्नमते त्वेतदुभयं नास्तीत्याह एवं सति इति। ननु यदि जीवो न विकारः किन्तु ब्रह्मैव, कथं तर्हि तस्मिन्नामरूपापाध्यत्वश्रुतिः कथञ्च यथग्नेः क्षुद्रा विस्फुलिङ्गा इति ब्रह्मविकारश्रुतिर इत्याशङ्कामुपसंहारव्याजेन निराकरोति अतश्च स्वाश्रयस्य इति। यतः प्रतिपिपादयिषिताथानुसारश्चामृतत्वप्राप्तिश्च विकारपक्षे न सम्भवतः, अतश्चेति योजना। द्वितीयपूर्वपक्षबीजमनयेवं त्रिसूत्र्यापाकरोति यदप्युक्तम् इति। शेषमतिरोहितार्थं व्याख्या-

भामती-व्याख्या

म्लेच्छभाव को 'राजपुत्रोऽसि'—इस प्रकार के आप्तोपदेश से जनित तत्त्व-साक्षात्कार विनष्ट कर दिया करता है। यदि जीवभाव को ब्रह्म का विकार माना जाता, तब ब्रह्म के साक्षात्कार से उसकी निवृत्ति नहीं होती, क्योंकि मृत्तिका के विकारभूत घट, शराव (कसोरा या परई) आदि का विनाश मृत्तिका का सैकड़ों बार चिन्तन या साक्षात्कार करने पर भी नहीं होता। वह क्यों? इस लिए कि घट-शराव आदि मृत्तिका से भिन्नाभिन्न होने पर भी तात्त्विक होते हैं, काल्पनिक नहीं। कल्पना-प्रसूत पदार्थ ही ज्ञान के द्वारा उच्छिन्न होते हैं, वास्तविक वस्तु-तत्त्व नहीं, अतः काशकृत्स्नीय मत वेदान्त में प्रतिपिपादयिषित प्रक्रिया के अनुरूप है। दूसरी बात यह भी है कि जीव को यदि ब्रह्म का विकार माना जाता है, तब वह अपनी प्रकृतिभूत ब्रह्म को अपना स्वरूप मान कर वैसा ही ध्यान का अनुष्ठान करेगा फलतः उसी प्रकृति में लीन हो जायगा। इसे दर्शनकारों ने प्रकृति-लय की संज्ञा देते हुए आत्मा का बन्धन ही माना है, मोक्ष नहीं—"तत्र प्रकृतावात्मज्ञानाद् ये प्रकृतिमुपासते, तेषां प्राकृतिको बन्धः, यः पुराणे प्रकृतिलयान् प्रत्युच्यते—'पूर्ण शतसहस्रं हि तिष्ठन्त्यव्यक्तचिन्तकाः' (सां. त. कौ. पृ. ८६)। प्रकृति-लय से अमृतत्व (मोक्ष) की कोई आशा नहीं, प्रत्युत अमृतत्व-प्राप्ति-बोधक श्रुतियों का विरोध ही उपस्थित होता है। काशकृत्स्नीय मत में अमृतत्व का अभाव और अभेद-श्रुति-विरोध—ये दोनों आपत्तियां नहीं हैं—"एवं च सति तज्ज्ञानादमृतत्वमवकल्पते"। यदि जीव ब्रह्म का विकार नहीं, अपितु ब्रह्मरूप ही है, तब श्रुति ने जीव में नाम और रूप की आश्रयता क्यों कही है? एवं "यथाग्नेः क्षुद्रा विस्फुलिङ्गाः" (बृह० उ० २।१।२०) इत्यादि श्रुतियों ने जीव को ब्रह्म का विकार क्यों कहा है? इन शङ्काओं का निराकरण करते हुए उपसंहार किया जाता है—अतश्च स्वाश्रयस्य नामरूपस्यासम्भवाद् उपाध्याश्रयं नामरूपं जीवे उपचर्यते"। यहाँ 'अतः' शब्द 'यतः' शब्द की नित्य अपेक्षा करता है, इस लिए 'यतः प्रतिपिपादयिषिताथानुसारश्चामृतत्वप्राप्तिश्च विकारपक्षे न सम्भवतः, अतः—ऐसी योजना कर लेनी चाहिए।

[ उक्त स्थल पर जीव के द्रष्टव्यताभिधानरूप पूर्व पक्ष में तीन हेतु प्रस्तुत किए गए—(१) सन्दर्भ-श्रुति के उपक्रम में जीव का प्रतिपादन। (२) उत्थान-श्रुति में जीवाभेदा-

द्रष्टव्यत्वेन ब्रह्मनिर्देशः ] हिन्दीसहितभामतीसंवलितम् ५१७

भूतेभ्यः समुत्थानं विज्ञानात्मभावेन दर्शयन् विज्ञानात्मन एवेदं द्रष्टव्यत्वं दर्शय- तीति। तत्रापीयमेव त्रिसूत्री योजयितव्या—'प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः'। इदमत्र प्रतिज्ञातम्—'आत्मनि विदिते सर्वं विदितं भवति' 'इदं सर्वं यदयमात्मा' (बृह० २।४।६) इति च। उपपादितं च, सर्वस्य नामरूपकर्मप्रपञ्चस्यैकप्रसवत्वादेकप्रलय- त्वाच्च दुन्दुभ्यादिदृष्टान्तैश्च कार्यकारणयोरव्यतिरेकप्रतिपादनात्। तस्या एव प्रति- ज्ञायाः सिद्धिं सूचयत्येतल्लिङ्गं यन्महतो भूतस्य द्रष्टव्यस्य भूतेभ्यः समुत्थानं विज्ञाना- त्मभावेन कथितमित्याश्मरथ्य आचार्यो मन्यते। अभेदे हि सत्येकविज्ञानेन सर्वं विज्ञानं प्रतिज्ञातमवकल्पत इति।

