चक्रदत्त (चक्रपाणिदत्त - पदार्थचन्द्रिका व हिन्दी व्याख्या सहित)
Chakradatta Hindi
महामहोपाध्याय चक्रपाणिदत्त द्वारा
स्रोत: Chakradatta Chikitsa Sangraha with Hindi Commentary (उद्गम)
पृष्ठ 269, कुल 674 में से
संदर्भ में पढ़ें२५० चक्रदत्त—२२. वातव्याध्यधिकारमु.
कं दशमूलाच्छतं शतं, शतं वाट्यालकस्यापि शतं सह-
चरस्य च। २०९। जलद्रोणशतं दत्त्वा शतभागावशेषितं, ततस्तेन
कषायेण कषायद्विगुणेन च। २१०। सुव्यक्तेनारनालेन दधिमं-
डाढकेन च, क्षीरशुक्तैक्षुनिर्यासमच्छागमांसरसाढकैः। २११। तैलं
द्रोणं समायुकतं दृढे पात्रे निधापयेत्, द्रव्याणियानि
पेष्याणि तानि वक्ष्याम्यतःपरं। २१२। भल्लातकं नतं शुण्ठी
पिप्पली चित्रकं शठी, वचा स्पृक्का प्रसारण्याः पिप्पल्यामूल-
मेव च। २१३। देवदारुशाताह्वा च सूक्ष्मैलात्वचवालुकं,
कुंकुमं मदमंजिष्ठा तुरुष्कं नखकागुरु। २१४। कर्पूर-
कुन्दुरुनिशालवंगध्यामचंदनं, कक्कोलनलिकामुस्तं कालीयो-
त्पलपत्रकं। शशिना रेणुकैलेयश्रीवासं च सकेतकं, त्रिफला
कच्चूराभीरु सरलापद्मकेशरं, प्रियंगूशीर नलदं जीवका-
द्वयं पुनर्नवा। २१५। दशमूल्यश्वगंधे च नागपुष्पं रसां-
जनं, कटुकजातिपूगानां फलानि शल्लकीरसं। २१६। भागांस्त्रिफ-
लिकांदत्त्वा शनैर्मृद्वग्निना पचेत्, विस्तीर्णे सुदृढे पात्रे पाक्यो-
पा तु प्रसारणी। २१७। प्रयोगः षड्विधश्चात्र रोगार्तानां
विधीयते, अभ्यंगात्त्वग्गतं हन्ति पानात्कोष्ठगतं तथा। २१८। भोज-
नात्स्नायुनाडीस्थान् नस्यादूर्ध्वगतं तथा, पक्वाशयगते व-
स्तिः निरूढः सर्वकायके। २१९। एतद्धि बडबाश्वानां किशोराणां
यथामृतं, एतदेव मनुष्याणां कुंजराणां गवामपि। २२०।
अनेनैव च तैलेन शुष्यमाणा महाद्रुमाः, सिक्ताः पुनः प्ररो-
हन्ति भवन्ति फलशाखिनः। २२१। वृद्धोऽप्यनेन तैलेन पुनश्च तरुणा-
यते, न प्रसूते च या नारी सापि पीत्वा प्रसूयते। २२२।
अप्रजः पुरुषो यस्तु सोऽपि पीत्वा लभेत्सुतम्, अशीतिं वातजा-
न्रोगा न्पैत्तिकाञ्छ्लैष्मिकानपि। २२३। सन्निपातसमुत्थांश्च नाशयेत्