जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
॥ श्रीः ॥ भूमिका स जयति तेजोरारिस्त्रयीमयो जगत्तस्थुषामात्मा ॥ भानुः सकलं ज्योतिर्विभासयन्नात्मसद्भासा ॥ १ ॥ सुविदितमेवैतत् तत्रभवतां निखिलनिगमागमविधूतचेतसां विपश्चिदां यदिह जगति जनिमतां सर्वतः श्रेयोमार्गप्रदर्शको वेद एव । नात्र कश्चिदपि विषयोऽनुपलभ्यो याथातथ्ये- नान्त्रेष्यतां सताम् । इयमेव शासनपद्धतिर्जगन्नियन्तुः सवितुरीश्वरस्यैतदर्थमेव सर्वतः प्रथमं मीनावतारोऽप्यङ्गीकृतो भगवतेति तज्ज्ञानप्रवर्त्तकानि तत्षडङ्गभूतानि शिक्षा-कल्प-शब्द- ज्योतिष-निरुक्त-च्छन्दःशास्त्राणि प्रचक्ष्यन्ते । तथा च भास्कराचार्यः- शब्दशास्त्रं मुखं ज्योतिषं चक्षुषी श्रोत्रमुक्तं निरुक्तं च कल्पः करौ । या तु शिक्षाऽस्य वेदस्य सा नासिका पादपद्मद्वयं छन्द आद्यैर्बुधैः ॥ तेषु षडङ्गेषु तावज्ज्योतिःशास्त्रं दिग्देशकालब्यञ्जकत्वेन यज्ञ-तपो-दान-व्रतोपवासा- दीनामादिबीजमिति सकलशास्त्रापेक्षयाऽस्याध्ययनाध्यापनमतीवावश्यकम् । यतो हि सर्वे- षामेव वेदवेदाङ्गोपनिषद्दर्शनपुराणेतिहासादीनामयमेवैकः सिद्धान्तो यत्-"सर्वैरेव नरजातै- र्यज्ञतपोदानव्रतादिनियमैरीश्वर उपासनीय इति", परञ्च काले कृतमेव यत्किञ्चिदपि कर्म साफल्यमकाले कृतमपि कर्म वैफल्यं परिणमतीति तावत् कालात्मकस्यास्य शास्त्रस्य प्रति- पदं प्रयोजनं भवत्येव । एष किल सामान्य नियमो यद्यः कोऽपि स्वविषयस्यैव बाहुल्येन पोषणं कुरुते । परञ्च निष्पक्षपातधियाऽपीदमेव सिद्धं यन्नैतद्विना लोकानां लौकिकं वैदिकं च किमपि कर्म साफल्यमुपयातीत्युक्तमपि नारदेन - वेदस्य निर्मलं चक्षुर्ज्योतिःशास्त्रमकल्मषम् । विनैतदखिलं कर्म श्रौतं स्मार्तं न सिद्ध्यति ॥ इति ॥ अथ 'न जातु ज्योतिश्चक्रं तिरन्तरा द्रष्टुं ज्ञातुं च शक्यत' इति तेजोमयो भगवान्भव्यो मुक्तिमार्गो रविरीश्वरः ('सूर्य आत्मा जगतस्तस्थुषश्चे'ति श्रुतेः, 'वर्त्मापुनर्जन्मनाम्' इति वराहवचनाच्च) तदंशका ज्योतिष्मन्तो ग्रहा वै देवाश्च ('ग्रहास्ते देवतांशकाः' इति भट्टोक्तेः) चक्षुरूपज्योतिश्शास्त्रं विना न केनापि शास्त्रेण ज्ञातुं शक्यन्त इति कथने न भवति काचि- दपि वाच्यतेति । 'दैवाधीनं जगत् सर्वम्' इति तथा 'ग्रहास्ते देवतांशकाः' इति वचनात् सकलं जगद् ग्रहाधीनमेव । वस्तुतो रविकिरणसंयोगवशादेव सकलं जगज्जातं (चरमचरञ्च) जीवनं स्थेमं च वहतीति प्रत्यहं त्रिकालं...... पश्येम शरदः शतम्, जीवेम शरदः शतम्, शृणुयाम शरदः शतम्, प्रब्रवाम शरदः शतम्, अदीनाः स्याम शरदः शतं भूयश्च शरदः शता'दित्यादि-ऋग्भी रविरुपास्यते लोकैः । तेषां गगन-गगनेचर-भू-भूधर-त्रिदश-दानव-मानवानां स्थिति- मिति-गतिज्ञानं ज्योतिषशास्त्रमन्तरा न केवलं दुर्घटमुतासम्भवमपीति । यथा नहि नेत्रं विना कश्चिदपि जनो निरापदं स्वीयमभिलषितं पदं गन्तुं पारयेत्तथा ज्योतिषशास्त्रं ( नेत्रं ) विना जगतः श्रेयोमार्गः कथमपि न सम्भवतीति ।
२ भूमिका ईदृग्विधं शास्त्रं नान्यशास्त्रवत्सन्देहास्पदम्प्रत्यक्षञ्च, उत समन्ताद्युक्तियुक्तं प्रत्यक्षञ्च । नान्यत् किमपि शास्त्रं ज्योतिःशास्त्रवत्-इदमेव तत्, इदानीमेव तत्, 'अत्रैव तत्, एताव- देव तत्, इत्थमेव तदित्यादि प्रकटयितुं पारयेदित्युक्तमपि तथा- अप्रत्यक्षाणि शास्त्राणि विवादस्तेषु केवलम् । प्रत्यक्षं ज्योतिषं शास्त्रं चन्द्राकौँ यत्र साक्षिणौ ॥ इति ॥ अथेदं शास्त्रं हि- सूर्यः पितामहो व्यासो वसिष्ठोऽत्रिः पराशरः । कश्यपो नारदो गर्गो मरीचिर्मनुरङ्गिराः ॥ लोमशः पौलिशश्चैव च्यवनो यवनो भृगुः । शौनकोऽष्टादशैवैते ज्योतिःशास्त्रप्रवर्त्तकाः ॥ इति कश्यपवचनादष्टादशपुराणानुकल्पमष्टादशर्षिप्रवरप्रवर्त्तितमत आर्षं तेन, तथा- दिव्यं चक्षुर्ग्रहर्क्षाणां दर्श
भूमिका ३ ज्योतिषकल्पद्रुमः— (वृक्षपत्राणि शाखाश्च— संहिताशाखा—अङ्गुष्ठशकुनादिग्रन्थराशयः, स्वरग्रन्थराशयः, स्वप्नाध्यायग्रन्थराशयः, शान्तिग्रन्थराशयः, शकुनग्रन्थराशयः, उत्पातग्रन्थराशयः, प्रकृतिलक्षणग्रन्थराशयः, वास्तुग्रन्थोऽर्घविचारः, सामुद्रिकग्रन्थराशयः, संहिता । होराशाखा—जातकग्रन्थराशयः, प्रश्नग्रन्थसमूहाः, वर्षफलग्रन्थराशयः, ताजिकग्रन्थराशयः, नष्टजातकविषयाः, होरा । सिद्धान्तशाखा—पाटीगणितविषयाः, बीजगणितविषयाः, रेखागणितविषयाः, यन्त्रनिर्माणविषयाः, त्रिकोणमिति विषयाः, गोलीयत्रिकोणमिति विषयाः, प्रतिज्ञाज्ञानोपपत्तिग्रन्थविषयाः, भास्करीयगणितविषयाः, नौताध्यायः, चलनकलनविषयाः, ज्यामिति विषयाः, करणग्रन्थराशयः, सिद्धान्त । प्रकाण्डम्—ज्योतिषम् । मूलानि—ऋग्वेदः, अथर्ववेदः, सामवेदः, यजुर्वेदः, उपनिषदः, शिक्षा, कल्पः, व्याकरणम्, निरुक्तम्, छन्दः ।) तेषु संहिताग्रन्थेषु केवलं तावदेकस्यैव वराहमिहिरकृतस्य बृहत्संहिताभिधस्येदानीन्तने लोके उपलब्धिः प्रचारश्च । अन्याः संहिता लुप्तप्रायाः प्रायोऽस्मदपराधेन नियन्त्रिताः शेरते । तन्त्रस्कन्धे—सूर्यसिद्धान्त-सिद्धान्तशिरोमणि-सिद्धान्ततत्त्वविवेकेतिसिद्धान्तग्रन्थत्रयस्य, ग्रहलाघवाभिधैकस्य करणग्रन्थस्य, लीलावती-बीजगणितेतिगणितग्रन्थद्वयस्य, सर- लचापीयत्रिकोणगणितस्य चाद्यत्वे प्रचारो वर्त्तते । होरास्कन्धेऽपि—द्वित्रा एव मूलग्रन्थाः प्रचलितास्तदितरास्त्विदानीन्तनाः सङ्कलिताः समविषयका एव भिन्नभिन्ननाम्ना नष्टा भ्रष्टा- श्चानेके दृश्यन्ते । स्कन्धत्रयेऽपि प्राचीनार्षग्रन्था हतभाग्येऽस्मिन् भारते समागते मुग- लसाम्राज्ये (तेषां वैधर्म्यैश्वर्य्येन) नियन्त्रिता बहुशः लुप्ता बभूवुः । दैवात् तदानीं तेषां कुटिलकटाक्षैर्बञ्चिता ये केचन ग्रन्था हतभाग्यानामस्माकं नयनपथमुपयान्ति । ते च यवना अस्माकमार्षग्रन्थानां यथावसरं सारं सङ्कलय्य स्वभाषावद्धान् कांश्चन ग्रन्थांश्चक्रुः । तदानीं तच्छुश्रूषया वराहमिहिरोऽपि स्वजातके राशीनां संज्ञा यवनभाषयैव कृतवान्, हन्त ! ताश्च संज्ञा यथा— क्रिय-तावुरि-जितुम-कुलीर-लेय-पाथोन-जूक-कौर्प्याख्याः । तौक्षिक-आकोकेरो-हृद्रोगश्चान्त्यभं चेत्थम् ॥ इति । एवं नीलकण्ठाचार्य्यश्च स्व-ताजिकनीलकण्ठीनामके ग्रन्थे सर्वाः संज्ञा यवनभाषयैवा- युङ्क्त । अपरेऽपि केचन ग्रन्था ईदृशा वर्त्तन्ते । ततः परं (मुगलसाम्राज्यानन्तरम्) यूरप- देशीयगुरुण्डानां प्रचलितेऽस्मिन् साम्राज्ये ये केचिदुर्वरिता अस्माकमार्षग्रन्था भारतीयानां
४ भूमिका मन्दभाग्यैरनादृताः शनैः शनैः यूरुपदेशमगच्छन्निति भारते ऽर्वाचीनैर्निर्मिताः पौरुषा एव ग्रन्था दृष्टिपथमारोहन्ति । ते च पौरुषा ग्रन्थाः पञ्चदशशताब्द्यभ्यन्तरकालीना एव । यत- आर्यभटः (३९७ शकाब्दकालीनः) प्रथमाचार्यः । पौरुषेष्वपि ग्रन्थेषु परिगणिताः केचि- देव ग्रन्थाः संस्कृतसमितौ परीक्षाक्रमाधिकारिजनैरवगाहितास्तन्न कथं कथमपि स्थैर्यं वह- न्तीति केवलमर्थार्जनलिप्सया प्रमाण-पत्रलोलुपा इदानीन्तनाः संस्कृताध्येतारः परीक्षा- क्रमनिबद्धान् त्रिचतुरो ग्रन्थानधीत्योत्तीर्णपरीक्षाश्चात्मानः कृतकृत्यान्मन्यन्त इति कथं न ते पुण्यतमाः प्राचीना अर्वाचीनाश्च ग्रन्था लुप्तप्राया भवेयुः ? । अथ 'ज्योतिःशास्त्रफलं पुराणगणकैरादेश इत्युच्यते' इति भास्करवचनात्, 'यदुपचित- मन्यजन्मनि शुभाशुभं तस्य कर्मणः
यनाध्यापनं तदनुमतं ग्रहादिवेधोपकरणीभूतयन्त्रादीनां निर्माणं तदुपयोगश्च प्रतिविद्यालयं, प्रतिच्छात्रं, प्रत्यध्यापकञ्चावश्यकतया प्रतीयते। किमेतज्जगजनोपकृतिकार्ये शिक्षाधिकारि- जनैरध्यापकैरध्येतृभिश्च सङ्कुचिताऽपि दृष्टिर्दास्यते ? । अथ प्रकृतमनुसरामः—होरास्कन्धे पौरुषग्रन्थेषु सर्वप्रथमं(१) बृहज्जातकस्याविर्भावः। अयञ्च ग्रन्थः प्राचीनार्यहोराग्रन्थसारभूतस्तत्सम्मतश्चाधुनिकसकलपौरुषग्रन्थानां मूलभूतो गण्यते। अस्य ग्रन्थरत्नस्याविर्भावकस्तत्रभवान् वराहमिहिरस्तथाहि तदुक्तम्— आदित्यदासतनयस्तदवाप्तबोधः काम्पिल्यके सवितृलब्धवरप्रसादः। आवन्तित्को मुनिमतान्ववलोक्य धीमान् होरां वराहमिहिरो रुचिरां चकार ॥ इतः प्रभृतिराचार्यशब्देन वराहमिहिराचार्य (Vide Adh. 3, 51-80) होराशब्देनैत- स्यैव होरा (बृहज्जातकम्) उपयुज्यते। यथाऽस्मिन्नपि ग्रन्थे-आचार्यहोरायाम्, होरायाम् इत्युपयुक्तं दृश्यते । तथा चैतस्यैव ग्रन्थस्य सारभूतं लघुजातकाख्यं तत्कृतमेवातीव मनो- हरं जातकविदामुपकृत्यै विराजते। तस्यायमादिमः श्लोकः— होराशास्त्रं वृत्तं मया निबद्धं निरीक्ष्य शास्त्राणि। यत्तस्याप्यार्याभिः सारमहं सम्प्रवक्ष्यामि ॥ इति। इतः परं कियन्तो जातकविषयकग्रन्थाः कियद्भ्यो ग्रन्थेभ्यः प्राकरणिकवाक्यानि सङ्क- लय्य तत्तदाविर्भावकैराविष्कृताः। यथा च श्रीपतिपद्धतिः (By shripati) सारावली (By Kalyan Varma), सर्वार्थचिन्तामणिः (By Venktesha) जातकादेशः (By Gunakar), होरारत्नम्, (By Balabhadra) मानसागरी, जातकाभरणम्-जातकक- ल्पद्रुम, जातकपारिजातः, (By Vaidya Natha) फलदीपिका (By Mantreshwar) इत्यादयोऽनेके ग्रन्था विविधविषयभूषिताः समुपलभ्यन्ते । तेषु तावदयं जातकसम्बन्धि- कयावद्विषयोपयुक्तो जातकपारिजातः यतो नामानुरूपगुणोऽतोऽध्यापकैरध्येतृभिश्चाधुना प्राय- माद्रियते। एतद्ग्रन्थादौ— भारद्वाजकुलोद्भवस्य विदुषः श्रीवेङ्कटाद्रेरिह ज्योतिषशास्त्रविशारदस्य तनयः श्रीवैद्यनाथः सुधीः। होरासारसुधारसज्ञविबुधश्रेणीमनःप्रीतये राशिस्थाननिरूपणादि सकलं वक्ष्ये यथानुक्रमम् ॥ इत्युक्तवचनेनायं ग्रन्थो भारद्वाजगोत्रोत्पन्न-श्रीवेङ्कटाद्रिदैवज्ञसुतश्रीवैद्यनाथदैवज्ञनि- र्शितः। अस्मिन् ग्रन्थे ग्रन्थकर्त्तुः समयस्यानिर्देशात्तदास्य निर्माणकालो वास्तवः क इति तारतम्याधीनः। अयं किल ग्रन्थकर्ता वेङ्कटाद्रिपुत्रः, वेङ्कटाद्रिरपि ज्योतिर्विदिति 'श्रीवेङ्क- टाद्रेरिह ज्योतिषशास्त्रविशारदस्ये'ति वैद्यनाथोक्तेन स्फुटम्। अतोऽनुमीयते यत् सर्वार्थ- चिन्तामणिकार एवायं वेङ्कटः। जातकपारिजाते बहुत्र सर्वार्थचिन्तामणिमूलश्लोकानां निवेशदर्शनादयमेव वेङ्कटो वैद्यनाथस्य पितेति तर्कः सङ्गच्छते। परञ्च सर्वार्थचिन्तामणावपि तत्समयस्यादर्शनात् वास्तवोऽस्य समयो न स्फुटः। परञ्च-ज्योतिःशास्त्रमहार्णवादुदहर- न्मोहूर्त्ततत्त्वं बहु-व्याप्यल्पं गुरुवैद्यनाथचरणद्वन्द्वेरतः केशवः' इति ग्रहलाघवकरणकर्त्तृ गणेश- दैवज्ञपितु-(केशव) कृतमुहूर्त्ततत्त्वोक्तवचनादयं वैद्यनाथो गणेशपितुः (केशवस्य) गुरु- रिति सिद्धयति। तत्र गणेशकृतग्रहलाघवरचनाकालो 'द्व्यब्धीन्द्रोन्मितशकः' इत्युक्तेन १४४२ शाकाब्दः। तदानीं केशवस्य वयो यदि ७० वर्षाणि कल्प्यन्ते तदा केशवस्य जन्मकालः १३७२ शाकाब्दः स्यात् । तदानीं वैद्यनाथस्यापि वयः २५ वर्षाणीति कल्पने न काचिदनुपप- त्तिरिरित तदा वैद्यनाथस्य ग्रन्थरचनाकालः १३४७ शकाब्दासन्नः सम्भाव्यते(२)। (१) वराहादपि पूर्वं सत्याचार्यौ जीवशर्मा च बृहज्जातके सत्याचार्यजीवशर्म-मतप्र- दर्शनात्, परञ्च सत्याचार्यजीवशर्मादिकृतेरनुपलब्धत्वाद्वराह एव गृह्यते लोकैरिति । (२) गणकतरङ्गिण्यां म० म० सुधाकरद्विवेदीभिः गणेशात्प्राचीनयोर्वेङ्कट-वैद्यनाथ- योरुल्लेखो नाकारीति किं कारणं तन्न जाने ।
६ भूमिका अथायं वैद्यनाथ:— 'नत्वा गर्गपराशरादिरचितं सङ्गृह्य होराफलं कुर्वे जातकपारिजातमखिलज्योतिर्विदां प्रीतये' । तथा—'सङ्गृह्य सारावलिमुख्यतन्त्रं करोम्यहं जातकपारिजातम्' । इति वचनेन इमं जातकपारिजातं प्राचीनार्षग्रन्थानां सारभागं सङ्गृह्यापि च सारावली- बृहज्जातकप्रभृतिका ये पौरुषजातकग्रन्थास्तेषां सारभूतवाक्यानि सङ्कलय्य रचयामासेति स्फुटम् । वस्तुतस्त्वस्मिन् ग्रन्थे बृहज्जातकस्य मूलभूता एव कियन्तः श्लोका दृश्यन्ते (Vi- de वियोनिजन्माध्यायः, अरिष्टाध्यायः, निर्याणविधिः, दशाप्रकरणम्, आयुर्दायप्रकरणम् ) केचन सारावल्याः सर्वार्थचिन्तामनेश्च मूलश्लोका एवं केषाञ्चन ग्रन्थानां सङ्गृहीताः श्लो- काः क्रियत्पाठभेदेन यथास्थितेन चाचार्येण निवेशितास्तेषां ग्रन्
ऽत्रनिविष्टश्लोकैक्यम् = ६१+८७+८०+१०७+१२४+१०२+१८१+११८+१२८+ ७३+९७+१४९+८२+१०३+८४+५४+१११+१७७ = १९१८ एवात्रोपलभ्यते। अत एव मूलग्रन्थे १५५ श्लोका अधिकाः प्रक्षिप्ता इति वक्तुं युज्यते। अथवा 'गीतोत्सुकरलो- किनीयम्' इत्येतद्वाक्यस्य-'गीतोत्सुकानां = एतद्ग्रन्थाऽध्ययनप्रवृत्तानां श्लोकिनीं = यशोदा- यिनीं' त्वेवं व्याख्यानं कुर्यादिति। अपि चास्मिन् ग्रन्थे बृहज्जातक—सारावली—सर्वार्थचिन्तामणिप्रभृतिग्रन्थापेक्षया ग्रहाणां कक्षाक्रमः, प्रवेशभेदाः, दोषापहारिता, पीडाप्रकाराः, केचिदरिष्टयोगाः, केचनायुषां भेदाः, छिद्रग्रहाः, निर्याणसमयाः, मरणान्तरपरिणामाः, दारिद्र्यादियोगभेदाः, राजयोग-
समर्पणम् श्री १०८ साम्बशिवचरणकमलाभ्यां नमः। हे साम्बशिव ! भवदमलपदपङ्कजरसिकजनरञ्जिता । फलिता च सुखमनुकम्पया भवदीययैव सुधा-लता ॥ अनपायिनी भूयादनिशमुपकारिणी बुधसङ्गता । तव पादपङ्कजयोरियं 'कपिलेश्वरेण' समर्पिता ॥ १ ॥
विषयसूची विषयाः | पृष्ठाङ्काः राशिशीलाध्याये ॥ १ ॥ मङ्गलाचरणम् | १ ग्रन्थकारपरिचयः | २ पुनर्मङ्गलाचरणम् | ,, राशीनां संज्ञाः | ,, राशिचक्रम् | ४ कालपुरुषाङ्गे राशिन्यासः | ,, ,, नराकृतिः | ५ राशीनां स्वरूपवर्णनम् | ६ ,, स्थानानि | ,, ,, स्वरूपविशेषादि | ७ ,, ह्रस्व-दीर्घ-पुरुष-स्त्री- | दिक्-क्रूर-सौम्य-च- | रादि-बोधक चक्रम् | ९ ,, सलिलादिसंज्ञाः | ,, ,, चतुष्पदादि संज्ञाः | ,, भावविशेषे बलित्वं च | ,, ,, धातुमूलजीवसंज्ञाः | १० ,, विप्रादिसंज्ञा | ११ ,, वर्णज्ञानचक्रम् | ,, ,, अन्धत्वादिनिरूपणम् | ,, ,, वर्णविशेषः | १२ ,, बलाबलफलम् | ,, ,, स्वामिनिरूपणम् | १३ राशीशचक्रम् | ,, ग्रहाणां त्रिकोणादिनिरूपणम् | ,, ,, मूलत्रिकोणचक्रम् | १४ ,, उच्चनीचनिरूपणम् | ,, ,, दशवर्गानिरूपणम् | १५ ,, होराचक्रम् | १६ ,, द्रेष्काणचक्रम् | ,, ग्रहाणां शतांशचक्रम् | ,, ,, नवांशचक्रम् | २० ,, दशांशचक्रम् | ,, ,, द्वादशांशचक्रम् | २१ ,, षोडशांशचक्रम् | २२ ,, षष्ट्यंशचक्रम् | २३ २ जा० पा० विषयाः | पृष्ठाङ्काः ग्रहाणां त्रिंशांशचक्रम् | २४ ,, दशवर्गजाताः पारिजातादि- | संज्ञाः | ,, ,, पारिजातादिबोधकचक्रम् | २५ ,, षड्वर्गाः सप्तवर्गाश्च | ,, भावानां नामानि | ,, ,, केन्द्रादिसंज्ञाः | ,, राशीनामुदयमानानि | २७ ,, शुभाशुभभागाः | २८ ,, शुभाशुभभागचक्रम् | ,, ,, वासदेशाः | २९ राशीनां प्लवत्वनिरूपणम् | ,, १ अध्यायोपसंहारः | ,, ग्रहनामस्वरूपगुणभेदाध्याये ॥ २ ॥ ग्रहाणां कालात्मत्वादिनिरूपणम् | ३० ,, राजत्वादिनिरूपणम् | ,, ,, नामान्तराणि | ,, ,, उपग्रहाः | ३१ दिने कालाद्युपग्रहज्ञानचक्रम् | ,, कालादिज्ञानप्रकारः (सं० टी०) | ,, रात्रौ कालाद्युपग्रहज्ञानचक्रम् | ३२ ग्रहाणां स्वरूपम् | ,, ,, शुभाशुभत्वादिनिरूपणम् | ,, ,, उदयप्रकारः | ३३ ,, आकारविशेषाः | ,, ,, सञ्चारदेशाः | ३४ ग्रहाणां बाल्याद्यवस्थानिरूपणम् | ,, ,, श० आधिपत्यं धातुवादि संज्ञा च | ,, ,, अवस्थाः | ३५ ,, स्थानपरत्वेनावस्थाः | ,, ग्रहयुद्धलक्षणम् } टीकायाम् | ,, पराजितलक्षणम् } | ग्रहाणां वर्णविशेषाः | ,, ,, द्रव्याणि अधिदेवताश्च | ,, ,, रत्नानि | ३६ ,, वस्त्रादि | ,, ,, प्रदेशविभागाः | ३७