'उत्क्रमिष्यत एवंभावादित्यौडुलोमिः'। उत्क्रमिष्यतो विज्ञानात्मनो ज्ञानध्याना- दिसामर्थ्यात् संप्रसन्नस्य परेणात्मनैक्यसंभवादिदमभेदाभिधानमित्यौडुलोमिराचार्यो मन्यते।

'अवस्थितेरिति काशकृत्स्नः'। अस्यैव परमात्मनोऽनेनापि विज्ञानात्मभावेनाव- स्थानादुपपन्नमिदमभेदाभिधानमिति काशकृत्स्न आचार्यो मन्यते।

नन्वूच्छेदाभिधानमेतत् 'एतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति न प्रेत्य संज्ञास्ति' (बृह० २।४।१२) इति, कथमेतदभेदाभिधानम्? नैष दोषः, विशेषविज्ञान- विनाशाभिप्रायमेतद्विनाशाभिधानं, नात्मोच्छेदाभिप्रायम्। 'अत्रैव मा भगवान्मुमुहन्न प्रेत्य संज्ञास्ति' इति पर्यनुयुज्य स्वयमेव श्रुत्याऽर्थान्तरस्य दर्शितत्वात्—'न वा अरेऽहं मोहं ब्रवीम्यविनाशी वा अरेऽयमात्मानुच्छित्तिधर्मा मात्रासंसर्गस्त्वस्य भवति' इति। एतदुक्तं भवति—कूटस्थनित्य एवायं विज्ञानघन आत्मा नास्योच्छेदप्रस- ङ्गोऽस्ति। मात्राभिस्त्वस्य भूतेन्द्रियलक्षणाभिरविद्याकृताभिरसंसर्गो विद्यया भवति। संसर्गाभावे च तत्कृतस्य विशेषविज्ञानस्याभावान्न प्रेत्य संज्ञास्तीत्युक्तमिति। यदप्यु- क्तम्—'विज्ञातारमरे केन विजानीयात्' इति कर्तृवचनेन शब्देनोपसंहाराद्विज्ञानात्मन


भामती

तार्थञ्च। तृतीयपूर्वपक्षबीजनिरासे काशकृत्स्नीयेनैवेत्यवधारणं तन्मताश्रयणेनैव तस्य शक्यनिरासत्वात्। ऐकान्तिके ह्यद्वैते आत्मनोऽन्यकर्मकरणे केन कं पश्येदिति आत्मनश्च कर्मत्वं विज्ञातारमरे केन विजानीया- दिति शक्यं निषेद्धुम्। भेदाभेदपक्षे वैकान्तिके वा भेदे सर्वमेतदद्वैताश्रयमशक्यमित्यवधारणस्यार्थः। न केवलं काशकृत्स्नीयदर्शनाश्रयेण भूतपूर्वंगत्या विज्ञातृत्वमपि तु श्रुतिपौर्वापर्यपर्यालोचनयाप्येवमेवेत्याह


भामती-व्याख्या

भिधान और (३) 'विज्ञातृ' शब्द का प्रयोग। इनमें से प्रथम हेतु का निरास जिस त्रिसूत्री के द्वारा किया गया, उसी] त्रिसूत्री के द्वारा द्वितीय हेतु का भी अपाकरण किया जाता है—"यदप्युक्तं प्रकृतस्यैव विज्ञानात्मन एवेदं द्रष्टव्यत्वं दर्शयतीति, तत्रापीयमेव त्रिसूत्री योजयितव्या"। शेष भाष्य स्पष्टार्थक है, जिसकी व्याख्या भी प्रायः पहले की जा चुकी है।

पूर्व पक्ष के तृतीय हेतु का अनुवाद करते हुए निरास किया जाता है—"यदप्युक्तं विज्ञातारमरे केन विजानीयादिति, तदपि काशकृत्स्नीयेनैव दर्शनेन परिहरणीयम्"। यहाँ पर एवकार अवधारणार्थक है अर्थात् महर्षि काशकृत्स्न के मत का आश्रयण करके ही तृतीय हेतु का निरास किया जा सकता है, क्योंकि जीव और ब्रह्म के ऐकान्ति अभेद-पक्ष में ही 'केन कं पश्येत्' (बृ० उ० २।४।१५) इस प्रकार आत्मा से अन्य कर्म और करण कारकों का एवं 'विज्ञातारमरे केन विजानीयात्' (बृह० उ० २।४।१४) इस प्रकार आत्मगत कर्मत्व का 'निषेध किया जा सकता है, भेदाभेद-पक्ष या ऐकान्तिक भेद-पक्ष में यह सब कुछ नहीं किया

५१८ | ब्रह्मसूत्रशाङ्करभाष्यम् | [अ. १ पा. ४ सू. २२

एवेदं द्रष्टव्यत्वमिति तदपि काशकृत्स्नीयेनैव दर्शनेन परिहरणीयम्। अपि च 'यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति' (बृ० २।४।१३) इत्यारभ्याविद्याविषये तस्यैव दर्शनादिलक्षणं विशेषविज्ञानं प्रपञ्च्य 'यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्' इत्यादिना विद्याविषये तस्यैव दर्शनादिलक्षणस्य विशेषविज्ञानस्याभावमभिदधाति। पुनश्च विषयाभावेऽपि आत्मानं विजानीयाद् इत्याशङ्क्य 'विज्ञातारमरे केन विजानीयात्' इत्याह। ततश्च विशेषविज्ञानाभावोपपादनपरत्वाद्वाक्यस्य विज्ञानधातुरेव केवलः सम्भूतपूर्वगत्या कर्तृवचनेन तृचा निर्दिष्ट इति गम्यते। दर्शितं तु पुरस्तात् काशकृत्स्नीयस्य पक्षस्य श्रुतिमत्त्वम्। अतश्च विज्ञानात्मपरमात्मनोरविद्याप्रत्युपस्थापि-

