भारतकोश
संग्रह पर लौटें

हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)

Hammira Mahakavya with Hindi Commentary

नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा

DevanagariSanskritpublished185 पृष्ठ

हम्मीरदेवदिग्विजयवर्णनम् ८३ दंतिदंते पदं दत्त्वा प्रहरंतो निषादिनः । चेतांसि पातयामासुः सादिनां रथिनामपि ॥ १३९ ॥ निषादिनो न ते ते न सादिनो न च ते भटाः । उर पूरमपूर्यंत चाहमानशरैर्न ये ॥ १४० ॥ हयान्केचिद्गजान्केचित् शस्त्राण्येके रथान्परे । हायं हायं स्म नश्यंति काकनाशां शकायुधाः ॥ १४१ ॥ केचित्तृणं दधुर्दंतैर्निपेतुः केपि पादयोः । खङ्गैरिष्यवदन्केपि जीवं त्रातुं शक्नुवः ॥ १४२ ॥ इत्थं भंक्त्वा शतानीकं भीमसिंहो न्यवर्त्तत । अनुपतस्थे प्रच्छन्नमुलूखानो प्यमर्षणः ॥ १४३ ॥ बाहुजा लुंठितानेक—स्वर्णकोटीरकंकटाः । जितकाशितया भीमं पश्चात्त्यक्त्वाऽगमन्पुरः ॥ १४४ ॥ अद्रिघट्टान् विशन् भीम—सिंहोपि परया मुदा । आच्छिद्य स्वीकृतान्युधैः शकवाद्यान्यवीवदन् ॥ १४५ ॥ यत्र यत्र स्वकातोद्य—निर्घोषः प्रसरत्परं । तत्र तत्र जयं मत्वा गंतव्यं निखिलैरपि ॥ १४६ ॥ इति संकेतनाद्भ्रांता मन्वाना जयमात्मनः । तदाभाव्यर्थभावेन मिमिलुर्यवना जवात् ॥ १४७ ॥ मिलितं स्वबलं वीक्ष्य शको योद्धुमढौकत । वव्रे भीमसिंहोपि तादृशाः किमु कातराः ॥ १४८ ॥ तत्र कृत्वा महायुद्धं शकान् हत्वा परः शतान् । कांडखंडितसर्वांगो भीमसिंहो व्यपद्यत ॥ १४९ ॥ जितकाशी शकेंद्रोपि शिबिरं प्राप्य सत्वरं । बाहुजेभ्यः पुनर्बिभ्यत् वव्रे स्वपुरं प्रति ॥ १५० ॥ अथ पूर्णव्रतो धर्म—सिंह मल्याद्रिघट्टकान् । हित्वा गतं नृपो भीम—सिंहं मत्वा तमाह्वयत् ॥ १५१ ॥

८४ श्रीहम्मीरमहाकाव्ये { सर्गः स्फुटिते चक्षुषी नूनं यन्नादर्शि शक्रो बली । स्वयं पश्चाद्गदस्थासी स्तन्न पुंस्त्वमपि त्वयि ॥ १५२ ॥ साक्रोशमित्युपालभ्या—भित्सर्त्स्य भूपतिर्मुहुः । मुष्कयुग्मच्छिदा पूर्वं तद्दृशौ निरचीकरत् ॥ १५३ ॥ षंडोविंदुरवत्तस्य राज्ञोऽभूदनुजो जयी । भोजदेवाभिधः खड्—ग्राहीत्यपरनामभाक् ॥ १५४ ॥ धर्मसिंहपदं तस्मै तुष्टोथ प्रददे नृपः । तं च निर्वासयन् देशादमुनैव न्यषिध्यत ॥ १५५ ॥ अथापमानात्सोभ्येत्य गुप्तवैरः स्वमंदिरं । अधीतीभरते धारां देवीं नृत्यमशिक्षयत् ॥ १५६ ॥ तां च प्रेष्यानिशं नृत्य—च्छलात्पार्थिवपर्षदि । वेश्मस्थोपि विदामास स सर्वं नृपतिस्थितिं ॥ १५७ ॥ चिंताचितांगी सान्येद्यु रागता नृपपर्षदः । पृष्टांऽधेन जगौ चिंता—कारणं हृद्दिदारणं ॥ १५८ ॥ ताताद्य वेधरोगेण मृताऽश्वश्रवणात् विभोः । प्रीत्यै न गीतनृत्यादि चिंता तेनेयमुल्बणा ॥ १५९ ॥ श्रुत्वेयसाविमामाह चिंता मास्म कृथा वृथा । तं प्राप्तावसरं किंतु पार्थिवं प्रार्थयेरिति ॥ १६० ॥ आसाद्यते विभो धर्म—सिंहश्चेत्स्वपदं पुनः । मृतेभ्यो द्विगुणानश्वा न्तदसावानयेत्पुनः ॥ १६१ ॥ ओमिति प्रतिपद्यैषा गता राज्ञे तदूचिषी । लोभात्सोप्यंधमाहूया—ध्यक्षार्षीत्स्वपदे पुनः ॥ १६२ ॥ विवेकदीपो दीप्येत तावद्धृदि सतामपि । तृष्णाझंझामरुद्याव न्न भजेदुन्मदिष्णुतां ॥ १६३ ॥ तृष्णावलिरियं कापि नैवेव प्रतिभासते । सद्विवेककुठारोगा न्न वरं यत्र कुंठतां ॥ १६४ ॥

९ ] हम्मीरदेवदिग्विजयवर्णनम् ८५ बिंदवोपि स्फुरल्लोभ—मदेनांधंभाविष्णवः । सपत्नान्सोदरीयंति सपत्नीयंति सोदरान् ॥ १६५ ॥ प्रचिकीर्षन्नथामर्षा दंधो वैरप्रतिक्रियां । चक्रे तद्राज्यमुच्छेत्तुं स उपायान्दुराशयान् ॥ १६६ ॥ लोभदृष्टिं नृपं कृत्वा द्रविणादानवर्त्मना । स प्रजाः पीडयामास चंडदंडप्रपातनैः ॥ १६७ ॥ गृह्णन्नश्वधनेभ्योऽश्वान् धनवद्भ्यो धनानि च । क्रूरकर्मा स लोकानां क्षयकाल इवाभवत् ॥ १६८ ॥ द्रव्यैः संपूरयन्कोशं राज्ञोऽभूत् भृशवल्लभः । वेश्यानां च नृपाणां च द्रव्यदो हि सदा प्रियः ॥ १६९ ॥ प्रजादंडेने यत्तेने प्रतेने कोशवर्धनं । तत्किं स्त्रस्यैव मांसेन न स्वदेहोपबृंहणं ॥ १७० ॥ अथ स्वपदभोक्तृत्वात् बद्धवैराश्चिरं हृदि । स भुक्ताव्दव्ययादाय—शुद्धिं भोजमयाचत ॥ १७१ ॥ क्रुद्धौऽधस्फूर्तिमालोक्य भोजदेवोथ सत्वरं । गत्वा व्यजिज्ञपत् भूपं मौलिमौलीपितांजलिः ॥ १७२ ॥ देवस्य यदि मे प्राणैः कार्यं गृह्णातु तर्हि तान् । न सहे परमंधस्य वाक्यतोदकदर्थनां ॥ १७३ ॥ निजगाद नृपो यस्य मयि भक्तिरनश्वरी । न लुप्यतेऽत्र केनापि धर्मसिंहस्य शासनं ॥ १७४ ॥ स्वामीव स्वामिनां मान्यः सेवनीयो ऽनुजीविभिः । सुस्थिरस्थाणुसत्कारात् अनड्डान् किन्न पूज्यते ॥ १७५ ॥ भाषणेनामुना रौद्र—दृग्वक्त्रालोकनेन च । नृपं दुष्टाशयं ज्ञात्वा भोजदेवः स शुद्धधीः ॥ १७६ ॥ निरीहचित्तवत् तस्य सर्वस्वमपि दत्तवान् । मूलाद्विनष्टे कार्ये हि किं कुर्यात् बलवानपि ॥ १७७ ॥ युग्मं ॥

