हर्षचरितम् (महाकवि बाणभट्ट - संस्कृत मूल एवं हिन्दी व्याख्या)
Harshacharitam of Banabhatta with Sanskrit & Hindi Commentary
महाकवि बाणभट्ट / पं. जगन्नाथ शास्त्री द्वारा
परिशिष्टम् बाण-प्रशस्तयः १. श्लेषे केचन शब्दगुम्फविषये केचिद् रसे चापरेऽ- लङ्कारे कतिचित्सदर्थविषये चान्ये कथावर्णने । आः सर्वत्र गभीरधीरकविता विन्ध्याटवीचातुरी- सञ्चारी कविकुम्भिकुम्भभिदुरो बाणस्तु पञ्चाननः ॥ ( श्रीचन्द्रदेवस्य ) २. हेम्नो भारशतानि वा मदमुचां वृन्दानि वा दन्तिनां श्रीहर्षेण समर्पितानि कवये बाणाय कुत्राद्य तत् । या बाणेन तु तस्य सूक्तिनिकरैरुट्टङ्किताः कीर्तय- स्ताः कल्पप्रलयेऽपि यान्ति न मनाङ् मन्ये परिम्लानताम् ॥ ( रूय्यककृतव्यक्तिविवेकव्याख्याने ) ३. अर्थेश्वरं हन्त भजेऽभिनन्दं वागीश्वरं वाक्पतिराजमीडे । रसेश्वरं नौमि च कालिदासं बाणं तु सर्वेश्वरमानतोऽस्मि ॥ ( उदयसुन्दर्यां सोड्ढलस्य ) ४. परिशीलितेव सरसं कविराजैर्बहुभिरत्र वाग्देवी । बाणेन तु वैजात्यात् कथयति नामैव वाणीति ॥ ५. कादम्बरीसहोदर्या सुधया वै बुधे हृदि । हर्षाख्यायिकया ख्यातिं बाणोऽब्धिरिव लब्धवान् ॥ ६. शश्वद्बाणद्वितीयेन नमदाकारधारिणा । धनुषेव गुणाढ्येन निःशेषो रञ्जितो जनः ॥ ( त्रिविक्रमस्य ) ७. जाता शिखण्डिनी प्राग्यथा शिखण्डी तथाऽवगच्छामि । प्रागल्भ्यमधिकमाप्तुं वाणी बाणो बभूवेति ॥ ( गोवर्धनस्य )
परिशिष्टम् ८. हृदि लग्नेन बाणेन यन्मन्दोऽपि पदक्रमः । भवेत् कविकुरङ्गाणां चापलं तत्र कारणम् ॥ ६. सुबन्धुर्बाणभट्टश्च कविराज इति त्रयः । वक्रोक्तिमार्गनिपुणाश्चतुर्थो विद्यते न वा ॥ १०. सचित्रवर्णविच्छित्तिहारिणोरवनीपतिः । श्रीहर्ष इव संघट्टं चक्रे बाणमयूरयोः ॥ ( नवसाहसाङ्के ) ११. प्रतिकविभेदनबाणः कवितातरुगहनविहरणमयूरः । सहृदयलोकसुबन्धुर्जयति श्रीभट्टबाणकविराजः ॥ ( वीरनारायणचरिते ) १२. युक्तं कादम्बरीं श्रुत्वा कवयो मौनमाश्रिताः । बाणध्वनावन्ध्यायो भवतीति स्मृतियतः ॥ १३. रुचिरस्वरवर्णपदा रसभाववती जगन्मनो हरति । तत्किं तरुणी, नहि नहि, वाणी बाणस्य मधुरशीलस्य ॥ १४. सहर्षचरिता शश्वत्कृतकादम्बरीकथा । बाणस्य वाण्यनार्यैव स्वच्छन्दं भ्रमति क्षितौ ॥ १५. बाणं सत्कविगीर्वाणमनुबध्नाति कः कविः । सिन्धुमन्धुः किमन्वेति द्युमणिकतमो मणिः ॥ ( रघुनाथचरिते ) १६. शब्दार्थयोः समो गुम्फः पाञ्चाली रीतिरिष्यते । शिलाभट्टारिकावाचि बाणोक्तिषु च सा यदि ॥ १७. केवलोऽपि स्फुरन् बाणः करोति विमदान् कवीन् । किं पुनः क्लृप्तसन्धानपुलिन्ध्रकृतसन्निधिः ॥ ( धनपालस्य ) १८. दण्डीत्युपस्थिते सद्यः कवीनां कम्पतां मनः । प्रविष्टे त्वन्तरं बाणे कण्ठे वागेव रुध्यते ॥
शुद्धपत्रम् अशुद्धं शुद्धं पृष्ठं पंक्तिः निगूहन निगूहनैः ४ ६ नाटक नाटके ७ १४ हृदयस्थः स्मृतरपि हृदयस्थैः स्मृतैरपि ८ २६ वसना वसाना १६ २ गृहबुधि गृहबुधिं ३० १८ कुतूहलानलीयमान कुतूहलनिलीयमान ५१ २१ अभूत्यग्राम्यतया प्रभूत्यग्राम्यतया ५२ १८ शोकेनामीळ शोकेनाभीळ ६६ २२ सिद्धि सिद्धिं ७१ २ नासहन्तः नासहन्त ७४ ७ खरखरामयूखे खरखगमयूखे ७५ ४ गिरिकणिका गिरिकर्णिका ९० १० निमितम् निर्मितम् ११३ ५ रथ तुरग रथतुरग १५१ ४ तास्तूल ताम्बूल २०४ ६ दृषः दृर्षः २०९ ४ दपण दर्पण २२७ २ व्यतिरिक व्यतिरिक्तौ २२९ ७ निष्पृभान् निष्प्रभान् २४५ ४ पाश्च पार्श्व २५२ १३ स्कग्धै स्कन्धै २९० ३ हव इव २९३ ४. करीण करिण ३२० १० नाचरनश्चन्दनेन नाचरतश्चन्दनेन ३५१ २ सप्रेष्य संप्रैष्य " ८ निमित्त निमित्तं ३५३ ३ भारिकैर्महान भारिकैर्महान् ३६८ १ पनिषद पनिषदै ४१४ २ श्राम्यसदृिक्ष श्राम्यत्सद्दिक्ष " ५
The provided image is completely blank and contains no text to transcribe.
The provided image is completely blank and contains no text to transcribe.
The provided image is completely blank and contains no text.
The provided image is completely blank and does not contain any visible text to transcribe.
The provided image is completely blank and contains no text to transcribe.