भामती

ॐ अपि च यत्र हि इति ॐ। कस्मात् पुनः काशकृत्स्नस्य मतमास्थीयते नेतरेषामाचार्याणामित्यत आह ॐ दर्शितं तु पुरस्ताद् इति। काशकृत्स्नीयस्य मतस्य श्रुतिप्रबन्धोपन्यासेन पुनः श्रुतिमत्त्वं स्मृतिमत्त्वं चोपसंहारोपक्रमपवाह ॐ अतश्च इति ॐ। क्वचित्पाठ आतश्चेति, तस्यावश्यं चेत्यर्थः। जननजरामरणभीतयो विक्रियास्तासां सर्वासां महानज इत्यादिना प्रतिषेधः (परिणामपक्षेऽन्यस्य चान्यभावपक्षे ऐकान्तिकाद्वैतप्रतिपादनपरा एकमेवाद्वितीयमित्यादयो द्वैतदर्शननिन्दापराश्चान्योऽसावन्योऽहमस्मीत्यादयो जन्मजरादिविक्रियां प्रतिषेधपराश्चैष महानज इत्यादयः श्रुतय उपरुध्येरन्। अपि च यदि जीवपरमात्मनोर्भेदाभेदावास्थीयेयातां ततस्तयोर्मिथो विरोधात्समुच्चयाभावादेकस्य बलीयस्त्वे नात्मनि निरपवादं विज्ञानं जायेत, बलीयसेन दुर्बलपक्षावलम्बिनो ज्ञानस्य बाधनात्। अथ तयोस्तुल्यबलत्वेनावगमान्न बलाबलावधारणं, ततः संशये सति न सुनिश्चितार्थमात्मनि ज्ञानं भवेत् सुनिश्चितार्थं च ज्ञानं मोक्षोपायः श्रूयते 'वेदान्तविज्ञान-

भामती-व्याख्या

जा सकता—यह उक्त अवधारण का तात्पर्य है। केवल काशकृत्स्नीय दर्शन के अनुरोध पर ही ब्रह्म में विज्ञातृत्व का व्यवहार पूर्वावस्था को लेकर नहीं किया जाता, अपितु पूर्वापर के वाक्यों की आलोचना से भी वही निष्कर्ष निकलता है—"अपि च 'यत्र हि द्वैतमिव भवति, तदितर इतरं पश्यति' (बृह० उ० २।४।१३) इत्यादि"। काशकृत्स्नीय मत पर ही इतनी आस्था क्यों? अन्य आचार्यों के मतों पर क्यों नहीं? इस प्रश्न का उत्तर है—"दर्शितं तु पुरस्तात् काशकृत्स्नीय पक्षस्य श्रुतिमत्त्वम्"। अनेक श्रौत और स्मार्त वाक्यों का साक्ष्य प्रस्तुत कर काशकृत्स्नीय मत का वर्चस्व स्थापित किया जाता है—"अतश्च विज्ञानात्मपरमात्मनोः"। 'अतः' के स्थान पर कहीं-कहीं 'आतः' पाठ उपलब्ध होता है, जिसका अर्थ है—'अवश्यम्'। जनन, जरा मरण और भय—ये विकार हैं, इनका प्रतिषेध "स वा एष महानज आत्मा अजरोऽमरो ब्रह्म" (बृह. उ. ४।४।२५) इस श्रुति से किया गया है। परिणाम या अन्य कारण से अन्य कार्य की उत्पत्तिरूप आरम्भवाद में "एकमेवाद्वितीयम्" इत्यादि ऐकान्तिक अभेदपरक "अन्योऽसावन्योऽहमस्मि" इत्यादि द्वैत-दर्शन-निन्दापरक एवं 'एष महानजः' इत्यादि जननादि विकार निषेधक श्रुति-वाक्य विरुद्ध पड़ जाते हैं। दूसरी बात यह भी है कि यदि जीव के परमात्मा से भेद और अभेद—दोनों माने जाते हैं, तब कोई भी ज्ञान निर्बाध और असन्दिग्ध न हो सकेगा, क्योंकि भेद और अभेद परस्पर विरुद्ध धर्म हैं, एकत्र समुचित नहीं रह सकते। उनमें एक को प्रबल और दूसरे को दुर्बल मानना होगा, अतः सबलपक्षीय ज्ञान से निर्बलपक्षीय ज्ञान का बाध (अपवाद) हो जायगा और यदि भेद और अभेद दोनों में बलाबल का निश्चय नहीं होता, तब संशयात्मक ज्ञान होगा निश्चितार्थक आत्मज्ञान न हो सकेगा किन्तु सुनिश्चितार्थक आत्मज्ञान को ही मोक्ष का साधन माना गया है—"वेदान्तविज्ञानसुनिश्चितार्थाः" (मुण्ड. ३।२।६)। भाष्यकार

