भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 687, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 687

३० ] प्रथमाध्याये तृतीयपादः ६३३ कार्यसामर्थ्यमिन्द्रादिनिर्मिश्रसुखसंगतिः । सामान्येनाऽप्यपूर्वादि सत्तातोऽन्यत्तु लभ्यते ॥ ९८३ अपूर्व-देवतास्वर्गादिशब्दानामर्थान्तरपरत्वम् न सत्तावाचित्वमित्युपपादनम् सर्वपदार्थानामेव कार्यार्थापत्तिगम्यानि सामर्थ्यानि सन्ति, यागादिजनितं च पुंसां फलप्राप्तिसामर्थ्यमपूर्वशब्दवाच्यं यागानुष्ठानात्पूर्वमभूतम्, अनुष्ठानोत्तर- कालं चापूर्वं जायत इति यौगिकत्वादेवापूर्वशब्दाभिधानं सर्वत्र लभ्यते । तथा दीव्यन्ति, द्योतन्ते वा चन्द्रादित्याग्निग्रहनक्षत्रतारकादिरूपेण वायवश्च सतत- गत्या स्तूयन्ते सर्वैर्मन्त्रैरिति देवाः सुज्ञानशब्दसम्बन्धा विशेषरूपैरेवेति, न सत्तागोचरत्वं प्रतिपद्यन्ते । तथा स्वर्गशब्देनापि नक्षत्रदेशो वा वैदिकप्रवाद- पौराणिक-याज्ञिकदर्शनेनोच्यते । यथा हि वेदे 'ये हि जना पुण्यकृतः स्वर्गं लोकं यन्ति तेषामेतानि ज्योतींषि नक्षत्राणि, तथा चैष ज्योतिष्मन्तं पुण्यलोकं जयति' इति । यदि वेतिहासपुराणोपपन्नं मेरुपृष्ठम् । अथ वाऽन्वयव्यतिरेकाभ्यां विभक्तं केवलमेव सुखं यत्संवत्सरादिष्वनुभूयमानं दुःखसाधनशीतोष्णक्षुत्पिपासादिसमस्तद्वन्द्वरहितार्थपत्तिसिद्धदेशान्तरानुभवनीयम्। तच्च यद्यपि तादृशमदृष्टपूर्वम्, तथाऽपि मिश्रानुभवादेव विवेकेनोद्धृत्य स्वर्ग- शब्दार्थत्वेन ज्ञायमानं सत्तां गमयतीति, न तदभिधानमपेक्ष्यते । तेनाऽपूर्वादिशब्दार्थाः समाः सत्यं गवादिभिः । स्वशब्दाभिहिताः सन्तः सत्तां लक्षयितुं क्षमाः ॥ ९८४ संशयस्योपसंहारः अतश्च नैव गोशब्दो गोसत्तामभिधास्यति । गोत्वाख्याकृतिवाच्यत्वसन्देहात्तु विचार्यते ॥ ९८५ कुतः संशय इत्येतत्कार्ययोग्यार्थनिर्णयात् । व्यक्तिमात्रपदार्थत्वं मन्यमानेन चोद्यते ॥ ९८६ उच्यते कार्ययोगित्वाद् गम्यते व्यक्तिवाच्यता । शब्दशक्त्यनुरोधात्तु नाऽऽकृतेर्व्यतिरिच्यते ॥ ९८७ शक्ति-कार्यसंवादादेव शब्दार्थगोचरात् । किं समञ्जसमित्येवं नाऽविचार्याऽवधार्यते ॥ ९८८ पूर्वपक्षः किं तावत्प्राप्तम्— प्रयोगचोदनाभावाद् व्यक्तिर्वाच्या न तूभयम् । अर्थैकत्वं यतो युक्तमविभागाद् द्वयोगतिः ॥ ९८९