भारतकोश
संग्रह पर लौटें

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

मानमेयरहस्यश्लोकवार्तिके यादृच्छिकात्तु संवादाल्लिङ्गादौ मानताभ्रमः । वस्तुतस्तादृशी बुद्धिः प्रत्यक्षेऽन्तर्भवत्यपि ॥ औषधायस्सूर्यचन्द्रकान्तादिन्यायतोऽखिलः । विषघ्नमन्त्रयन्त्रादिफलसंवाद इष्यते ॥ प्रत्यक्षं तदधीनं चाप्यन्वयव्यतिरेकयोः । दर्शनं चावलम्ब्योत्थं शास्त्रं लोकायतं मतम् ॥ लोकसिद्धानुमानादौ क्वचित्प्रामाण्यमिष्यते । नैतावताऽतीन्द्रियाणामर्थानां सिद्धिसंभवः ॥ नीतिशास्त्रं स्तेयशास्त्रं कामशास्त्रं च तादृशम् । समन्वेत्यत्र सिद्धान्ते प्रत्यक्षैकावलम्बिनि ॥ नैवार्हतीदं प्रत्यक्षं बाधं केनापि हेतुना । प्रत्यक्षेण पुनर्बाधः प्रस्फुटस्सर्वसंविदाम् ॥ २ इति प्रत्यक्षसिद्धान्तेऽध्यक्षप्राबल्यनिर्णयः । ये पुनः कल्पनापोढनिर्विकल्पैकवादिनः ॥ तेषां तु निर्विकल्पस्य प्राबल्यं पूर्ववन्मतम् । तत्साधनं च लिङ्गेन निश्चयेनेत्यनूदितम् ॥ निर्विकल्पस्य विषयः स्वलक्षणमितीरितम् । शब्दलिङ्गेन्द्रियभवः विकल्पः दुर्बलो मतः ॥ निर्विकल्पस्य विषयं सन्मात्रं ये विदुर्बुधाः । शब्दादप्यस्य चोत्पत्तिं निर्बाधामुपयन्ति ते ॥

प्रत्यक्षप्राबल्यवादः 60 3 प्रत्यक्षा द्वैतसिद्धान्ते ऽध्यक्षप्राबल्यवर्णनाम् । हसन्ति लौकिका यस्मात्स्वयं स्वकुचमर्दनम् ॥ सर्वेष्वपि प्रमाणेषु नूनमाभाससंभवः । तस्य मूलं च करणदोष इत्यपि निर्णयः ॥ तद्विज्ञानं तु बाधादिनिबन्धनमिति स्थितम् । क्वचित्स्वारसिको बाधः कुत्राचिद्यौक्तिको मतः । प्रथमश्शुक्तिरूप्यादौ ज्वालाभेदे त्वनन्तरः । प्रायशो विभ्रमा एते सर्वेषामात्मसाक्षिकाः ॥ शुक्तिकारजतभ्रान्तिः मृगतृष्णाभ्रमस्तथा । पीतश्शङ्खः द्वौ च चन्द्रौ स्थाणुः पुरुष इत्यपि । अयो दहति वक्त्रं च मलिनं स्फटिकोऽरुणः । स्वप्नो माया च गन्धर्वनगरं चेति विभ्रमाः ॥ देहात्मविभ्रमः खे च तलमालिन्यविभ्रमः । रवीन्दुमण्डलादौ च ख्यातः प्रादेशिकभ्रमः ॥ प्रात्यक्षिकभ्रमा एते एवं मानान्तरेष्वपि । परीक्षकाणां विदिताः तत्रैवं निर्णयक्रमः ॥ इन्द्रियेण यथा ज्ञानं तथा लिङ्गादिना सदा । ज्ञानमुत्पद्यते पुंसां न विशेषोऽत्र कश्चन ॥ निमित्तशिल्पमन्त्रायुर्ज्योतिस्स्वप्रहृदादिषु । अन्वयव्यतिरेकादेरगम्ये विषये बुधाः ॥ M.R. 76

