भारतकोश
संग्रह पर लौटें

हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)

Hammira Mahakavya with Hindi Commentary

नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा

DevanagariSanskritpublished185 पृष्ठ

१० ] हम्मीरदेववीरयुद्धवर्णनम् ९३ अथ क्षितीशो रतिपालशौर्यं अतीभमाकर्ण्य लसत्प्रमोदः । मत्तो ममायं गज इत्यमुष्य पादेऽक्षिपत्कांचनशृंखलानिं ॥ ६३ ॥ परेष्वपि प्रीतिकृदंशुकादि दत्वा विसृष्टेष्वथ मानपूर्व । नृपेण पृष्टा यवनास्तथैव स्थिताः स्थिते कारणमूचुरेवं ॥ ६४ ॥ अस्मासु जीवत्सु यदिह भोज-देवः कृतघ्नो जगरां भुनक्ति । वीरव्रतं तर्हि विलीनमेव संत्रीभवन् मा कतरो नरेश ॥ ६५ ॥ सहामहे यच्च दिनांस्तमेता-न्तोऽत्र हेतुस्तव बंधुतैव । त्वद्देशमन्वानयतो ऽधुनारि-बलं विभो का बत बंधुता ऽस्य ॥ ६६ ॥ तद्यात्रायै गंतुमेते नरेश प्रादिश्यतां तेष्विति प्रोक्तवत्सु । भद्रा भद्रेण त्वरध्वं त्वरध्वं स्फीतप्रीतिस्तान्नृपो व्याजहार ॥ ६७ ॥ जयश्रियो मोहनमंत्रवत्त मादेशमासाद्य नृपस्य तेऽथ । भंक्त्वा पुरीं तां विनियम्य भोजबंधुं समागुः सकुदुंबमेव ॥ ६८ ॥ इतश्च तस्मात्समराद्विनष्टः खानः स उल्लूपपदः कथंचित् । समेत्य दिल्लीं निजगाद राज्ञे तचाहमानप्रकृतं समस्तं ॥ ६९ ॥ पलायितः कातरवद्द्ववान् किं ततः क्षितीशे गदतीति सोऽवक् । पलायनं चेन्नृप नाकरिष्यं कौतस्तुतस्तर्हि त्वामिलिष्यं ॥ ७० ॥ निःशेषमिति तदुक्त्वा विरराम न यावदेव शकबंधुः । मन्यूतीड्महिलः समेत्य तावत्स भोजदेवोपि ॥ ७१ ॥ विस्तार्यसिचयमये गतः सरस्तत्तदद्भुतमतीनां । कटुकं विरटन् तदुपरि सुतरां विंलुलोठ भूतचांत इव ॥ ७२ ॥ किमेरे किमेरे जातं पृष्टः शकभूभुजा जगादैषः । मरणाव्यपि स्वामि न विस्मरेद्यत्तदद्य संपन्नं ॥ ७३ ॥ हम्मीरवीरनुन्नो महिमासाहिः स वीरकोटीरः । हत्वा जगरां बध्वा सपरिच्छदमेव सोदरमयासीत् ॥ ७४ ॥ - लाभायततां पुंसामभाग्यतः क्वापि मूलनाशः स्यात् । अद्यप्रभृति जनोक्ति र्मदुदाहरणा प्रवृत्तेऽसौ ॥ ७५ ॥

३ ] श्रीहम्मीरमहाकाव्ये [ तत्किं करोमि कं वा श्रयामि यामि क्व वा किमु वदामि । हृदयं वातांदोलित—तूलतुलां कलयतीदमनुवेलं ॥ ७६ ॥ लुठितोऽसि किमिह सिचयो—परीति पृष्टोऽमुना पुनः सोऽब्रवीत् । जानासि किं न निखिला मिलां जितां चाहमानेन ॥ ७७ ॥ रणभंगाकुलसोदर—परिदेवनदलिकसंकुले नितरां । नृपहृदि कोपहुताशे घृताहुतिर्भोजभणितिरभूत् ॥ ७८ ॥ तद्वाक्यश्रवणादथप्रसृमरक्रोधप्रकंपोधरो वाहुष्टंभनमासनं प्रतिलवं सव्यापसव्ये नयन् । प्रत्युत्क्षिप्य शिरोवतंसमवनीपीठे तथास्फालयन् चक्रे काव्यपरंपरामिति तदा म्लेंच्छावनीवल्लभः ॥ ७९ ॥ रेरे भोज विमुंच शोकमखिलं लज्जाकरं दोष्मतां हे भ्रातस्तत्कीर्तिकेलिसदनं स्थैर्यं त्वमप्याश्रय । दुःखेनेव सह क्षणेन युवयोरेतस्य सोऽहं वली हम्मीरस्य समूलकाषमधुना मानं कषाम्युच्चकैः ॥ ८० ॥ निद्रामुद्रणसांद्रनेत्रयुगुलः सिंहः समुत्थापितो निर्मोकोज्झनतीव्रकोपफणिनो लातुं मणिः कांक्षितः । सर्वांगं प्रचिकीर्षितं च हुतभुक्कीलापरिष्वंजनं हम्मिरेण बताद्य कोपितवता म्लेंच्छावनीवल्लभं ॥ ८१ ॥ कः कंठीरवकंठकेसरसटां स्पृष्टुं पदेनेहते कुंताग्रेण शितेन कश्च नयने कंडूयितुं कांक्षति । कश्चाभीप्सति भोगिवक्त्रकुहरे मातुं च दंतावलीं को वा कोपयितुं नु वांछति कुधीरल्लावदीनं प्रभुं ॥ ८२ ॥ देशो यद्यस्ति चंचत्तरसुकृतजनोद्यत्प्रदेशस्ततः किं दुर्गं यद्यस्ति दुर्गं प्रतिभटनिकरैः कोटिभिर्वा ततः किं । वीराश्चेत्संत्यनेके समरभुवि महावीर्यवंतस्ततः किं कोपिन्यल्लावदीने सकलमपि भजेद्व्यर्थतामेव सद्यः ॥ ८३ ॥

१० ] अल्लावदीनामर्षगवर्णनम् ९५ तावद्गर्जन्तु जायन्मदभरतरलाश्चंचला वीरमान्या वीराः प्रत्यर्थिवीरावलिदलनकलाकेलिकंडूलहस्ताः । ज्यारवैर्विस्फुरद्भिर्जगदखिलमपि प्रापयेन्नेडभावं यावन्नालावदीनः किरति शरभरं प्रावृषेण्यच्छटावत् ॥ ८४ ॥ पाताले प्रविशत्यसौ यदि तदा नूनं खनित्वा ददे स्वर्गं चेत्समुपैति सैन्द्रमपि तं संपातयाम्यग्रतः । दृग्भ्यां चेद्ददृशे न संगरभरे महोद्दर्यीविक्रमः कर्णाभ्यामपि शुश्रुवे किममुना तर्हि क्षितौ न क्वचित् ॥ ८५ ॥ रे रे हम्मीर वीरस्त्वमसि परमसो सांप्रतं वीरता ते नूनं व्यक्तीभवित्री मम नयनपथे प्राप्तपार्थ्यव्रतस्य । भ्राम्यत्युच्चैर्वनांते मदमलिनकपोलस्थलो हंत दंती तावद्यावन्मृगेंद्रः पतति न पुरतो जृंभया व्यात्तवक्त्रः ॥ ८६ ॥ आसारः कमलाकरे मृगगणे सिंहः कुठारस्तरी भास्वान्संतमसे पविः क्षितिधरे दावानलः कानने । यत्कर्म प्रतनोति संगरभरं प्राप्तस्तदेवाधुना कुर्वेहं भटसंकुलेपि निखिले श्रीचाहमाने कुले ॥ ८७ ॥ तत्कालं यवनावनीपतिरय प्रोल्लासिमानान् स्फुरन् मानान्स्वेन शयाम्बुजेन लिखितान् विश्राण्य संप्रेषितैः । देशेभ्यो निखिलेभ्य एव निखिलान् दूतैः प्रभूतैरसौ वीरानाह्वयतिस्म विस्मयकरप्रौदामदोर्विक्रमान् ॥ ८८ ॥ इति श्रीजयसिंहसूरिशिष्यमहाकविश्रीनयचंद्रसूरिविरचिते श्रीहम्मीरमह काव्ये वीरांके अल्लावदीनामर्षोनाम दशमः सर्गः समाप्तः ॥ अथैकादशः सर्गः अंगस्तिलंगो मगधो मसूरः कलिंगवंगौ भटमेदपाटौ । पंचाल बंगाल धमीम भिल्ल नेपाल डाहल हिमाद्रिमध्याः ॥ १ ॥