२ जातकपारिजातस्य- विषयाः पृष्ठाङ्काः विषयाः पृष्ठाङ्काः ग्रहाणां जातयो गुणाश्च ३७ वियोनिजन्माद्यध्याये ॥ ३ ॥ ,, नरादिसंज्ञा महाभूताधि- वियोनिजन्मज्ञानप्रकारः ६० पत्यं च ३८ वियोनिजन्मज्ञाने प्रकारान्तरम् ,, ,, कक्षाक्रमः ,, वियोन्यङ्गे राशिस्यापनम् ६१ ,, न्यूनाधिकगतिकारणम् } टी० ३६ वियोनिवर्णज्ञानम् ,, ,, कक्षाप्रदर्शनम् } चतुष्पदजन्मयोगः ६२ ,, धातुविशेषादि ४० पशुविशेषजन्मज्ञानम् ,, ,, दृष्टयः ,, स्थलचरजलचरपक्षिजन्मज्ञानं ,, दृग्वलम् ४१ तथा वृक्षजन्मज्ञानम् ,, ,, ऊर्ध्वादिदृष्टयः ,, वृक्षभेदज्ञानम् ६३ ,, स्थानबलम् ४२ इति वियोनिजन्मप्रकरणम् । ,, दिग्बलम् ,, जन्मप्रकरणम् । ,, कालबलम् ४३ निषेकविधिः ६४ ,, चेष्टाबलम् ,, गर्भधारणलक्षणम् ,, ,, निसर्गबलम् ४४ गर्भाधाने मैथुनप्रकारज्ञानम् ६५ ,, बलसंख्याप्रमाणम् ४५ गर्भसम्भवयोगः ,, ,, तात्कालिकमैत्री ४६ गर्भे दम्पत्योः शुभाशुभफलम् ६६ ,, नैसर्गिकमैत्री ,, निषेककालवशाज्जन्मवशाच्च ,, पञ्चधामैत्री ४७ पित्रादीनां शुभाशुभविचारः ६७ ,, स्थिरादिसंज्ञा ४८ निषेककाल
विषयसूची । ३. विषयाः पृष्ठाङ्काः | विषयाः पृष्ठाङ्काः संस्कारविहीनजन्मयोगः ७७ | वर्षद्वयमायुः १०२ पितृपरोक्षे जन्मयोगाः ,, | वर्षत्रयमायुः ,, औरसक्षेत्रजयोर्निर्णयः ७८ | चतुर्वर्षे मरणम् १०३ कुमारीपुत्रयोगः ७९ | पञ्चमेऽब्दे मरणम् ,, दत्तकपुत्रसाधकयोगः ,, | षड्वर्षायुः ,, जारजत्वसाधकयोगः ,, | सप्तमेऽब्दे मरणम् १०४ परजातपरिहारयोगः ,, | सप्ताष्टवर्षे मृत्युः ,, जन्मनि पितुर्बद्धयोगः ८१ | नवमेऽब्दे मरणम् ,, जन्मदेशज्ञानम् ,, | दशवर्षायुः १०५ मात्रा त्यक्तयोगः } ८२ | ११ वर्षे मरणम् ,, तस्य दीर्घायुष्ट्वम् } | १२ वर्षे मरणम् १०६ मात्रा त्यक्तस्य विनाशयोगः ८३ | १३ वर्षे मृत्युः ,, प्रसवस्थानम् ,, | १४ वर्षे ,, ,, प्रसूतीशयनं, प्रसवप्रकारः | १५ ,, ,, १०७ प्रसूतीगृहज्ञानञ्च ,, | १६ ,, ,, ,, प्रसूतीगृहे दीपज्ञानम् ८४ | १७ ,, ,, ,, प्रसूतीद्वारज्ञानञ्च ८४ | १८ ,, ,, १०८ सूतीगृहस्वरूपम् ८५ | सद्यो मृत्युः ,, सूतीगृहदिशा ,, | १९ वर्षे मृत्युः ,, सूतीगृहे जन्मस्थानम् ८६ | २० ,, ,, ,, ,, उपसूतिकाज्ञानम् ,, | २२ ,, ,, १०९ जातस्य स्वरूपज्ञानम् ८७ | २६।२७ वर्षे मृत्युः ,, लग्नद्रेष्काणवशादङ्गज्ञानम् ,, | २८ ,, ,, ,, जाताङ्गे चिह्नज्ञानम् ८८ | २९ ,, ,, ११० ३ अध्यायोपसंहारः ८९ | २७वा ३० ,, ,, ,, अरिष्टाध्याये ॥ ४ ॥ | ३२ ,, ,, ,, द्वादशाब्दीमध्ये आयुषोऽ | अल्पायुर्योगाः १११ निश्चितता ९० | अरिष्टभङ्गाः ,, अरिष्टपूर्वकमायुषां भेदाः ,, | चन्द्रकृतोऽरिष्टभङ्गः ११२ अरिष्टदा ग्रहस्थितिः ,, | शुभग्रहकृतोऽरिष्टभङ्गः ,, पित्रादीनामरिष्टयोगाः ९१ | पुनश्चन्द्रकृतोऽरिष्टभङ्गः ,, सगर्भाया मरणम् ९२ | गुरुकृतोऽरिष्टभङ्गः ११३ जातस्य मातृमरणम् ९३ | लग्नेशकृतोऽरिष्टभङ्गः ११४ गर्भमासेश्वराः ९४ | ग्रहकृतोऽरिष्टभङ्गः ,, गर्भे सुखयोगः ९५ | राहुकृतोऽरिष्टभङ्गः ,, जातस्य पितृमरणम् ,, | पुनरपि चन्द्रकृतोऽरिष्टभङ्गः ,, जातस्य मरणयोगाः ,, | राशीशकृतोऽरिष्टभङ्गः ११४ वर्षमध्ये मरणम् १०१ | लग्नेशकृतोऽरिष्टभङ्गः ,,
४ जातपारिजातस्य- विषयाः पृष्ठङ्काः | विषयाः पृष्ठङ्काः मध्यमायुर्योगः ११५ | निर्याणसमयाः १४२ मध्यमायुषः केचन भेदाः | यमकण्टकज्ञानं (टीकायाम्) " (टीकायाम्) ११६ | निर्याणमास-चन्द्र-लग्नानि १४४ पूर्णायुर्योगः ११८ | निर्याणसमयान्तरम् १४५ पूर्णायुः प्रमाणम् १२० | निर्याणचन्द्रः १४६ योगविशेषाद्युगान्तमायुः " | निर्याणदशा " मुनित्वप्रदो ग्रहयोगः १२१ | निर्याणहेतुः १४७ अमितायुर्योगः " | हस्तादिविच्छेदयोगाः १५२ देवसाहय्यप्रदो योगः १२१ | दुर्मरणयोगाः १५३ असंख्यायुः प्रमाणम् १२२ | निर्याणदिग्ज्ञानम् १५९ मुनिसमता " | मरणे मोहकालः शवपरिणामश्च " युगान्तायुर्योगः " | मरणानन्तरं गतिज्ञानम् १६० ब्रह्मपदप्राप्तियोगः " | अध्यायोपसंहारः १६२ आयुषः सप्तविधता " | बृहज्जातकोक्तनिर्याणाध्यायः आयुर्दायाध्याये ॥ ५ ॥ | (टीकायाम्) १६२ निसर्गायुः कथनम् १२४ | जातकभङ्गाध्याये ॥ ६ ॥ निसर्गायुषो वर्षाणि " | जातकभङ्गपरिभाषा " पिण्डायुषो " " | राजभङ्गाः " पिण्डायुषः स्पष्टीकरणम् १२५ | नीचोऽपि निखिलां विद्यां प्राप्नोति, आयुषो हरणम् १२६ | कुलीनोऽपि निम्नवृत्त्याजीवतीति योगौ " व्ययादिहरणम् १२७ | भिक्षुयोगाः १६५ क्रूरोदयहरणम् १२८ | दुष्कर्मकृत्प्रेष्ययोगौ १६६ लग्नायुः साधनम् १२९ | दुर्भोज्यादिनीचयोगाः १६७ षड्विधायुर्हरणम् १३० | रेकायोगाः १७३ अंशकायुः " | रेकायोगफलम् १७५ रश्मिजायुः १३३ | दरिद्रयोगाः १७६ रश्मिजायुषो हरणम् १३४ | अन्येपि दरिद्रयोगाः (टीकायाम्) १७८ चक्रायुः १३५ | दरिद्रयोगफलम् १७९ दशायुः " | प्रेष्ययोगाः " आयुषो ग्रहणम् १३६ | प्रेष्ययोगफलम् १८१ आयुषः स्पष्टीकरणम् १३७ | अङ्गहीनयोगाः " आयुषोऽधिकारिणः १३७ | द्विगुणाङ्गमूकयोगौ १८२ नानाजातीयमायुः १३८ | सदन्तकुब्जपङ्गुजडजन्मयोगाः " अरिष्टदशा " | वामनहीनाङ्गयोगौ १८३ छिद्रग्रहाः १४१ | विकलनेत्रयोगाः " देष्काणस्वरूपम् " | सूर्यस्थित्या नेत्रविकारः १८४ जीवदेहमृत्युसंज्ञाः १४२ | नेत्रविकारयोगाः "
विषयसूची । ५ विषया: पृष्ठाङ्का: विषया: पृष्ठाङ्का: रोगयोगा: १८६ अखण्डसाम्राज्यपति: २२३ सर्पाङ्गद्वययोग: १८७ भद्रयोगफलम् ,, कर्णरोगयोग: १८८ हंसयोगफलम् २२४ पित्तरोग: ,, मालव्ययोगफलम् ,, अपानरोग: १८९ शशकयोगफलम् ,, क्लीवयोग: १९० योगानां फलप्राप्तिकाल: २२५ उन्मादयोग: १९१ भास्करादियोगा: ,, उन्मादबुद्धियोग: १९२ इन्द्रयोग: २२६ बुद्धिभ्रम-जड-मद्यपायीयोग: ,, मरुद्योग : ,, गुह्यरोग-कण्ठरोगयोग: ,, बुधयोग: ,, उन्मादभावकलहयोग: १९३ सुनफाऽनफा-दुरुधुरा-केमद्रुमयोगा: २२७ दन्ताक्षियोग: ,, अन्ये केमद्रुमसमफलयोगा: २२८ अन्धयोग: ,, केमद्रुमयोगापवाद: २३० कुष्ठयोग: १९४ केमद्रुमफलम् २३१ मूत्रकृच्छ्रशोणितरोगयोग: ,, बृहज्जातकोक्तं सुनफादियोगा: ,, गुल्मरोगदाहरोगयोग: १९५ सुनफा-नफा-दुरुधुरा-केमद्रुमयो- उदररोगभेद: ,, गानां खेटज्ञानचक्राणि ,, हृदयशूलरोग शूलयोग: ,, सुनफादियोगफलम् २३४ अपरिपाकरोग-पाण्डुरोगयोग: १९६ कुजादिकृतसुनफायोगफलम् २३५ व्यभिचारजातरोगयोग: ' ,, अनफायोगफलम् ,, देवदर्शनाद् भूतप्रेतपिशाचदर्शना- ,, दुरुधुरायोगफलम् २३६ ज्जातरोगयोग: १९७ शकटयोगफलम् २३८ रोगयोगानां विवरणम् ,, पारिजातादियोगफलानि. ,, कासश्वासक्षयपीनसयोग: ,, अधमसमवरिष्ठयोगा: ,, जलोदररोगदीर्घरोगयोग: १९८ चन्द्राधियोग: २३९ जातस्य ह्रस्वयोग: ,, लग्नाधियोग: " विकलनयनदारजन्मयोग: १९९ गजकेसरीयोग: २४० कर्णरोगदन्तरोगयोग: ,, अमलायोग: ,, मुखयोग: २०० वासिवेशी-उभयचरिकैयोग: २४१ राजयोगाध्याये ॥ ७ ॥ वास्यादियोगफलानि ,, राजयोगा: २०० शुभाशुभकर्त्तरियोगा: २४२ राजाधिराजयोगा: २०७ पर्वतयोग: २४३ नृपतुल्ययोगौ २०८ काहलयोग: २४४ विविधराजयोगभेदा: २१० मालिकायोगा: ,, ग्रहफलदानविवरणम् २२२ चामरयोग: २४६ पञ्चमहापुरुषयोगा: ,, शंखयोग: ,, रुचक-योगफलम् २२३ भरीयोग: २४७ मृदङ्गयोग: ,,
| ६ | जातकपारिजातस्य- | ||
|---|---|---|---|
| विषयाः | पृष्ठांकाः | विषयाः | पृष्ठाङ्काः |
| श्रीनाथयोगः | २४८ | चतुर्थभावगतग्रहफलम् | २७६ |
| शारदयोगः | ,, | पञ्चम- ,, | ,, |
| मत्स्ययोगः | २४९ | षष्ठ- ,, | २७७ |
| कूर्मयोगः | ,, | सप्तम- ,, | ,, |
| खड्गयोगः | २५० | अष्टम- ,, | २७८ |
| लक्ष्मीयोगः | ,, | नवम- ,, | २७९ |
| कुसुमयोगः | २५१ | दशम- ,, | ,, |
| पारिजातयोगः | ,, | लाभ- ,, | २८० |
| कलानिधियोगः | २५२ | व्यय- ,, | ,, |
| अंशावतारयोगः | २५३ | स्वोच्चफलम् | २८१ |
| हरि-हर-विधियोगाः | ,, | मूलत्रिकोणफलम् | २८२ |
| नाभसयोगाः | २५४ | स्वक्षेत्रफलम् | ,, |
| बृहज्जातकोक्ताश्रयदलयोग- | मित्रक्षेत्रफलम् | ,, | |
| लक्षणम् | ,, | शत्रुक्षेत्रफलम् | २८३ |
| प्राक्तनैराश्रयदलयोगानुक्तकारणम् | २५६ | नीचस्थफलम् | २५४ |
| गदा-शकट-विहग-शृङ्गाटक- | सान्वब्दादिफलाध्याये ॥ ६ ॥ | ||
| हलयोगाः | ,, | मान्दिस्थितद्वादशभावफलानि | २८५ |
| वज्र-यव-कमल-वापी-योगाः | २५७ | ग्रहयुक्तमान्दिफलम् | २८६ |
| यूप-शर-शक्ति-दण्ड-योगाः | २५८ | संवत्सरफलम् | २८७ |
| नौकूटच्छत्रचापाद्र्धयोगाः | २५९ | संवत्सरायनप्रकारस्तन्नामानि च | |
| समुद्र-चक्रयोगौ | २६० | (टीकायाम्) | २८८ |
| संख्यायोगाः | २६१ | अयनफलम् | २९० |
| आश्रय-दलयोग-फलम् | ,, | ऋतुफलम् | २९१ |
| गदादियोगफलम् | ,, | मासफलम् | ,, |
| ७ अध्यायोपसंहारः | २६३ | पक्षफलम् | २९२ |
| द्व्यादिग्रहयोगाध्याये ॥ ८ ॥ | कालफलम् | ,, | |
| द्विग्रह-योगाः | २६३ | तिथिफलम् | ,, |
| त्रिग्रह-योगाः | २६४ | वारफलम् | २९३ |
| चतुर्ग्रहयोगाः | २६७ | नक्षत्रनामानि | २९४ |
| पञ्चग्रहयोगाः | २६९ | गण्डान्तताराः | २९६ |
| षड्ग्रहयोगाः | २७० | अभुक्तघटिका | ,, |
| मेषादिराशिस्थैकग्रहफलम् | २७१ | ज्येष्ठाज्ञानि | ,, |
| दृष्टिफलम् | २७२ | मूलफलानि | २९७ |