602 मानमेयरहस्यश्लोकवार्तिके संवाददर्शनात्प्रायः विषये पारलौकिके । अतिशङ्कां न कुर्वन्ति श्रद्दधानाः श्रुतिस्मृतीः ॥ असत्यपि परे लोके त्याज्यं कर्माशुभं विदुः । यदि न स्यात्तदा किं स्यादस्तिचेन्नास्तिको हतः । यादृच्छिकश्चेत् संवादः क्वचिद्बाधादिदर्शनात् । प्रत्यक्षेऽपि तथा ज्ञातुं शक्यते युक्तिचिन्तकैः ॥ तस्याप्यप्रामाण्यपक्षे व्यवहारो विलीयते । सर्वत्र भ्रान्तिक्लृप्तिश्चेत्कल्पको न विशिष्यते ॥ प्रत्यक्षमनुमानं च यथा मानं तथाऽऽगमः । उपजीव्यविरोधेन ज्येष्ठं ताभ्यां न हन्यते ॥ तत्र यत्सावकाशत्वात् अन्यथासिद्धिमश्रुते । तद्दुर्बलं स्यान्निरवकाशं तु प्रबलं मतम् ॥ अनन्यथासिद्धमेतत्, अवकाशस्त्वसौ मतः । विषयान्तरलाभाख्यः क्वचित्स्यात्पदहोमवत् ॥ अथाप्रमाणकोट्यन्तर्भावः रज्जूरगादिषु । एवं प्रायेण विश्वस्य सत्यतावादिनो विदुः ॥

  • अथ प्रपञ्चमिथ्यात्ववाद्यविद्याविदां मते । प्राबल्यरीतिरेषोक्ता निर्विशेषपरश्रुतेः ॥ दोषमूलप्रसूतत्वादन्यथासिद्धिसंभवात् । भेदावलम्बाध्यक्षं शास्त्रबाध्यमितीर्यते ॥

प्रत्यक्षप्राबल्यवादः 60 तत्र दोषोऽनादिभेदवासनेति विनिर्णयः । निषेद्धृशास्त्रप्रामाण्यमन्यथानोपपद्यते ॥ अनादिनिधनाच्छिन्नसंप्रदायसमागतम् । संभावनानर्हदोषगन्धं शास्त्रं प्रतीयते ॥ ज्योतिष्टोमेनेतिशास्त्रं यत्तु भेदावलम्बि तत् । बाध्यते मोक्षशास्त्रेण परेणापच्छिदानयात् ॥ मोक्षशास्त्रेऽपि सगुणब्रह्मणो बोधकं तु यत् । बाध्यते निर्गुणपरशास्त्रेणापि परेण तत् ॥ 5 अथ प्रकारान्तरेण विरोधविनिवारणा । असन्निकृष्टविज्ञानं शब्दविज्ञानतश्च यत् ॥ तच्छास्त्रमित्यौपवर्षं लक्षणं शबरोदितम् । असन्निकृष्टवाचा च द्वयमत्र जिहासितम् ॥ ताद्रूप्येण परिच्छित्तिस्तद्विपर्ययतोऽपिवा । इति कौमारिलव्याख्या पठ्यते श्लोकवार्तिके ॥ तद्विरोधात्सानुशयैः अन्यथा प्रोच्यते यथा । प्रत्यक्षादिविरोधे हि बलीयश्शास्त्रमिष्यते ॥ न विरोधं प्रपश्यामोऽध्यक्षं सन्मात्रगोचरम् । भेदे किंचिन्न प्रमाणं नैपुण्येन निरूपणे ॥ घटोऽस्तीतिपटोऽस्तीतिप्रतीतिव्यवहारयोः । अस्तित्वमध्यक्षभास्यं भ्रान्तिभास्यं घटादिकम्

604 मानमेयरहस्यश्लोकवार्तिके अस्तित्वमेव सामान्यं घटादिर्भेदलक्षणः । भिन्नकालज्ञानफलौ व्यवहारौ तयोर्मतौ ॥ शास्त्रं निषेधरूपेण तन्मात्रे पर्यवस्यति । नातः प्राप्तार्थत्वमूलमानर्थक्यं प्रसज्यते ॥ इत्यस्य विस्तरः प्रायश्श्रीभाष्यादावनूदितः । स निर्विकल्पैकमानवादसिद्धान्तवर्त्मगः ॥ 6 विशेषमात्रविषयनिर्विकल्पकपद्धतौ । सामान्यमात्रविषयविदामाक्षेपसंग्रहः ॥ विचित्रवासनासिद्धयै विशेषोपगमो वृथा । विशेषाणां वासनासु हेतुताया असंKeyभवात् ॥ तथात्वे शुक्तिरजतवासनादेरसंभवः । तत्तद्विषयविज्ञप्तिप्रवाहो हेतुरिष्यते ॥ आपणे सत्यरजतं यद्यप्यस्ति तथापि हि । मिथ्यार्थज्ञानहेतुत्वं वासनासूरीकृतम् ॥ पूर्वपूर्वभ्रमोपात्तैस्संस्कारैर्विविधैरिह । विकल्पवैचित्र्यसिद्धौ किं दृष्टैः कल्पितैश्च किम् अतो विकल्पविषयाः विचित्रा न स्वलक्षणाः । कल्पने वा लाघवाय विचित्राद्वैतमिष्यताम् ॥ नचानेकस्वभावत्वमेकस्यात्र विरोधकृत् । रूपगन्धरसस्पर्शस्वभावाद्यणुवादिनाम् ॥