इत्यादयोऽन्योन्यमहंयुताभिः संमेलितप्रौढपताकिनीकाः । शकाधिराजा निखिला अपीमां पुरीमथायुर्यवनेश्वरस्य ॥२॥ युग्मं ॥ वीरैर्जयश्रीकरपीडनाय लुंठाकवृंदैरपि लुंठनाय । व्रजद्भिरन्यैः कुतुकेक्षणाय शून्योभवंतिस्म दिशां प्रदेशाः ॥ ३ ॥ याते मयीदं बलभारभुग्नं कः सासहिर्धत्तुमिमां धरित्रीं । इतीव शेषाहिरमुष्य सैन्ये न केवलं गंतुमना बभूव ॥ ४ ॥ साश्वद्विपेष्वेषु चलत्सु भूभृ—न्निदेशमात्रेण दिशो दशापि । दिग्दंतिनो दंतिषु यद्यतिष्ठन् भास्वद्रथाश्वाश्च तुरंगमेषु ॥ ५ ॥ पादातिकानां करिणां रथानां चया हयानां च तथा प्रसस्रुः । तलं तिलस्यापि तुषानुमेयं रिक्तं यया न काचिदास भूमेः ॥ ६ ॥ ततोऽनुजौ स्फारभुजौ शकाना मधीश उल्लूनिसुरत्तखानौ । इदं महावीर्य्य वितीर्य्य सैन्यं अचीचलत् जेतुममुं हम्मीरं ॥ ७ ॥ शकेश्वरोद्यापि समस्तिपश्चात् सृजन्निति क्षत्रकुलेषु भीतिं । शरीरमात्रः स्वयमत्र चास्थात् अहो शकानां नृपनीतिवित्त्वं ॥ ८ ॥ लब्ध्वा सहायं निसुरत्तखानं ज्वलन् क्रुधोलूपपदः सखानः । इयेष मूलादपि वैरिवंशान् दग्धुं बृहद्भानुरिवाहिंकांतं ॥ ९ ॥ बलं किलैतत् व्रजतिस्म यत्र यत्रैष शेषोपि च तत्र तंत्र ॥ महीतलध्वंसभिया प्रसर्पन्नासीच्छकाज्ञाप्रविलोपिधैर्य्यः ॥ १० ॥ पद्भिः पतद्भिर्ध्रुवमस्मदीयैः शेषो धरां धर्त्तुमसो न शक्तः । तन्वीं भुवीतीव वितेनुरेते गतिं तुरंगा गगने तुं गुर्वी ॥ ११ ॥ धावद्वयालीपद्पादजात—रेणूत्करैः पूरिषताब्धयो मा । हेतोरिवास्मात् द्विरदा असिंचन् मदांबुपूरैरभितोपि भूमिं ॥ १२ ॥ सहाभविष्याम पुरा वयं चेत् किं बाहुजास्तार्हि पराभविष्यन् । इत्यूचुषः कांश्चिदुपेत्पूर्वानाद्यापि किंचित् गतमित्यवोचन् ॥ १३ ॥ गजाः कियंतस्तुरगाः कियंतो रथाः कियंतः कति वा भटाश्च । जनैर्जनानामिति वादितानां संख्या न हीत्युत्तरमेकमेव ॥ १४ ॥

११ ] यवनवीरवर्णनम् ९७ सर्वांगसन्नेह निवेशलक्ष्य चक्षुर्द्वयीमात्रतयातिरोद्राः । प्रधारमानाः सुभटा विरेजु लौहस्य गोला इव विस्फुरंतः ॥ १५ ॥ क्षणात् शकानां कटकैर्निपीता-शेषाम्भसामध्वनि निम्नगानां । गभीरमप्यास तलं सुदर्शं जडात्मनां वा न दुरापमंतं ॥ १६ ॥ भुक्तिं व्यधाद्यत्र न तत्र सुप्तिं यत्राततैतां न च तां च तत्र । अयेत्यविश्रांततरैः प्रयाणै र्लक्षीचकारैष विपक्षसीमा ॥ १७ ॥ सैन्यैः शकानां प्रसृतैः समंतात् देशः कृतः शैशवशंवदः सः । निर्नाथवन्मंक्षु पलाय्य जीव-ग्राहं प्रयातिस्म यतस्ततोपि ॥ १८ ॥ ततोऽद्रिघट्टान् प्रसमीक्ष्य पूर्वा-नुभूतभीसंस्मरणादयालुः । आहूय खानो निसुरत्तखानं सहोदरं सुंदरमित्युवाच ॥ १९ ॥ भ्रातः प्रवेशे विषमा गिरींद्रा भटास्तदीयाः प्रकटौजसश्च । तदद्रिघट्टान् विशतो बलस्य भवन्नपायः खलु नो हिताय ॥ २० ॥ तद्द्वाहुजान् संधिमिषेण विप्र-तार्याद्रिघट्टेपु सुखं विशामः । उपायसाध्ये खलु कार्यबंधे न विक्रमं नीतिविदः स्तुवंति ॥ २१ ॥ मते मतेऽव्यानुमतेऽमुनापि श्रीमोल्हणं श्वाग् विधिनानुशास्य । दिदेश संधानकृते हमीर-(राज्ञः स)मीपे कितवः प्रयातु ॥ २२ ॥ स्वयं च सन्नह्य बलान्यमुष्मि क्षेत्रं छलेनाविशदंतरद्रि । मध्ये प्रविष्टः सुखसाध्य एवा-स्माकं भटैरित्यमुपेक्षितश्च ॥ २३ ॥ मुड्यां प्रतोल्यामनुजस्य शस्य श्रीमंउपे दुर्गवरे निजं च । सरश्च जैत्रं परितः परेषा मतिष्ठपत्सैन्यमपास्यदैन्यः ॥ २४ ॥ स मोल्हणः प्राप्य कथंचिदंत स्ततः प्रवेशो नृपशासनेन । दृष्ट्वा रणस्तंभपुरं तदुच्चै-र्बभूव चित्रार्पितनेत्रपद्मः ॥ २५ ॥ वप्रे यदीये स्फटिकोद्भवानां माला लसंखः कपिशीर्षकाणां । दिगंगनानां वदनश्रियं स्वां विलोकितुं दर्पणभावमीयुः ॥ २६ ॥ प्रदेशयोरप्युभयोर्मिलद्भि र्माणिक्यसोपानमयूखजालैः । विलासवापीपु पयश्चकासां-बभूव यत्रेव निबद्धसेतुः ॥ २७ ॥ 13 k

