मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
३० ] प्रथमाध्याये तृतीयपादः ६३३ कार्यसामर्थ्यमिन्द्रादिनिर्मिश्रसुखसंगतिः । सामान्येनाऽप्यपूर्वादि सत्तातोऽन्यत्तु लभ्यते ॥ ९८३ अपूर्व-देवतास्वर्गादिशब्दानामर्थान्तरपरत्वम् न सत्तावाचित्वमित्युपपादनम् सर्वपदार्थानामेव कार्यार्थापत्तिगम्यानि सामर्थ्यानि सन्ति, यागादिजनितं च पुंसां फलप्राप्तिसामर्थ्यमपूर्वशब्दवाच्यं यागानुष्ठानात्पूर्वमभूतम्, अनुष्ठानोत्तर- कालं चापूर्वं जायत इति यौगिकत्वादेवापूर्वशब्दाभिधानं सर्वत्र लभ्यते । तथा दीव्यन्ति, द्योतन्ते वा चन्द्रादित्याग्निग्रहनक्षत्रतारकादिरूपेण वायवश्च सतत- गत्या स्तूयन्ते सर्वैर्मन्त्रैरिति देवाः सुज्ञानशब्दसम्बन्धा विशेषरूपैरेवेति, न सत्तागोचरत्वं प्रतिपद्यन्ते । तथा स्वर्गशब्देनापि नक्षत्रदेशो वा वैदिकप्रवाद- पौराणिक-याज्ञिकदर्शनेनोच्यते । यथा हि वेदे 'ये हि जना पुण्यकृतः स्वर्गं लोकं यन्ति तेषामेतानि ज्योतींषि नक्षत्राणि, तथा चैष ज्योतिष्मन्तं पुण्यलोकं जयति' इति । यदि वेतिहासपुराणोपपन्नं मेरुपृष्ठम् । अथ वाऽन्वयव्यतिरेकाभ्यां विभक्तं केवलमेव सुखं यत्संवत्सरादिष्वनुभूयमानं दुःखसाधनशीतोष्णक्षुत्पिपासादिसमस्तद्वन्द्वरहितार्थपत्तिसिद्धदेशान्तरानुभवनीयम्। तच्च यद्यपि तादृशमदृष्टपूर्वम्, तथाऽपि मिश्रानुभवादेव विवेकेनोद्धृत्य स्वर्ग- शब्दार्थत्वेन ज्ञायमानं सत्तां गमयतीति, न तदभिधानमपेक्ष्यते । तेनाऽपूर्वादिशब्दार्थाः समाः सत्यं गवादिभिः । स्वशब्दाभिहिताः सन्तः सत्तां लक्षयितुं क्षमाः ॥ ९८४ संशयस्योपसंहारः अतश्च नैव गोशब्दो गोसत्तामभिधास्यति । गोत्वाख्याकृतिवाच्यत्वसन्देहात्तु विचार्यते ॥ ९८५ कुतः संशय इत्येतत्कार्ययोग्यार्थनिर्णयात् । व्यक्तिमात्रपदार्थत्वं मन्यमानेन चोद्यते ॥ ९८६ उच्यते कार्ययोगित्वाद् गम्यते व्यक्तिवाच्यता । शब्दशक्त्यनुरोधात्तु नाऽऽकृतेर्व्यतिरिच्यते ॥ ९८७ शक्ति-कार्यसंवादादेव शब्दार्थगोचरात् । किं समञ्जसमित्येवं नाऽविचार्याऽवधार्यते ॥ ९८८ पूर्वपक्षः किं तावत्प्राप्तम्— प्रयोगचोदनाभावाद् व्यक्तिर्वाच्या न तूभयम् । अर्थैकत्वं यतो युक्तमविभागाद् द्वयोगतिः ॥ ९८९
६३४ मीमांसादर्शनम् [ सू० नित्यं यथैव शब्दानाम्नातानां प्रयोजने । अर्थप्रत्यायनार्थत्वात्तद्देशेनावधारणा ॥ ९९० एवं सर्वपदार्थानां वाक्यार्थप्रत्ययाङ्गता । यथा सिध्येत्तथा कार्यं तेषां रूपनिरूपणात् ॥ ९९१ आकृतिर्यदि शब्दार्थः कस्य स्युः प्रोक्षणादयः । केन चेज्येत न त्याग आकृतेरुपपद्यते ॥ ९९२ अमूर्ता ह्याकृतिर्नित्या नावघातादिभाजनी¹ । तद्विधिः प्रतिषेधो वा तेनास्या नावकल्पते ॥ ९९३ 'व्रीहीनवहन्ति, पशुं संज्ञपयति, सोममभिषुणोति, पावयति, सोमेन पशुना व्रीहिभिश्च यजते' इति यावन्त एवमादयो विनाशिमूर्तिमद्विषयाः संस्काराः प्रयोजनसिद्ध्यर्था वा तेषां प्रयोगचोदनाया आकृतावभावाद् । व्यक्तौ तु भावात्कार्यप्रधानत्वाच्च पदार्थप्रतीतेः, विध्यधीनत्वाच्च सर्वपुरुषचेष्टानामवश्यं विधिविषयत्वयोग्यवाक्यार्थपूरणसमर्थपदार्थकल्पनमङ्गीकर्तव्यम् । तथा यदपि 'ब्राह्मणो न हन्तव्यः, न कलञ्जं भक्षयितव्यम्' इत्यादिप्रतिषेध- विधानम्, तदपि प्राप्तिपूर्वकत्वेन² सापेक्षत्वाद् व्यक्तौ च प्राप्तिसम्भवादाकृतेश्चा- नधिकारात्, असत्यां प्राप्तावनर्थक्यमेव स्यात् । तस्माद्येन शब्दार्थेन प्रयोगचोदनां भावो भवति, स एवाभ्युपगन्तुं न्याय्यः न तत्त्वज्ञानमात्रदृष्टसिद्ध्यर्थपदार्थ- कल्पना युक्तेति । स्यादेतत्, व्यक्तिसम्भवत्प्रयोगचोदनासु व्यक्त्यर्थः ततोऽन्यत्राऽऽकृत्यर्थ एव भविष्यतीति । तदसत् । न्यायेन हि स्थितमेकस्य शब्दस्यार्थैक्यम्, अनवस्थित- सम्बन्धानेकादृष्टवाचकशक्तिकल्पनविकल्पदोषप्रसङ्गात् । सम्बद्धानां चार्थाना- मन्यतराभिधानेनैवेतरत्र प्रतिपत्तिसिद्धेः । कथं तर्ह्याकृतिप्रत्यय इति चेदत आह—अविभागात्³ इति । यतस्तु नित्यमेव व्यक्त्याकृत्योरविभागः तस्माद् व्यक्तिरभिहिता सती शक्नोत्येवाऽऽकृतिं गमयितुम् । तदुक्तं तद्भूताधिकरणे ।⁴ यस्य तु पदस्य योऽर्थोऽभिधेयत्वेनाऽऽश्रितः तस्य तत्परिहारासम्भवादवश्यं तत्रस्थस्यैवार्थान्तरं५ लाक्षणिकत्वेनाऽभ्युपगन्तव्यमिति । अपि चाऽऽकृतिपदार्थकस्य व्यक्तिषु साधारणानेकान्तिकत्वान्निर्णयो न स्याद् व्यक्तिपदार्थकस्य पुनरत्यन्तान्त- र्भूताकृतिनिश्चयसिद्धेर्न शब्दव्यापारकल्पनोपपत्तिः । तस्माद् व्यक्तिरेव शब्दार्थः १ क. (टिप्पण्यां) भाजनम् । पा० । २ क. प्राप्तिपूर्वकत्वम् । ३ क. विभागादिति । ४. जै० (१-१-७) । ५. तत्रस्थस्येति तस्मिन्नेवार्थे वर्तमानस्य शब्दस्येत्यर्थः ।
१० ] प्रथमाध्याये तृतीयपादः ६३५ नाऽऽकृतिः । न च विकल्पसमुच्चय-सम्बन्ध-समुदायान्यतरविशिष्टान्यतराभिधान- पक्षाः सम्भवन्ति, अविभागादेव सर्वेषामपि ज्ञानसिद्धेः । अपि चाद्रव्यशब्दत्वाद् व्यक्तेरेवाभिधेयता । सामानाधिकरण्यं हि नाऽऽकृत्यर्थ-गुणार्थयोः ॥ ९९४ ३० ॥ ॥ आकृतिशक्त्यधिकरणम् ॥ न्या० सु०—अत्र भाष्यकारेणाथ गौरित्येवमादयः शब्दाः किमाकृतेर्वाचकाः सन्तो वाच्यार्थे प्रमाणमुत व्यक्तेरिति गवादिविशेषणोपादानान्न सर्वशब्दानामेतद्विचारविधेयतेति सूचितम् । तत्र केषां शब्दानां व्यावृत्तिर्विवक्षितेत्यपेक्षायां जातिशब्दानामेवोदाहरणत्वमङ्गी- कृत्य, तद्व्यतिरिक्तानां व्यावृत्तिरिति दर्शयितुमाह—इहेति । आख्यातशब्दार्थस्य द्वितीयाद्ये विचारयिष्यमाणत्वान्निपातोपसर्गाणां च स्वतन्त्रार्थाभिधायकत्वाभावान्नान्येषामुदाहरण- त्वेन