शास्त्रप्राबल्यम् 60 तस्माच्छुद्धं विचित्रं वाऽद्वैतं स्यात्तत्र गोचरः । विस्तरश्शतदूषण्यां वाद एकादशे कृतः ॥ (121) शास्त्रप्राबल्यम्. 1 अथेदानीमुक्तियुक्त्योः बलाबलविचिन्तना । केचिदुक्त्येकशरणाः केचिद्युक्त्येकसंश्रयाः ॥ ये पूर्वोत्तरमीमांसानिष्णाताः श्रुतिसंश्रयाः । शास्त्रानुकूलां युक्तिं ते मानमिच्छन्ति नान्यथा । येतु वैशेषिकास्सांख्याः नैयायिकमुखाः परे । सर्वे ते युक्तिशरणाः युक्त्यधीनागमान्विताः ॥ उभयेषामपि मतं तत्तदुक्त्या प्रकाश्यते । तत्त्वं ततश्चोक्तियुक्त्योः स्पष्टमत्र भविष्यति ॥ चतुर्विधास्ते सुगताः दिक्षु तादृक्षु निष्ठिताः । ऊर्ध्वायां दिशि चार्वाकः सर्वेऽप्यन्तरवस्थिताः॥ तत्र प्रत्यवतिष्ठन्ते ये त्वेकदिशि संस्थितान् । समाक्रान्ता भविष्यन्ति ते ह्यन्यदिगवस्थितैः ॥ नहि शक्यं लङ्घयितुं पञ्जरान्तरवस्थितिः । केवलं युक्तिचातुर्यैरित्येके श्रुतिमाश्रिताः ॥ 2 एतदेव वचः प्रोचुः पूर्वे पूर्वेभ्य इत्यपि । ब्राह्मणे श्रूयते चैवं तथैवो पनिषत्स्वपि ॥

606 मानमेयरहस्यश्लोकवार्तिके अवरेण नरेणैष प्रोक्तो ज्ञातुं न शक्यते । अनन्यप्रोक्त एतस्मिन्गतिर्नास्त्यन्यतो यतः ॥ नैव वाचा न मनसा प्राप्तुं शक्यो न चक्षुषा । अस्तीति ब्रुवतोऽन्यत्र कथं तदुपलभ्यते ॥ अस्तीत्येवोपलब्धव्यः तत्त्वभावेन चोभयोः । अस्तीत्येवोपलब्धस्य तत्त्वभावः प्रसीदति ॥ एषा तर्केण न मतिरापनेयेति चाब्रवीत् । मृत्युः कठोपनिषदि शिष्याय नचिकेतसे ॥ इति शुश्रुम पूर्वेषां ये नस्तद्व्याचचक्षिरे । इत्थं तलवकारीयैः श्रूयते चापि वाजिभिः ॥ चोदनालक्षणं धर्मं जैमिनिस्तदसूत्रयत् । ब्रह्मापि शास्त्रयोनीति ह्यब्रवीद्बादरायणः ॥ ३ ततस्तर्काप्रतिष्ठानादित्यप्याह स्वयं स्फुटम् । युक्तिस्त्वनिर्णीतबलाबलेति न्यायवित्तमाः ॥ यत्नेनानुमितोऽप्यर्थः कुशलैरनुमातृभिः । अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते ॥ बहुकृत्वोऽपि वस्त्वात्मा युक्त्यैव परिनिश्चितः । देशकालादिभेदेन ज्ञायते पुनरन्यथा ॥ वेदशास्त्राविरोधी च तर्कश्चक्षुरपश्यताम् । रूपमात्राद्धि वाक्यार्थः केवलात्रावतिष्ठते ॥