द्रष्टव्यत्वेन ब्रह्मनिर्देशः ] हिन्दीसहितभामतीसंवलितम् ५१९

तनामरूपरचितदेहाद्युपाधिनिमित्तो भेदो न पारमार्थिक इत्येषोऽर्थः सर्वैर्वेदान्तवादि- भिरभ्युपगन्तव्यः । 'सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्' (छा० ६।२।१) 'आत्मवेदं सर्वम्' (छा० ७।२५।२), 'ब्रह्मैवेदं सर्वम्' (मुण्ड० २।२।११), 'इदं सर्वं यदद्यमात्मा' (बृ० २।४।६), 'नान्योऽतोऽस्ति द्रष्टा' (बृ० ३।७।२३), 'नान्यदतोऽस्ति द्रष्टृ' (बृ० ६।८।११) इत्येवंरूपाभ्यः श्रुतिभ्यः । स्मृतिभ्यश्च 'वासुदेवः सर्वमिति' (गी० ७।१९), 'क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत' (गी० १३।२), 'समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम्' (गी० १३।२८) इत्येवंरूपाभ्यः, भेददर्शनापवादाच्च 'अन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुः' (बृ० १।४।१०), 'मृत्योः स मृत्यु- माप्नोति य इह नानेव पश्यति' (बृ. ४।४।१९) इत्येवंजातीयकात् । 'स वा एष महानज आत्माऽजरोऽमरोऽमृतोऽभयो ब्रह्म' (बृ० ४ ४।२५) इति चात्मनि सर्वविक्रि- याप्रतिषेधात्, अन्यथा च मुमुक्षूणां निरपवादविज्ञानानुपपत्तेः, सुनिश्चितार्थत्वानुपप- त्तेश्च । निरपवादं हि विज्ञानं सर्वाकाङ्क्षानिवर्तकमात्मविषयमिष्यते, 'वेदान्तविज्ञान- सुनिश्चितार्थाः' (मुण्ड० ३।२।६) इति च श्रुतेः । 'तत्र को मोहः कः शोक एकत्वमनु- पश्यतः' (ईशा० ७) इति च । स्थितप्रज्ञलक्षणस्मृतेश्च (गी० २।५४) । स्थिते च


भामती

सुनिश्चितार्थाः' इति । तदेतदाह ॐ अन्यथा मुमुक्षूणाम् इति ॐ । एकत्वमनुपश्यत इति श्रुतिर्न पुनरेकत्वा- नेकत्वे अनुपश्यत इति । ननु यदि क्षेत्रज्ञपरमात्मनोरभेदो भाविकः, कथं तर्हि व्यपदेशबुद्धिभेदौ क्षेत्रज्ञः परमात्मेति ? कथञ्च नित्यशुद्धबुद्धमुक्तस्वभावस्य भगवतः संसारिता ? अविद्याकृतनामरूपोपाधिवशादिति चेत्, कस्येयमविद्या ? न तावज्जीवस्य, तस्य परमात्मनो व्यतिरेकाभावात् । नापि परमात्मनस्तस्य विद्यैकरसस्य विद्याश्रयत्वानुपपत्तेः । तदत्र संसारित्वासंसारित्वविद्याविद्यावत्त्वरूपविरुद्धधर्मसंसर्गाद् बुद्धि- व्यपदेशभेदाच्चास्ति जीवेश्वरयोर्भेदोऽपि भाविक इत्यत आह ॐ स्थिते च परमात्मक्षेत्रज्ञात्मैकत्वे इति ॐ । न तावद्भेदाभेदावेकत्र भाविकौ भवितुमर्हत इति विप्रपञ्चितं प्रथमे पादे । द्वैतदर्शननिन्दया

भामती-व्याख्या

भी यही कह रहे हैं— "अन्यथा च मुमुक्षूणां निरपवादज्ञानं न स्यात्" । "एकत्वमनुपश्यतः" (ई० ७) इस श्रुति के द्वारा एकत्वानेकत्व-दर्शी (भेदाभेद-दर्शी) का भी निरास किया गया है ।

शङ्का—यदि क्षेत्रज्ञ (जीव) और परमात्मा का अभेद है, तब उनके वाचक शब्द और उनके ज्ञानों का [ क्षेत्रज्ञः, परमात्मा—ऐसा ] भेद क्यों ? नित्य, शुद्ध, बुद्ध और मुक्तस्वरूप परमात्मा जीव के रूप में संसारी क्योंकर बनेगा ? यदि कहा जाय कि अविद्या-जनित नाम-रूप उपाधि के द्वारा ब्रह्म में कर्तृत्ववादि संसार आरोपित हो जाता है, तब जिज्ञासा होती है कि वह अविद्या किस की है ? जीव की नहीं हो सकती, क्योंकि वह ब्रह्म से भिन्न नहीं और वह अविद्या परमात्मा को भी नहीं हो सकती, क्योंकि विद्यैकरस्वरूप ब्रह्म अविद्या का आश्रय नहीं हो सकता [ आचार्य भास्कर की यही आपत्ति है— "कथं तस्य संसारित्वमिति चेत्, अविद्या- कृतनामरूपोपाधिवशादिति । तत्र ब्रूमः---कस्येयमविद्या ? न तावज्जीवस्य, वस्तुभूतस्य तस्यानभ्युपगमात् । नापीश्वरस्य, नित्यविज्ञानप्रकाशत्वादाज्ञानं विरुध्यते" (ब्र. सू. भास्कर पृ० ८२)] ।

समाधान—उक्त शङ्का का समाधान भाष्यकार ने किया है— "क्षेत्रज्ञपरमात्मैकत्व- विषये सम्यग्दर्शने क्षेत्रज्ञः परमात्मेति नाममात्रभेदात्" । भेद और अभेद दोनों एकत्र नहीं रह सकते—इस तथ्य का विस्तार से वर्णन प्रथम पाद में किया जा चुका है । द्वैतदर्शन की निन्दा और ऐकान्तिक अद्वैत के प्रतिपादन में ही सभी वेदान्त-वाक्यों का तात्पर्य पूर्वापर की

५२०ब्रह्मसूत्रशाङ्करभाष्यम्[ अ. १ पा. ४ सू. २२

क्षेत्रज्ञपरमात्मैकत्वविषये सम्यग्दर्शने क्षेत्रज्ञः परमात्मेति नाममात्रभेदात्, क्षेत्रज्ञोऽयं परमात्मनो भिन्नः परमात्माऽयं क्षेत्रज्ञाद्भिन्न इत्येवंजातीयक आत्मभेदविषयो निर्बन्धो निरर्थकः। एको ह्ययमात्मा नाममात्रभेदेन बहुधाभिधीयत इति। नहि 'सत्यं ज्ञान-