८६ श्रीहम्मीरमहाकाव्ये [ सर्गः तथाप्येषोभिजातत्वा दजहन् स्वामिभक्ततां । योगीव परमं ब्रह्म भोजो भूपमसेवत ॥ १७८ ॥ अन्येद्युर्नृपतिर्वैज - नाथयात्रामुपागतः । दृष्ट्वा पृष्ठस्थितं भोज मन्योक्त्येदमभाषत ॥ १७९ ॥ संख्येयांत्र पदे पदेपि बहवः क्षुद्रा निकामं खगा नो कुत्रापि समोस्ति गर्ह्य इतरः काकाद्धराकात्परं । क्रोधाविष्ट पटिष्ट घूकनिकरास्याग्रोत्थकोटिक्षतै- स्नुत्यत्पक्षचयोपि यत्तरूतटं नापत्रपः प्रोज्झति ॥ १८० ॥ अनयाऽन्योक्तिकौमुद्या भोजोऽम्भोजमिवास्तरूक् । वेश्मागत्य रहः पीथ - सिंहं सोदरमब्रवीत् ॥ १८१ ॥ देवोद्यकल्प उत्पश्य वचनैर्दुर्मनायितः । सेवा हेवाकिनोप्यस्मा न्तृणान्यापि मन्यते ॥ १८२ ॥ अवाप्तामेयसाम्राज्य -- मदमोहितमानसाः । यदि वा पार्थिवा नैव क्वचिदेकांतवत्सलाः ॥ १८३ ॥ यात्राव्याजेन तद्यामो दिनानि कतिचित् बहिः । कालक्षेपोऽशुभे श्रेयान् नीतिविद्भि र्जगे यतः ॥ १८४ ॥ संमंत्र्य सोदरेणैवं भूपं गत्वा व्यजिज्ञपत् । काश्यां व्रजामि यात्रायै यद्यादिशति भूपतिः ॥ १८५ ॥ जगाद भूपति र्यासि परतः परतो न किं । विना भवंतमप्येवं पुरं संशोभते पुरा ॥ १८६ ॥ इत्याकृष्टोपि कौलिन्या त्क्षमामेव क्षमापतौ । बिभ्राणः प्रचचालैषो ऽनुकाशीं सपरिच्छदः ॥ १८७ ॥ तस्मिन् गते क्षितिपतिः प्रसरत्प्रमोद- र्दण्डनायकपदे रतिपालवीरं । युक्त्याभिषिच्य जगदेकहितत्रिवर्ग- संसर्गतोतिसरसान् दिवसाननैषीत् ॥ १८८ ॥

९ ] हम्मीरदेवदिग्विजयवर्णनम् ८७ इति श्रीजयसिंहसूरिशिष्यमहाकविश्रीनयचंद्रसूरिविरचिते श्रीहम्मीरम- हाकाव्ये वीराङ्के हम्मीरदेवदिग्विजयवर्णनोनाम नवमः सर्गः ॥ ॥ अथ दशमः सर्गः ॥ धरणीरमणापमानना दथ भोजः सशिरोरुहामगतः । परिभाव्य मुहुः स्वदुर्दशा मभिमानेन हृदीयचिंतयत् ॥ १ ॥ विततान विनापि कारणं नरनाथो मम यां तिरस्क्रियां । विदधे यदि तत्प्रतिक्रियां न तदा केव मनस्विनां गतिः ॥ २ ॥ गुणवानपि वक्रतां गतः पुरुषश्चाप इवातिभीषणः । स शरैरिव दुर्जनैर्नयतो गुणमुक्तैस्तनुतेऽतिपीडनं ॥ ३ ॥ अपमानपरेपि यो नरे शममेव प्रयतोऽवलंबते । अपि शूकशिखा ततो वरं व्यथयत्यंघ्रिमसौ तदाऽहता ॥ ४ ॥ अपकारपरान्सहोदरान् अपि हन्यान्निल नास्ति पातकं । अभिमानवतां नयोन्मुखैः स्थितिरेशा जगदे सनातनी ॥ ५ ॥ सुहृदां यदि वा विरोधिनां क्रिययैव क्रियते परीक्षणं । सुहृदप्यपकारकृत् द्विष न्नुपकारी तु सुहृद्विपन्नपि ॥ ६ ॥ सहतेऽरिकृतं पराभवं ननु यः क्लीबमना मनागपि । जनिरेव जनिष्ट तस्य मा जननी यौवनगर्वगर्हिणी ॥ ७ ॥ परिपृच्छय ततः सहोदरं पिथर्म सन्मतिवासमंदिरे । अगमल्लघुयोगिनीपुरं यवनानां समगच्छदीश्वरं ॥ ८ ॥ तादृक्कुलीनोपि तदा स भोज - देवोऽधुनाऽङ्गीकृतवान्यदेवं । तन्म्लेच्छभूजृंभितमेव तस्मात् सतां न तद्रूरपि वासयोग्या ॥ ९ ॥ तत्समागममहर्षवशात्मा ऽल्लावदीननृपतिः स ततोऽस्मै । वस्त्रनिर्वपणपूर्वमयच्छ न्मुद्गलेशनगरीं जगरां तां ॥ १० ॥ तत्र चित्ररुचिभाजि स भोजः सोदरं स्वमदरं परिमुच्य । छाग् स्वयं पुनरुपेत्य च दिल्हीं सेवतेस्म शकनायकमॆव ॥ ११ ॥

८८ श्रीहम्मीरमहाकाव्ये [सर्गः

प्रौढमानमनुघस्रममानैः कांतकांचनहयादिकदानैः । तं तथापुषदसावपि भूपो जायतेस्म स यथा निज एव ॥ १२ ॥ तं विपक्षर्माप यत्सदकार्षीत् साक् शक्रस्तदुचितोचितमेव । अन्यथा कथमिवारिजयेऽसौ जागदीति निरपायमुपायं ॥ १३ ॥ आत्मनीनमधिगत्य समुच्चै रन्यदेति यवनेदुरपृच्छत् । ब्रूहि भोज कथमेष हम्मीरो जीयते युधि मया द्रुतमेव ॥ १४ ॥ सत्यमेव यदि पृच्छसि कार्य स्तर्हि नो मम गिरीश्वर कोपः । इत्युदीर्य गिरमाहितभारा माततान गतभीरथ भोजः ॥ १५ ॥ शैथिल्यं कुंतलेषु प्रसभमुपनयन् पीडयन्मध्यदेशं स्थानभ्रष्टां च कांचीं विदधदुपचयन् काममंगेषु लीलां । यो भूमेश्चंचलाक्ष्याः पतिरिव तनुते भाग्यसौभाग्यलक्ष्मीं सः श्रीहम्मीरवीरः समरभुवि कथं जीयते लीलयैव ॥ १६ ॥ दीपः पर्यायशेषः स्फुरदरुणमणीदीप्तिराकारशेषः सूरोप्याख्यानशेषः प्रलयशिखिशिखाश्रेणिराभासशेषः । यस्य प्रौढप्रतापे प्रसरति नितमां क्षोणिपीठे क्षितींदोः सः श्रीहम्मीरवीरः समरभुवि कथं जीयते लीलयैव ॥ १७ ॥ यस्मिन् शश्वन्निवासा ऋतव इव गुणा हायने षट् क्षितींदौ श्रित्वा तिस्रोपि तस्थुः पुरुषमिव गुणा यं परं शक्तयोपि । अंगैः स्फीता यथोक्तैः प्रथयति पटुतां यस्य विद्येव सेना सः श्रीहम्मीरवीरः समरभुवि कथं जीयते लीलयैव ॥ १८ ॥ यं व्यालोक्यापि खड्गग्रहणपटुकरं बिभ्यतां पार्थिवानां निःश्वासो नासिदंडो न च कुलममलं नापि शौर्यं न धैर्यं । किंचैकं तूर्णमेवापसरणमयते ध्यानमार्गेऽध्वगवं सः श्रीहम्मीरवीरः समरभुवि कथं जीयते लीलयैव ॥ १९ ॥ अश्रांतस्त्राविदानोच्छलितपरिमलाकृष्टगुंजद्विरेफ- श्रेणीदिट्टुंभिकुंभस्थलदलनकलाकेलिकंदूलहस्तः ।