वाक्यात्प्रकरणादर्थादौचित्याद्देशकालतः । शब्दार्थाः प्रविभज्यन्ते न रूपादेव केवलात् ॥ शब्दानामेव सा शक्तिः तर्को यः पुरुषाश्रयः । स शब्दानुगतो न्यायोऽनागमो ह्यनिबन्धनः ॥ इति भर्तृहरिः प्राह वाक्यपद्यां विचक्षणः । श्रुत्यर्थस्यानुकूलो यः स न्यायस्तदभीप्सितः ॥ तस्माच्छब्दः तर्कनिष्ठ इति नैवावधारयेत् । तात्पर्यनिर्णयार्थो यस्तर्कोऽसौ शब्दलक्षणः ॥ आर्षं धर्मोपदेशं च वेदशास्त्राविरोधिना । यस्तर्केणानुसंधत्ते स धर्मं वेद नेतरः ॥ वाच्यार्था निहितास्सर्वे वाङ्मूला वाग्विनिस्सृता। तां तु यस्तेनयेद्वाचं स सर्वस्तेयकृन्नरः ॥ तस्माद्विरोधे धर्मस्य निश्चित्य गुरुलाघवम् । यतो भूयस्ततो विद्वान् कुर्याद्धर्मविनिर्णयम् ॥ मनुव्यासप्रभृतयः क्रमादेवं वचोऽब्रुवन् । दुस्तर्को दूरतस्त्याज्यः विपरीतार्थबुद्धिकृत् ॥ तस्माद्विरुद्धसंस्कारशिक्षितानां परस्परम् । विवादो नहि विश्राम्येद्युगानामयुतैरपि ॥ अतो विरुद्धसंस्कारोपरोधायैव भावना । संप्रदायानुरोधेनाभ्यसनीयेति देशना ॥

608 मानमेयरहस्यश्लोकवार्तिके यावद्यावद्विवादाय मुक्तकं दीयते मनः । अनवस्थादिदोषेण तावत्तावद्विहन्यते ॥ अतएवाग्रहाविष्टाः सहसा नोपदेशतः । स्वमतं न त्यजन्तीति संशयः प्राक्प्रदर्श्यते ॥ संदिग्धास्ते तु सुकराः परिवर्तयितुं नराः । इत्येवं रूढसंस्कारः शिथिलीक्रियते बुधैः ॥ 4 ननु सर्वत्र सिद्धान्ते प्रायेण व्यवहारतः । लाघवन्यायसहितात्पदार्थपरिशुद्धयः ॥ स एव लाघवन्यायः लौकिकस्सर्वसम्मतः । पश्वादयोऽप्यार्जवेन धावन्ति ग्रासतत्पराः ॥ एकमात्राराघवेन पुत्रोत्सवसुखं बुधाः । मन्यन्त इति सिद्धान्तः वैयाकरणसम्मतः ॥ तथा लाघवतर्कानुगृहीतो यः प्रवर्तते । विचारस्स हि मीमांसेत्याहुर्वैदिकसूरयः ॥ लाघवेनैव तर्केण पदार्थानां व्यवस्थितिम् । निरूपयन्ति धीमन्तः तार्किका अपि यौक्तिकाः सैषा लाघवबुद्धिस्तु वासनामनुवर्तते । वासना नाम संस्कारः स दृढो यत्र यादृशः ॥ तादृशस्तत्र फलति नहि निम्बो मधुद्रवः । तस्माद्वासनया वस्तुसिद्धिर्बाह्येति सिध्यति ॥

5 अत्रोच्यते संप्रदायो नाम सर्वगुरुर्महान् । परंपरासमायातोपदेशस्सोऽभिधीयते ॥ आम्नाय इत्यादिशब्दाः तत्पर्यायाः प्रकीर्तिताः । सत्संप्रदायराहितशास्त्रैरर्थस्य निर्णयः ॥ दुष्करः तत्सदाचार्यसंप्रदायपरिग्रहः । शास्त्रामूलस्संप्रदायश्शास्त्राननुमतोऽपिवा । भ्रमादिसंभावनया बाह्यतुल्यो मतो बुधैः ॥ स च सन्नित्यसंश्चेति द्विविधः प्रथमोऽत्र नः । द्वितीयस्तु परेषां स्यात् नियमो हेतुदर्शनात् ॥ अधर्मेन्द्रियदोषाभ्यां दुस्तर्काभ्यासतोऽपिवा । दुर्व्याप्तेरनुसन्धानाद्विप्रलम्भकवाक्यतः ॥ तत्त्वाग्रहेण सहितात् अतत्त्वग्रहसम्भवः । स एव संप्रदायश्चेत् असंत्स्यादिति नः क्रमः ॥ परेषामथ सिद्धान्ते हेतुदर्शनमुच्यते । अनन्यगतिकाः स्वैररसिका जीविकार्थिनः ॥ तथा पाषण्डिसंसर्गाः कुतर्काभ्यासिनोऽलसाः । एवमादिप्रसिद्धास्ते सूरिभिः प्रकटीकृताः ॥ हेतवोऽनन्यथासिद्धाः वीक्ष्यन्तां तन्त्रवार्तिके । प्रतिमाजल्पनं शाखाभङ्गः पाषाणपाटनम् ॥ इत्यादिभिः कुत्सिताभिः सिद्धिभिर्वञ्चिताः परे । M. R. 77