भामती

चेकान्तिकाद्वैतप्रतिपादनपराः पौर्वापर्यालोचनया सर्वे वेदान्ताः प्रतीयन्ते। तत्र यथा बिम्बवदवदातान्तः- स्विके प्रतिबिम्बानामभेदेऽपि नीलमणिकृपाणकाचाद्युपधानभेदात् काल्पनिकौ जीवानां भेदो बुद्धिशब्दव्यपदेश- भेदौ वर्तयतः-इदं बिम्बमवदातमभिमानि च प्रतिबिम्बानि नीलोत्पलपलाशश्यामनानि वृत्तदीर्घादिभेदभाञ्जि बहूनीति, एवं परमात्मनः शुद्धस्वभावाज्जीवानामभेव ऐकान्तिकेऽप्यनिर्वचनीयानाद्यविद्योपधानभेदात् काल्पनिकौ जीवानां भेदो बुद्धिव्यपदेशभेदावयं च परमात्मा विशुद्धविज्ञानानन्दस्वभावः, इमे च जीवा अविद्याशोकदुःखाद्युपद्रवभाज इति वर्तयति। अविद्योपधानं च यद्यपि विद्यास्वभावे परमात्मनि न साक्षा- दस्ति, तथापि तत्प्रतिबिम्बकल्पजीवद्वारेण परस्मिन्नुच्यते। न चैवमन्योन्याश्रयो जीवविभागाश्रयाविद्या, अविद्याश्रयश्च जीवविभाग इति, बीजाङ्कुरवदनादित्वात्। अत एव कामुद्दिश्यैष ईश्वरो मायामारचयत्य- नर्थकामुद्देश्यानां सर्गादौ जीवानामभावात्, कथं चात्मानं संसारिणं विविधवेदनाभाजं कुर्यादित्याद्यनुयोगो निरवकाशः। न खल्वादिमान् संसारो नाप्यादिमानविद्याजीवविभागो येनानुयुज्येतेति। अत्र च नाम- ग्रहणेनाविद्यामुपलक्षयति। स्यादेतत्-यदि न जीवाद् ब्रह्म भिद्यते हन्त जीवः स्फुट इति ब्रह्मापि तथा स्यात्तथा च निहितं गुहायामिति नोपपद्यत इत्यत आह ॐ नहि सत्यम् इति ॐ। यथा हि बिम्बस्य मणि-

भामती-व्याख्या

आलोचना से पर्यवसित होता है। वहाँ जैसे शुभ्र बिम्ब से प्रतिबिम्ब का अभेद होने पर भी नीलमणि, कृपाण काचादि उपाधियों के भेद से बिम्ब और प्रतिबिम्ब का काल्पनिक भेद जीवों की दृष्टि में ज्ञान और शब्द का भेद उत्पन्न कर देता है—'इदं 'बिम्बमवदातम्', 'इमानि प्रतिबिम्बानि' नीलोत्पलपलाशश्यामनानि वृत्तदीर्घादिभेदभाञ्जि बहूनि'। वैसे ही शुद्ध-स्वरूपवाले परमात्मा से जीवों का ऐकान्तिक अभेद होने पर भी अनिर्वचनीय अनादि अविद्या-रूप उपाधि के भेद से जीवों का काल्पनिक भेद ही उनके शब्दों और ज्ञानों का भेद उत्पन्न कर देता है—'अयं परमात्मा विशुद्धविज्ञानानन्दस्वभावः', 'इमे जीवा अविद्याशोकदुःखाद्युपद्रवभाजः'। यद्यपि अविद्यारूप उपाधि विद्यात्मक ब्रह्म में साक्षात् नहीं है, तथापि उस के प्रतिबिम्बभूत जीवों के माध्यम से ब्रह्म में उपचरित है। जीवों को अविद्या का आश्रय मानने पर 'जीवविभागाश्रयाऽविद्या, अविद्याश्रयश्च जीवविभागः'—इस प्रकार का अन्योन्याश्रयत्व क्यों नहीं? इस प्रश्न का उत्तर है—'बीजाङ्कुरवदनादित्वात्'। (१) सृष्टि के आरम्भ में जीवों की सत्ता न होने के कारण किसके उद्देश्य से ईश्वर माया की रचना करता है? एवं ईश्वर अपने को संसारी और विविध वेदनाओं का आश्रय क्योंकर बनाता है? इत्यादि प्रश्न भी अत एव निराधार हो जाते हैं कि न तो यह संसार अनादिमान् (सादि) है, और न अविद्या एवं जीव का विभाग ही आदिमान् है कि यह सादितामूलक आक्षेप हो जाता। "नाममात्रभेदात्"—इस भाष्य-वाक्य में "नाम' पद अविद्या का उपलक्षक है, अतः जीव और ब्रह्म में आविद्यक या अवस्तुभूत भेद का लाभ होता है।

यदि जीव ब्रह्म से भिन्न नहीं, तब जैसे जीव सभी व्यक्तियों को स्पष्ट अनुभव में आता है, वैसे ही ब्रह्म स्फुट क्यों नहीं? यदि ब्रह्म भी स्पष्ट अनुभव-गम्य है, तब उसके लिए "निहितं गुहायाम्" (तै० उ० २।१) ऐसा कहना उचित कैसे होगा इस प्रश्न का उत्तर है—"न हि 'सत्यं ज्ञानमनन्तं ब्रह्म' इत्यादि"। जैसे एक बिम्ब की मणि, कृपाणादि अनेक गुहाएँ होती हैं, वैसे ही एक ब्रह्म की जीवों के भेद से अनेक यविद्यारूप गुहाएँ हैं। जैसे प्रतिबिम्ब