गृह्यन्ते । तेषामपि षड्विधानां मध्ये शुक्लादिगुणानाम् एतयैव दिशा वाच्या शुक्ला- देरपि नित्यतेत्यादिवार्त्तिकोक्तन्यायेनावान्तरभेदाभावेन गुणशब्दानां जातिवाचित्वायोगात्, क्रियाणामप्यर्थप्रत्यक्षे नित्य एवेति भाष्येणावान्तरभेदस्य संख्याभावसूत्रे निराकृतत्वेन, यागादिशब्दानामपि जातिवाचित्वायोगात् पाकाद्येकोपाधियोगेन वाऽनेकत्र पाचकत्वाद्ये- काकारे प्रत्ययोपपत्तेः । पाचकत्वादिजात्यभावेन तच्छब्दानामपि जातिवाचित्वायोगात्, देवदत्तादिशब्दानां च सङ्केतितार्थविशेषवाचित्वात् सर्वनामशब्दानां च सन्निहितार्थविशेष- वाचित्वाज्जातिशब्दानामेवात्रैवमादय इति सादृश्यवचनेनैव शब्देनैवोदाहरणत्वं सूचित- मित्यर्थः । परमतेन चैतदुक्तम् । स्वमते तु— ततः शुक्लादितद्व्यक्तिगुणेषु प्रतितिष्ठति । इत्यादिना गुणकर्म्मणोरप्यवान्तरभेदाम्युपगमादाख्याताथं विना पौनरुक्त्य चोत्तर- प्रस्थाने परिहरिष्यमाणत्वात् गुणक्रियाशब्दानामप्याख्यातानामपि चोदाहरणत्वमस्त्येव । तथा चोपसंहारभाष्यव्याख्याने गवादिग्शब्दग्रहणं सर्वनामाख्यातशब्दानामन्तर्भावार्थमिति वक्ष्यति । नन्वेवं सति जातिशब्दा इत्येव स्पष्टत्वादुदाहरणनिर्देशः कार्यः । गोशब्दोदाहरणं तु किमर्थमित्याशङ्क्य, पूर्वाधिकरणे गोशब्दस्य गाव्यादिशब्दव्युदासेन साधुत्वाभिधानात्क- स्मिन्नर्थे तस्य साधुतेति प्रासङ्गिकी । सङ्गतिसूचनाथं तदुदाहरणमिति दर्शयितुमाह— तेषामपीति । गोशब्दमुदाहृत्य यदिचार्यते तत्पूर्वाधिकरणोदाहरणेन सहैतदधिकरणादा- हरणस्यैकत्वं सङ्गतिसूचनाय दर्शयितुमित्यर्थः । ननु पदार्थप्रामाण्यस्य शब्दे निरा कृतत्वात्किमाकृतेः प्रमाणमित्युक्तमित्याशङ्कयावाचकव्यतिरेकजनिते षष्ठ्या विनैव प्रामाण्यव्यतिरेकजनिते इति व्याख्यातुमाह—किं पुनरिति । किमाकृतेर्वाचकाः सन्तो
६३६ मीमांसादर्शनम् [ सू० वाक्यार्थे प्रमाणम्, अथ व्यक्तेरिति व्याख्या अनेनोक्ता । व्यक्त्याकृतिवाचित्वसन्देहमुप- न्यस्योच्यते इत्यादिभाष्येण मध्ये चिन्तान्तरं कृतम् । तत्किमर्थमित्याशङ्क्य प्रकृतचिन्तो- पोद्घातार्थत्वमाह—तत इति । न निर्णयार्थं विना कापि चिन्ता कर्तुं शक्या । न च निष्फला प्रतितिष्ठति । लौकिकवैदिकशब्दार्थभेदे च वैदिकशब्दार्थचिन्ता निरुपाय । लौकिकशब्दार्थचिन्ता च निष्फला स्यादित्याशयः । नन्वेवं सति प्रतिपदाधिकरणदिवत्प्रकृतचिन्तामनुपक्रम्यैवोपोद्घातचिन्ता कस्मान्न कृतेत्याशङ्क्यानन्तराधिकरणसङ्गतिप्रसङ्गादिति दर्शयितुम्—तत इत्युक्तम् । प्रतिपदाधि- करणादौ तु नानन्तरसङ्गत्यपेक्षा, अध्यायादित्वादित्याशयः ततो व्यक्त्याकृतिवाचित्व- सन्देहोपन्यासानन्तरं वक्ष्यमाणं पूर्वपक्षादिसान्न्यासिकं त्यागार्हं कृत्वा सम्प्रतीदं