| चन्द्रस्य दृष्टिफलम् | ,, | श्लेषागण्डान्तम् | २९८ |
| लग्नादिभावगतग्रहफलम् | २७४ | श्लेषा-मघा-ज्येष्ठा-मूल-रेवत्य- | |
| द्वितीयभावगतग्रहफलम् | २७५ | श्विनीषु गण्डान्तकथनम् | २९९ |
| तृतीय- ,, | ,, | अन्यगण्डान्तानि | ,, |
विषयसूची । ७ विषयाः पृष्ठाङ्काः | विषयाः पृष्ठाङ्काः गण्डकालः ३०० | अष्टकवर्गादायुःसाधनम् ३३२ तिथिदोषः ३०१ | लग्नाष्टकवर्गचक्रम् (टीकायाम् ) ३३३ योगदोषः ,, | अष्टकवर्गायुर्ग्रहस्थितिः ,, दन्तोद्गमफलम् ३०२ | समुदायाष्टकवर्गः ३३४ जन्मतारादयः ,, | सर्वाष्टके भावानां त्रिभागकल्पना ३३६ गण्डदोषापवादः ३०३ | सर्वाष्टके खण्डत्रये ग्रहफलम् ३३७ नक्षत्रफलम् ३०४ | लग्नगतविशिष्टबिन्दुफलम् ,, राशिफलम् ३०५ | योगवशादायुःप्रमाणम् ३३८ राशिनवांशफलम् ३०६ | ग्रहयोगवशाद्विन्दुफलानि ,, योगफलम् ३०७ | बिन्दुवशाद्रोगादिज्ञानम् ३३९ करणफलम् ३०८ | शुद्धाष्टकवर्गायुः ३४० लग्नफलम् ३०९ | गणितागतायुषः पाकस्थितिः ३४१ होराफलम् ३१० | अध्यायोपसंहारः ,, द्रेष्काणफलम् ,, | प्रथमद्वितीयभावफलाध्याये ॥११॥ द्रेष्काणसंज्ञाचक्रम् ३११ | ग्रहस्थितिवशाद्भावानां शुभाशुभा- नवांशफलम् ३१२ | दिनिरूपणम् ३४२ द्वादशांशफलम् ,, | तनुभावाद्दिचारणीयविषयाः ,, त्रिंशांशफलम् ३१३ | तनुभावफलानि ३४५ वेलाफलम् ,, | द्वितीयभावे विचारणीयविषयाः ३५४ वेलाबोधकचक्रम् ,, | धनविचारः ,, कालहोराफलम् ३१४ | नेत्रविचारः ३५७ कालहोरानयनचक्रम् ३१५ | मुखविचारः ३५८ अष्टकवर्गाध्याये ॥ १० ॥ | विद्या-वाग्विचारः ३६० ग्रहाणां शुभबिन्दुसङ्ख्याः ३१५ | गणितज्ञयोगः ३६१ ग्रहाणामष्टकवर्गाः (टीकायाम्) ३१६ | तार्किकयोगः ,, अष्टकवर्गे बिन्दुपरत्वेन | वैयाकरणयोगः ३६२ भावफलानि ३२१ | वेदान्तज्ञयोगः ,, सूर्याष्टकवर्गफलम् ३२२ | षट्शास्त्रियोगः ,, चन्द्राष्टकवर्गफलम् ,, | कुटुम्बविचारः ,, भौमाष्टकवर्गफलम् ३२३ | पात्राशनयोर्विचारः ३६३ बुधाष्टकवर्गफलम् ३२४ | तृतीयचतुर्थभावफलाध्याये ॥१२॥ गुर्वष्टकवर्गफलम् ,, | तृतीयभावाद्दिचारणीयविषयाः ३६५ शुक्राष्टकवर्गफलम् ३२५ | भ्रातृविचारः ,, शन्यष्टकवर्गफलम् ,, | सोदरसङ्ख्याज्ञानम् ३६९ अष्टकवर्ग-प्रस्तारकम् ३२६ | भ्रातृभार्याफलविचारः ३७१ अष्टकवर्गे त्रिकोणशोधनम् ३२७ | भ्रात्ररिष्टविचारः ३७२ ,, एकाधिपत्यशोधनम् ३२८ | पराक्रमविचारः ३७३ गुणकपिण्ड-गुणकाङ्काः ३३१ | कण्ठविचारः ३७५
८ जातकपारिजातस्य- विषयाः पृष्ठाङ्काः विषयाः पृष्ठाङ्काः श्रुतिभूषणविचारः ३७६ पुत्रभावाभावौ ३९८ वस्त्रविचारः ,, पौत्रप्राप्तिरल्पपुत्र एकपुत्रश्च ,, धैर्यविचारः ,, पुत्रस्त्रीरहितयोगो दत्तात्मजयोगश्च ३९९ बलविचारः ३७७ सुताभावयोगो जारपुत्रयोगश्च ४०० भोजनविचारः ,, पुत्रप्रदा योगाः ४०१ चतुर्थभावफलानि ३७८ वंशहीनयोगाः ,, चतुर्थभावे विचारणीयविषयाः ,, भ्रष्टविधिजीवियोगः ,, विद्याविचारः ,, धनव्ययतायोगाः ,, मातृविचारः ३७९ दत्तादिसुतयोगः ४०२ पितुर्धिटत्वम् ३८० गुरुस्थित्या सन्तानविचारः ,, मातुर्व्यभिचारयोगाः ३८१ सन्तानक्षयकारणानि ४०३ पित्रोरनिष्टयोगः ,, दत्तकपुत्रयोगाः ४०४ सुखविचारः ३८३ विलम्बेन पुत्रप्राप्तियोगः ,, सुखादिविचारनिर्णयः ३८४ पुत्र-भ्रातृ-स्त्री-दास-दासी- सुगन्धविचारः ,, मित्राणां विचारः ४०६ बलविचारः ,, पुत्रोत्पत्तिकालः पुत्रसङ्ख्याज्ञानञ्च ४०७ पशुविचारः ,, स्थितिवशेन पुत्रस्येष्टानिष्टे ४०८ बन्धुविचारः ३८५ पुत्रस्य जननमरणलक्षणौ ,, मनोविचारः ,, पितृविचारः ,, वाहनविचारः ,, पित्रादीनां मरणम् ४१० राज्यविचारः ३८६ बुद्धिविचारः ४१३ राजयोगाः ( सिंहासन- हृदयरोगयोगः ४१४ प्रदयोगाः ) ३९० पुण्यविचारः ,, भाग्यविचारः ३९१ रोगविचारः ,, क्षेत्रविचारः ३९२ ग्रहकर्तृकरोगस्थानानि ४१७ निक्षेपधनप्राप्तियोगाः ,, शत्रोः पीडा, शत्रुनाशश्च ४१८ गृहविचारः ३९३ क्षान्त्युपकारीयोगः ,, पञ्चमषष्ठभावफलाध्याये ॥१३॥ सप्तमाष्टमनवमभावफलाध्याये ॥१४॥ केषांचिद्भावानां विचारक्रमः ३९४ सप्तमभावे विचारणीयविषयाः ४१९ पञ्चमभावफलानि ,, जारयोगः ,, देवताविचारः ३९५ कामुकयोगः ,, राज्यविचारः ,, जारयोगोऽपुत्रयोगो बहुस्त्रीयोगश्च ४२० जन्मविचारः ३९६ कलत्रहीनैकपुत्रयोगौ ४२१ चतुष्पदानां जन्म ,, वन्ध्यापतिः, स्त्रीप्रकृतिश्च ,, पुत्रविचारः ( दारहा- नवांशवशात्स्त्रीविचारः ,, पुत्रमरणयोगौ ) ३९७ सप्तमे ग्रहयोगात् स्त्रीविचारः ४२२ पुत्रपुत्रीयोगौ ३९८ बहुकलत्रेऽपि सन्ततिहीनयोगः ४२३
विषयसूची । ६
| विषयाः | पृष्ठाङ्काः | विषयाः | पृष्ठाङ्काः |
|---|---|---|---|
| नष्टदारयोगः | ४२४ | भाग्यहीनयोगः | ४५० |
| कलत्रद्वययोगस्तल्लक्षणञ्च | ४२४ | भाग्यवान् योगः | ४५१ |
| कलत्रत्रययोगः | ,, | गुरुभक्तियोगः | ,, |
| बहुस्त्रीयोगः | ४२५ | धर्महीन-योगः | ४५२ |
| व्रतपरायणदारयोगः | ,, | सुभाग्य-योगः | ,, |