हेतुदर्शनशून्या ये ते सन्त्येव महाजनाः ॥ न महत्ता देशतो वा कालतो वापि शक्तितः । आकारतो वा संख्यातः नान्यस्मादपि कारणात् ॥ एवं विशेषं पश्यन्तः तुष्यन्तस्सन्ति वैदिकाः । (122) युक्तिप्राबल्यम्. 1 एवं वैदिकसिद्धान्तसंप्रदायस्य संग्रहः । अथ यौक्तिकसिद्धान्तहृदयं संप्रकाशयते ॥ अभ्यासात्प्रतिभाहेतुः शब्दः सर्वैरपि स्मृतः । बालानां च तिरश्चां च यथार्थप्रतिपादने ॥ आद्यः करणविन्यासः प्राणस्योर्ध्वं समीरणम् । स्थानानामभिघातश्च न विना शब्दभावनाम् ॥ प्रमाणत्वेन तां लोकः सर्वः समुपगच्छति । व्यवहाराः प्रवर्तन्ते तिरश्चामपि तद्वशात् ॥ स्वरवृत्तिं विकुरुते मधौ पुंस्कोकिलः कथम् । जन्त्वादयः कुलायादेः करणे शिक्षिताः कथम् ॥ आहारप्रीतिविद्वेषप्लवनादिक्रियासु कः । जात्यन्वयप्रसिद्धासु प्रयोक्ता मृगपक्षिणाम् ॥ इतिहि प्रतिभावादिवार्ताक्षौदुम्बरायणाः । प्रतिभायास्तु माहात्म्यं वर्णयन्तीति विश्रुतम् ॥

वाक्यपद्यामपि विधिविवेके चाभिसूचितम् । हरिणा मण्डनेनापि सर्वसारार्थदृश्वना ॥ तस्मात्सर्वोऽभ्युपगमः प्रतिभामूल इष्यते । न शब्दः प्रतिभाहेतुः स्वातन्त्र्यमुपगच्छति ॥ शास्त्राणां चापि तात्पर्यनिर्णयोऽभ्यासमूलकः । तस्माद्यौक्तिक एवार्थः स्थापितश्शब्दमूर्धनि ॥ शब्दपृष्ठस्थितन्यायसहस्राधिक्रियात्मके । शास्त्रेऽपि न्यायलभ्योऽर्थः शास्त्रसिद्ध इतीष्यते॥ २ अथ शास्त्रेण सिद्धोऽर्थो यदि युक्त्या दृढो भवेत् । एवं स्यात्कृपणश्शब्दः नेष्टोऽसंप्लववादिनाम् ॥ अत्रोदाहरणं स्पष्टमेषोऽप्यर्थो भविष्यति । वेदान्तसिद्धान्ताक्षेपः तत्त्वटीकानिरूपितः ॥ स्वप्रकाशा मतिः धीत्वात् दृश्यत्वादिमतं मृषा । इत्याद्यैरेव सिद्धेऽर्थे कृतं त्रय्यन्तचिन्तया । ननुचोपासनादीनां सिद्धयै तच्चिन्तनं यदि । तच्चेदद्वैतधीसिद्धयै वृथा स्यात्तद्विरोधतः ॥ फलान्तरार्थं तच्चिन्ता यदिष्येत तथासति । मोक्षप्रधानशास्त्रत्वं गतं शारीरकस्य तत् ॥ श्रुतिवाक्यप्रसूता धीर्बाधिका नानुमानिकी । इति शक्यं न वदितुं अदृष्टस्यानपेक्षणात् ॥

