कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)
Kumarasambhavam of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा
पृष्ठ 221, कुल 268 में से
संदर्भ में पढ़ेंकथयसि। इदञ्चसुविज्ञातमेव संसारे यत् त्वमिवान्येऽपि मूढ- पुरुषा अनन्यसाधारणमविज्ञेयकारणञ्च महापुरुषाणां चरित्रं द्वेष- भावेनाधिक्षिपन्ति ॥ ७५ ॥ विपत्प्रतीकारपरेण मङ्गलं निषेव्यते भूतिसमुत्सुकेन वा । जगच्छरण्यस्य निराशिषः सतः किमेभिराशोपहतात्मवृत्तिभिः ॥ ७६ ॥ सम्प्रति। अमङ्गलाभ्यासरतिं (५।६५) इत्याद्युक्तदूषणजातं विपदित्यादिभिः षड्भिः श्लोकैः परिहर्तुमारभते--विपदिति । विपत्प्रतीकारपरेण । अनर्थपरिहारार्थिनेत्यर्थ । ' उपसर्गस्य घञ्यमनुष्ये बहुलम्' इति दीर्घः । भूतिसमुत्सुकेन ऐश्वर्यकामेन वा मङ्गलं गन्धमाल्यादिकं निषेव्यते । शरणे रक्षणे साधुः शरण्यः । ' तत्र साधुः' इति यत्प्रत्ययः । ' शरणं गृहरक्षित्रोः ' इत्यमरः । जगत शरण्यस्तस्य जगच्छरण्यस्य निराशिषः निरभिलाषस्य सतः शिवस्य । 'आशीरुरगदंष्ट्रायां विप्रवाक्याभिलाषयोः' इति शाश्वतः। आशोपहतात्मवृत्तिभि आशया तृष्णयोपहता दूषितात्म- वृत्तिरन्तःकरणवृत्तिर्येषां ते एभिः मङ्गलैः किम् । वृथेत्यर्थः । पूर्वं मङ्गलमित्येकवचनस्य जात्यभिप्रायत्वादेभिरिति बहुवचनेन परामर्शो न विरुध्यते । इष्टावाप्त्यनिष्टपरिहारार्थिनो हि मङ्गला- चारनिबन्धः । तदुभयासंस्पृष्टस्य तु यथाकथंचिदास्ताम् । को दोष इत्यर्थः । एतेन ' अमङ्गलाभ्यासरतिम् ' ( ५।६५ ) इत्युक्तं प्रत्युक्तम् ॥ ७६ ॥ PROSE ORDER :—विपत्प्रतीकारपरेण वा भूतिसमुत्सुकेन मङ्गलं निषेव्यते, जगच्छरण्यस्य निराशिषः सतः (शिवस्य) आशोपहतात्मवृत्तिभिः एभिः किम् ? ॥ ७६ ॥