| पतिघ्नीस्त्रीयोगः | ,, | पुत्रभावाभावयोगौ | ,, |
| सप्तमेशवशात्स्त्रीवंशज्ञानम् | ,, | बालस्य पितृमरणं दिने रात्रौ वा | ४५३ |
| स्त्रीसङ्ख्याज्ञानम् | ४२६ | पुण्यविचारः | ,, |
| विवाहकालः | ,, | दशमैकादशद्वादशभावफला- | |
| विवाहकालः स्त्रीस्वभावश्च | ४२६ | ध्याये ॥ १५ ॥ | |
| वरवधूजातकसंयोगः | ४३० | दशमे भावे विचारणीयविषयाः | ४५४ |
| पुरुषे दारहा, स्त्रियां पतिघ्नयोगः | ,, | कर्मविचारः | ,, |
| स्त्रीणां पतिमृत्युयोगः | ,, | प्रव्रज्यायोगाः | ४५९ |
| स्त्रीवियोग-सुखयोगौ | ,, | प्रव्रज्यायोगानामपवादः | ४६६ |
| पुत्रमात्राभावयोगौ | ४३१ | जीविकायोगाः | ४६७ |
| स्त्रियाः स्तनविचारः | ,, | ग्रहकर्त्तृकजीविकावृत्तिः | ४६८ |
| गम्यस्त्रीविवरणम् | ,, | केन्द्रेषु शुभकर्तृकराजयोगः | ४७० |
| स्त्रीसङ्गमे स्थानविचारः | ४३२ | पुण्य-पापरतयोगौ | ,, |
| कलत्रशुभाशुभज्ञानम् | ,, | चन्द्राद्दशमे भौमादियुतसूर्यफलम् | ४७१ |
| भगचुम्बनयोगः | ४३३ | ,, भौमादिद्विग्रहफलानि | ४७२ |
| स्त्रियाभगविचारः | ,, | आज्ञाविचारः | ,, |
| स्त्रीमरणसमयः | ४३४ | कीर्ति-मान-कृषि-व्यापार- | |
| अष्टमभावफलानि | ४३५ | निद्राविचारः | ४७३ |
| अल्पायुर्योगद्वयम् | ,, | लाभे सूर्यादिस्थित्या लाभविचारः | ४७४ |
| दीर्घ-मध्याल्पायुषां भेदाः | ,, | शुभ पाप धनलाभविचाराः | ४७५ |
| मृत्युविचारः ( मरणदशा ) | ४३७ | व्यये विचारणीय-विषयाः, नाना- | |
| मारकग्रहदशायां मरणकालनिर्णयः | ४३९ | देशाटनयोगश्च | ४७६ |
| मात्रा पित्रा च सह मृत्युयोगः | ४४० | व्ययविचारः | ४७७ |
| देहे गन्धादिज्ञानम् | ,, | दानविचारः | ४७८ |
| चरादिलग्नवशान्मरणकालनिर्णयः | ४४१ | धननाश-धनरक्षा-शय्यासुखयोगाः | ४७९ |
| नवमभावफलानि | ,, | शयनविचारः | ,, |
| भाग्यविचारः | ,, | गतिविचारः ( मरणानन्तरम् ) | ४८० |
| नवमे गुरौ ग्रहदृष्टिफलानि | ४४३ | ग्रहस्थितिवशाद्भावशुभाशुभत्वम् | ,, |
| ,, द्विग्रहयोगफलानि | ४४४ | स्त्रीजातकाध्याये ॥ १६ ॥ | |
| ,, त्रिग्रहयोगफलानि | ४४६ | जातकविवरणम् | ४८१ |
| ,, चतुर्ग्रहयोगफलानि | ४५० | स्त्रीजन्मनि फलकथनविवरणम् | ४८२ |
| ,, त्र्यादिग्रहयोगफलम् | ,, | लग्नेन्दुवशात्स्त्रीफलम् | ४८३ |
| 2 |
१. अध्याय १-४: राशि, ग्रह-स्वरूप, कारकत्व एवं योगाध्याय (शुभ-अशुभ योग)
१० विषयसूची। विषयाः पृष्ठाङ्काः विषयाः पृष्ठाङ्काः कुलटायोगः ४८४ देहजीवपरिभाषा ५०७ साध्वीयोगः ,, कानिचिन्मरणस्थानानि ५०८ गुरुषिणी-ब्रह्मवादिनीयोगौ ,, ग्रहजनितदेहजीवफलम् ५०९ स्त्रीजातके त्रिंशांश फलानि ४८५ चक्रदशाफलम् ५१० लग्नत्रिंशांशफलचक्रम् (टीकायाम्) ४८६ चक्रांशशायां विशेषः ५१३ पुनर्भू-विधवा-भर्त्तृत्यक्तयोगाः ४८७ त्रिविधा कालचक्रगतः ५१५ स्वैरिणी-पुनर्भूलक्षणम् ,, कालचक्रदशासाधनज्ञानम् ५१७ मात्रा सार्धं पुंश्चली-व्याधियोनि- सव्यचक्रवाक्यानि ५१८ सुभगायोगाः ,, अपसव्यचक्रवाक्यानि ५१९ ग्रहपटुत्वेन सप्तमभावफलम् ४८८ अन्तर्दशासाधनम्- ५२० दुर्भगा-पतिवल्लभायोगौ ४८९ स्त्रियाः पश्चात्पूर्वं वा पत्युर्मृतिः ,, दशाफलाध्याये ॥ १८ ॥ भाग्य-दुर्भाग्ययोगौ ४९० दशामहत्त्वम् ५२३ पतिनिर्देशात्परगामिनीयोगः ४९१ विंशोत्तरीमहादशाविवरणम् ,, मात्रा साकं व्यभिचारिणीयोगः ,, दशानां शुभाशुभत्वम् ५२३ सुभगा-दुर्भागायोगौ ,, इष्टकालीनदशाकथननिर्णयः ५३० सप्तमे शुभाशुभग्रहफलम् ,, उत्पन्नादिसंज्ञादशा ,, जन्मलग्ने ग्रहदृष्टिफलम् ४९२ निर्याणदशा ५३१ स्त्रीजातके प्रव्रज्यायोगः ४९३ गुलिकदशा ,, स्त्रिया वैधव्ययोगो मरणयोगश्च ,, शूलदशा ५३२ दम्पत्योः समकालमरणम् ४९४ महादशा विशेषः ,, स्त्रिया मरणकालः ,, अन्तर्दशाविशेषफलम् ५३३ ,, सोदरप्राप्तियोगौ ४९५ आवेशदशाफलम् ,, ,, पतिलक्षणम् ,, अन्तर्दशाफलानि ५३६ कालचक्रदशाध्याये ॥ १७ ॥ सूर्यान्तरे ग्रहाणां फलानि ५३७ कालचक्रगतिविषये शङ्करं प्रति चन्द्रान्तर्दशाफलानि ५३८ देवीप्रश्नः ४९८ भौमान्तर्दशाफलानि ५४० देवीं प्रति शङ्करस्योत्तरम् ४९८ राह्वन्तर्दशाफलानि ५४२ कालचक्रदशाप्रस्तारः ४९९ गुर्वन्तर्दशाफलानि ५४४ सव्यचक्रम् ५०० शन्यन्तर्दशाफलानि ५४५ अपसव्यचक्रम् ५०२ बुधान्तर्दशाफलानि ५४७ कालचक्रदशोदाहरणम् केत्वन्तर्दशाफलानि ५४८ ( टीकायाम् ) ५०४ शुक्रान्तर्दशाफलानि ५५० देहजीवफलम् ५०५ उपसंहारः ५५३
॥ श्री मङ्गलमूर्तये नमः ॥ जातकपारिजातः सुधाशालिनी-विमला-टीकाभ्यां पल्लवितः अथ राशिशीलाध्यायः । श्रीकान्ताजशिवस्वरूपममरज्योतिर्गणस्वामिनं मायातीतमशेषजीवजगतमीशं दिनेशं रविम् ॥ नत्वा गर्गपराशरादिरचितं सङ्गृह्य होराफलं वक्ष्ये जातकपारिजातमखिलज्योतिर्विदां प्रीतये ॥ १ ॥