दृष्टव्यत्वेन ब्रह्मनिर्देशः ] हिन्दीसहितभामतीसंवलितम् ५२१

मनन्तं ब्रह्म । यो वेद निहितं गुहायाम्' ( तै० २।६ ) इति कांचिदेवैकां गुहामधिकृत्यै- तदुक्तम् । न च ब्रह्मणोऽन्यो गुहायां निहितोऽस्ति, 'तत्सृष्ट्वा तदेवानुप्राविशत्' ( तै० २।६ ) इति स्रष्टुरेव प्रवेशश्रवणात् । ये तु निर्बन्धं कुर्वन्ति ते वेदान्तार्थं बाध- मानाः श्रेयोद्वारं सम्यग्दर्शनमेव बाधन्ते । कृतकमनित्यं च मोक्षं कल्पयन्ति । न्यायेन च न संगच्छन्त इति ॥ २२ ॥


भामती

कृपाणादयो गुहा एवं ब्रह्मणोऽपि प्रतिजीवं भिन्ना अविद्या गुहा इति । यथा प्रतिबिम्बेषु भासमानेषु बिम्बं तदभिन्नमपि गुह्यमेवं जीवेषु भासमानेषु तदभिन्नमपि ब्रह्म गुह्यम् । अस्तु तर्हि ब्रह्मणोऽन्यद् गुह्यमित्यत आह ॐ न च ब्रह्मणोऽन्यः इति ॐ । ये त्वाश्मरथ्यप्रभृतयः ॐ निर्बन्धं कुर्वन्ति ते वेदान्तार्थम् इति ॐ । ब्रह्मणः सर्वात्मना भागशो वा परिणामाभ्युपगमे तस्य कार्यत्वादनित्यत्वाच्च तदाश्रितो मोक्षोऽपि तथा स्यात् । यदि त्वेवमपि मोक्षं नित्यमकृतकं ब्रूयुस्तत्राह ॐ न्यायेन इति ॐ । एवं ये नदीसमुद्रनिदर्शनेना- मुक्तेर्भेदं मुक्तस्य चाभेदं जीवस्यातिष्ठन्त, तेषामपि न्यायेनासङ्गतिः, न जातु घटः पटो भवति । ननूक्तं यथा नदी समुद्रो भवतीति । का पुनर्नद्यभिषताऽभ्युपगतः । किं पाथःपरमाणव उतेषां संस्थानभेद, आहो- स्वित्तदारब्धोऽवयवी ? तत्र संस्थानभेदस्य वाऽवयविनो वा समुद्रनिवेशे विनाशात्, कस्य समुद्रेणैकता ? नदीपाथःपरमाणूनान्तु समुद्रपाथःपरमाणुभ्यः पूर्वावस्थितेभ्यो भेद एव नाभेदः, एवं समुद्रादपि तेषां भेद एव ।

भामती-व्याख्या

पदार्थों के स्फुटरूप में अवभासित होने पर बिम्बवस्तु प्रतिबिम्ब से अभिन्न होकर भी गुह्य [ गुहा में अवस्थित अस्फुटरूप से प्रतीयमान ] होती है, वैसे ही जीवों के स्फुटरूप में अनुभूत होने पर ब्रह्म जीवाभिन्न होकर भी गुह्य है । ब्रह्म से भिन्न अन्य किसी पदार्थ को गुह्य क्यों नहीं माना जाता ? इस प्रश्न का उत्तर है— "न च ब्रह्मणोऽन्यो गुहायां निहितोऽस्ति"

"ये तु"—यहाँ 'ये' पद से आश्मरथ्यादि भेदवादी आचार्यों का ग्रहण किया गया है। "निर्बन्धं कुर्वन्ति" का अर्थ है आग्रहं कुर्वन्ति । अर्थात् जो भेदवादी आचार्य समग्र या आंशिकरूप से जीव को ब्रह्म का परिणाम मानते हैं, उन्हें यह भी मानना पड़ेगा कि कार्य ( जन्य ) और अनित्यभूत जीव के आश्रित मोक्ष पदार्थ भी वैसा ( अनित्य ) ही है। यदि अनित्यभूत जीव के आश्रित मोक्ष तत्त्व को नित्य और अकृतक माना जाता है, तब "न्यायेन च न सङ्गच्छन्ते" । इसी प्रकार जो ओडुलोम्यादि आचार्यगण नदी-समुद्र-दृष्टान्त के आधार पर मुक्ति से पूर्व जीव और ब्रह्म का भेद एवं मुक्तावस्था में अभेद मानते हैं, उनका मत भी न्याय-संगत नहीं, क्योंकि जो पदार्थ वस्तुतः भिन्न है, वह कभी अभिन्न नहीं हो सकता, जैसे अपटरूप घट कभी पटरूप नहीं होता । आचार्य औडलोमि की ओर से जो कहा गया कि जैसे नदी भिन्न है और समुद्र भिन्न, फिर भी नदी समुद्ररूप हो जाती है, वैसे ही जीव ब्रह्मरूप हो जाता है । वहाँ जिज्ञासा होती है कि 'नदी' पद से आप क्या समझते हैं ? क्या (१) जल के परमाणु ? या जलीय परमाणुओं का विशेष संस्थान ( आकार ) ? अथवा जलीय परमाणुओं से आरब्ध ( जनित ) अवयवी द्रव्य ? इनमें संस्थान या अवयवी द्रव्य तो समुद्र में प्रवेश करने पर नष्ट ही हो जाते हैं, वे शेष ही नहीं रहते, समुद्र से एकता किस की कही जाय ? नदी के जलीय परमाणु तो समुद्र के जलीय परमाणुओं से सदैव भिन्न ही रहते हैं, कभी अभिन्न नहीं होते । समुद्ररूप अवयवी से भी उनका भेद ही रहता है ।

कुछ लोगों ( भास्कराचार्यादि ) ने काशकृत्स्नीय मत मान कर जीव को परमात्मा का अंश कहा है