९८ श्रीहम्मीरमहाकाव्ये [सर्गः यस्मिन्मृगाक्षीवदनेन्दुभाभि र्विसारिणीभिर्विजितः शशांकः। खेयांबुपूरप्रतिबिंबदंभात् किमेष दुःखात्प्रददौ न झंपां ॥ २८ ॥ त्यागाय भोगाय विवेकभाजा जनेन शश्वद्विधृता कराब्जे । लेभेऽवकाशं चपलापि लक्ष्मीः पलायनं कर्तुमहो न यत्र ॥ २९ ॥ मरुत्तरंगप्रविकंपितायां ध्वजावलौ इभयतमालयेषु । लीनेव यत्रास्थिरता न जातु रमासु रामासु समुल्ललास ॥ ३० ॥ जालैर्मणीनामधिकुट्टिमोद्य—द्भासैः समंतात्प्रसरन्मयूखैः । प्रासादशृंगेषु दृशौधनावली निन्येवकेशित्वमुषासु यत्र ॥ ३१ ॥ यत्रोज्वलत्स्फाटिकभित्तिभागे ऽप्येणीदृशो दृष्टनिजांगलक्ष्म्यः । मांगल्यहेतो र्नवरं निरीक्षां—चक्रुर्विभाते मुकुरेषु वक्त्रं ॥ ३२ ॥ यत्रेभदंतोद्भवचित्रजाल—वातायनस्थाः कृतदिव्यभूषाः । विनिद्रपाथोजदृशो विमान मधिश्रिता देव्य इव स्म भांति ॥ ३३ ॥ नृपालयोत्तंसितशातकुंभं—कुंभप्रभा यत्र समुल्लसंत्यः । अभ्युन्नतासन्नपयोधराणां वर्षासु संपासमतामगच्छन् ॥ ३४ ॥ अनारतं कौमुदमादधानाः संसेव्यमाना द्विजराजिभिश्च । मिष्टैः पयोभिः प्रतिभासमाना विभांति यागा इव यत्तडागाः ॥ ३५ ॥ वातायनाः किं किममी विमाना जनः समं तेष्विति संशयानः । अबोधि यस्मिन् मिथुनैस्तु तत्स्थै रेवाऽनिमेषैश्च निमेषिभिश्च ॥ ३६ ॥ विलासिवेश्मोदरदह्यमान—सुगंधिधूपोत्थितधूमसंगात् । व्यधायि यस्मिन्नपि किन्नरीभि र्यत्नजन्या पटवासयुक्तिः ॥ ३७ ॥ मद्वृद्धिसंस्पर्धिविवर्द्धिकीर्त्ति परं पुरं किंचिदिहास्ति नो वा । इतीव यद्ध्वंशिरोधिरुह्य भुवं दृशा पश्यति गोपुरेण ॥ ३८ ॥ निवासवद्भिः सुमनोभिरेभि र्विमानतास्मासु कृतेति दुःखात् । नैवास्वपन्नित्यपि निर्निमेष—कपाटपक्ष्माणि गृहाणि यत्र ॥ ३९ ॥ विसारितक्रांतिचयाभिभूति—द्विरेफितस्वर्णतुलासु यत्र । स्त्रीणां मुखानि प्रतिबिंबितानि स्वर्णोत्पलानीव यमीषु रेजुः ॥ ४० ॥

११] हम्मीरराजपुरवर्णनम् ९९ सूर्याश्मकुड्यप्रतिबिंबिनारी—मुखानि यत्राब्जधिया वितर्क्य । दधुः सुकेश्यः पततो द्विरेफान् दशन् सखीवक्त्रमीस्ममेति ॥ ४१ ॥ कुशेशयायासिदृशो निशायां रतौ ह्रिया यत्र निशम्य दीपान् । ध्वस्तेऽभवन् संतमसेऽवकेशि—यत्नाः स्फुरत्कुड्यमणिप्रभाभिः ॥ ४२ ॥ निशम्य यत्रा[विरतोत्सवेषु मृदंगनादान् ध्रुवमर्जितो यः । अद्याप्यमी गर्जिषु वारिवाहा विवृण्वतेऽभ्यासभरं तमेव ॥ ४३ ॥ दृग्मीलनकेलिषु यत्र बाला सखीमहातंकसुनिश्चलागी । पांचालिकानां वितनौ निलीना दृष्टापि नाग्राहि सखीजनेन ॥ ४४ ॥ महाकुलकं निभालयन् लोचनलोभिलाक्ष्मि क्रीडानिकेतं पुरमेतदुच्चैः । नृपालयश्रीकरकैरवेषु दृशं भृशं स भ्रमरीचकार ॥ ४५ ॥ स्तंबेरमाणां मदवारिभिन्न—कुंभस्थलीसंचरणप्रमत्ताः । झंकारवै र्यत्र सदा द्विरेफा वसंतमाहुः स्म वसंतमेव ॥ ४६ ॥ क्रीडागिरींदैरिव वीरक्ष्म्या यदेकतो राजत वारणेंद्रैः । गंगातरंगैरिव दत्तरंगै स्तथा न्यतोश्वैः पदखातविन्धैः ॥ ४७ ॥ भुजंगमाधिष्ठितचंदनद्रु मिवासिहस्तं प्रकृतिप्रशस्तं । पूर्वाद्रिचूलाश्रिततिग्मराश्म मिवोरुसिंहासनसन्निविष्टं ॥ ४८ ॥ सिंहासनोत्तर्गतबिंबदंभात् धराधिपैः शीर्ष इवोह्यमानं । रंगत्तरंगांगरुचीचयेने—व खर्वयंतं नवहेमगर्वं ॥ ४९ ॥ नक्षत्रचक्रेष्विव शीतरश्मि मर्मर्त्यचक्रेष्विव देवदेवं । नरेंद्रचक्रेषु विराज मान मनन्यजन्येन महामहिम्ना ॥ ५० ॥ निबद्धभूर्विवितसभ्यदंभान् सभामधस्तादिव कुर्वतीं गोः । अधिश्रितं तत्र सभां विभाव्य हम्मीरदेवं स हृदीति दध्यौ ॥ ५१ ॥ किमेषकामो न यतो ऽननंगः किमेष दक्षौ न यदद्वितीयः। किमेषविष्णुर्न यतो ऽद्विबाहुः किमेष वज्री न यतो द्विनेत्रः ॥ ५२ ॥

१०० श्रीहम्मीरमहाकाव्ये [सर्गः त्यक्तान्यकार्यैरथवीरवर्यै विलोक्यमानो वदतीति किं किं । प्रणम्य भूपं दरनम्रमौलिः प्रचक्रमे व्यक्तमिदं प्रवक्तुं ॥ ५३ ॥ "स्वतेजसैवारिगणं विजित्या—कुतोभयं संसृजतः स्वराज्यं । वृथैव वर्षासनमाददाना ललज्जिरे यस्य भटा निकामं ॥ ५४ ॥ दुर्गाणि दुर्ग्राह्यतराणि शाणो—लीढानि शस्त्राणि भटा रणोत्काः । अभ्रंलिहाग्रा गिरयो यदग्रे न वास्तवीं वृत्तिमयुः कदाचित् ॥ ५५ ॥ दुर्गाणि दुर्ग्राह्यतराणि यः श्री-देवाद्रिमुख्यान्यपि मंक्षु भंक्त्वा । अपींद्रमुद्यद्दरदंतुराक्षी-चकार कारायमितारिचक्रः ॥ ५६ ॥ दुर्गाणि दुर्ग्राह्यतराण्यरीणां भजन्ननेकान्यपि लीलयैव । आजन्मभग्नत्रिपुरैकदुर्गे दुर्गापतौ योत्र घृणां बिभर्ति ॥ ५७ ॥ यद्यन्मनस्थ्यप्यमुना नरेंद्र ! निधीयते तत्तदहो तदात्वं । संपादयन् सोपि विधिर्विशंके न शासनं यस्य विहंतुमीष्टे ॥ ५८ ॥ अल्लावदीनस्य नृपस्य तस्या—नुजौ किलोलूभिसुरत्तखानौ । देशं तवाक्रम्य तदाज्ञयैव त्वामाहतुः स्मेति मदाननेन ॥ ५९ ॥ हम्मीर ! राज्यं यदि भोक्तुमीहा तत्स्वर्णलक्षं चतुरो गजेंद्रान् । अथोरसानां विशतीं सुतां च दत्वा किरीटीकुरु नो निदेशं ॥ ६० ॥ इदं विमुक्तं यदि वा परंतु तथास्तदाज्ञाप्रविलोपिंनो ये । षाग्मुद्गलांस्तांश्चतुरोपि दत्वा क्रोडीकृतां क्रीडय राज्यलक्ष्मीं ॥ ६१ ॥ त्यक्त्वा यथैतं तव दुर्गरोधं देशान् पुरः साधयितुं व्रजामः । न चेद्विधाता प्रतिधोचितं स्व-राभ्यां तु तत्तेनुभवोऽभिधाता ॥ ६२ ॥ इत्येतदीयानि वचांसि भूपः श्रुत्वाथ भीमां भृकुटीं दधानः । नवोल्लसत्क्रुद्विषवलिसून—द्विरेफलीलाक्षरमित्युवाच ॥ ६३ ॥ वशिष्टयुक्त्या यदि नाभविष्य दाजग्मिवानत्र भवान् कथंचित् । तदा त्वयोगादि ययेदमर्वाक् जिव्हां ध्रुवं तां निरक्रासयिष्यं ॥ ६४ ॥ दंतौ द्विपस्येव मणिं भुजंग—स्येवेणशत्रोरिव केशरालीं । श्रीचाहमानस्य धनं बलेन न जीवतः कश्चन लातुमीष्टे ॥ ६५ ॥