१० ] भोजदेवसंवादवर्णनम् ८९ सोदर्यो यस्य वीरव्रजमुकुटमणीर्वीरमो विश्वजेता सः श्रीहम्मीरवीरः समरभुवि कथं जीयते लीलयैव ॥ २० ॥ तद्वातुलुंठितार्थाऽर्यननिविदमते र्मानमुन्मूलयंन्तो निःशंके मेनिरे तां स्फुटसुभटतया ये तृणायापि नैव । औदीच्यास्तेऽपि सेवां विदधति महिमासाहिमुख्या यदीयां सः श्रीहम्मीरवीरः समरभुवि कथं जीयते लीलयैव ॥ २१ ॥ देशो यस्याप्युदग्रं कृतसुकृतजनाचारचारुप्रदेशो दुर्गे दुर्गाह्यमेवाहितधरणिभुजां श्रेणिभिश्श्वेतसापि । अन्योन्यस्पर्द्धिवीर्याऽजिनगुणिगणसोप्याहवे वीरवाराः सः श्रीहम्मीरवीरः समरभुवि कथं जीयते लीलयैव ॥ २२ ॥ अंगो नांगानि धत्ते कलयति न पुनर्युद्धलिंगं कलिंगः काश्मीरः स्मेरमास्यं न वहति तनुते शौर्यसंगं न वंगः । गार्जे नो गुर्जरेंद्रः प्रथयति पृथुधीर्धैर्य्य कौशेयकापे सः श्रीहम्मीरवीरः समरभुवि कथं जीयते लीलयैव ॥ २३ ॥ यस्याग्रे नैव किंचिद्————पतिर्भातिशुष्कोठकंठो र्यं नात्यक्षनाथः प्रथितकृपणधीर्जीवरक्षामभीप्सुं । आत्मक्षेमाय मंत्रं जपति गजपतिर्यत्कटाक्षेण दृष्टः सः श्रीहम्मीरवीरः समरभुवि कथं जीयते लीलयैव ॥ २४ ॥ शूरः कश्चन कश्चनापि मतिमान्दाक्षिण्यवान्कश्चन प्राज्ञः कश्चन कश्चनापि सुकृती दाता पुनः कश्चन । इत्येकैकगुणप्ररूढमहिमा जागर्ति भूयान् जनः सर्वैः श्रेष्ठगुणैरधिष्ठिततनुर्हम्मीरवीरः परं ॥ २५ ॥ एतस्याधिपतेस्तयोन्नतकरांभोजप्रसादोदयात् दोष्मंतः श्रियमाप्नुवंति तदिदं मंस्या स्म मात्यद्भुतं । किं चिंतामणयः स्फुरंति न नखाः किं कामधेनो स्तना नांगुल्यस्तलमस्य वा किसलयाः कल्पद्रुमाणां न किं ॥ २६ ॥ 12 k

९० श्रीहम्मीरमहाकाव्ये [सर्गः संग्रामेष्वस्य तुरंगनिष्ठुरखुरोत्खातैरजोभिः क्षणात् पंकत्वं गमिते मिलद्रिपुशिरश्छेदोच्छलच्छोणितैः । व्योम्नो मध्यपथे रथस्खलनतामाशंकमानोर्यमा ऽवाचीं कर्ह्यपि चंचरीति भगवान् कर्ह्युप्युदीचीमपि ॥ २७ ॥ दीपस्येव समीरणः सरसिजश्रेणेरिवांभोधरः सूर्यस्येव दिनात्ययो यतिवरस्यैवेणदृक्संगमः । देहस्येव गदोदयो गुणगणस्यैवातिलोभाश्रयः तद्राज्यस्य विनाशहेतुरधुनैकोधः परं दीव्यति ॥ २८ ॥ तदमुं जिगीषसि यदीश सर्वथा त्वरया तदा प्रवितर प्रयाणकं । यदमुष्य नीव्वदधुना न वोल्लसत् सुमनप्ररोहहरितीकृताव्निः ॥ २९ ॥ ननु तेषु मक्ष्वपि कथावशेषतां गमितेषु भूप भवदीयसैनिकैः । जहति प्रजा अमुमिता निराशातां गतनेत्रचंडतरदंडनात्पुरा ॥ ३० ॥ आचम्येत्थं तस्य वाचं शकाना मीशो ऽप्युल्लूखानमाहूय सद्यः । दत्वा लक्षं सादिनः सादितारीन् देशं येनाचीचलचाहमानं ॥ ३१ ॥ उल्लूखानः पूरवत्सोथ वार्धे वृत्तिं शत्रून् प्रापयन् वैतसीं खाक् । क्षत्रोत्तंसान्मन्यमानस्तृणांशान् हिंदूवाटं प्राप तीव्रप्रतापः ॥ ३२ ॥ चरैरथोकारिसमागमोऽसौ हम्मीरदेवः क्षितिपालमौलिः । न्यपातयत्पर्षदि हर्षहेला—मयेषु वीरेषु दृशं सभावां ॥ ३३ ॥ राज्ञश्चेष्टासौष्ठवं तद्विभाव्य हृष्यच्चित्ता वीरमाद्या अथाष्टौ । वीराः स्मेरास्यांबुजाम्लेच्छभृत्सेनामेनामन्वधावंत वेगात् ॥ ३४ ॥ दृष्ट्वा म्लेच्छान्मारितान्मत्प्रकाशे सूरीन् भूवन् काव्यमी मावसन्नाः । इत्थं ध्यात्वेवास भास्वान् प्रतीची—भूभृच्चूलाचुंबिविंबस्तदानीं ॥ ३५ ॥ जीवं लात्वा द्राक् शका यात रेरे प्राप्ता ह्येते बाहुजास्तीव्रकोपाः । व्याचक्षाणामितीव प्रकामं व्यापे विश्वं कूजितैर्व्योमगानां ॥ ३६ ॥ गलद्विचारोलसितानि भास्वत् गवां विनाशे रुचिरद्युतीनि । तमांसि संगंतुमिव स्वबंधून् शकान्प्रसस्रुर्भुवनेभितोपि ॥ ३७ ॥

