भारतकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 317, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 317

मान्द्यब्दादिफलाध्यायः ॥६॥ २४१ अथर्तुफलम् । दीर्घायुर्धनिको वसन्तसमये जातः सुगन्धप्रियो, ग्रीष्मतौ घनतोयसेव्यचतुरो भोगी कृशाङ्गः सुधीः । क्षारक्षीरकटुप्रियः सुवचनो वर्षर्तुजः स्वच्छधीः, पुण्यात्मा सुमुखः सुखी यदि शरत्कालोद्भवः कामुकः ॥ २७ ॥ योगी कृशाङ्गः कृपकश्च भोगी हेमन्तकालप्रभवः समर्थः । स्नानक्रियादानरतः स्वधर्मी मानी यशस्वी शिशिरर्तुजः स्यात् ॥ २८ ॥ इदानीमृतुफलमुच्यते । तत्र 'मृगादिराशिद्वयभानुभोगात् षडर्त्तवः स्युः शिशिरो वसन्त' इत्याद्युक्तेः, मकरकुम्भयोः सञ्चरति भास्वति शिशिरर्तुः । मीनमेषयोर्वसन्तः । वृषमिथुनयोर्ग्रीष्मः । कर्कसिंहयोर्वर्षा । कन्यातुलयोः शरत् । वृश्चिकधनुषोर्हेमन्त इति षड् ऋतवो भवन्ति । तेषु ऋतुषु जातानां फलान्यत्रोक्तानि । दीर्घायुरित्यादयः । स्पष्टार्थो श्लोकौ ॥ २७-२८ ॥ वसन्त ऋतुमें बालक उत्पन्न हो तो दीर्घायु, धनिक, सुगन्धप्रिय होवे । ग्रीष्म ऋतुमें पैदा हो तो अगाध जलका सेवी, चतुर, भोगी, कृशतनु और पण्डित होवे । वर्षा ऋतुका जायमान मनुष्य क्षार-दूध-कटु-पदार्थका प्रेमी, सुवचन, स्वच्छ, बुद्धिवाला होवे । शरद् ऋतुका जन्मा हुआ बालक पुण्यात्मा, सुमुख, सुखी, कामी हो । हेमन्त ऋतुका जायमान जातक योगी, कृशशरीर, कृपक, भोगी और समर्थ होवे । शिशिर ऋतुका जायमान मनुष्य स्नान-क्रिया-दानमें रत, स्वधर्मी मानी और यशस्वी होवे ॥ २७-२८ ॥ अथ मासफलम् । चैत्रे सर्वकलागमश्रुतिपरो नित्योत्सवः श्रीरतो वैशाखे यदि सर्वशास्त्रकुशलः स्वातन्त्रिको भूपतिः । ज्येष्ठे मासि चिरायुरर्थतनयी मन्त्रक्रियाकोविद्- श्चाषाढेऽतिधनी कृपालुरनिशं भोगी परद्वेषकः ॥ २६ ॥ जातः श्रावणमासि देवधरणीदेवाच्चने तत्परो नानादेशरतश्च भाद्रपदजस्तन्त्री मनोरथ्यवान् । मासे चाश्वयुजि स्वकीयजनविद्वेषी दरिद्रश्चलः पुष्टाङ्गः कृपको विशालनयनो वित्ताधिकः कार्तिके ॥ ३० ॥ सुरगुरुपितृभक्तो मार्गशीर्षे च धर्मी धनगुणबलशाली तुङ्गनासस्तु पुष्ये । खलमतिरतिधर्माचारवान् माघमासि प्रतिदिनमुपकर्ता फाल्गुने गानलोलः ॥३१॥ अधुना मासफलान्युच्यन्ते । तत्र 'मासास्तथा च तिथयस्तुहिनांशुमानात्' इत्युक्तेः, मासाश्चान्द्रा एव ग्राह्याः । चान्द्रो मासस्तु दर्शान्तद्द्वयान्तर्वर्त्ती कालः 'दर्शावधिश्चन्द्ररस- स्तु मासः' इति प्रमाणात् । अत्रैदमवधेयम्-चैत्रामान्तकालाद्वैशाखामान्तावधिरेकश्चान्द्र- मासः । तस्मिन् सूर्ये मेषराशौ सञ्चरति स चान्द्रमासश्चैत्राख्यः । एवं वैशाखामान्ताज्ज्येष्ठा- मान्तपर्यन्तं वृषे सञ्चरति सूर्ये वैशाखो मास इत्येवमपरेऽपि मासाः । "मेषादिस्थे सवितरि यो यो मासः प्रपूर्यते चान्द्रः । चैत्राद्यः स ज्ञेयः" इति वचनस्वरसात् । तेषु चैत्राद्बिद्वादशमासेषु जातानां फलान्यत्रोक्तानि । श्लोकास्तु स्पष्टार्था एवेति २९-३१ चैत्र मासमें जन्म हो तो सभी कला-आगम और वेदका ज्ञाता हो, नित्य उत्सव तथा लक्ष्मीमें रत रहे। यदि वैशाखमें जन्म हो तो सब शास्त्रमें कुशल तथा स्वतन्त्र रहे और