भारतकोश
हर्षचरितम् (महाकवि बाणभट्ट - संस्कृत मूल एवं हिन्दी व्याख्या)

हर्षचरितम् (महाकवि बाणभट्ट - संस्कृत मूल एवं हिन्दी व्याख्या)

Harshacharitam of Banabhatta with Sanskrit & Hindi Commentary

महाकवि बाणभट्ट / पं. जगन्नाथ शास्त्री द्वारा

DevanagariSanskritpublished506 पृष्ठ

पृष्ठ 76, कुल 506 में से

संदर्भ में पढ़ें
पृष्ठ 76

प्रथम उच्छ्वासः ३१ अथ इति पदेन धावनक्रियासहत्वाज्जलस्य ग्रहणं सूच्यते । अत एव धवलाः शुक्लाः पयोधरा मेघा यस्यास्ताम् । इतरत्राधोधावमानाः पयःपूर्णत्वाल्लम्बमानाः क्षीरयुतेश्च धवलाः स्तना यस्याः । अधो धावमानं वेगेन प्रसरद्धवलं पयो धारयति या ताम्, अधो धावमानो धवलो यः पयोधो वत्सस्तं राति ददाति या ताम्, धवलो वृष- स्तस्मै पयो धारयति या तां वेत्यादिकाः कुव्याख्या एव । उद्धुर उद्भटः । अन्धक- मथनः शिवः । आलीयमानाः श्लिष्यन्तः । वालखिल्या मुनिभेदाः । रोधस्तटम् । त्वङ्गत्तरत् । आप्लवनं स्नानम् । पितरो देवविशेषाः, आज्यपाः, सोमपाः, वहिर्षा- दयश्च । आचमनेत्यादिना पितामहवन्न स्नानादिनिष्ठत्वमस्योच्यते । अत एव शची- पदेन संभोगासक्तत्वमिव पोषितम् । निकायः समूहः । सुषुम्णाख्योऽमृतमयो रवि- रश्मिः । धिषणो बृहस्पतिः । सिद्धकृतत्वेन लिङ्गेषु भगवत्संनिधानमावेद्यते । निर्मोकः सर्पकञ्चुकः । विस्रंसतया शुक्लत्वेन, लहरिकावलीत्वेन च निर्मोकमुक्तिमिवेत्युत्प्रेक्षा । गगनमिवोरगः कृष्णतया । ललाटिका ललाटालंकारः । विटो भुजङ्गः । उष्णीषं शिरोवेष्टनं दिक्षु प्रसिद्धम् । दुगूलशब्दो दुकूलसमानार्थः । पद्धतिर्मार्गः । अपवर्गो मोक्षः । कृतयुगस्य रचितयुगकाष्ठस्य रथस्येत्यर्थः । यथा नेमिवशाद्रथग्रहणं तथा तद्गुणात्कृताख्यस्य युगस्य । सप्तसागरराजः क्षीरसमुद्रः । चन्द्राख्यः पर्वत इति केचित् । शशिमणिश्चन्द्रकान्तः । पितामहस्येति । तद्भक्त्या तदाश्रयणम् । सिकता विद्यन्ते यस्य स सिकतिलः । मत्तशब्देन सशब्दत्त्वम्, वेणीपदेन च तन्त्रीसन्निवेश- सादृश्यमाह । वेणी पङ्क्तिः । लिङ्ग्यतेऽनेनेति लिङ्गमाकारः । पञ्च ब्रह्माणि सद्योजातः, वामदेवः, अघोरः, तत्पुरुषः, ईशानश्चेति । मुद्राबन्धो विशिष्टकराङ्गुलिसन्निवेशः । ध्रुवाख्या विशिष्टा गीतिः । वनं तोयम् । यजमान उग्रः । अष्टौ पुष्पाण्येवाष्टपु- प्पिका । तत्र गन्धप्रधानं पार्थिवम्, अर्घस्नानादिकं रसप्रधानमाप्यम्, प्रदीपा- भरणप्रभादिरूपप्रधानं तैजसम्, अनुलेपनप्रभृति स्पर्शप्रधानं वायवीयम्, सुषिरा- तोद्यगीतादिकं शब्दप्रधानमाकाशीयम्, अनुध्यानं मानसम्, अस्ति सर्वत्रेश्वर इति निश्चयो बौद्धम्, अहमेवेश्वर इत्याहंकारिकम् । यद्वा,-आसनवर्गप्रवृत्तिष्वष्टसु प्रत्ये- कमष्टपुष्पिका । अतिशेतुमभिभवितुमिच्छतातिशिशयिषमाणेण । स्वादिम्ना बृह- त्वेन । शरीरस्थितिमिति । न त्वातृप्तिभोजनम् । अन्येद्युरन्यस्मिन्नहनि । तब क्रम से सरस्वती सात सागरों की पटरानी मंदाकिनी का अनुसरण करती हुई मर्त्यलोक में उतरी । वह मंदाकिनी ध्रुव से निकली हुई कामधेनु के समान नीचे लटकते हुए पयोधरों को धारण कर रही थी । उसकी ध्वनि गम्भीर थी । वह अंधक के शत्रु भगवान् शंकर के मस्तक की मालतीमाला थी । तट पर वालखिल्य मुनियों की भीड़- भाड़ थी । अरुन्धती वहाँ वल्कल का संमार्जन करती थी । उसकी दौड़ती हुई ऊँची लहरों पर चंचल तारे हिलोरेँ ले रहे थे । उसकी रेतों को तापस अपने तरु तिलोदक से