मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 642, कुल 672 में से
संदर्भ में पढ़ेंमानमेयरहस्यश्लोकवार्तिके यादृच्छिकात्तु संवादाल्लिङ्गादौ मानताभ्रमः । वस्तुतस्तादृशी बुद्धिः प्रत्यक्षेऽन्तर्भवत्यपि ॥ औषधायस्सूर्यचन्द्रकान्तादिन्यायतोऽखिलः । विषघ्नमन्त्रयन्त्रादिफलसंवाद इष्यते ॥ प्रत्यक्षं तदधीनं चाप्यन्वयव्यतिरेकयोः । दर्शनं चावलम्ब्योत्थं शास्त्रं लोकायतं मतम् ॥ लोकसिद्धानुमानादौ क्वचित्प्रामाण्यमिष्यते । नैतावताऽतीन्द्रियाणामर्थानां सिद्धिसंभवः ॥ नीतिशास्त्रं स्तेयशास्त्रं कामशास्त्रं च तादृशम् । समन्वेत्यत्र सिद्धान्ते प्रत्यक्षैकावलम्बिनि ॥ नैवार्हतीदं प्रत्यक्षं बाधं केनापि हेतुना । प्रत्यक्षेण पुनर्बाधः प्रस्फुटस्सर्वसंविदाम् ॥ २ इति प्रत्यक्षसिद्धान्तेऽध्यक्षप्राबल्यनिर्णयः । ये पुनः कल्पनापोढनिर्विकल्पैकवादिनः ॥ तेषां तु निर्विकल्पस्य प्राबल्यं पूर्ववन्मतम् । तत्साधनं च लिङ्गेन निश्चयेनेत्यनूदितम् ॥ निर्विकल्पस्य विषयः स्वलक्षणमितीरितम् । शब्दलिङ्गेन्द्रियभवः विकल्पः दुर्बलो मतः ॥ निर्विकल्पस्य विषयं सन्मात्रं ये विदुर्बुधाः । शब्दादप्यस्य चोत्पत्तिं निर्बाधामुपयन्ति ते ॥