लघुसिद्धान्तकौमुदी (वरदराजाचार्य - भैमी एवं सान्वय हिन्दी व्याख्या सहित)
Laghu Siddhanta Kaumudi of Varadaraja with Hindi Commentary
आचार्य वरदराज द्वारा
पृष्ठ 18, कुल 633 में से
संदर्भ में पढ़ेंॐ श्रीमद्वरदराजाचार्यप्रणीता लघु-सिद्धान्त-कौमुदी श्रीभीमसेनशास्त्रिनिर्मितया भैमीव्याख्ययोद्भासिता [ पूर्वार्धम् ] --: :०: :-- (व्याख्याकर्तृमङ्गलाचरणम्) प्राप्यतेऽन्विष्यमाणो न यः कुत्रचिद् योगिविद्वज्जनैर्हा कुतोऽन्यैर्नरैः। आदिमध्यान्तशून्यं प्रभुं निर्गुणं स्वस्य चित्तोपशान्त्यै तमेवाश्रये ॥ १ ॥ सर्वाऽभिलाप - दातारं शरणाऽगत - तारकम् । अभिलाषशतं त्यक्त्वा प्रपन्नोऽस्मि जगद्गुरुम् ॥ २ ॥ व्याख्याता सूरिभिः कामं, लघुसिद्धान्तकौमुदी । भाषाटीका तथाप्यस्या बोधदा नैव दृश्यते ॥ ३ ॥ अक्षरार्थपराः सर्वे विमुखा भाववर्णनात् । वृथाऽनपेक्षं जल्पन्तः पाण्डित्यमदगर्विताः ॥ ४ ॥ तेभ्यः खिन्नो विनोदाय बालानामुपकारिणीम् । स्वाधीतस्य प्रचाराय टीकामेतां करोम्यहम् ॥ ५ ॥ सुस्पष्टपदलालित्यं सुष्ठु भावस्य कीर्तनम् । वटून् दृष्ट्वा कृतं सर्वं न च पाण्डित्यगर्वतः ॥ ६ ॥ टीकामेतां जगद् दृष्ट्वा गदिष्यत्येकया गिरा । बालानामुपकारोऽभूद् यः कृतो नैव केनचित् ॥ ७ ॥ कृपा स्याज्जगदीशस्य यत्नो मे सफलो भवेत् । यतो मौर्ख्याभिभूतस्य को देवादपरोऽस्ति मे ॥ ८ ॥