११] हम्मीरभापगवर्णनम् १०१ स्वर्णं गजा दंतितुरंगमानां पदे प्रदेया यदि खड्गघाताः । भवत्प्रभू सूकरमांसमेव सद्यः स्वेदेतां यदि जातु यातः ॥ ६६ ॥ द्विषामपि स्याच्छरणागतानां रक्षासु मंदोपि निबद्धकक्षः । तद्युद्धलग्नो ननु याचमानौ न किं तदीशौ जडधीर्वतंसौ ॥ ६७ ॥ शतांशमप्येकविशोपकरस्य न प्राणमोक्षेपि ददे बलेन । यद्रोचते नाम भवत्प्रभुभ्यां तत्तूर्णमेवाचरतां यथेच्छं ॥ ६८ ॥ एवं विनिर्भर्त्स्य मुहुर्मुहुस्तं वशिष्टपाशं गलहस्तयित्वा । निष्कासयामास पुराद्भटानां त्रातुं च दुर्गं ददिवान् विभज्य ॥ ६९ ॥ उत्तंभितान्युद्धतघर्मघर्म—च्छिदेधिशालंपटमंडपानि । दिवानिशं संगरजागरूकभुजैर्विरेजुर्निभृतं भृतानि ॥ ७० ॥ वंगोपलिप्तस्फुटलोहबंध—दृढोलसत्कँकुलियष्टिदंभात् । शालोपि युद्धाय विवृद्धमन्युः संवर्मयामास भुजानिव स्वान् ॥ ७१ ॥ रालाविलं तैलमयःकटाहे तप्तं प्रकामोत्कलिकाछलेन । दग्धुं युयुत्सून्प्रतिपक्षपक्षान् अलक्षयतौत्सुक्यमिवादधानं ॥ ७२ ॥ चेतश्चमत्कारिकलोत्सृतानि संश्चक्रिरे भैरवयंत्रकानि । व्यामोहहेतोः स्फुटमिंद्रजाला—नीवागतानां शकपुंगवानां ॥ ७३ ॥ दूतः प्रभूतप्रतिघोध गत्वा निजप्रभुभ्यामखिलं तदुक्तं । न्यवेदयत्तावपि निर्विलंबं युद्धाय सैन्यं-गुणं व्यधत्तां ॥ ७४ ॥ ब्रह्वेव मध्ये पुरमाहवाय ससर्ज यान् यान् नृपतिः प्रयोगान् । तांस्तानमर्षात्कुशिकांगभूवत् सद्यः शकेंद्रोपि वहिस्ततान ॥ ७५ ॥ शक्रेषु वाद्येषु भृशाहतेषु दंडैः स्वना ये प्रकटीबभूवुः । प्रतिस्वनैः स्तांस्तिरयन् गिरींद्रो न स्वामिभक्तव्रतमुज्झतिस्म ॥ ७६ ॥ निषादिनो दंतिवरांस्तुरंगा नप्यश्ववारा रथिका रथांश्च । समंततो प्यारुरुहुः पदा (ति?) पूगा वितेनुः श्रममाहवाय ॥ ७७ ॥ महीभ्रमभ्रंकषमप्यमुं स्व-वीर्याग्रतः क्षुद्रमिवेक्षमाणाः । दुढौकिरे योद्धुमतिप्रवृद्धो—त्साहास्ततस्ते समरोत्कवाहाः ॥ ७८ ॥

१०२ श्रीहम्मीरमहाकाव्ये [सर्गः समं च्छुटद्भिर्भटपाणिपद्मा द्व्राणैस्तमिस्रं ककुभां बभूव । निर्घोषपूरैरपि कार्मुकाणां विश्वं समग्रं बधिरत्वमाप ॥ ७९ ॥ नीरन्ध्रमाकाशमनूज्झितेषु काण्डेषु क्लृप्ताम्बुदताण्डवेषु । आग्नेयबाणा भृशमुत्पतंत आकालिकीकेलिकिलीबभूवुः ॥ ८० ॥ आकर्षतां संदधतां रयेण विमुंचतां बाणगणान् भटानां । विलोकमनैरपि निर्निमेष मलक्षि नैवांतरमंबरस्थैः ॥ ८१ ॥ तपात्ययांभोदपटुच्छटावत् दुर्गादवर्षन् सुभटाः शरौघान् । कौक्षेयदाक्ष्येण मृणालनाल--वच्चिच्छिदुस्तान् यवना जवेन ॥ ८२ ॥ मिथोपि वीरव्रजपाणिमुक्त--पृषत्कवक्त्रास्फलनप्रभूताः । रेजुः पतंतोऽग्निकणाः प्रदग्धुं पलायितानामिव कीर्तिवल्लीं ॥ ८३ ॥ क्षत्रप्रकांडप्रविमुक्तकांड--पक्षोद्भवः कोपि स वायुरासीत् । यत्रोन्मदिष्णौ रिपुदर्पसर्पो--प्यासीत्क्षणं व्याकुलचित्तवृत्तिः ॥ ८४ ॥ आकर्णमाकृष्य भटैर्विमुक्तैरधोमुखैरूर्ध्वमुखैश्च बाणैः । उत्पातहेतोर्ववृषुः शकाना मघोमुखा ऊर्ध्वमुखाश्च मेघाः ॥ ८५ ॥ शिलीमुखौघैर्यवनप्रणुन्नै र्वप्रः समंताच्छुशुभे चितांगः । विगाहमानो रिपुदर्पसर्प--विनाशहेतोरिव जाहकत्वं ॥ ८६ ॥ भ्रमंभ्रमं वीरवरैर्निजांगो--परि प्रणुन्नाः प्रतिशत्रुवीरान् । कुंता विरेजु र्निशिताः पतंतः स्फुटाः कटाक्षा इव भानुसूनोः ॥ ८७ ॥ सद्यांत्रिकैर्भैरवयंत्रगोला मुक्ता मिथोऽप्यूर्ध्वमधः पतंतः । अपि द्वयानामरुचन् भटानां पीना उरोजा इव वीरलक्ष्म्‍याः ॥ ८८ ॥ दूरोन्नमड्डिंडुलिकाग्रहस्ताः शौर्यश्रियः क्षत्रकुलोद्भवस्य । समुत्पतद्गोलकदंबदंभात् पंचेष्टकैः पर्यश्नन्निवैताः ॥ ८९ ॥ प्रक्षिप्तरालावलितप्रतैल--संगज्वलत्कुंतलकैतवेन । क्षत्रेषु कोपाग्निरमानिवांतः शंके शकानां बहिरुल्ललास ॥ ९० ॥ प्राकारभित्तेः खनने प्रवृत्तान् शकप्रवीरान् कुशटंकहस्तान् । विभिद्य शूलैर्वटकानिवोच्चै रुचिक्षिपूः क्षत्रकुलावतंसाः ॥ ९१ ॥

