लघुसिद्धान्तकौमुदी (वरदराजाचार्य - भैमी एवं सान्वय हिन्दी व्याख्या सहित)
Laghu Siddhanta Kaumudi of Varadaraja with Hindi Commentary
आचार्य वरदराज द्वारा
पृष्ठ 576, कुल 633 में से
संदर्भ में पढ़ेंअव्यय-प्रकरणम् ५६१ (पञ्च० २.१३८) । नोलूकोऽप्यवलोकते यदि दिवा सूर्यस्य किं दूषणम् (नीति० ६३)। (७१) यद्यपि = अगरचे, यद्यपि — यद्यप्येते न पश्यन्ति लोभोपहतचेतसः (गीता० १.३७)। यद्यपि बहु नाधीषे तथापि पठ पुत्र व्याकरणम् । स्वजनः श्वजनो मा भूत्सकलं शकलं सकृच्छकृत् (सुभाषित०)। (७२) यद्वा* = अथवा । यद्वा जयेम यदि वा नो जयेयुः (गीता० २.६) । (७३) यदि वा* = अथवा । स्नेहं दयां च सौख्यं च यदि वा जानकीमपि । आराधनाय लोकानां मुञ्चतो नास्ति मे व्यथा (उत्तरराम० १.१२) । (७४) अथवा* । १. 'वा' के अर्थ में—व्यवहारं परिज्ञाय वध्यः पूज्योऽथवा भवेत् (हितोप० १.५८)। २. पक्षान्तर में—अथवा कृतवाग्द्वारे वंशेऽस्मिन् पूर्वसूरिभिः (रघु० १.४) । (७५) वारं वारम्* = बारंबार—मनसि विचारय वारं वारम् (चर्पट० ११)। (७६) प्रेत्य । १. परलोक—अन्यो धनं प्रेत्यगतस्य भुङ्क्ते (गणरत्न०)। २. इस संसार से गया हुआ—प्रेत्यभावः, प्रेत्यलोकः । प्रेत्यामुत्र भवान्तरे इत्यमरः । (७७) पुरतः (स्)* = सामने, आगे । यं यं पश्यसि तस्य तस्य पुरतो मा ब्रूहि दीनं वचः (नीति०)। स्यात्पुरः पुरतोऽग्रतः—इत्यमरः । (७८) प्रायेण* = प्रायः, अक्सर, बहुधा । प्रायेणाऽधममध्यमोत्तमगुणः संवासतो जायते (पञ्च० १.२७३) । प्रायेण नीचा व्यसनेषु मग्ना निन्दन्ति दैवं न तु दुष्कृतं स्वम् (महाभारत० ८.६१.१) । वामन शिवराम आप्टे आदि कोषकारों ने इसे अव्यय माना है। परन्तु अनेक वैयाकरण 'प्राय' (पुं०) शब्द से प्रकृत्यादिभ्य उपसंख्यानम् (वा०) द्वारा तृतीया विभक्ति हुई मान कर इसे अव्यय नहीं मानते । (७६) प्रायशः (स्)* = प्रायः, अक्सर, बहुधा । आशाबन्धः कुसुमसदृशं प्रायशो ह्यङ्गनानां सद्यःपाति प्रणयि हृदयं विप्रयोगे रुणद्धि (मेघ० १.१०) । इसे तद्धितशस्-प्रत्ययान्त माना जा सकता है। तब तद्धितश्चासर्वविभक्तिः (३६८) से अव्यय- संज्ञा हो जायेगी । (८०) वस्तुतः (स्)* = यथार्थतः, दर असल, हकीकत में, सत्यतः, मूलतः— वस्तुतः लृकारस्य ऋकारग्राहकत्वं न कुत्राप्युपलभ्यते (तत्त्वबोधिनी संज्ञाप्रकरण) । (८१) अथ किम्* = जी हां । सर्वथा अप्सरःसम्भवैषा । अथ किम् (शाकुन्तल० १)। अपि वृषलमनुरक्ताः प्रकृतयः ? अथ किम् (मुद्रा० १)। (८२) अन्वक् = पीछे । तां देवतापितॄतिथिक्रियार्थामन्वग्ययौ मध्यमलोकपालः (रघु० २.१६)। अन्वगन्वक्षमनुगेऽनुपदं क्लीबमव्ययम्—इत्यमरः । (८३) अपि वा* = अथवा । हेम्नः संलक्ष्यते ह्यग्नौ विशुद्धिः श्यामिकापि वा (रघु० १.१०)। (८४) कस्मात्* = क्यों, किस कारण, किस लिये । अचेतनं नाम गुणं न लक्षयेन्मयैव कस्मादवधीरिता प्रिया (शाकुन्तल० ६.१३) । इस विभक्तिप्रतिरूपक ल० प्र० (३६)