भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)
Bhamati of Vachaspati Mishra Hindi
वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द) द्वारा
स्रोत: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (उद्गम)
पृष्ठ 580, कुल 639 में से
संदर्भ में पढ़ें| ५६२ | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. २ पा. १ सू. १२ |
|---|
तर्कस्य प्रतिष्ठितत्वमुपलक्ष्यते, तथापि प्रकृते तावद्विषये प्रसज्यत एवाप्रतिष्ठितत्वदो- षादनिर्मोक्षस्तर्कस्य, न हीदमतिगम्भीरं भावयाथात्म्यं मुक्तिनिबन्धनमागममन्तरे- णोत्प्रेक्षितुमपि शक्यम् । रूपाद्यभावाद्धि नायमर्थः प्रत्यक्षगोचरः, लिङ्गाद्यभावाच्च नानुमानादीनामिति चावोचाम । अपि च सम्यग्ज्ञानान्मोक्ष इति सर्वेषां मोक्षवादिना- मभ्युपगमः । तच्च सम्यग्ज्ञानमेकरूपम्, वस्तुतन्त्रत्वात् । एकरूपेण ह्यवस्थितो योऽर्थः स परमार्थः । लोके तद्विषयं ज्ञानं सम्यग्ज्ञानमित्युच्यते—यथाग्निरुष्ण इति । तत्रैवं सति सम्यग्ज्ञाने पुरुषाणां विप्रतिपत्तिरनुपपन्ना । तर्कज्ञानानां त्वन्योन्यविरोधात्प्र- सिद्धा विप्रतिपत्तिः । यद्धि केनचित्तार्किकेणेदमेव सम्यग्ज्ञानमिति प्रतिपादितं तदपरेण व्युत्थाप्यते, तेनापि प्रतिष्ठापितं ततोऽपरेण व्युत्थाप्यत इति प्रसिद्धं लोके, कथमेक- रूपानवस्थितविषयं तर्कप्रभवं सम्यग्ज्ञानं भवेत् ? न च प्रधानवादी तर्कविदामुत्तम इति सर्वैस्तार्किकैः परिगृहीतो येन तदीयं मतं सम्यग्ज्ञानमिति प्रतिपद्येमहि । न च शक्यन्तेऽतीतानागतवर्तमानास्तार्किका एकस्मिन्देशे काले च समाहर्तुं येन तन्मतिरे- करूपैकार्थविषया सम्यङ्मतिरिरिति स्यात् । वेदस्य तु नित्यत्वे विज्ञानोत्पत्तिहेतुत्वे च सति व्यवस्थितार्थविषयत्वोपपत्तेः, तज्जनितस्य ज्ञानस्य सम्यक्त्वमतीतानागतवर्त- मानैः सर्वैरपि तार्किकैरपह्नोतुमशक्यम् । अतः सिद्धमस्यैवौपनिषदस्य ज्ञानस्य सम्य- ग्ज्ञानत्वम् । अतोऽन्यत्र सम्यग्ज्ञानत्वानुपपत्तेः संसाराविमोक्ष एव प्रसज्येत । अत आगमवशेनैवागमानुसारितर्कवशेन च चेतनं ब्रह्म जगतः कारणं प्रकृतिश्चेति स्थितम् ॥ ११ ॥
( ४ शिष्टापरिग्रहाधिकरणम् । सू० १२ )
एतेन शिष्टापरिग्रहा अपि व्याख्याताः ॥ १२ ॥
भामती
जगत्कारणसत्त्वे स्वाभाविकप्रतिबन्धध्वंस लिङ्गमस्ति । यत्तु साधर्म्यवैधर्म्यमात्रं, तदप्रतिष्ठादोषान्न मुच्यत
इति कल्पान्तरेणानिर्मोक्षपदार्थमाह ॐ अपि च सम्यग्ज्ञानान्मोक्षः इति ॐ । भूतार्थगोचरस्य हि
सम्यग्ज्ञानस्य व्यवस्थितवस्तुगोचरतया व्यवस्थानं लोके दृष्टं, यथा प्रत्यक्षस्य । वैदिकं चेदं चेतनजगदुपा-
दानविषयं विज्ञानं वेदोत्थतर्केतिकर्तव्यताकं वेदजनितं व्यवस्थितं वेदानपेक्षेण तु तर्केण जगतत्कारणमेवम-
वस्थापयतां तार्किकाणामन्योन्यं विप्रतिपत्तेस्तत्त्वनिर्धारणकारणाभावाच्च न ततस्तत्त्वव्यवस्थेति न ततः
सम्यग्ज्ञानम्, असम्यग्ज्ञानाच्च न संसाराद्विमोक्ष इत्यर्थः ॥ ११ ॥
भामती-व्याख्या
समाधान—कथित शङ्का का परिहार स्वयं सूत्रकार ने किया है—"एवमपि
अविमोक्षप्रसङ्गः।" आशय यह है कि सत्यार्थविषयक सम्यक् ज्ञान व्यवस्थित वस्तु का
प्रतिष्ठापक होने के कारण लोक में प्रतिष्ठित माना जाता है, जैसे—प्रत्यक्ष चेतनगत जगत् की
उपादानता का प्रमापक प्रकृत वैदिक विज्ञान व्यवस्थित है, क्योंकि वेदोत्थित तर्क की
सहायता लेकर वैदिक वाक्यों ने उसको जन्म दिया है किन्तु वेद-निरपेक्ष शुष्क तर्क के द्वारा
तार्किकगण जो परमाणु आदि को जगत् का उपादान कहते हैं, उनकी परस्पर-विप्रतिपत्ति
होने के कारण तत्त्वावधारण सम्भव नहीं, अतः उनका ज्ञान सम्यक् ज्ञान नहीं, असम्यक् ज्ञान
संसार-बन्धन से मोक्ष नहीं दिला सकता ॥ ११ ॥