५. अन्तिम शाका, जोहर, हम्मीर पराक्रम व उपसंहार

११] निसुरत्तखानवधः १०३ उत्प्लुत्य शाखामृगवद्गिरींद्र मारूढवंतः किल केपि वीराः । प्रचख्नुरे शालतलं प्रविश्य केचिद्वराहा इव तीव्रकोपात् ॥ ९२ ॥ दुर्गस्थवीरव्रजमौलिमौली—नपाहरन् बाणगणाः शकानां । समीरगुंजा इव पादपानां पुष्पाणि शाखाशिखरोद्भवानि ॥ ९३ ॥ अचाक्षुषत्वं प्रगतांस्तनुत्वात् घटैकदेशीयभटप्रणुन्नान् । नालीकबाणान् प्रविभिन्नगात्रा न क्-शकानां परिणाम एव ॥ ९४ ॥ उत्खाय शालस्य शिलां प्रविश्य तदंतरे बाहुजघातभीताः । स्थिता विरेज्युर्यवनादिवांधा इवातपत्तापनरश्मिसन्नाः ॥ ९५ ॥ निजप्रहारव्रणजर्जरांगान् शकान् गिरेर्निष्पततो निरीक्ष्य । वीरा हसान् यान् व्यदधंस्त एव हम्मीरवीरस्य यशांस्यभूवन् ॥ ९६ ॥ श्रित्वा नगागान् गरुडासनेन हृष्टा निविष्टा यवनेशयोधाः । विद्धाः शरैर्वीरवरैस्तथैव चित्रं प्रयाता इव रेजुरुच्चैः ॥ ९७ ॥ निश्रेणिमालंब्य धृतासवोऽन्ये दंतैरथारोहणमाचरंतः । दुर्गे हता मूर्धनि मुद्गरेण दुर्गस्थितैः पेतुरमातयैव ॥ ९८ ॥ इत्थं सदाप्यौपयिकैरनेकः परिस्फुरद्धौकनसाहसस्य । अगाच्छकानां क्षयकालरात्रि रिव त्रिमासी यवनाधिपस्य ॥ ९९ ॥ प्रवर्त्तमाने समरेन्यदीया—पस्फाल गोलः शकगोलकेन । प्रभ्रश्यता तच्छकलेन मूर्ध्नि हतो व्यनेशन्निसुरत्तखानः ॥ १०० ॥ अथ गतं सहसापि परासुता ममुमवेक्ष्य परिक्षवदीक्षणः । अविदितः परदेवनासबनं भृशमसौ शकपोऽत मध्यमः ॥ १०१ ॥ प्रक्षिप्यैनं तदनु सहसा मध्यमोसौ शकाना- मीशः स्वर्णस्फुटजटनतामंजुमंजूषिकांतः । ढिल्यां धूत्वा कथमपि धृतिं प्राहिणीत्तामभृतं वा क्षोणीभर्त्तुः स्वसकलकथाज्ञापनपत्रपूर्वं ॥ १०२ ॥ एतद्वीक्ष्याप्तशोकः श्रुतरिपुजनिताशेषतत्तद्विकारः कृत्वा तस्यांतकृत्यं निखिलमपि यथा युक्तिकोपप्रकंपः ।

वेगादागादमुत्र स्वयमथयवनैकावनौलावदीनो वीरंमन्या सहंते रिपुजनजनितं कापि किंवा निकारं ॥ १०३ ॥ इति श्रीजयसिंहसूरिशिष्यमहाकविश्रीनयचंद्रसूरिविरचिते श्रीहम्मीरमहा- काव्ये वीरांके निसुरत्तखानवधवर्णनो नामैकादशः सर्गः समाप्तः ॥ अथ द्वादशः सर्गः अल्लावदीननृपतिं तमागतं श्रुत्वाथ जैत्रिरवनीवनीघनः । दुर्गोपरि प्रतिपदं मदादसौ शूर्पाण्यवीवधदुदारधीधनः ॥ १ ॥ दृष्ट्वा तदद्भुतमसौ शकेश्वरो विस्मेरविस्मयविकासिलोचनः । पप्रच्छ पाणितलचालसंज्ञये—त्येतत् किमंग वरणोपरि स्थितान् ॥ २ श्रुत्वाऽङ्कतीयभणितिं हम्मीरराट् हर्षप्रकर्षमतिमानमुद्वहन् । प्रोदंच्यवक्त्रकमलं हसन्मनाक् प्रोवाचं वाचमिति तं शकाधिपं ॥ ३ ॥ म्लेच्छावनीदयितचारुचारुभो चक्रे व्ययागमदमुत्र यद्भवान् । पूर्णे ऽनसि प्रचुरवस्तुसंचयै र्भाराय किं भवति शूर्पसंचयः ॥ ४ ॥ उक्तिं निशम्य स इमां शकाधिपो राज्ञोदितां समुचितामदो वदत् । तुष्टस्तवोपरि हम्मीरभूपते याचस्व वांछितमतुच्छविक्रम ॥ ५ ॥ क्षत्रोत्तमोथ निजगाद यद्यद स्तर्हि प्रयच्छ समरं दिनद्वयीं । आयोधनादपरमत्र दोषमतां नो वांछितं किमपि वल्गु वल्गति ॥ ६ ॥ तद्वचः श्रवणतः शक्रोत्तमः क्षात्रव्रते स्तुतिमुखो मुहुर्मुहुः । प्रातस्तदेव भवितेति भाषुकः स्वावासमासददसादमानसः ॥ ७ ॥ प्रातर्भविष्यति कदेति सत्वरं निध्यायतामथ रणाय दोषमतां । भास्वान्प्रियार्थमिव पूर्वपर्वत—स्योत्संगसंगसुभगं वपुर्दधौ ॥ ८ ॥ लक्ष्मीभराभिरमणीयतागुणं धर्तुं तदा प्रबलतामुपागमन् । पाथोरुहाणि सलिलाशयोदरे सैन्योदरे च सुभटाननैंदवः ॥ ९ ॥ दोषोदयस्फुरितमूर्त्तिविद्विषत्—ध्वांतव्रजोर्ज्जिततिरश्चिकीर्षया । सूरप्रकाश उपमानमानभित् प्रादुर्बभूव गगने बलेपि च ॥ १० ॥