१० ] हम्मीरदेववीरयुद्धवर्णनम् ९१

श्रीवीरमेंद्रो दिशि माघवत्यां दिशि प्रतीच्यां महिमाख्यसाहिः । श्रीजाजदेवो दिशि दक्षिणस्यां दिश्युत्तरस्यामपि गर्भंरूकः ॥ ३८ ॥ आग्नेयभागे रतिपालवीरः समीरभागे तिचरः शकेशः । ईशानभागे रणमल्लमल्लः श्रीवैचरो नैर्ऋतनामभागे ॥ ३९ ॥ इत्थं यथाशक्तिकृतप्रतिज्ञा वीरा रणोत्साहलसच्छरीराः । हम्मीर हम्मीर इति ब्रुवाणा शकाधिपीये शिबिरे निपेतुः ॥ ४० ॥ द्रुतमेव केपि परिखामपूरन् अदहन्परे दलिकदुर्गमुच्छ्रितं । न्यविशंत चांतरितरेतिगत. पटवासरज्जुनिचयानपरेऽलुनन् ॥ ४१ ॥ धीरं धीरं यातरे माऽ कुलत्वं चापाग्रे नो बाहुजा संतु के ऽमी । दूर्वालाचं मंख्यपीमान् लुनीमः शब्दाद्वैतं जातमेवं शकानां ॥ ४२ ॥ केचित्कृपाणाँलगुडाँश्च केचि चापान्परे केचन मुद्गराँश्च । आक्रम्यमाणा नृपवीरवौरै स्तदाशकेंद्रा जगृहुर्जवेन ॥ ४३ ॥ श्रुत्वाखिलास्वपि ककुप्सु मृदंगनादान् आतंककंपितहृदो यवना जवेन । संदेहमूर्ज्जितमिताः किल जीवितव्ये कर्त्तं किमद्य भवितेत्यवदन्सदैन्यं ॥ ४४ ॥ श्रावं श्रावं सिंहनादान् भटानां भीताश्चक्रु- सारसी यामिमेंद्राः । तामाकर्ण्य त्राससंतोतिजीवं लावा क्वापि क्वापि नेशुस्तुरंगाः ॥ ४५ ॥ कराग्रायग्रनिशितासिदंड—दीप्रप्रभाप्रज्वलितप्रदीपैः । उत्सारितध्वांतचया वितेनु वीरा यथेच्छं रणरंगलीलां ॥ ४६ ॥ निष्कासयामास रणाय यो यः शकः क्षुधांधो युधि यद्यदंगं । तत्तल्लुनानाः किल तस्य तस्य न चाहमान. कुतुकाय कस्य ॥ ४७ । भीता जीवाघातमाकर्ण्य सद्यो म्लेच्छा यावद्दिक्षु चक्षु. क्षिपंति । बाणास्तावत्प्रेरिताश्चाहमानै विध्यंति स्मैवाशु मर्माणि तेषां ॥ ४८ ॥ चाहमानभटपाणिपंकजौ-न्मुक्तमार्गणगणैश्वितीकृताः। रेजिरे करिवरा रणांगणे पर्वता इव नवोलसच्छदाः ॥ ४९ ॥

१० ] हम्मीरदेववीरयुद्धवर्णनम् ९३ अथ क्षितीशो रतिपालशौर्यं अतीभमाकर्ण्य लसत्प्रमोदः । मत्तो ममायं गज इत्यमुष्य पादेऽक्षिपत्कांचनशृंखलानिं ॥ ६३ ॥ परेष्वपि प्रीतिकृदंशुकादि दत्वा विसृष्टेष्वथ मानपूर्व । नृपेण पृष्टा यवनास्तथैव स्थिताः स्थिते कारणमूचुरेवं ॥ ६४ ॥ अस्मासु जीवत्सु यदिह भोज-देवः कृतघ्नो जगरां भुनक्ति । वीरव्रतं तर्हि विलीनमेव संत्रीभवन् मा कतरो नरेश ॥ ६५ ॥ सहामहे यच्च दिनांस्तमेता-न्तोऽत्र हेतुस्तव बंधुतैव । त्वद्देशमन्वानयतो ऽधुनारि-बलं विभो का बत बंधुता ऽस्य ॥ ६६ ॥ तद्यात्रायै गंतुमेते नरेश प्रादिश्यतां तेष्विति प्रोक्तवत्सु । भद्रा भद्रेण त्वरध्वं त्वरध्वं स्फीतप्रीतिस्तान्नृपो व्याजहार ॥ ६७ ॥ जयश्रियो मोहनमंत्रवत्त मादेशमासाद्य नृपस्य तेऽथ । भंक्त्वा पुरीं तां विनियम्य भोजबंधुं समागुः सकुदुंबमेव ॥ ६८ ॥ इतश्च तस्मात्समराद्विनष्टः खानः स उल्लूपपदः कथंचित् । समेत्य दिल्लीं निजगाद राज्ञे तचाहमानप्रकृतं समस्तं ॥ ६९ ॥ पलायितः कातरवद्द्ववान् किं ततः क्षितीशे गदतीति सोऽवक् । पलायनं चेन्नृप नाकरिष्यं कौतस्तुतस्तर्हि त्वामिलिष्यं ॥ ७० ॥ निःशेषमिति तदुक्त्वा विरराम न यावदेव शकबंधुः । मन्यूतीड्महिलः समेत्य तावत्स भोजदेवोपि ॥ ७१ ॥ विस्तार्यसिचयमये गतः सरस्तत्तदद्भुतमतीनां । कटुकं विरटन् तदुपरि सुतरां विंलुलोठ भूतचांत इव ॥ ७२ ॥ किमेरे किमेरे जातं पृष्टः शकभूभुजा जगादैषः । मरणाव्यपि स्वामि न विस्मरेद्यत्तदद्य संपन्नं ॥ ७३ ॥ हम्मीरवीरनुन्नो महिमासाहिः स वीरकोटीरः । हत्वा जगरां बध्वा सपरिच्छदमेव सोदरमयासीत् ॥ ७४ ॥ - लाभायततां पुंसामभाग्यतः क्वापि मूलनाशः स्यात् । अद्यप्रभृति जनोक्ति र्मदुदाहरणा प्रवृत्तेऽसौ ॥ ७५ ॥

३ ] श्रीहम्मीरमहाकाव्ये [ तत्किं करोमि कं वा श्रयामि यामि क्व वा किमु वदामि । हृदयं वातांदोलित—तूलतुलां कलयतीदमनुवेलं ॥ ७६ ॥ लुठितोऽसि किमिह सिचयो—परीति पृष्टोऽमुना पुनः सोऽब्रवीत् । जानासि किं न निखिला मिलां जितां चाहमानेन ॥ ७७ ॥ रणभंगाकुलसोदर—परिदेवनदलिकसंकुले नितरां । नृपहृदि कोपहुताशे घृताहुतिर्भोजभणितिरभूत् ॥ ७८ ॥ तद्वाक्यश्रवणादथप्रसृमरक्रोधप्रकंपोधरो वाहुष्टंभनमासनं प्रतिलवं सव्यापसव्ये नयन् । प्रत्युत्क्षिप्य शिरोवतंसमवनीपीठे तथास्फालयन् चक्रे काव्यपरंपरामिति तदा म्लेंच्छावनीवल्लभः ॥ ७९ ॥ रेरे भोज विमुंच शोकमखिलं लज्जाकरं दोष्मतां हे भ्रातस्तत्कीर्तिकेलिसदनं स्थैर्यं त्वमप्याश्रय । दुःखेनेव सह क्षणेन युवयोरेतस्य सोऽहं वली हम्मीरस्य समूलकाषमधुना मानं कषाम्युच्चकैः ॥ ८० ॥ निद्रामुद्रणसांद्रनेत्रयुगुलः सिंहः समुत्थापितो निर्मोकोज्झनतीव्रकोपफणिनो लातुं मणिः कांक्षितः । सर्वांगं प्रचिकीर्षितं च हुतभुक्कीलापरिष्वंजनं हम्मिरेण बताद्य कोपितवता म्लेंच्छावनीवल्लभं ॥ ८१ ॥ कः कंठीरवकंठकेसरसटां स्पृष्टुं पदेनेहते कुंताग्रेण शितेन कश्च नयने कंडूयितुं कांक्षति । कश्चाभीप्सति भोगिवक्त्रकुहरे मातुं च दंतावलीं को वा कोपयितुं नु वांछति कुधीरल्लावदीनं प्रभुं ॥ ८२ ॥ देशो यद्यस्ति चंचत्तरसुकृतजनोद्यत्प्रदेशस्ततः किं दुर्गं यद्यस्ति दुर्गं प्रतिभटनिकरैः कोटिभिर्वा ततः किं । वीराश्चेत्संत्यनेके समरभुवि महावीर्यवंतस्ततः किं कोपिन्यल्लावदीने सकलमपि भजेद्व्यर्थतामेव सद्यः ॥ ८३ ॥

