हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)
Hammira Mahakavya with Hindi Commentary
नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा
पृष्ठ 141, कुल 185 में से
संदर्भ में पढ़ें१० ] हम्मीरदेववीरयुद्धवर्णनम् ९३ अथ क्षितीशो रतिपालशौर्यं अतीभमाकर्ण्य लसत्प्रमोदः । मत्तो ममायं गज इत्यमुष्य पादेऽक्षिपत्कांचनशृंखलानिं ॥ ६३ ॥ परेष्वपि प्रीतिकृदंशुकादि दत्वा विसृष्टेष्वथ मानपूर्व । नृपेण पृष्टा यवनास्तथैव स्थिताः स्थिते कारणमूचुरेवं ॥ ६४ ॥ अस्मासु जीवत्सु यदिह भोज-देवः कृतघ्नो जगरां भुनक्ति । वीरव्रतं तर्हि विलीनमेव संत्रीभवन् मा कतरो नरेश ॥ ६५ ॥ सहामहे यच्च दिनांस्तमेता-न्तोऽत्र हेतुस्तव बंधुतैव । त्वद्देशमन्वानयतो ऽधुनारि-बलं विभो का बत बंधुता ऽस्य ॥ ६६ ॥ तद्यात्रायै गंतुमेते नरेश प्रादिश्यतां तेष्विति प्रोक्तवत्सु । भद्रा भद्रेण त्वरध्वं त्वरध्वं स्फीतप्रीतिस्तान्नृपो व्याजहार ॥ ६७ ॥ जयश्रियो मोहनमंत्रवत्त मादेशमासाद्य नृपस्य तेऽथ । भंक्त्वा पुरीं तां विनियम्य भोजबंधुं समागुः सकुदुंबमेव ॥ ६८ ॥ इतश्च तस्मात्समराद्विनष्टः खानः स उल्लूपपदः कथंचित् । समेत्य दिल्लीं निजगाद राज्ञे तचाहमानप्रकृतं समस्तं ॥ ६९ ॥ पलायितः कातरवद्द्ववान् किं ततः क्षितीशे गदतीति सोऽवक् । पलायनं चेन्नृप नाकरिष्यं कौतस्तुतस्तर्हि त्वामिलिष्यं ॥ ७० ॥ निःशेषमिति तदुक्त्वा विरराम न यावदेव शकबंधुः । मन्यूतीड्महिलः समेत्य तावत्स भोजदेवोपि ॥ ७१ ॥ विस्तार्यसिचयमये गतः सरस्तत्तदद्भुतमतीनां । कटुकं विरटन् तदुपरि सुतरां विंलुलोठ भूतचांत इव ॥ ७२ ॥ किमेरे किमेरे जातं पृष्टः शकभूभुजा जगादैषः । मरणाव्यपि स्वामि न विस्मरेद्यत्तदद्य संपन्नं ॥ ७३ ॥ हम्मीरवीरनुन्नो महिमासाहिः स वीरकोटीरः । हत्वा जगरां बध्वा सपरिच्छदमेव सोदरमयासीत् ॥ ७४ ॥ - लाभायततां पुंसामभाग्यतः क्वापि मूलनाशः स्यात् । अद्यप्रभृति जनोक्ति र्मदुदाहरणा प्रवृत्तेऽसौ ॥ ७५ ॥