१२] प्रथमदिनयुद्धवर्णनम् १०५ न्युष्टोचितां--------बलिक्रियां युक्त्या वितत्य स ततः क्षितीश्वरः । संग्रामसंगमविनोदहेतवे सैन्यान् रयेण समनीनहत्तमां ॥ ११ ॥ अल्पेतरद्युतिविकल्पिताहवाः कल्पप्ररूढरुचिरांगरोचिषः । षट्त्रिंशदायुधभृतो धृतोदया वीरा विनिर्ययुरूर्जीयंविक्रमाः ॥ १२ ॥ शृंगारतः समरसंभवो रसो नूनं विशेषमधुरत्वमंचति ॥ हित्वा प्रियांगपरिरंभणादरं वीरा रणाय यदमी प्रतस्थिरे ॥ १३ ॥ संग्रामसंगमविनोदहेतवे स्फूर्तिं गतानि नितमां महीयसीं । अंगानि वीरनिकरस्य नो तदा मांतिस्म वर्मसु सुविस्तृतेष्वपि ॥ १४ ॥ कश्चिद्विलोक्य कबरीं भियोद्गमत् सारंगशावकदृशः प्रकंपिनीं । ध्यानाध्वगीकृतरणांगणोल्लसत् खङ्गश्चचाल करवालगुद्वहन् ॥ १५ ॥ अंगे लगंत इषवः किमंगना काक्षाः किमंग नितमां प्रियंकराः । एतत् विवेचनविधानकौतुकी कश्चिन्महीररणमहीमभूषयत् ॥ १६ ॥ पूर्वं त्वदेकहृदयामरालयं गच्छाम्यहं ज्वलनवर्त्मना ऽमुना । किंवा मदेकहृदयोसि वर्त्मना त्वं काप्यवोचदिति सस्मितं हितं ॥ १७ ॥ संभाव्य वैरिकरिणां रणांगणे कुंभान्मम स्तनधियातिकामुक । माभूरनंगरसंगकौतुकी—त्येकं जगाद सुमुखी हसोन्मुखी ॥ १८ ॥ प्रेयांस्तवास्मि यदि वल्लभा ततः स्वोत्खातदंतिरदजातकंकणेः । पाणी विभूषय ममाद्य कंचिदि—त्यूचे प्रियारचितसाचिलोचना ॥ १९ ॥ स्नेहातिरेकवशतः स्वंपाणिना माताधिमौलितिलकं यदाकरोत् । शौर्यात्तदेव कवचाधिकं विदन् कश्चिच्चचाल किल वीरशेखरः ॥ २० ॥ कृत्वा करे दलिकखड्गमुद्धतं तात प्रहंतुमरिवीरकुंजरान् । एष्यामि नन्वहमपीति भापुकं कश्चिच्चचाल तनयं हसन् मुहुः ॥ २१ ॥ पुत्राद्य संगरमवाप्य सत्वरं विस्तारये भुजपराक्रमं तथा । वीरप्रसूतिलकृतां यथाश्रये कंचिज्जगाद जननी प्रमोदिनी ॥ २२ ॥ मेदस्विवीररससंगसंभव—द्रोमोद्गमत्रुटितवर्म्मसंहतिः । मूर्त्तो भयानक रसः स्फुरन्निवा चालीत्परो रुणितदारुणेक्षणः ॥ २३ ॥ 14 k

१०६ श्रीहम्मीरमहाकाव्ये [सर्गः विद्वेषिवीरजनमानदारणो माभूत्प्रवृत्त ऋत एव मारणः । संभावयन्निति निशम्य काहलां प्रायात् परः समरजिग्वरखरः ॥ २४ ॥ गृध्रं भ्रमंतमुपरीत्यूवकपरो संवर्म्मयन्नयमिह प्रतीक्ष्यतां । मूर्ध्नीतरस्य यदि वात्मनस्तनौ श्रद्धां तनोमि फलिनीं तवाधुना ॥ २५ ॥ स्याज्जीवता युधि यशो मृतस्य तु स्फीतं च तच्च सुरवल्लभा अपि । इत्यस्य वीरनिकरस्य निर्यतो जज्ञे न दुःशकुनमध्वनि क्वचित् ॥ २६ ॥ कुंभान्निधाय शिरसि प्रपूरितान् एलालवंगरसभीतलैर्जलैः । प्रीत्यानुयातुमसुवल्लभान्निजान् सज्जीबभूव निखिलो भटीजनः ॥ २७ ॥ अल्लावदीनविभुरप्यथोद्भट—द्विट्प्रोन्मथिषुतयाऽकुलाशयः । संनह्य सैन्यमनुजादिभिर्वृतः स्थाने प्रतिश्रुतमशिश्रियन्मिथः ॥ २८ ॥ अन्योन्यवीक्षणवशोल्लसन्महा—कोपप्ररूढमहिमप्रसृवराः । वीरा रंवाः प्रतिरवैश्च—दिभि योगैर्द्विरुक्तिमिव धातवो ययुः ॥ २९ ॥ अभ्रंकषोलसितचारुचामरे कुक्षिभरिद्विरदबृंहिते दिशां । प्रस्पर्धयेव दधतुः परस्परां सैन्ये इमे श्रियमिहाधिकाधिकं ॥ ३० ॥ पुष्णंश्चरंविनमयेन संगरो—त्साहं हृदि प्रधनकारिणां नृणां । तूर्याणि पूरितहरिति निस्वनैः सैन्यद्वयेपि नितरामराणिषुः ॥ ३१ ॥ भंक्तुं विपक्षकरिकुंभघर्षणैः कंडूलतां स्वभुजदंडयोरथ । चेलुर्भटा अपि बलद्वयाद्रणो—त्साहत्रुटंचुटदशेषकंकटाः ॥ ३२ ॥ पत्तिः पदातिकमियाय सादिनं सादी रथस्थितमहो महारथी । मातंगयानगमनो निषादिनं द्वंद्वहवोऽजनि तदेतिदोषमतां ॥ ३३ ॥ ऊर्ध्वाभवंत उरुविक्रमैः शिर—स्त्राणानि वीरनिकरस्य मूर्धजाः । स्मोत्स्वासयंति घनकालसंभवा भूस्फोटका इव महीप्रदेशकान् ॥ ३४ ॥ अन्योन्यजातहठतो गतांतरं मुक्तैः पृषत्कनिवहै रणांगणे । पाणिग्रहाय विजयश्रियो भटा यत्नेन मंडपमिव व्यरीरचन् ॥ ३५ ॥ कोदंडचंडरुचिमंडलादतो दीप्राः क्षुरप्रकिरणाः प्रपातिनः । प्रत्यार्थिवीरतिमिराणि वेगतो—प्यानिन्यिरे युधि कथावशेषतां ॥ ३६ ॥

१२ ] प्रथमदिनयुद्धवर्णनम् १०७ मत्पावनेऽद्य समरे तनुत्यजां भावी समागम इति प्रमोद्तः । भ्रष्टांतरभ्रमदिषुव्रजच्छला रोमांचितांगमिव दिद्युते नभः ॥ ३७ ॥ वीरैः प्रकाममभिमुक्तपत्तिणां नीरंध्रमंबरतले प्रसर्पतां । अंतः प्ररूढैर्नभवादिव क्षमः क्षेतुं न तीव्रकिरणोऽप्यभूत्करान् ॥ ३८ ॥ वीरव्रतस्य ददतौकपालिकां मास्मांतरायमिह कार्षुरेतके । सांद्रेऽपि बाणनिवहे निपेतुषि स्फारान् स्फुरानिति न केप्यलासिषुः ॥ ३९ ॥ वायुं विजित्य तरसा पतत्स्विह श्वासैः पुरैव चलितं विरोधिनां । भित्त्वा तदंगमनुवेक्ष्य तानि वै—तत्पृष्ठ एव चलितं शरैरपि ॥ ४० ॥ पार्श्वद्वयस्थकरिदंतभासुर स्तत्कुंभपीठविलुठत्करांबुजः । शौर्यश्रियो भुजलता स्तनद्वयी—संस्पर्शसौख्यमितरोऽन्वभूत्तमां ॥ ४१ ॥ प्रोतोऽरिणा सह शरेण वाजिनः पृष्ठे न शल्यभृशसंनिवेशनात् । संप्राप्तवानपि परासुतां परो नाश्वात्पपात युधि जीववानिव ॥ ४२ ॥ आरोढुमन्यसुभटे प्रलंबिते—त्स्कंधौ रदस्थितपरांधिभासुरे । क्रोधाद्भ्रमन् करिवरो रणांगणे शुंडाद्वयीं दधदिव व्यभाव्यत ॥ ४३ ॥ द्वैधीकृते शिरसि पाणिना धृते चोर्ध्वं निहंतुमहितस्य चिंतयन् । संधागतेन्यशरशल्यतः परो दृप्यन्नधावत नियोद्धुमुद्धतः ॥ ४४ ॥ ऊर्ध्वं विदारितमरातिना शिरो भ्रश्यन्नियोजितमपि द्विधाप्यधः । स्वेनैव भिन्नजठरादुपाद्द्रुतै रंत्रैर्निबध्य युयुधे पुनर्भरः ॥ ४५ ॥ विस्मेरमारचरितां विकंचुकां स्नेहाधिकां विशदकांतिधारिणीं । छित्वा करं प्रतिभटस्य कोप्यला—त्तद्दलभामिव कृपाणवल्लरी ॥ ४६ ॥ आक्रम्य पादमुरुणैकमंघ्रिणा धृत्वा करेण च परं महाप्रहात् । लोकद्वयीमयमसाधयद्युधी—त्याख्यान्निव द्विरकृतेतरं करी ॥ ४७ ॥ याभ्यामहारि मम वल्लभाम्तन—श्रीस्ताविमाविति परोत्यमर्षणः । कुंभौ गजस्य समरे विदारयन् आधोरणप्रहृतिमप्यजीगणत् ॥ ४८ ॥ अन्योन्यदत्तकरवालवल्लरी—प्रौढप्रहारपरिभिन्नहृत्तया । कौचित्क्रतौ युधि भटौ परासुता मालिंगिताविव मिथोपि रेजतुः ॥ ४९ ॥