१० ] अल्लावदीनामर्षगवर्णनम् ९५ तावद्गर्जन्तु जायन्मदभरतरलाश्चंचला वीरमान्या वीराः प्रत्यर्थिवीरावलिदलनकलाकेलिकंडूलहस्ताः । ज्यारवैर्विस्फुरद्भिर्जगदखिलमपि प्रापयेन्नेडभावं यावन्नालावदीनः किरति शरभरं प्रावृषेण्यच्छटावत् ॥ ८४ ॥ पाताले प्रविशत्यसौ यदि तदा नूनं खनित्वा ददे स्वर्गं चेत्समुपैति सैन्द्रमपि तं संपातयाम्यग्रतः । दृग्भ्यां चेद्ददृशे न संगरभरे महोद्दर्यीविक्रमः कर्णाभ्यामपि शुश्रुवे किममुना तर्हि क्षितौ न क्वचित् ॥ ८५ ॥ रे रे हम्मीर वीरस्त्वमसि परमसो सांप्रतं वीरता ते नूनं व्यक्तीभवित्री मम नयनपथे प्राप्तपार्थ्यव्रतस्य । भ्राम्यत्युच्चैर्वनांते मदमलिनकपोलस्थलो हंत दंती तावद्यावन्मृगेंद्रः पतति न पुरतो जृंभया व्यात्तवक्त्रः ॥ ८६ ॥ आसारः कमलाकरे मृगगणे सिंहः कुठारस्तरी भास्वान्संतमसे पविः क्षितिधरे दावानलः कानने । यत्कर्म प्रतनोति संगरभरं प्राप्तस्तदेवाधुना कुर्वेहं भटसंकुलेपि निखिले श्रीचाहमाने कुले ॥ ८७ ॥ तत्कालं यवनावनीपतिरय प्रोल्लासिमानान् स्फुरन् मानान्स्वेन शयाम्बुजेन लिखितान् विश्राण्य संप्रेषितैः । देशेभ्यो निखिलेभ्य एव निखिलान् दूतैः प्रभूतैरसौ वीरानाह्वयतिस्म विस्मयकरप्रौदामदोर्विक्रमान् ॥ ८८ ॥ इति श्रीजयसिंहसूरिशिष्यमहाकविश्रीनयचंद्रसूरिविरचिते श्रीहम्मीरमह काव्ये वीरांके अल्लावदीनामर्षोनाम दशमः सर्गः समाप्तः ॥ अथैकादशः सर्गः अंगस्तिलंगो मगधो मसूरः कलिंगवंगौ भटमेदपाटौ । पंचाल बंगाल धमीम भिल्ल नेपाल डाहल हिमाद्रिमध्याः ॥ १ ॥

इत्यादयोऽन्योन्यमहंयुताभिः संमेलितप्रौढपताकिनीकाः । शकाधिराजा निखिला अपीमां पुरीमथायुर्यवनेश्वरस्य ॥२॥ युग्मं ॥ वीरैर्जयश्रीकरपीडनाय लुंठाकवृंदैरपि लुंठनाय । व्रजद्भिरन्यैः कुतुकेक्षणाय शून्योभवंतिस्म दिशां प्रदेशाः ॥ ३ ॥ याते मयीदं बलभारभुग्नं कः सासहिर्धत्तुमिमां धरित्रीं । इतीव शेषाहिरमुष्य सैन्ये न केवलं गंतुमना बभूव ॥ ४ ॥ साश्वद्विपेष्वेषु चलत्सु भूभृ—न्निदेशमात्रेण दिशो दशापि । दिग्दंतिनो दंतिषु यद्यतिष्ठन् भास्वद्रथाश्वाश्च तुरंगमेषु ॥ ५ ॥ पादातिकानां करिणां रथानां चया हयानां च तथा प्रसस्रुः । तलं तिलस्यापि तुषानुमेयं रिक्तं यया न काचिदास भूमेः ॥ ६ ॥ ततोऽनुजौ स्फारभुजौ शकाना मधीश उल्लूनिसुरत्तखानौ । इदं महावीर्य्य वितीर्य्य सैन्यं अचीचलत् जेतुममुं हम्मीरं ॥ ७ ॥ शकेश्वरोद्यापि समस्तिपश्चात् सृजन्निति क्षत्रकुलेषु भीतिं । शरीरमात्रः स्वयमत्र चास्थात् अहो शकानां नृपनीतिवित्त्वं ॥ ८ ॥ लब्ध्वा सहायं निसुरत्तखानं ज्वलन् क्रुधोलूपपदः सखानः । इयेष मूलादपि वैरिवंशान् दग्धुं बृहद्भानुरिवाहिंकांतं ॥ ९ ॥ बलं किलैतत् व्रजतिस्म यत्र यत्रैष शेषोपि च तत्र तंत्र ॥ महीतलध्वंसभिया प्रसर्पन्नासीच्छकाज्ञाप्रविलोपिधैर्य्यः ॥ १० ॥ पद्भिः पतद्भिर्ध्रुवमस्मदीयैः शेषो धरां धर्त्तुमसो न शक्तः । तन्वीं भुवीतीव वितेनुरेते गतिं तुरंगा गगने तुं गुर्वी ॥ ११ ॥ धावद्वयालीपद्पादजात—रेणूत्करैः पूरिषताब्धयो मा । हेतोरिवास्मात् द्विरदा असिंचन् मदांबुपूरैरभितोपि भूमिं ॥ १२ ॥ सहाभविष्याम पुरा वयं चेत् किं बाहुजास्तार्हि पराभविष्यन् । इत्यूचुषः कांश्चिदुपेत्पूर्वानाद्यापि किंचित् गतमित्यवोचन् ॥ १३ ॥ गजाः कियंतस्तुरगाः कियंतो रथाः कियंतः कति वा भटाश्च । जनैर्जनानामिति वादितानां संख्या न हीत्युत्तरमेकमेव ॥ १४ ॥

