महाभारत (खंड २) - वन पर्व
Mahabharata (Vol 2) - Vana Parva
महर्षि कृष्णद्वैपायन वेदव्यास द्वारा
पृष्ठ 1176, कुल 2580 में से
संदर्भ में पढ़ें(भक्तानुकम्पिनं देवं नागयज्ञोपवीतिनम् ।) विभीस्ततस्तदस्त्रं तु घोरं रौद्रं सनातनम् ॥ ४३ ॥ दृष्ट्वा गाण्डीवसंयोगमानीय भरतर्षभ नमस्कृत्य त्रिनेत्राय शर्वायामिततेजसे ॥ ४४ ॥ मुक्तवान् दानवेन्द्राणां पराभावाय भारत मुक्तमात्रे ततस्तस्मिन् रूपाण्यासन् सहस्रशः ॥ ४५ ॥ शत्रुदमन नरेश! लपलपाती जीभवाले बड़े-बड़े नाग उन दिव्य पुरुषके लिये चीर (वस्त्र) बने हुए थे। भक्तोंपर अनुग्रह करनेवाले उन महादेवजीने सर्पोंका ही यज्ञोपवीत धारण कर रखा था। उनके दर्शनसे मेरा सारा भय जाता रहा। भरतश्रेष्ठ! फिर तो मैंने उस भयंकर एवं सनातन पाशुपतास्त्रको गाण्डीव धनुषपर संयोजित करके अमित तेजस्वी त्रिनेत्रधारी भगवान् शंकरको नमस्कार किया और उन दानवेन्द्रोंके विनाशके लिये उनपर चला दिया। उस अस्त्रके छूटते ही उससे सहस्रों रूप प्रकट हो गये ॥ ४३—४५ ॥ मृगाणामथ सिंहानां व्याघ्राणां च विशाम्पते ऋक्षाणां महिषाणां च पन्नगानां तथा गवाम् ॥ ४६ ॥ शरभाणां गजानां च वानराणां च सङ्घशः ऋषभाणां वराहाणां मार्जाराणां तथैव च ॥ ४७ ॥ शालावृकाणां प्रेतानां भुरुण्डानां च सर्वशः गृध्राणां गरुडानां च चमराणां तथैव च ॥ ४८ ॥ देवानां च ऋषीणां च गन्धर्वाणां च सर्वशः पिशाचानां सयक्षाणां तथैव च सुरद्विषाम् ॥ ४९ ॥ गुह्यकानां च संग्रामे नैर्ऋतानां तथैव च झषाणां गजवक्त्राणामुलूकानां तथैव च ॥ ५० ॥ मीनवाजिसरूपाणां नानाशस्त्रासिपाणिनाम् तथैव यातुधानानां गदामुद्गरधारिणाम् ॥ ५१ ॥ महाराज! मृग, सिंह, व्याघ्र, रीछ, भैंस, नाग, गौ, शरभ, हाथी, वानर, बैल, सूअर, बिलाव, भेड़िये, प्रेत, मुरुण्ड, गिद्ध, गरुड, चमरी गाय, देवता, ऋषि, गन्धर्व, पिशाच, यक्ष, देवद्रोही राक्षस, गुह्यक, निशाचर, मत्स्य, गजमुख, उल्लू, मीन तथा अश्व-जैसे रूपवाले नाना प्रकारके जीवोंका प्रादुर्भाव हुआ। उन सबके हाथमें भाँति-भाँतिके अस्त्र-शस्त्र एवं खड्ग थे। इसी प्रकार गदा और मुद्गर धारण किये बहुत-से यातुधान भी प्रकट हुए ॥ ४६—५१ ॥ एतैश्चान्यैश्च बहुभिर्नानारूपधरैस्तथा सर्वमासीज्जगद् व्याप्तं तस्मिन्नस्त्रे विसर्जिते ॥ ५२ ॥ त्रिशिरोभिश्चतुर्दंष्ट्रैश्चतुरास्यैश्चतुर्भुजैः