12 मानमेयरहस्यश्लोकवार्तिके अनुमानाच्च शब्दाच्च रज्जुसर्पादिविभ्रमे । अविशेषेण बाधो हि दृष्टस्तद्वदिहापि च ॥ प्रत्यक्षं शब्दजन्यं तु दुस्साधं चापि निष्फलम् । परोक्षादपि शब्दोत्थाद्बाधसंभवदर्शनात् ॥ न चानुमानाशक्तस्य वाक्यमित्यपि युज्यते । सर्वमानान्तरानर्हे शास्त्रप्रामाण्यसाधनात् ॥ अनेकनियमोपेतवाक्यचिन्ताविधेर्वरम् । लोकदृष्ट्यनुसारेण युक्तिचिन्तेति निर्णयः ॥ 3 ब्रह्मापि जगतो हेतुः युक्तिभिः किल साध्यते । प्रधानं जगतो हेतुः प्रसिद्धं ह्यानुमानिकम् ॥ श्रोतव्यश्चाथ मन्तव्य इति तर्कसहायताम् । श्रुतिरेव स्वयं प्राह तस्मात्तर्को विशिष्यते ॥ केवलं शास्त्रमाश्रित्य न कर्तव्यो विनिर्णयः । युक्तिहीनविचारे तु धर्महानिः प्रजायते ॥ इत्थं बृहस्पतिः प्राह स्मृतितन्त्रे व्यवस्थितिम् । पूर्वापरानुमानेन लोको युक्तौ प्रतिष्ठितः ॥ अबलाबालगोपालहालिकप्रमुखा अपि । बुद्ध्यन्ते नियतादर्थादर्थान्तरमसंशयम् ॥ अनुमानापलापे तु प्रत्यक्षादपि दुर्लभा । लोकयात्रेति लोकास्स्युः चित्रिता इव निश्चलाः॥

युक्तिप्राबल्यम् 61 यत्नेनानुमितोऽप्यर्थः कुशलैरनुमातृभिः । अभियोगशतेनापि सोऽन्यथा नोपपद्यते ॥ तस्माद्युक्त्यैव जगतो व्यवहारो व्यवस्थितः । युक्तिहीनव्यवह्रतावुन्मत्त इति गीयते ॥ तस्माददृष्टतत्त्वानां सापराधं बहुच्छलम् । दर्शनं चापि वचनं नित्यमेवानवस्थितम् ॥ ऋषीणां दर्शनं यच्च तत्त्वे किंचिदवस्थितम् । न तेन व्यवहारोऽस्ति न तच्छब्दानिबन्धनम् ॥ तलवद्दृश्यते व्योम खद्योतो हव्यवाडिव । तत्र नास्ति तलं व्योम्नि न खद्योतो हुताशनः मधुरं तिक्तरूपेण श्वेतं पीततया तथा । गृह्णन्ति पित्तदोषेण विषयं भ्रान्तचेतसः ॥ तथा वेगेन धावन्तो नाव्यारूढाश्च गच्छतः । पर्वतादीन्विजानन्ति भ्रमेण भ्रमतश्च तान् ॥ मण्डूकवसयाऽक्ताक्षाः वंशानुरगबुद्धिभिः । गृह्णन्तीत्यादिविषयः श्लोकवार्तिकविस्तृतः ॥ तस्मात्प्रत्यक्षमप्यर्थं विद्वानीक्षेत युक्तितः । न दर्शनस्य प्रामाण्यात् दृश्यमर्थं प्रकल्पयेत् इममर्थं भर्तृहरिः वाक्यपद्यां न्यदर्शयत् । न्यायवार्तिकतात्पर्यटीकाकृद्वचनं यथा ॥

614 मानमेयरहस्यश्लोकवार्तिके प्रत्यक्षकलितं चार्थं बुभुत्सन्तेऽनुमानतः । तर्कसिद्धान्तरसिका इति पूर्वैरुदाहृतम् ॥ 4 इदानीमिव सर्वत्र दृष्टान्नाधिकमिष्यते । उपलम्भानुसारेण व्यवस्थासिद्धिरीदृशी ॥ सर्वदाचापि पुरुषाः प्रायेणानृतवादिनः । यथाऽद्यत्वे न विस्रम्भः तथाऽतीतार्थकीर्तने ॥ न च पुंवचनं सर्वं सत्यत्वेनावगम्यते । वागिह श्रूयते यस्मात्प्रायादनृतवादिनी ॥ इति च श्रूयते श्लोकवार्तिके तन्त्रवार्तिके । कुमारिलमहाप्राज्ञमुखाल्लोकोत्तरं वचः ॥ सुगतो यदि सर्वज्ञः कपिलो नेति का प्रमा । तावुभौ यदि सर्वज्ञौ मतिभेदः कथं तयोः ॥ न ह्याप्तवादा नभसो निपतन्ति महासुराः । युक्तिमद्वचनं ग्राह्यं सर्वैरपि परिक्षकैः ॥ सर्वैर्दार्शनिकैः लोके शास्त्रं किञ्चिन्निधीयते । तत्प्रामाण्ये विवादस्तु वादिनामवशिष्यते ॥ प्रमाणान्तरदृष्टं हि शब्दोऽन्यं प्रापयेत्सदा । स्मृतिवच्च स्वयं तस्य प्रामाण्यं नोपपद्यते ॥ नूनं तत्रानुभूतोऽसावित्याप्तोक्तिनिबन्धना । बुद्धिस्साक्षाददृष्टेऽपि युक्ताऽर्थे पुरुषोक्तितः ॥