११ ] यवनवीरवर्णनम् ९७ सर्वांगसन्नेह निवेशलक्ष्य चक्षुर्द्वयीमात्रतयातिरोद्राः । प्रधारमानाः सुभटा विरेजु लौहस्य गोला इव विस्फुरंतः ॥ १५ ॥ क्षणात् शकानां कटकैर्निपीता-शेषाम्भसामध्वनि निम्नगानां । गभीरमप्यास तलं सुदर्शं जडात्मनां वा न दुरापमंतं ॥ १६ ॥ भुक्तिं व्यधाद्यत्र न तत्र सुप्तिं यत्राततैतां न च तां च तत्र । अयेत्यविश्रांततरैः प्रयाणै र्लक्षीचकारैष विपक्षसीमा ॥ १७ ॥ सैन्यैः शकानां प्रसृतैः समंतात् देशः कृतः शैशवशंवदः सः । निर्नाथवन्मंक्षु पलाय्य जीव-ग्राहं प्रयातिस्म यतस्ततोपि ॥ १८ ॥ ततोऽद्रिघट्टान् प्रसमीक्ष्य पूर्वा-नुभूतभीसंस्मरणादयालुः । आहूय खानो निसुरत्तखानं सहोदरं सुंदरमित्युवाच ॥ १९ ॥ भ्रातः प्रवेशे विषमा गिरींद्रा भटास्तदीयाः प्रकटौजसश्च । तदद्रिघट्टान् विशतो बलस्य भवन्नपायः खलु नो हिताय ॥ २० ॥ तद्द्वाहुजान् संधिमिषेण विप्र-तार्याद्रिघट्टेपु सुखं विशामः । उपायसाध्ये खलु कार्यबंधे न विक्रमं नीतिविदः स्तुवंति ॥ २१ ॥ मते मतेऽव्यानुमतेऽमुनापि श्रीमोल्हणं श्वाग् विधिनानुशास्य । दिदेश संधानकृते हमीर-(राज्ञः स)मीपे कितवः प्रयातु ॥ २२ ॥ स्वयं च सन्नह्य बलान्यमुष्मि क्षेत्रं छलेनाविशदंतरद्रि । मध्ये प्रविष्टः सुखसाध्य एवा-स्माकं भटैरित्यमुपेक्षितश्च ॥ २३ ॥ मुड्यां प्रतोल्यामनुजस्य शस्य श्रीमंउपे दुर्गवरे निजं च । सरश्च जैत्रं परितः परेषा मतिष्ठपत्सैन्यमपास्यदैन्यः ॥ २४ ॥ स मोल्हणः प्राप्य कथंचिदंत स्ततः प्रवेशो नृपशासनेन । दृष्ट्वा रणस्तंभपुरं तदुच्चै-र्बभूव चित्रार्पितनेत्रपद्मः ॥ २५ ॥ वप्रे यदीये स्फटिकोद्भवानां माला लसंखः कपिशीर्षकाणां । दिगंगनानां वदनश्रियं स्वां विलोकितुं दर्पणभावमीयुः ॥ २६ ॥ प्रदेशयोरप्युभयोर्मिलद्भि र्माणिक्यसोपानमयूखजालैः । विलासवापीपु पयश्चकासां-बभूव यत्रेव निबद्धसेतुः ॥ २७ ॥ 13 k

९८ श्रीहम्मीरमहाकाव्ये [सर्गः यस्मिन्मृगाक्षीवदनेन्दुभाभि र्विसारिणीभिर्विजितः शशांकः। खेयांबुपूरप्रतिबिंबदंभात् किमेष दुःखात्प्रददौ न झंपां ॥ २८ ॥ त्यागाय भोगाय विवेकभाजा जनेन शश्वद्विधृता कराब्जे । लेभेऽवकाशं चपलापि लक्ष्मीः पलायनं कर्तुमहो न यत्र ॥ २९ ॥ मरुत्तरंगप्रविकंपितायां ध्वजावलौ इभयतमालयेषु । लीनेव यत्रास्थिरता न जातु रमासु रामासु समुल्ललास ॥ ३० ॥ जालैर्मणीनामधिकुट्टिमोद्य—द्भासैः समंतात्प्रसरन्मयूखैः । प्रासादशृंगेषु दृशौधनावली निन्येवकेशित्वमुषासु यत्र ॥ ३१ ॥ यत्रोज्वलत्स्फाटिकभित्तिभागे ऽप्येणीदृशो दृष्टनिजांगलक्ष्म्यः । मांगल्यहेतो र्नवरं निरीक्षां—चक्रुर्विभाते मुकुरेषु वक्त्रं ॥ ३२ ॥ यत्रेभदंतोद्भवचित्रजाल—वातायनस्थाः कृतदिव्यभूषाः । विनिद्रपाथोजदृशो विमान मधिश्रिता देव्य इव स्म भांति ॥ ३३ ॥ नृपालयोत्तंसितशातकुंभं—कुंभप्रभा यत्र समुल्लसंत्यः । अभ्युन्नतासन्नपयोधराणां वर्षासु संपासमतामगच्छन् ॥ ३४ ॥ अनारतं कौमुदमादधानाः संसेव्यमाना द्विजराजिभिश्च । मिष्टैः पयोभिः प्रतिभासमाना विभांति यागा इव यत्तडागाः ॥ ३५ ॥ वातायनाः किं किममी विमाना जनः समं तेष्विति संशयानः । अबोधि यस्मिन् मिथुनैस्तु तत्स्थै रेवाऽनिमेषैश्च निमेषिभिश्च ॥ ३६ ॥ विलासिवेश्मोदरदह्यमान—सुगंधिधूपोत्थितधूमसंगात् । व्यधायि यस्मिन्नपि किन्नरीभि र्यत्नजन्या पटवासयुक्तिः ॥ ३७ ॥ मद्वृद्धिसंस्पर्धिविवर्द्धिकीर्त्ति परं पुरं किंचिदिहास्ति नो वा । इतीव यद्ध्वंशिरोधिरुह्य भुवं दृशा पश्यति गोपुरेण ॥ ३८ ॥ निवासवद्भिः सुमनोभिरेभि र्विमानतास्मासु कृतेति दुःखात् । नैवास्वपन्नित्यपि निर्निमेष—कपाटपक्ष्माणि गृहाणि यत्र ॥ ३९ ॥ विसारितक्रांतिचयाभिभूति—द्विरेफितस्वर्णतुलासु यत्र । स्त्रीणां मुखानि प्रतिबिंबितानि स्वर्णोत्पलानीव यमीषु रेजुः ॥ ४० ॥