५२२ ब्रह्मसूत्रशाङ्करभाष्यम् [ अ. १ पा. ४ सू. २२


भामती

ये तु काशकृत्स्नीयमेव मतमाश्रित्य जीवं परमात्मनोऽंशमाचक्ष्वतेषां कथं 'निष्कलं निष्क्रियं शान्तम्' इति न श्रुतिविरोधः ? निष्कलमिति सावयवत्वं व्यासेधति, न तु सांशत्वम् । अंशश्च जीवः परमा-त्मनो नभस इव कर्णनेमिमण्डलावच्छिन्नं नभः शब्दश्रवणयोग्यं वायोरिव च शरीरावच्छिन्नः पञ्चवृत्तिः प्राण इति चेत्, न तावन्नभो नभसोऽंशस्तस्य तत्त्वात् । कर्णनेमिमण्डलावच्छिन्नमंश इति चेत्, हन्त तर्हि प्राप्ताप्राप्तविवेकेन कर्णनेमिमण्डलं वा तत्संयोगो वेत्युक्तं भवति । न च कर्णनेमिमण्डलं तस्यांशस्तस्य ततो भेदात् । तत्संयोगो नभोधर्मत्वात्तस्यांश इति चेत्, न, अनुपपत्तेः । नभोधर्मत्वे हि तदनवयवं सर्वत्राभिन्नमिति तत्संयोगः सर्वत्र प्रथेत । नह्यस्ति सम्भवोऽनवयवमभ्याप्य वर्त्तत इति । तस्मात्तन्नास्ति चेद्व्याप्यैव, न चेद्व्याप्नोति तन्न नास्त्येव । व्याप्यैवास्ति केवलं प्रतिसम्बन्ध्यधीननिरूपणतया न सर्वत्र निरूप्यत इति चेत्, न नाम निरूप्यताम् । तत्संयुक्तं तु नभः श्रवणयोग्यं सर्वत्रास्तीति सर्वत्र श्रवण-


भामती-व्याख्या

यथा पटस्यांशोऽवयवस्तन्तुरिति । अस्ति च द्रव्यविभागवचनो यथा परिषदद्रव्ये अंशिनो वयमिहेति । तयोरिह ग्रहणं न भवति, किन्तूपाध्यवच्छिन्नास्यानन्यभूतस्य वाचकोऽयं शब्दः प्रयुक्तो यथाग्नेर्विस्फुलिङ्गस्य । कथं पुनर्निग्वयवस्य परमात्मनोऽंशः सम्भवति ? आगमात् तावदवगम्यते—"यथाग्नेः क्षुद्रा विस्फुलिङ्गाः", यथा चाकाशस्य पार्थिवाधिष्ठानावच्छिन्नं कर्णच्छिद्रं च, यथा च वायोः पञ्चवृत्तिः प्राणः, यथा च मनसः कामादयो वृत्तयः । स च भिन्नाभिन्नस्वरूपः, अभिन्नरूपं स्वाभाविकम्, औपाधिकं तु भिन्नरूपम्, उपाधीनां च बलवत्त्वात्" ( ब्र० सू० भास्कर० पृ० १४१ ) ] ।

ऐसे लोगों से पूछा जा सकता है कि "निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम्" ( श्वेता० ६।१९ ) इस श्रुति से उनका मत विरुद्ध क्यों नहीं ?

शङ्का — श्रुतिगत 'निष्कलम्' पद सावयवत्व का निषेध करता है, सांशत्व का नहीं । जीव परमात्मा का वैसे ही अंश है, जैसे महाकाश का कर्ण-नेमिमण्डल से अवच्छिन्न श्रोत्ररूप आकाश अथवा जैसे महावायु का शरीरावच्छिन्न प्राणादि पञ्चविध व्यापार से युक्त प्राण ।

समाधान — दृष्टान्त और दार्ष्टान्त का वैषम्य है, क्योंकि श्रोत्ररूप आकाश महाकाश का अंश नहीं । प्राप्ताप्राप्त-न्याय के आधार पर आकाश की अंशता किसमें पर्यवसित होती है ? इस प्रश्न का यदि उत्तर खोजा जाय, तब वहाँ या सर्वत्र अवच्छेदकावच्छिन्न-स्थल पर तीन पदार्थ प्रतीत होते हैं—(१) अवच्छेद्य, (२) अवच्छेदक और (३) अवच्छेदक का अवच्छेद्य के साथ सम्बन्ध । प्रकृत में आकाश ही अवच्छेद्य है, वह तो स्वयं अपना अंश हो नहीं सकता, क्योंकि वही अंशी है । कर्ण-नेमि-मण्डलरूप अवच्छेदक भी आकाश का अंश नहीं, क्योंकि वह पार्थिव होने के कारण आकाश से भिन्न और विजातीय है । आकाश के साथ जो कर्ण-नेमि-मण्डल का संयोग है, वह आकाश के समान ही व्यापक ही मानना होगा, क्योंकि आकाश निरवयव है, अतः उसका संयोग किञ्चिदवयवावच्छेदेन या अव्याप्यवृत्ति नहीं हो सकता । फलतः सर्वत्र शब्दोपलब्धि होनी चाहिए : निरवयव-संयोग कभी अव्याप्यवृत्ति नहीं हो सकता, अतः आकाश के साथ यदि कर्ण-नेमि-मण्डल का संयोग है, तब वह व्याप्यवृत्ति ही रहेगा । यदि वह सभी देश को व्याप्त नहीं कर सकता, तब वह है ही नहीं । यदि कहा जाय कि यद्यपि यह सर्वत्र है किन्तु संयोग सदैव अपने प्रतियोगी से निरूपणीय है, प्रतियोगी के सर्वत्र न होने के कारण सर्वत्र निरूपित नहीं हो सकता । तो वैसा नहीं कह सकते, क्योंकि उस संयोग का निरूपण भले ही न हो, स्वरूपतः तो सर्वत्र विद्यमान है, अतः श्रवण-योग्यता के सर्वत्र होने से सर्वत्र शब्द-श्रवण होना चाहिए ।