युक्तिप्राबल्यम् 61 नात्मीयादन्यदीयाद्वा प्रत्यक्षादेर्विना क्वचित् । वचसस्सत्यता दृष्टा सर्वशब्देष्वयं विधिः ॥ बुद्ध्याद्यन्तेवासिनां तु बुद्धाद्यास्सर्ववेदिनः । तत्प्रणीतानि शास्त्राणि प्रमाणानीति ते विदुः ॥ ईश्वरेणोपदिष्टास्स्युः वेदास्सकलवेदिना । प्रमाणमाप्तवाक्यत्वादित्याहुः किल तार्किकाः ॥ अपौरुषेया वेदास्स्युः प्रमाणमिति वैदिकाः । दूषणं भूषणं चापि प्रवर्धेते दिनेदिने ॥ अपिचापौरुषेयेषु वेदेषूपनिषत्सु वा । यदा तात्पर्यभेदास्स्युः किं नित्यागमसंपदा ॥ 5 पार्थसारथिमिश्राणां या पुनश्शास्त्रदीपिका । तस्यां ज्ञेयं पद्यमिदं स्फुटं बह्वर्थगर्भितम् ॥ प्रबोधचन्द्रोदयेऽपि कृष्णमिश्रविनिर्मिते । पौर्वापर्यविचारस्तु तिष्ठत्वत्र न चादरः ॥ प्रत्यक्षादिप्रमासिद्धविरुद्धार्थाभिधायिनः । वेदान्ता यदि शास्त्राणि बौद्धैः किमपराध्यते ॥ इति, तैस्तु पुराणस्थं नूनं नालोचितं वचः । तदत्र लिख्यते किंचिन्मध्यस्थैरवधार्यताम् ॥ नैतद्युक्तिसहं वाक्यं हिंसा धर्माय चेष्यते । हवींष्यनलदग्धानि फलायेत्यर्भकोदितम् ॥

616 मानमेयरहस्यश्लोकवार्तिके यज्ञैरनेकैर्देवत्वं अवाप्येन्द्रेण भुज्यते । शम्यादि यदि चेत्काष्ठं तद्वरं पत्रभुक्पशुः ॥ निहितस्य पशोर्यज्ञे स्वर्गप्राप्तिर्यदीष्यते । स्वपिता यजमानेन किंनु तस्मान्न हन्यते ॥ तृप्तये जायते पुंसः भुक्तमन्येन चेत्ततः । दद्याच्छ्राद्धं श्रमायान्नं न वहेयुः प्रवासिनः ॥ एवं विनिन्दां वेदानां यथा तैर्विनिवार्यते । तथोपनिषदां निन्दा न निवार्येत किं परैः ॥ 6 तद्युक्त्यधीनस्सकलः संरम्भः खलु वादिनाम् । इत्याहुरिह युक्तिज्ञाः ये विपश्चिदपश्चिमाः ॥ (223) विचारनिरूपणम्. 1 विचारो द्विविधो लोके फलभेदाद्व्यवस्थितः । तत्त्वनिर्णयसिद्धयर्थः विजयैकार्थ इत्यपि ॥ तत्राद्यो द्विविधः पूर्वः उपदेशात्मको मतः । द्वितीयो न्यायमूर्तिस्स्याद्यो वादो गुरुशिष्ययोः ॥ अनन्तरोपि द्विविधः विजिगीषुकथात्मकः । जल्प एको वितण्डा तु द्वितीय इति निर्णयः ॥ वादनिग्रह एवात्र नैव तत्त्वविनिर्णयः । इति जानन्तोऽपि कथां वितण्डामेव केवलम् ॥

