भारतकोश
मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)

मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)

Meghadutam of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)

DevanagariHindipublished335 पृष्ठ

पृष्ठ 255, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 255

२१४ | मेघदूतम्

पृच्छन्ती वा मधुरवचनां सारिकां पञ्जरस्थां
कच्चिद्भर्तुः स्मरसि रसिके ! त्वं हि तस्य प्रियेति ॥

अन्वयः—सा, बलिव्याकुला, वा, विरहतनु, भावगम्यं, मत्सादृश्यम्, लिखन्ती, वा, मधुरवचनाम्, पञ्जरस्थाम्, सारिकाम्, 'हे रसिके ! भर्तुः, स्मरसि, कच्चित् ? हि, त्वं, तस्य, प्रिया,' इति, पृच्छन्ती, वा, ते, आलोके, पुरा, निपतति ॥ २२ ॥

व्याख्या—सा = मत्प्रिया, बलिव्याकुला = नित्यनैमित्तिक-देवपूजन-तत्परा, वा = अथवा, विरहतनु = वियोगक्षीणम्, भावगम्यम् = सम्भावनानुमेयम्, मत्सादृश्यम् = मदाकृत्यनुरूपम्, लिखन्ती = चित्रयन्ती, वा = अथवा, मधुरवचनाम् = मधुरभाषिणीम्, पञ्जरस्थाम् = पिञ्जरबद्धाम्, सारिकाम् = शुकप्रियाम्, 'हे रसिके ! = हे विदग्धे ! भर्तुः = स्वामिनः, स्मरसि = चिन्तयसि, कच्चित् = किम् ? हि = यतः, त्वम् = सारिका, तस्य = स्वामिनः, प्रिया = अभीष्टा,' इति = इत्थम्, पृच्छन्ती = जिज्ञासन्ती, प्रश्नं कुर्वतीत्यर्थः, वा = अथवा, ते = मेघस्य, आलोके = दृष्टिमार्गे, पुरा = सद्यः, निपतति = आगमिष्यति; इति भावः ॥ २२ ॥

शब्दार्थः—सा = वह मेरी प्रिया, बलिव्याकुला = नित्यनैमित्तिक देवपूजा में संलग्न, वा = अथवा, विरहतनु = वियोग के कारण कृश, भावगम्यम् = अनुमान से जानी जाने वाली, मत्सादृश्यम् = मेरी आकृति ( चित्र ) को, लिखन्ती = लिखती हुई, वा = या, 'रसिके ! = हे रसीली ! भर्तुः = स्वामी को, स्मरसि = स्मरण करती हो, कच्चित् = क्या ? हि = क्योंकि, त्वम् = तुम, तस्य = उनकी, प्रिया = प्यारी थी,' इति = इस प्रकार, मधुरवचनाम् = मधुर बोलने वाली, पञ्जरस्थाम् = पिंजरे में रहने वाली, सारिकाम् = मैना को, पृच्छन्ती = पूछती हुई, वा = अथवा, ते = तुम्हारे, आलोके = दृष्टि-पथ पर, पुरा = सद्यः, निपतति = आयेगी ॥ २२ ॥

भावार्थः—हे मेघ ! सा मत्प्रिया नित्यनैमित्तिक-देवपूजायां संलग्ना वा विश्लेषकृशामनुमेयां मत्प्रतिकृतिं चित्रयन्ती वा, 'हे रसिके ! स्वामिनं स्मरसि,