११] हम्मीरराजपुरवर्णनम् ९९ सूर्याश्मकुड्यप्रतिबिंबिनारी—मुखानि यत्राब्जधिया वितर्क्य । दधुः सुकेश्यः पततो द्विरेफान् दशन् सखीवक्त्रमीस्ममेति ॥ ४१ ॥ कुशेशयायासिदृशो निशायां रतौ ह्रिया यत्र निशम्य दीपान् । ध्वस्तेऽभवन् संतमसेऽवकेशि—यत्नाः स्फुरत्कुड्यमणिप्रभाभिः ॥ ४२ ॥ निशम्य यत्रा[विरतोत्सवेषु मृदंगनादान् ध्रुवमर्जितो यः । अद्याप्यमी गर्जिषु वारिवाहा विवृण्वतेऽभ्यासभरं तमेव ॥ ४३ ॥ दृग्मीलनकेलिषु यत्र बाला सखीमहातंकसुनिश्चलागी । पांचालिकानां वितनौ निलीना दृष्टापि नाग्राहि सखीजनेन ॥ ४४ ॥ महाकुलकं निभालयन् लोचनलोभिलाक्ष्मि क्रीडानिकेतं पुरमेतदुच्चैः । नृपालयश्रीकरकैरवेषु दृशं भृशं स भ्रमरीचकार ॥ ४५ ॥ स्तंबेरमाणां मदवारिभिन्न—कुंभस्थलीसंचरणप्रमत्ताः । झंकारवै र्यत्र सदा द्विरेफा वसंतमाहुः स्म वसंतमेव ॥ ४६ ॥ क्रीडागिरींदैरिव वीरक्ष्म्या यदेकतो राजत वारणेंद्रैः । गंगातरंगैरिव दत्तरंगै स्तथा न्यतोश्वैः पदखातविन्धैः ॥ ४७ ॥ भुजंगमाधिष्ठितचंदनद्रु मिवासिहस्तं प्रकृतिप्रशस्तं । पूर्वाद्रिचूलाश्रिततिग्मराश्म मिवोरुसिंहासनसन्निविष्टं ॥ ४८ ॥ सिंहासनोत्तर्गतबिंबदंभात् धराधिपैः शीर्ष इवोह्यमानं । रंगत्तरंगांगरुचीचयेने—व खर्वयंतं नवहेमगर्वं ॥ ४९ ॥ नक्षत्रचक्रेष्विव शीतरश्मि मर्मर्त्यचक्रेष्विव देवदेवं । नरेंद्रचक्रेषु विराज मान मनन्यजन्येन महामहिम्ना ॥ ५० ॥ निबद्धभूर्विवितसभ्यदंभान् सभामधस्तादिव कुर्वतीं गोः । अधिश्रितं तत्र सभां विभाव्य हम्मीरदेवं स हृदीति दध्यौ ॥ ५१ ॥ किमेषकामो न यतो ऽननंगः किमेष दक्षौ न यदद्वितीयः। किमेषविष्णुर्न यतो ऽद्विबाहुः किमेष वज्री न यतो द्विनेत्रः ॥ ५२ ॥

१०० श्रीहम्मीरमहाकाव्ये [सर्गः त्यक्तान्यकार्यैरथवीरवर्यै विलोक्यमानो वदतीति किं किं । प्रणम्य भूपं दरनम्रमौलिः प्रचक्रमे व्यक्तमिदं प्रवक्तुं ॥ ५३ ॥ "स्वतेजसैवारिगणं विजित्या—कुतोभयं संसृजतः स्वराज्यं । वृथैव वर्षासनमाददाना ललज्जिरे यस्य भटा निकामं ॥ ५४ ॥ दुर्गाणि दुर्ग्राह्यतराणि शाणो—लीढानि शस्त्राणि भटा रणोत्काः । अभ्रंलिहाग्रा गिरयो यदग्रे न वास्तवीं वृत्तिमयुः कदाचित् ॥ ५५ ॥ दुर्गाणि दुर्ग्राह्यतराणि यः श्री-देवाद्रिमुख्यान्यपि मंक्षु भंक्त्वा । अपींद्रमुद्यद्दरदंतुराक्षी-चकार कारायमितारिचक्रः ॥ ५६ ॥ दुर्गाणि दुर्ग्राह्यतराण्यरीणां भजन्ननेकान्यपि लीलयैव । आजन्मभग्नत्रिपुरैकदुर्गे दुर्गापतौ योत्र घृणां बिभर्ति ॥ ५७ ॥ यद्यन्मनस्थ्यप्यमुना नरेंद्र ! निधीयते तत्तदहो तदात्वं । संपादयन् सोपि विधिर्विशंके न शासनं यस्य विहंतुमीष्टे ॥ ५८ ॥ अल्लावदीनस्य नृपस्य तस्या—नुजौ किलोलूभिसुरत्तखानौ । देशं तवाक्रम्य तदाज्ञयैव त्वामाहतुः स्मेति मदाननेन ॥ ५९ ॥ हम्मीर ! राज्यं यदि भोक्तुमीहा तत्स्वर्णलक्षं चतुरो गजेंद्रान् । अथोरसानां विशतीं सुतां च दत्वा किरीटीकुरु नो निदेशं ॥ ६० ॥ इदं विमुक्तं यदि वा परंतु तथास्तदाज्ञाप्रविलोपिंनो ये । षाग्मुद्गलांस्तांश्चतुरोपि दत्वा क्रोडीकृतां क्रीडय राज्यलक्ष्मीं ॥ ६१ ॥ त्यक्त्वा यथैतं तव दुर्गरोधं देशान् पुरः साधयितुं व्रजामः । न चेद्विधाता प्रतिधोचितं स्व-राभ्यां तु तत्तेनुभवोऽभिधाता ॥ ६२ ॥ इत्येतदीयानि वचांसि भूपः श्रुत्वाथ भीमां भृकुटीं दधानः । नवोल्लसत्क्रुद्विषवलिसून—द्विरेफलीलाक्षरमित्युवाच ॥ ६३ ॥ वशिष्टयुक्त्या यदि नाभविष्य दाजग्मिवानत्र भवान् कथंचित् । तदा त्वयोगादि ययेदमर्वाक् जिव्हां ध्रुवं तां निरक्रासयिष्यं ॥ ६४ ॥ दंतौ द्विपस्येव मणिं भुजंग—स्येवेणशत्रोरिव केशरालीं । श्रीचाहमानस्य धनं बलेन न जीवतः कश्चन लातुमीष्टे ॥ ६५ ॥

११] हम्मीरभापगवर्णनम् १०१ स्वर्णं गजा दंतितुरंगमानां पदे प्रदेया यदि खड्गघाताः । भवत्प्रभू सूकरमांसमेव सद्यः स्वेदेतां यदि जातु यातः ॥ ६६ ॥ द्विषामपि स्याच्छरणागतानां रक्षासु मंदोपि निबद्धकक्षः । तद्युद्धलग्नो ननु याचमानौ न किं तदीशौ जडधीर्वतंसौ ॥ ६७ ॥ शतांशमप्येकविशोपकरस्य न प्राणमोक्षेपि ददे बलेन । यद्रोचते नाम भवत्प्रभुभ्यां तत्तूर्णमेवाचरतां यथेच्छं ॥ ६८ ॥ एवं विनिर्भर्त्स्य मुहुर्मुहुस्तं वशिष्टपाशं गलहस्तयित्वा । निष्कासयामास पुराद्भटानां त्रातुं च दुर्गं ददिवान् विभज्य ॥ ६९ ॥ उत्तंभितान्युद्धतघर्मघर्म—च्छिदेधिशालंपटमंडपानि । दिवानिशं संगरजागरूकभुजैर्विरेजुर्निभृतं भृतानि ॥ ७० ॥ वंगोपलिप्तस्फुटलोहबंध—दृढोलसत्कँकुलियष्टिदंभात् । शालोपि युद्धाय विवृद्धमन्युः संवर्मयामास भुजानिव स्वान् ॥ ७१ ॥ रालाविलं तैलमयःकटाहे तप्तं प्रकामोत्कलिकाछलेन । दग्धुं युयुत्सून्प्रतिपक्षपक्षान् अलक्षयतौत्सुक्यमिवादधानं ॥ ७२ ॥ चेतश्चमत्कारिकलोत्सृतानि संश्चक्रिरे भैरवयंत्रकानि । व्यामोहहेतोः स्फुटमिंद्रजाला—नीवागतानां शकपुंगवानां ॥ ७३ ॥ दूतः प्रभूतप्रतिघोध गत्वा निजप्रभुभ्यामखिलं तदुक्तं । न्यवेदयत्तावपि निर्विलंबं युद्धाय सैन्यं-गुणं व्यधत्तां ॥ ७४ ॥ ब्रह्वेव मध्ये पुरमाहवाय ससर्ज यान् यान् नृपतिः प्रयोगान् । तांस्तानमर्षात्कुशिकांगभूवत् सद्यः शकेंद्रोपि वहिस्ततान ॥ ७५ ॥ शक्रेषु वाद्येषु भृशाहतेषु दंडैः स्वना ये प्रकटीबभूवुः । प्रतिस्वनैः स्तांस्तिरयन् गिरींद्रो न स्वामिभक्तव्रतमुज्झतिस्म ॥ ७६ ॥ निषादिनो दंतिवरांस्तुरंगा नप्यश्ववारा रथिका रथांश्च । समंततो प्यारुरुहुः पदा (ति?) पूगा वितेनुः श्रममाहवाय ॥ ७७ ॥ महीभ्रमभ्रंकषमप्यमुं स्व-वीर्याग्रतः क्षुद्रमिवेक्षमाणाः । दुढौकिरे योद्धुमतिप्रवृद्धो—त्साहास्ततस्ते समरोत्कवाहाः ॥ ७८ ॥

