हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)
Hammira Mahakavya with Hindi Commentary
नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा
पृष्ठ 132, कुल 185 में से
संदर्भ में पढ़ेंहम्मीरदेवदिग्विजयवर्णनम् ८३ दंतिदंते पदं दत्त्वा प्रहरंतो निषादिनः । चेतांसि पातयामासुः सादिनां रथिनामपि ॥ १३९ ॥ निषादिनो न ते ते न सादिनो न च ते भटाः । उर पूरमपूर्यंत चाहमानशरैर्न ये ॥ १४० ॥ हयान्केचिद्गजान्केचित् शस्त्राण्येके रथान्परे । हायं हायं स्म नश्यंति काकनाशां शकायुधाः ॥ १४१ ॥ केचित्तृणं दधुर्दंतैर्निपेतुः केपि पादयोः । खङ्गैरिष्यवदन्केपि जीवं त्रातुं शक्नुवः ॥ १४२ ॥ इत्थं भंक्त्वा शतानीकं भीमसिंहो न्यवर्त्तत । अनुपतस्थे प्रच्छन्नमुलूखानो प्यमर्षणः ॥ १४३ ॥ बाहुजा लुंठितानेक—स्वर्णकोटीरकंकटाः । जितकाशितया भीमं पश्चात्त्यक्त्वाऽगमन्पुरः ॥ १४४ ॥ अद्रिघट्टान् विशन् भीम—सिंहोपि परया मुदा । आच्छिद्य स्वीकृतान्युधैः शकवाद्यान्यवीवदन् ॥ १४५ ॥ यत्र यत्र स्वकातोद्य—निर्घोषः प्रसरत्परं । तत्र तत्र जयं मत्वा गंतव्यं निखिलैरपि ॥ १४६ ॥ इति संकेतनाद्भ्रांता मन्वाना जयमात्मनः । तदाभाव्यर्थभावेन मिमिलुर्यवना जवात् ॥ १४७ ॥ मिलितं स्वबलं वीक्ष्य शको योद्धुमढौकत । वव्रे भीमसिंहोपि तादृशाः किमु कातराः ॥ १४८ ॥ तत्र कृत्वा महायुद्धं शकान् हत्वा परः शतान् । कांडखंडितसर्वांगो भीमसिंहो व्यपद्यत ॥ १४९ ॥ जितकाशी शकेंद्रोपि शिबिरं प्राप्य सत्वरं । बाहुजेभ्यः पुनर्बिभ्यत् वव्रे स्वपुरं प्रति ॥ १५० ॥ अथ पूर्णव्रतो धर्म—सिंह मल्याद्रिघट्टकान् । हित्वा गतं नृपो भीम—सिंहं मत्वा तमाह्वयत् ॥ १५१ ॥