हर्षचरितम् (महाकवि बाणभट्ट - संस्कृत मूल एवं हिन्दी व्याख्या)
Harshacharitam of Banabhatta with Sanskrit & Hindi Commentary
महाकवि बाणभट्ट / पं. जगन्नाथ शास्त्री द्वारा
पृष्ठ 499, कुल 506 में से
संदर्भ में पढ़ेंपरिशिष्टम् बाण-प्रशस्तयः १. श्लेषे केचन शब्दगुम्फविषये केचिद् रसे चापरेऽ- लङ्कारे कतिचित्सदर्थविषये चान्ये कथावर्णने । आः सर्वत्र गभीरधीरकविता विन्ध्याटवीचातुरी- सञ्चारी कविकुम्भिकुम्भभिदुरो बाणस्तु पञ्चाननः ॥ ( श्रीचन्द्रदेवस्य ) २. हेम्नो भारशतानि वा मदमुचां वृन्दानि वा दन्तिनां श्रीहर्षेण समर्पितानि कवये बाणाय कुत्राद्य तत् । या बाणेन तु तस्य सूक्तिनिकरैरुट्टङ्किताः कीर्तय- स्ताः कल्पप्रलयेऽपि यान्ति न मनाङ् मन्ये परिम्लानताम् ॥ ( रूय्यककृतव्यक्तिविवेकव्याख्याने ) ३. अर्थेश्वरं हन्त भजेऽभिनन्दं वागीश्वरं वाक्पतिराजमीडे । रसेश्वरं नौमि च कालिदासं बाणं तु सर्वेश्वरमानतोऽस्मि ॥ ( उदयसुन्दर्यां सोड्ढलस्य ) ४. परिशीलितेव सरसं कविराजैर्बहुभिरत्र वाग्देवी । बाणेन तु वैजात्यात् कथयति नामैव वाणीति ॥ ५. कादम्बरीसहोदर्या सुधया वै बुधे हृदि । हर्षाख्यायिकया ख्यातिं बाणोऽब्धिरिव लब्धवान् ॥ ६. शश्वद्बाणद्वितीयेन नमदाकारधारिणा । धनुषेव गुणाढ्येन निःशेषो रञ्जितो जनः ॥ ( त्रिविक्रमस्य ) ७. जाता शिखण्डिनी प्राग्यथा शिखण्डी तथाऽवगच्छामि । प्रागल्भ्यमधिकमाप्तुं वाणी बाणो बभूवेति ॥ ( गोवर्धनस्य )