द्रष्टव्यत्वेन ब्रह्मनिर्देश ] हिन्दीसहितभामतीसंवलितम् ५२३


भामती

प्रसङ्गः । न च भेदाभेदयोरन्यतरेणांशः शक्यो निर्वक्तुम् । न चोभाभ्यां, विरुद्धयोरेकत्रासमवायादित्युकम् । तस्मादनिर्वचनीयानाद्यविद्यापरिकल्पित एवांशो नभसो न भाविक इति युक्तम् । न च काल्पनिको ज्ञानमात्रायतजीवितः कथमविज्ञायमानोऽस्ति, असंश्रांशः कथं शब्दश्रवणलक्षणाय कार्याय कल्पते ? न जातु रज्जुवामज्ञायमान उरगो भयकम्पादिकार्याय पर्याप्त इति वाच्यम्, अज्ञातत्वासिद्धेः । कार्यव्यङ्ग्यत्वादस्य । कार्योत्पादात् पूर्वमज्ञातं कथं कार्योत्पादाङ्गमिवि चेत्, न, पूर्वपूर्वकल्पोत्पादव्यङ्ग्यत्वादसत्यपि ज्ञाने तत्संस्कारानुवृत्तेरनादित्वाच्च कल्पनातत्संस्कारप्रवाहस्य । अस्तु वानुपपत्तिरेव कार्यकारणयोर्मायात्मकत्वात् । अनुपपत्तिर्हि मायामुपोद्वलयति । अनुपपद्यमानार्थत्वान्मायायाः । अपि च भाविकांशवादिनां मते भाविकांशस्य ज्ञानेनोच्छेत्तुमशक्यत्वान्न ज्ञानध्यानसाधनो मोक्षः स्यात् तदेवमाकाशांश इव श्रोत्रमनिर्वचनीयम् । एवं जीवो ब्रह्मणोऽश इति काशकृत्स्नीयं मतमिति सिद्धम् ॥ २२ ॥


स्यादेतद् — वेदान्तानां ब्रह्मणि समन्वये दर्शिते समाप्तं समन्वय लक्षणमिति किमपरमवशिष्यते


भामती-व्याख्या

अंश अपने अंशी से भिन्न है ? या अभिन्न ? अथवा भिन्नाभिन्न ? इनमें से किसी प्रश्न का भी समुचित उत्तर नहीं बनता—यह विगत पृ० १३६ पर भी विस्तारपूर्वक कहा जा चुका है, फलतः अनिर्वचनीय अनादि अविद्या के द्वारा आकाशादि निरंश पदार्थों के अंश परिकल्पित मात्र होते हैं, वास्तविक नहीं—ऐसा मानना ही युक्ति-युक्त है । काल्पनिक पदार्थ ज्ञानैकस्वरूप होते हैं, कभी अज्ञातमान स्वरूप सत् नहीं होते । असद्भूत अंश व्यावहारिक शब्दादि-श्रवण के योग्य क्योंकर होगा ? रज्जु में कल्पित अज्ञातमान सर्प व्यावहारिक भय एवं कम्पादि का जनक क्योंकर होता है ? इस प्रश्न का उत्तर यह है कि वह अज्ञातमान नहीं, अपि तु ज्ञायमान ही होता है, क्योंकि भय-कम्पादि कार्य ही उसकी ज्ञायमानता के व्यञ्जक होते हैं । यद्यपि वर्तमान कार्य की उत्पत्ति पूर्वतन सर्पादि की ज्ञातता का कल्पक नहीं, तथापि पूर्व-पूर्व कार्यों की उत्पत्ति के द्वारा उसमें ज्ञातत्व की अभिव्यक्ति हो जाती है । यद्यपि वृत्त्यात्मक ज्ञान विनश्वर है, तथापि उसके संस्कार अनुवृत्त रहते हैं, अतः ज्ञान अपने संस्कारों के माध्यम से अनुवृत्त रह कर अपने कल्पित पदार्थ में ज्ञातत्व ध्वनित कर देता है । संस्कारों की सत्ता पूर्व-पूर्व अनुमान के आधार पर होती है, कल्पना और संस्कारों का साध्य-साधनभाव बीज-वृक्ष के समान अनादि माना जाता है, अतः अनवस्थादि दोष प्रसक्त नहीं होते । काल्पनिक कारण से कार्य की उपपत्ति यदि नहीं हो सकती, तब अनुपपत्ति ही सही । मायिक वस्तु के लिए अनुपपत्ति कोई दोष नहीं, क्योंकि आचार्य मण्डन मिश्र कहते हैं—"न हि मायायां काचिदनुपपत्तिः, अनुपपद्यमानार्थैव हि माया" ( ब्र० सि० पृ० १० ) । दूसरी बात यह भी है कि जो लोग अंश को भाविक ( वास्तविक ) मानते हैं, वास्तविक पदार्थ का ज्ञान से उच्छेद हो नहीं सकता, अतः ज्ञान-ध्यानादि से बन्धन की निवृत्ति और मोक्ष की प्राप्ति क्योंकर होगी ? अतः जैसे श्रोत्ररूप आकाश का अंश अनिर्वचनीय है, वैसे ही जीव भी ब्रह्म का अंश है—ऐसा आचार्य काशकृत्स्न का मत स्थिर होता है ॥ २२ ॥


सङ्गति—ब्रह्म में विविध वेदान्त-वाक्यों का समन्वय दिखाया गया । इतने मात्र से इस समन्वयाध्याय का उद्देश्य पूरा हो जाता है, अब और क्या शेष रह गया कि जिसके लिए इस अधिकरण की रचना की गई ? इस शङ्का का निराकरण करने के लिए भाष्यकार