जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 93, कुल 588 में से
संदर्भ में पढ़ेंमंगल और शनि हों तो अपने महीनेमें पुरुषकी मृत्यु करते हैं। इसी प्रकार चन्द्रमासे दूसरे और बारहवें मंगल और शनि हों तो अपने महीनेमें स्त्रीकी मृत्यु करते हैं। सूर्य यदि शनि और मंगल इनमेंसे एकसे युक्त एकसे दृष्ट हो तो पुरुषकी मृत्यु, ऐसे ही चन्द्रमा शनि और मंगलमेंसे एकसे युक्त एकसे दृष्ट हो तो स्त्रीकी मृत्यु करता है ॥ १४ ॥ दिवाऽर्कशुक्रौ पितृमातृसंज्ञितौ शनैश्चरेन्दू निशि तद्विपर्ययात् ॥ पितृव्यमातृष्वसृसंज्ञितौ च तावथौजयुग्मर्क्षगतौ तयोः शुभौ ॥ १५ ॥ इदानीं निषेककालवशात् पित्रादीनां शुभाशुभमाह । दिने निषेकश्चेत् तदा सूर्यः पिता, शुक्रो मातृसञ्ज्ञको भवति । रात्रौ निषेके शनिः पिता, चन्द्रो माता । दिने शनैश्चरः पितृव्यः, चन्द्रो मातृष्वसा । रात्रौ सूर्यः पितृव्यः, शुक्रो मातृष्वसेति जन्मन्यपि बोद्धव्यम् । प्रयोजनमाह । तावथौजयुग्मर्क्षगतौ तयोः शुभाविति । दिने सूर्यो विषमराशिगतस्तदा पितुः शुभो रात्रौ पितृव्यस्य । दिने शुक्रः समराशिगतो मातुः शुभकृद्रात्रौ मातृष्वसुः । शनैश्चरो निशि विषमस्थस्तदा पितुः शुभकृद्दिने पितृव्यस्य । चन्द्रो रात्रौ समर्क्षगो मातुर्दिने मातृष्वसुः शुभकृद्भवति । अर्थादेवोक्तविपर्ययस्थे तयोरशुभः इति । Notes-अत्र ११-१५ श्लोकाः बृहज्जातकस्य वर्त्तन्ते ॥ १५ ॥ दिनके आधानमें सूर्य पिता, शुक्र माता, शनि पितृव्य (चाचा), चन्द्रमा मौसी (माताकी बहिन) और रात्रिके आधानमें शनि पिता, चन्द्रमा माता, सूर्य चाचा, शुक्र मौसी है' इन संज्ञाओंका प्रयोजन यह है कि, दिनके आधानमें सूर्य विषम राशि (१-३- ५-७-९-११) में पिताको शुभ, रात्रिके आधानमें चाचाको शुभ होता है। दिनके गर्भा- धानमें शुक्र समराशि (२-४-६-८-१०-१२) में हो तो माताको शुभ, रात्रिमें मौसीको शुभ होता है। शनि रात्रिके आधानमें विषम राशिमें हो तो पिताको शुभ, दिनमें चाचाको शुभ होता है। रात्रिके गर्भमें चन्द्रमा समराशिमें हो तो माताको शुभ, दिनमें मौसीको शुभ होता है। इससे अन्यथा अशुभ कहना चाहिये ॥ १५ ॥ शीतज्योतिषि योषितोऽनुपचयस्थाने कुजेनेक्षिते । जातं गर्भफलप्रदं खलु रजः स्यादन्यथा निष्फलम् ॥ दृष्टेऽस्मिन् गुरुणा निजोपचयगे कुर्यान्निषेकं पुमान् । अत्याज्ये च समूलभे शुभगुणे पर्वादिकालोज्झिते ॥ १६ ॥ इदानीं गर्भक्षमरेजोन्निरूपणपूर्वकं निषेककालमाह' । शीतज्योतिषि=चन्द्रे योषितोऽनु- पचयस्थाने=स्त्रिया जन्मर्क्षादनुपचयस्थाने पूर्वोक्ते वर्त्तमाने कुजेनेक्षिते जातं रजः खलु=नि- श्चयेन गर्भफलप्रदं=गर्भधारणयोग्यं स्यात् । अन्यथोक्तादितरावस्थायां तद्रजो निष्फलं या- तीति । अस्मिन्योषितोऽनुपचयस्थे चन्द्रे पुमान्=पुरुषो निजोपचयगे=स्वजन्मर्क्षादुपचयस्था- नगते गुरुणा=बृहस्पतिना दृष्टेऽवलोकिते च निषेकं कुर्यात् । इत्थम्भूते योगे दम्पत्योर्योगे गर्भाधानं भवतीति भावः । निषेकमुहूर्त्तमाह । अत्याज्ये=विहिते च समूलभे, मूलनक्षत्रेऽप्युक्तमेतदन्यकर्तॄति । पर्वादिकालोज्झिते=पर्वादिकालरहिते शुभगुणे=सद्गुणयुक्ते समये गर्भाधानं प्रशस्तमिति । अथात्र प्रसङ्गान्नषेके त्याज्यानि लिख्यन्ते— “गण्डान्तं त्रिविधं त्यजेन्निधनजन्मक्षं च मूलान्तकम् । दाह्रं पौष्णमथोपरागदिवसान् पातं तथा वैधृतिम् ॥ पित्रोः श्राद्धदिनं दिवा च परिघाद्यर्धं स्वपत्नीगमे । आन्युत्पातहतानि मृत्युभवनं जन्मर्क्षतः पापभम् ॥ भद्राषष्ठीपर्वरिक्ताश्च सन्ध्याभौमार्किकीनायसत्रीक्षतक्षः ।