१०२ श्रीहम्मीरमहाकाव्ये [सर्गः समं च्छुटद्भिर्भटपाणिपद्मा द्व्राणैस्तमिस्रं ककुभां बभूव । निर्घोषपूरैरपि कार्मुकाणां विश्वं समग्रं बधिरत्वमाप ॥ ७९ ॥ नीरन्ध्रमाकाशमनूज्झितेषु काण्डेषु क्लृप्ताम्बुदताण्डवेषु । आग्नेयबाणा भृशमुत्पतंत आकालिकीकेलिकिलीबभूवुः ॥ ८० ॥ आकर्षतां संदधतां रयेण विमुंचतां बाणगणान् भटानां । विलोकमनैरपि निर्निमेष मलक्षि नैवांतरमंबरस्थैः ॥ ८१ ॥ तपात्ययांभोदपटुच्छटावत् दुर्गादवर्षन् सुभटाः शरौघान् । कौक्षेयदाक्ष्येण मृणालनाल--वच्चिच्छिदुस्तान् यवना जवेन ॥ ८२ ॥ मिथोपि वीरव्रजपाणिमुक्त--पृषत्कवक्त्रास्फलनप्रभूताः । रेजुः पतंतोऽग्निकणाः प्रदग्धुं पलायितानामिव कीर्तिवल्लीं ॥ ८३ ॥ क्षत्रप्रकांडप्रविमुक्तकांड--पक्षोद्भवः कोपि स वायुरासीत् । यत्रोन्मदिष्णौ रिपुदर्पसर्पो--प्यासीत्क्षणं व्याकुलचित्तवृत्तिः ॥ ८४ ॥ आकर्णमाकृष्य भटैर्विमुक्तैरधोमुखैरूर्ध्वमुखैश्च बाणैः । उत्पातहेतोर्ववृषुः शकाना मघोमुखा ऊर्ध्वमुखाश्च मेघाः ॥ ८५ ॥ शिलीमुखौघैर्यवनप्रणुन्नै र्वप्रः समंताच्छुशुभे चितांगः । विगाहमानो रिपुदर्पसर्प--विनाशहेतोरिव जाहकत्वं ॥ ८६ ॥ भ्रमंभ्रमं वीरवरैर्निजांगो--परि प्रणुन्नाः प्रतिशत्रुवीरान् । कुंता विरेजु र्निशिताः पतंतः स्फुटाः कटाक्षा इव भानुसूनोः ॥ ८७ ॥ सद्यांत्रिकैर्भैरवयंत्रगोला मुक्ता मिथोऽप्यूर्ध्वमधः पतंतः । अपि द्वयानामरुचन् भटानां पीना उरोजा इव वीरलक्ष्म्‍याः ॥ ८८ ॥ दूरोन्नमड्डिंडुलिकाग्रहस्ताः शौर्यश्रियः क्षत्रकुलोद्भवस्य । समुत्पतद्गोलकदंबदंभात् पंचेष्टकैः पर्यश्नन्निवैताः ॥ ८९ ॥ प्रक्षिप्तरालावलितप्रतैल--संगज्वलत्कुंतलकैतवेन । क्षत्रेषु कोपाग्निरमानिवांतः शंके शकानां बहिरुल्ललास ॥ ९० ॥ प्राकारभित्तेः खनने प्रवृत्तान् शकप्रवीरान् कुशटंकहस्तान् । विभिद्य शूलैर्वटकानिवोच्चै रुचिक्षिपूः क्षत्रकुलावतंसाः ॥ ९१ ॥

५. अन्तिम शाका, जोहर, हम्मीर पराक्रम व उपसंहार

११] निसुरत्तखानवधः १०३ उत्प्लुत्य शाखामृगवद्गिरींद्र मारूढवंतः किल केपि वीराः । प्रचख्नुरे शालतलं प्रविश्य केचिद्वराहा इव तीव्रकोपात् ॥ ९२ ॥ दुर्गस्थवीरव्रजमौलिमौली—नपाहरन् बाणगणाः शकानां । समीरगुंजा इव पादपानां पुष्पाणि शाखाशिखरोद्भवानि ॥ ९३ ॥ अचाक्षुषत्वं प्रगतांस्तनुत्वात् घटैकदेशीयभटप्रणुन्नान् । नालीकबाणान् प्रविभिन्नगात्रा न क्-शकानां परिणाम एव ॥ ९४ ॥ उत्खाय शालस्य शिलां प्रविश्य तदंतरे बाहुजघातभीताः । स्थिता विरेज्युर्यवनादिवांधा इवातपत्तापनरश्मिसन्नाः ॥ ९५ ॥ निजप्रहारव्रणजर्जरांगान् शकान् गिरेर्निष्पततो निरीक्ष्य । वीरा हसान् यान् व्यदधंस्त एव हम्मीरवीरस्य यशांस्यभूवन् ॥ ९६ ॥ श्रित्वा नगागान् गरुडासनेन हृष्टा निविष्टा यवनेशयोधाः । विद्धाः शरैर्वीरवरैस्तथैव चित्रं प्रयाता इव रेजुरुच्चैः ॥ ९७ ॥ निश्रेणिमालंब्य धृतासवोऽन्ये दंतैरथारोहणमाचरंतः । दुर्गे हता मूर्धनि मुद्गरेण दुर्गस्थितैः पेतुरमातयैव ॥ ९८ ॥ इत्थं सदाप्यौपयिकैरनेकः परिस्फुरद्धौकनसाहसस्य । अगाच्छकानां क्षयकालरात्रि रिव त्रिमासी यवनाधिपस्य ॥ ९९ ॥ प्रवर्त्तमाने समरेन्यदीया—पस्फाल गोलः शकगोलकेन । प्रभ्रश्यता तच्छकलेन मूर्ध्नि हतो व्यनेशन्निसुरत्तखानः ॥ १०० ॥ अथ गतं सहसापि परासुता ममुमवेक्ष्य परिक्षवदीक्षणः । अविदितः परदेवनासबनं भृशमसौ शकपोऽत मध्यमः ॥ १०१ ॥ प्रक्षिप्यैनं तदनु सहसा मध्यमोसौ शकाना- मीशः स्वर्णस्फुटजटनतामंजुमंजूषिकांतः । ढिल्यां धूत्वा कथमपि धृतिं प्राहिणीत्तामभृतं वा क्षोणीभर्त्तुः स्वसकलकथाज्ञापनपत्रपूर्वं ॥ १०२ ॥ एतद्वीक्ष्याप्तशोकः श्रुतरिपुजनिताशेषतत्तद्विकारः कृत्वा तस्यांतकृत्यं निखिलमपि यथा युक्तिकोपप्रकंपः ।