आश्रित्य परपक्षांस्तान् खण्डयन्ति विपश्चितः । वितण्डामेव च कथामाश्रित्य परखण्डनम् ॥ वक्तव्यमिति हि प्राह श्रीहर्षो विश्वखण्डकः । अद्वैतसिद्धावपि च मधुहन्तृसरस्वती ॥ वादजल्पवितण्डानां कथामन्यतमामपि । आश्रित्य परपक्षाणां प्रतिक्षेपं ब्रवीत्यपि ॥ एवं च वादिविजयमात्रेणैव समीहितम् । सिषाधयिषतीत्येव कुतस्तत्त्वविनिर्णयः ॥ यद्यपि न्यायसिद्धान्ते ताभ्यां निग्रह ईप्सितः । न तं तत्त्वव्यवस्थायां प्रमाणं बहवो विदुः ॥ तदेतस्मात्संप्रदायसंस्कारो मूलकारणम् । विचारविप्लवस्सर्वः ताड्यते बाह्यडिण्डिमः ॥ 2 अत्र केचन तत्त्वज्ञाः युक्तिज्ञपरिशीलनात् । अभिप्रायमिमं कंचिद्विशदीकुर्वते यथा ॥ आदौ सांख्याः सर्ववस्तु नित्यतासाधनोद्यताः । क्षणभङ्गं निरुन्धन्ति युक्तिजालैर्मनोहरैः ॥ गत्वागत्वाऽथ ते योगाचारसिद्धान्तसागरे । निमज्जन्ति यतो व्यक्तिरुत्पत्तिश्चाविलक्षणा ॥ उत्पत्तिनाशयोरस्तिनास्त्योरप्येकता मता । विज्ञानवादसिद्धान्तः पर्यायेणायमेव हि ॥ M.R. 78

सांख्याः स्वभावसिद्धान्तमङ्गीकुर्वन्ति भूयसा । अर्धं तेनाकस्मिकतावादमेते समाश्रिताः ॥ ३ वैशेषिकाद्या विज्ञानवादोद्धूननतत्पराः । क्षणवादे निमग्नास्स्युः प्रतिक्षणविशेषतः ॥ यद्यप्यात्मादयो नित्याः पदार्थाः स्वीकृताः पुनः तथापि धर्माः तेषां स्युः क्षणिका इति तन्मतम् धर्मधर्म्यैक्यपक्षे तु क्षणवादः प्रतिष्ठितः । पीलुपाके तु विस्पष्टः क्षणसिद्धान्तसङ्ग्रहः ॥ भूतचैतन्यभङ्गाय पीलुपाकस्समाश्रितः । प्रतिक्षणं देहभेदे स्मरणं नोपपद्यते ॥ क्षणभङ्गोपरोधाय पिठरे पाक आदृते । भूतचैतन्यवादस्तु तदानीं स्यादुरुद्धरः ॥ अत एव प्रसिद्धास्तेऽप्यर्धवैनाशिका इति । निरन्वयोत्पत्तिनाशाधारा हि क्षणभङ्गिता ॥ ४ पूर्वमीमांसका वेदापौरुषेयैकदृष्टयः । प्रायो लौकायतं मार्गं संश्रिता इति कीर्तिताः ॥ प्रायेणैव हि मीमांसा लोके लोकायतीकृता । तामास्तिकपथे कर्तुमयं यत्नः कृतो मया ॥ इति वार्तिककारोऽपि प्राहारम्भे कुमारिलः । अथाप्यपयशस्तेषामद्यापि न हि शाम्यति ॥

विचारनिरूपणम् ६१९ विग्रहो हविरादानं युगपत्कर्मसन्निधिः । प्रीतिः फलप्रदानं च देवतानां न विद्यते ॥ देवानचेतनानेवं ये विदुस्तान्महाशयान् । अर्धलोकायतानाहुरत एवेतरे बुधाः ॥ सर्वेषामपि शब्दानामाहुः सर्वार्थशक्तताम् । सर्वेषां विदुरर्थानां अशेषपदशक्यताम् ॥ सर्वासामपि जातीनां स्याद्यावद्व्यक्तिगामिता । व्यक्तीनामपि सर्वासां सर्वजात्यनुयोगिता ॥ एष सर्वात्म्यसिद्धान्तो नैरात्म्यान्न विशिष्यते । सामान्यलक्षणे सैषा विश्रान्तिर्वा स्वलक्षणे ॥ कर्मैकं बुद्धिरप्येका जगत्येकस्सितो गुणः । वर्णोऽप्येको गकारादिः सर्वैक्यं किं न रोचते ॥ तदानीमपि दुर्मोचा भवेत्सौगतवागुरा । विशेषवादस्सामान्यवादो वा दृष्टिभेदतः ॥ ५ ये तु स्वाभाविकं भेदाभेदमिच्छन्ति शास्त्रतः । तेषां विरोधो नास्त्येव वस्तु नानात्मकं यतः ॥ यादृशं ज्ञायते वस्तु यदि तादृशमेव तत् । विज्ञानवादसिद्धान्तोऽप्येवमेव हि वस्तुतः ॥ प्रातिभासिकसिद्धान्तोऽप्यसावेव हि वस्तुतः । स चानेकान्तवादोऽपि भवेत्पर्यायतो विदाम् ॥