- सुधाशालिनी * श्रीकान्तं कमनीयकञ्जनयनं हृन्मन्दिरे संस्थितं, देवीं दैन्यविनाशिनीं विनमतामाराधयन् सर्वदाम् । ग्रन्थे जातकपारिजात इह ये मुह्यन्ति तेषां कृते काश्यां 'श्रीकपिलेश्वरो' वितनुते टीकां "सुधाशालिनीम्" ॥ अथायमाचार्यो भारद्वाजकुलोद्भवः श्रीवैद्यनाथ इति नाम्ना प्रसिद्धो ज्यौतिषविषये जातकपारिजात-नामकं ग्रन्थं चिकीर्षुः 'देवाधीनं जगत्सर्वमि'त्यतो जगति सर्वस्मिञ्छुभकार्ये देवार्चनं कार्यमिति सत्सम्प्रदायमनुपालयन् विधेयविषयस्य च कुशलेन परिसमाप्तिमिच्छन् स्वविषयाधिष्ठातृदेवस्य श्रीसूर्यस्य नमस्कारात्मकं मङ्गलं कर्त्तव्यवस्तुनिदर्शनं च करोति श्रीति— श्रीकान्ताजशिवस्वरूपं = श्रियो लक्ष्म्याः कान्तो विष्णुः, अजो ब्रह्मा, शिवश्चेति त्रिदेवस्वरूपं "त्रिमूर्तिस्तु दिवाकर" इत्युक्तेः । अमरज्योतिर्गणस्वामिनं = अमरा देवा ज्योतींषि ग्रहनक्षत्राद्यस्तेषां गणानामखिलानां स्वामिनं प्रकाशकत्वेनाधिपतिम् । अत्रेदमुक्तं भवति—सूर्यं एवाखिलानि ज्योतींषि प्रकाशयति । तथोक्तं कमलाकरेण— “तेजसां गोलकः सूर्यो ग्रहर्क्षाण्यम्बुगोलकाः । प्रभावन्तो हि दृश्यन्ते सूर्यरश्मिप्रदीपिताः" ॥ मायातीतं = सत्स्वरूपमित्यर्थः । अशेषजीवजगतमीशं = सकलचराचरजीवानां नायक- मात्मत्वेनाधिपतिं "सूर्य आत्मा जगतस्तस्थुषश्चे'ति श्रुतेः । दिनेशं = दिनाधिपतिं, यतो रवेरुदयादेव दिनप्रवृत्तिरिति । "दिनं दिनेशस्य यतोऽत्रदर्शने" इति भास्करोक्तेः । रवि = श्रीसूर्यं, नत्वा = नमस्कृत्य, गर्गपराशरादिरचितं = गर्ग-पराशरप्रमुखर्षिप्रणीतं, होराफलं = जातकशास्त्रं, सङ्गृह्य = सङ्कलय्य, अखिलज्योतिर्विदां = सकलज्योतिश्शास्त्रवेत्तॄणां, प्रीतये = प्रमोदाय "मुत्प्रीतिः प्रमदो हर्षः प्रमोदामोदसम्मदः" इत्यमरः । जातकपारिजातं = जातकेषु ( जातकशास्त्रेषु ) पारिजातं ( सुरतरुं ) "पञ्चैते देवतरवो मन्दारः पारिजातकः" इत्यमरः । अमुं ग्रन्थं वक्ष्येऽहमिति शेषः । प्रकृतग्रन्थादौ श्रीपदोपादानं सर्वेषां श्रेयःसूचकमित्यलं पल्लवितेन ॥ १ ॥
२ सटीकजातकपारिजाते-
- विमला * लक्ष्मीकान्तमजं गिरीन्द्रतनयानाथं दिनेशं गुहं, वाग्देवीं गिरिजासुतं पवनजं श्रीरामचन्द्रप्रियम् । तातं छत्रधरं प्रणम्य सततं चानन्दिकां मातरं, वक्ष्ये जातकपारिजातविमलां टीकां सतामुन्मुदे ॥ विष्णु ब्रह्मा और शङ्करजीके स्वरूप देवता और ज्योतिर्गणोंके अधिपति मायासे भिन्न तथा सम्पूर्ण जगतके जीवोंके प्रभु श्रीसूर्यनारायणको नमस्कार कर गर्गपराशर आदिसे रचित होराफलका संग्रह करके सब ज्योतिषियोंकी प्रसन्नताके लिये मैं जातक- पारिजात को बनाता हूं ॥ १ ॥ इदानीमात्मपरिचयपूर्वककर्त्तव्यतामाह— भारद्वाजकुलोद्भवस्य विदुषः श्रीव्यङ्कटाद्रेरिह । ज्योतिःशास्त्रविशारदस्य तनयः श्रीवैद्यनाथः सुधीः ॥ होरासारसुधारसज्ञविबुधश्रेणीमनःप्रीतये । राशिस्थाननिरूपणादि सकलं वक्ष्ये यथाऽनुक्रमम् ॥ २ ॥ भारद्वाजकुलोद्भवस्य = भारद्वाजगोत्रजन्मनः, ज्योतिषशास्त्रविशारदस्य = ज्यौतिषशास्त्रे दक्षस्य, विदुषः = पण्डितस्य, श्रीव्यङ्कटाद्रेः = श्रीव्यङ्कटाद्रिनाम्नस्तनयस्तनूजन्मा श्रीवैद्यनाथ इति नामा, सुधीः = विद्वान् कर्त्ताऽहं, होरासारसुधारसज्ञविबुधश्रेणीमनःप्रीतये=होराशास्त्राणां सारमेव सुधारसममृतं जानन्ति ये विबुधा विद्वांसस्तेषां श्रेणीनामखिलानां मनसो मुदे, राशिस्थाननिरूपणादि = राशीनां मेषप्रभृतिद्वादशानां स्थाननिरूपणमादिर्यस्मिंस्तत्सकलं = यावदशेषं विषयं, यथाऽनुक्रममनुक्रममनतिक्रम्य ( क्रमपूर्वकमित्यर्थः ) वक्ष्ये इति ॥ २ ॥ श्रीभारद्वाजऋषिके कुलमें उत्पन्न ज्योतिःशास्त्रके विशारद श्रीवेङ्कटाद्रि पण्डितका पुत्र मैं वैद्यनाथ होराशास्त्रके रसको जाननेवाले विद्वानोंके मनके प्रसन्नतार्थ राशिस्थान निरूपण आदि सब विषयोंको कहता हूं ॥ २ ॥ पुनरपि स्वाभीष्टदेवताप्रणिपातपूर्वकं विधेयविषयमाह— प्रणम्य वन्दारुजनाभिवन्द्यपदारविन्दं रघुनायकस्य । सङ्गृह्य सारावलिमुख्यतन्त्रं करोम्यहं जातकपारिजातम् ॥ ३ ॥ अहं = श्रीवैद्यनाथः, रघुनायकस्य = रघुकुलाधिपतेर्भगवतो रामचन्द्रस्य, वन्दारुज- नाभिवन्द्यपदारविन्दं = वन्दारुजनैरभिवादकैः "वन्दारुरभिवादके" इत्यमरः । अभिवन्द्यं सर्वथा वन्दनीयं पदारविन्दं चरणकमलं प्रणम्य, सारावलिमुख्यतन्त्रं सङ्गृह्य = कल्या- णवर्म्मकृतां सारावलीमेव मुख्यतन्त्रमागमत्वेन स्वीकृत्य जातकपारिजातमिमं ग्रन्थं करोमि विरचयामीति । ननु "गर्गपराशरादिरचितं सङ्गृह्य होराफल"मित्युक्तमिदानीं 'सङ्गृह्य सारावलिमुख्यतन्त्र'मित्युच्यते किमिति ? सत्यं, सारावल्यामपि प्राक्तनर्षीणामभिमतविषया एव दरीदृश्यन्तेऽतोऽदोषः ॥ ३ ॥ देवताओंसे वन्दित रघुनाथजी के चरण कमलोंको प्रणाम करके सारावली मुख्यतन्त्र को संग्रह करके मैं जातकपारिजातको बनाता हूं ॥ ३ ॥ अथ मेषादीनां संज्ञाविशेषाः । मेषाजविश्वक्रियतुम्बुराद्या वृषोक्षगोतावुरगोकुलानि । द्वन्द्वं नृयुग्मं जुतुमं यमं च युगं तृतीयं मिथुनं वदन्ति ॥ ४ ॥ —