१०८ श्रीहम्मीरमहाकाव्ये [सर्गः सदंशजोपनतकोटिभूषणा संलीनसायकसमुल्लसद्गुणा । दृष्टा परस्य समरे धनुलता वेश्येव कंपमतनिष्ट कस्य न ॥ ५० ॥ कस्याप्यसिर्दिरदकुंभमंडला त्पीत्वा भृशं समितिशोणितासवं । उन्मत्ततां गत इवाशु विद्विषां वक्षःस्थलीमभिनिपेतिवान्मुहुः ॥ ५१ ॥ लूनेऽग्रजन्मनि पदद्वयेऽरिणा दंतावलस्य पततः क्षितौ किल । उत्तंभनाय निजमेव दंतयो र्युग्मं बभूव किमिवान्यदीदृशं ॥ ५२ ॥ प्रत्यर्थिमुक्तशरभिन्नपुष्करो लेभे न घातसमयेपि तां किल । अग्रे स्फुरंतमपहर्तुमक्षमा लेभे त्रपां प्रतिभटं करी व्यथां ॥ ५३ ॥ दत्वा प्रहारमतिलाघवात्पुरः पृष्ठं श्रयत्यसकृदुद्धते भटे । क्रुद्धो भ्रमन् समिति तज्जिघृक्षया वात्या विनोदमभजत्परो गजः ॥ ५४ ॥ भित्वाखिलांगमपि भूजुषेषुणा हत्वा करेणुमितरोभिपांतुकं । वर्त्मेव हंसगमनाय तेनिवान् क्रौंचं पराशरसुतो गिरिं यथा ॥ ५५ ॥ कस्यापि कुंडलितचापमंडलां—तर्वर्त्तिवक्त्रकमलं बभौतमां । प्रत्यर्थिषु प्रबलबाणवृष्टये बिंबं स्फुरत्परिधिशीतगोरिव ॥ ५६ ॥ द्वेधीकृतस्य सुभटस्य कस्यचि—त्सव्येतरार्धमवलोक्य वर्ष्मणः । लब्धोद्य शंभुरुमयाविनेयधा—वंतामरेशदयितो दिशोदिशः ॥ ५७ ॥ जज्ञे तदा रणभृतां च रक्षसां यज्ञे महाहटरभरः परस्परां । एके प्रथीयसितरामसृन्मदीं चक्रुः पराणि पपुरेव तत्क्षणात् ॥ ५८ ॥ नःसंख्यसंख्यविवरातिथीभव—द्वीरातिथेयकरणैरवातुरे । द्वीपांतरं व्रजति तिग्मदीधितौ सैन्ये उभे अपि ततो विरेमतुः ॥ ५९ ॥ इति प्रथमदिनं द्वितीयदिनयुद्धम् स्वप्रसंगसमरैरनेकधा रात्रिं व्यतीत्य सुभटाः कथंचन । प्रातः पुनर्निजनिजाधिपाज्ञया संग्रामसीमनि मनो व्यनोदयन् ॥ ६०

१२] द्वितीयदिनयुद्धम् १०९ संनद्धयोरथ च सैन्ययोर्द्वयो रानद्धहेममयकंटकैर्भटैः । स्वस्मिंस्तदा समरभूरपि स्फुटं प्राचीव कांचनरूचं दधौतमां ॥ ६१ ॥ मूर्च्छामितोपि किल कोपि विद्विष—त्खड्गप्रहारवशतो रणांगणे । तं लातुमागतमरीकरामृत—स्पर्शाद्विबुध्य युयुधे भृशं पुनः ॥ ६२ ॥ उत्प्लुत्य वीरकलशेन कोपिना मुक्तेन हस्तिपककुंभभूमिदा । कुंतेन भिन्न इतरः करी बभा—वालानलंबित इवाहवांगणे ॥ ६३ ॥ लग्नप्रतीभदशनद्वयीतया संरूढसिंधुमितदंतभासुरः । स्तंबेरमो रणभुवींतरो भ्रम—न्नैरावणेन सुलभां दधौ विभां ॥ ६४ ॥ लग्नारिवाणगणसंभवव्रण—श्रेणिप्रमत्तकरिकुंभमंडलात् । धारा निपेतुरसृजो मदस्य च स्पर्धां दध्य इतरेतरामिव ॥ ६५ ॥ कस्याप्युदग्रतरवारिदारिता दंत्राणि रेजुरुदरात्पतंत्यधः । आदातुमेकपदमैव तं दिवः क्षित्ताः सुरीभिरिव पाशपंक्तयः ॥ ६६ ॥ क्रुद्धे प्रधावणाय सिंधुरे वाहानुपर्युपरि वीक्ष्य पातिनः । देवैरहासि यदहो तदेव त—न्मौलौ बभूव सुमवृष्टिरुत्कटा ॥ ६७ ॥ उत्पाट्य बाहुमभिसन्निवेशनात् कुंतव्रणोच्छलितशोणितच्छटाः । वीरश्रियेव नवकुंकुमच्छटा दत्ता भटोरुषु विरेजिरेतमां ॥ ६८ ॥ स्वारोढुरुन्नततरान्निषादिनो हंतुं सुखेन वितरन् प्रवीणतां । श्रीवृक्षकी हयवरो रणांगणे स्वामुन्नतिं प्रविदधौ फलेग्रहिं ॥ ६९ ॥ उत्प्लुत्य भूत इभकुंभमाश्रितः स्वोजोर्जिताद्रुतयशःसितद्युतिः । मेघात्ययोध्र इव तुंगभूभृतः शृंगायलीन इतरो व्यराजत ॥ ७० ॥ संग्रामभूपतितवीरमर्दनात् पादांतलग्नलसदस्रकैतवात् । क्रीडन्परः समरपल्वले करी सेवालजालमिव बिभ्रदाबभौ ॥ ७१ ॥ एकः करी समरसीम्नि सादिनं चिक्षेप कंदुकमिवाधिपुष्करं । धृत्वा करेण च कटौ परो हयं प्रास्कालयद्रजकवस्त्रवद्भुवि ॥ ७२ ॥ धाराप्रपातकृतलोककौतुक स्तेजोवितानविलसच्छतह्रदः । कस्याप्यसिर्युधि पयोधरायितो युक्तं द्विषामजनि हंसनाशकृत् ॥ ७३ ॥

