मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)
Meghadutam of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)
पृष्ठ 98, कुल 335 में से
संदर्भ में पढ़ेंपूर्वमेघः ५९
याम्, इति विश्वः। मयूरो बर्हिणो बर्ही शुक्लापाङ्गः शिखावलः, इति यादवः। केकावाणी मयूरस्य, इत्यमरः।
टिप्पणी—मत्प्रियार्थ०—यहाँ मम प्रियम् मत्प्रियम् इस प्रकार षष्ठी तत्पुरुष समास हुआ है। "प्रिय" इस उत्तर पद होने के कारण "प्रत्ययोत्तरपदयोश्च" इस सूत्र मे "अस्मद्" शब्द के स्थान पर "मत्" यह आदेश हुआ है।
यियासोः = यातुमिच्छोः यियासोः प्रापणार्थक "या" धातु से इच्छा अर्थ में "सन्" प्रत्यय करके तत् प्रयुक्त द्वित्व; इत्यादि कार्य करके "सनाशंसभिक्ष उः" इस सूत्र से उप्रत्यय करके "यियासुः" ऐसा रूप बनता है। उक्त रूप उसी शब्द के षष्ठी विभक्ति का है ॥ २३ ॥
(पाण्डुच्छायोपवनवृतयः केतकैः सूचिभिन्नैः—
नींडारम्भैर्गृहबलिभुजामाकुलग्रामचैत्याः ।
त्वय्यासन्ने परिणतफलश्यामजम्बूवनान्ताः
सम्पत्स्यन्ते कतिपय-दिनस्थायिहंसा दशार्णाः ॥ )
अन्वयः—( हे मेघ ! ) त्वयि आसन्ने दशार्णाः सूचिभिन्नैः केतकैः पाण्डुच्छायोपवनवृतयः गृहबलिभुजाम् नीडारम्भैः आकुलग्रामचैत्याः परिणतफलश्यामजम्बूवनान्ताः कतिपयदिनस्थायिहंसाः सम्पत्स्यन्ते ।
व्याख्या—( हे मेघ ) त्वयि=मेघे, आसन्ने=समीपस्थे, सति, दशार्णाः=एतन्नामकाः देशाः, सूचिभिन्नैः=मुकुलाग्रविकसितैः, केतकैः=केतकीकुसुमैः, पाण्डुच्छायोपवनवृतयः=पाण्डुरवर्णाऽऽरामप्रकाराः, गृहबलिभुजाम्=गेहबलिभोक्तृणाम्, काकादीनामिति भावः, नीडारम्भैः=कुलायरचनाभिः, आकुलग्रामचैत्याः=संकीर्णग्रामवृक्षाः, अश्वत्थादयः परिणतफलश्यामजम्बूवनान्ताः=परिपक्वफलकृष्णजम्बुकाननप्रदेशाः, कतिपय-दिनस्थायिहंसाः=किञ्चिद-दिवस-स्थायिहंसाः, संपत्स्यन्ते=भविष्यन्ति ।
शब्दार्थः—( हे मेघ ) त्वयि=तुम्हारे, आसन्ने=आने पर, दशार्णाः=दशार्ण नामक देश, सूचिभिन्नैः=मुकुल के अग्रभाग में खिले हुए, केतकैः=