११० श्रीहम्मीरमहाकाव्ये [सर्गः कस्याप्यपाकृतगणोन्नमार्गगो लक्षाय धावति तदा स्म धावतु । कोटिद्वये सति ननाम यद्धनुः सद्वंशजस्य न तदस्य सांप्रतं ॥ ७४ ॥ ज्योतिर्मयीभिरिह मूर्त्तिभी रणे व्याप्तेभितोपि गगने समिस्कृतां । नालक्षि दैवतगणैरपि क्षणं व्यक्तं सहस्रकिरणस्य मंडलं ॥ ७५ ॥ क्रोधारुणेक्षणरुचीचयाचितं कस्यापि कृष्टमरुचत् धनूरणे । कुंडं हविर्भुज इव स्फुरज्जय-श्रीकृष्टयेऽरिपपुशून् जुहूपतः ॥ ७६ ॥ क्रोधप्रधावितरथांघ्रिमर्दनात् व्युत्थत्करंकसविकाशशब्दितैः । जीवत्यहो मयि कथं भ्रमंत्यमी इत्यन्वशोत पतितः किलेतरः ॥ ७७ ॥ कुर्वद्भिरन्विह रणे पलायितान् धावद्द्रयस्खलनतां पदेपदे । वीरैर्जहे न विरुदं पलायितप्राकार इत्यनुगतं मृतैरपि ॥ ७८ ॥ संग्रामसंगमविनोदिवारण-प्रोक्षिप्तवीरवृतिलोलचेतसां । स्वर्योषितामपि तदा परस्परा माविर्बभूव दिवि दारुणो रणः ॥ ७९ ॥ प्रागेव मास्म सुरवल्लभा अमुं वृण्वन्निति स्फुरितवेगविस्तराः । आलिंग्य वल्लभमपासुमप्युर स्तन्यश्वितां प्रविविशुर्भुजाभृतां ॥ ८० ॥ छत्रैः सितांबुजमयीव कुत्रचित् कुत्रापि पल्लवमयीव पाणिभिः । कुत्रापि शैवलमयीव कुंतलै भ्रष्टै र्बभौ रणभृतां रणावनिः ॥ ८१ ॥ शस्त्रप्रहारभृशजातमूर्च्छया स्वारोहकेषु पतितेषु भूतले । हेषारवैः समिति जातगौरवै दुःखाद्विलापमिव वाजिनो व्यधुः ॥ ८२ ॥ द्विट्कुंभिकुंभविनिपातिमौक्तिक-श्रेणिप्ररूढरुचिराजिभू रभात् । वीरश्रियं प्रपरिरभ्य दोषमतां शय्येव पुष्पखचिता सुषुप्सतां ॥ ८३ ॥ वीरैर्निहत्य विनिपातिता रण-क्षोणौ बभुः करिवराः पदेपदे । सेतोः कृते हनुमतैव चालिताः शैला इवार्धपथ उज्झिता भरात् ॥ ८४ ॥ जग्मुर्मृतिं दशशतानि भटा इहेति जल्पन्निवाञ्चत करद्वितीयांगुलीभिः । नृत्यक्रियामभजतैकतरः प्रवीरः काबंधिकी महितवीरविलूनमौलिः ॥ ८५ ॥ इति तिरस्कृतभारतसारते रणभरे स्फुरिते दिवसद्वयीं । दिनकरः प्रतिवक्तुमिवावधिं चरमभूमिधराग्रमसेवत ॥ ८६ ॥

१२ द्वितीयदिनयुद्धम् १११ शौर्येण प्रतिपक्षपक्षहृदयं स्वस्वामिभक्तव्रतै- श्वेतांसि स्वविभोरसिप्रहृतिभिर्द्विद्विभिकुंभानपि । अंगैरंगणमाहवस्य विलसत्कीर्त्या च लोकत्रयीं वीरा व्यानशिरेऽत्र योद्धृविसरश्रेयस्करे संगरे ॥ ८७ ॥ एतस्मिन्समरे वीरा यवनानां महौजसः । पंचाशीतिसहस्राणि यमावासमयासिषुः ॥ ८८ ॥ म्लेच्छानामथ दोष्मतामधीशितालावात्तावधिकालपालनात्तचित्तौ । वीरेंद्रात्कथमप्यमूनिवार्य युद्धात् भेजाते शिविरं निजं निजं रयेण ॥ ८९ ॥ इति श्रीजयसिंह० वीराङ्के दिनद्वयसंग्रामवर्णनोनाम द्वादशः सर्गः ॥

अथ त्रयोदशः सर्गः अन्यदाथ क्षमानाथः स्फारशृंगारभासुर । अलंचकार शृंगारचंचरीं चतुराशयः ॥ १ ॥ निरीक्ष्य सहसा यत्रं भोभ्रांत्या स्फाटिकीः शिलाः । उत्संभार वस्त्राणि प्रक्मयनभयानकः ॥ २ ॥ रंभा ग्रावोद्भवा यत्र वीक्ष्य साक्षाज्जनं स्मरन् । फलेभ्यः स्पृहयन्नुच्चै नैकशः करमक्षिपत् ॥ ३ ॥ यत्र स्तंभेषुराजंत विचित्राः शालभंजिकाः । देव्यो नृदेवमालोक्य तद्गुणैस्तंभिता इव ॥ ४ ॥ यत्रोत्कृत्तेषु पद्मेशु सिस्वादयिषवो मधु । भृंगा निपत्य व्यर्थत्वात् हियेव शितितामगुः ॥ ५ ॥ यत्र स्फाटिकपांचाल्या—स्पेष्ध्वज्याश्रितालिषु । चकोराः शशभृद्दीक्षा—श्रदामह्व्यपूपुरन् ॥ ६ ॥ यत्कुट्टिमे पदप्रांता—रुणिमप्रतिबिंबनात् । रक्तं क्षौममिवास्तीर्णे पदन्यासाय भूभृतः ॥ ७ ॥

११२ श्रीहम्मीरमहाकाव्ये [सर्गः स्फारकर्पूरपारीकं चंदनक्षोदमेदुरं । मृगनाभिस्फुरन्नाभि यदंगणमराजत ॥ ८ ॥ नूपुरस्थेंद्रनीलाश्म—दाम यत्स्फाटिकाश्मसु । निरीक्ष्य विवितं सर्प—भ्रांत्या लोकाश्चकंपिरे ॥ ९ ॥ अधो निबद्धभूभाग—प्रतिबिंबिततामिषात् । भोगींद्राणामपि सभां विजेतुं प्रस्थितेव या ॥ १० ॥ वीरशोभानृपात्तत्र दक्षिणे चारुलक्षणः । हासंहासं सृजन् गोष्ठीं रतिपालो रतिं दधौ ॥ ११ ॥ परीतो महिमासाहि स्त्रिभिरप्यनुजन्मभिः । व्यक्तामभजत्तत्र परमात्मा गुणैरिव ॥ १२ ॥ मार्दंगिका मृदंगानि वीणामपि च वैणिकाः । अपि वैणविका वेणुं यथातालमवीवदन् ॥ १३ ॥ रणद्वेणुझणत्कारा—नुकारिप्रसरत्स्वराः । गायना वीरहम्मीरकीर्तिस्फूर्तिंमगासिषुः ॥ १४ ॥ मिथोपि स्पर्धया वर्धमानत्वादिव संयते । दृढं चोलांतरीयाभ्यां स्तनश्रोणीप्रबिभ्रती ॥ १५ ॥ वपुर्वल्लिविलासेन मूर्छयंतीव कामिनः । कूणिताक्षप्रपातेनोज्जीवयंतीव मन्मथं ॥ १६ ॥ ❳ त्रिभिर्विशेषकं प्रविश्य तत्र सभ्यानां मनसीव प्रमोदिनी । प्रवृत्ता नर्तितुं धारा देवी सोत्पश्य नर्तकी ॥ १७ ॥ तस्या लास्येन वेलंतो रेजिरे पाणिपल्लवाः । मोहनव्रततेः कामं स्फुरंतः पल्लवा इव ॥ १८ ॥ गोलकत्रितयोच्छाल—च्छलेन भुवनत्रयीं । सा जगादेव लोकानां कृतां स्वशयशायिनीं ॥ १९ ॥ अंगुल्यग्रभ्रमचक्र—दंभेन युवतीजने । रूपलावण्यसौंदर्यैः सा दधौ चकितामिव ॥ २० ॥