तावद्वि- चार्यत इत्यन्वयः । त्यागार्थात्संन्यासाप्रातिपदिकात्तदर्हतीत्यस्मिन्नर्थे ठगुत्पत्तेः सान्न्यासिक- पदव्युत्पत्तिः । अहिताशङ्कानिराकरणार्थस्तुशब्दः । किं य एवेति शब्दविषयम् । किं त एवेति चार्थविषयं सन्देहभाष्यद्वयं तन्त्रेण व्याख्या- तुम्—किं य एवेत्युक्तम् । उपायफलसिद्ध्यर्थत्वं प्रश्नपूर्वं विवृणोति -- आहेति । शब्दग्रहण- मर्थानामप्युपलक्षणार्थम् । ननु व्यक्त्याकृतिविचारफलोपाययोर्भिन्नविषयत्वेऽपि लौकिक- वैदिकशब्दार्थैकत्वे यत्नः किमर्थं इत्यपेक्षायामाह- यदीति । एतस्या व्यक्त्याकृतिसन्नि- धानचिन्ताया इति हेतौ पञ्चमी । एतच्छब्दो वेदविषयत्वद्योतनार्थः । निर्णयोपायव्याख्या- नार्थम्—वृद्धेत्युक्तम् । जातेरभिधेयत्वम्, व्यक्तेरनभिधेयत्वमिति निर्णयः, नान्यथेति शेषः । नन्वन्यत्वेऽपि लोकविषयैषा चिन्ता भविष्यतीत्याशङ्कयाह—प्रयोजनं त्विति । शङ्का- निराकरणार्थस्तुशब्दः प्रयोजनाभावमुपपादयति सम्मूर्च्छितेति । आशङ्कामभिप्रायमनूद्य निराकरोति—यदीति । नन्वेवं तर्हि वेदविषयैव चिन्ता, अन्यत्वेऽपि यूपादिशब्दनिर्णयो- पायसम्भवात्सेत्स्यतीत्याशङ्कयाह—स्यादिति । वृद्धव्यवहारस्थाने क्व प्रयोगानुसरणमेवा- कृतिवाचित्वनिर्णयोपायः न यूपादिवच्चव्यक्तिविपर्ययाश्रयणादित्याशयः । अतः शब्दार्था- न्यत्वे एकाङ्गविकलत्वाच्चिन्तेयमनारभ्या स्यादित्याह—तेनेति । ननु शब्दार्थानन्यत्वे फलोपाययोर्भिन्नविषयत्वेनैकाङ्गवैकल्याविषयः स्यादित्या- शङ्कयाह—अभेदे इति । शब्दार्थान्यानन्यत्वचिन्तायाः प्रकृतचिन्तोपोद्घातत्वोपसंहारपूर्वकं पूर्वपक्षमाह—तेनेति । अनेन च तत्रान्यपूर्वपक्षप्रतिज्ञाभाष्यं व्याख्यातम् । अत्र व्यपदेशभेदाद्रूपभेदाच्चेति हेतुद्वयं भाष्यकृतोक्तम् । तत्र व्यपदेशभेदस्य भाष्यकृतैव व्याख्यातत्वादूपभेदं व्याचष्टे— नियतेति । वैदिकेषु पदेषु नियतः स्वरः, लौकिकेष्वनियत । वैदिकेषु च छन्दोविषयतया विहितस्य प्रकृतिप्रत्यययोर्लोपस्य, आगमस्य वा वर्णविकारस्य वा सद्भावः । लौकिकेष्व- सद्भावः तत्कृताद्रूपभेदादित्यर्थः । नन्वेवं सति छान्दोग्यब्राह्मणेषु स्वरनियमाभावाद् गवादिशब्देषु च प्रकृतिलोपाद्यभावाच्च भेदः सिद्ध्येदित्याशङ्क्य, धर्मभेदाभिप्रायेण रूपभेदं व्याख्यातुमाह — अध्यायेति ।
३० ] प्रथमाध्याये तृतीयपाद। ६३७ अधीयतेऽस्यामिति व्युत्पत्त्याऽध्ययनतिथिः अध्यायो द्वितीयादिः अष्टम्याद्यनध्ययनतिथिः अध्यायः । वेदवाक्यान्यध्याये यज्ञोपवीतेनैव त्रैवर्णिकेनैव च प्रयोज्यानि, लौकिकान्य- नध्यायेऽप्यनुपनीतेनापि चातुर्वर्ण्येनापि च प्रयोज्यानि, अप्रयोज्यत्वेनाप्रेष्यत्वेन च हेतुना परिचर्यया प्रसादितो यो गुरुस्तदुच्चारणपूर्वकं वेदवाक्यानि प्रयुक्तानि, यदृच्छया प्रयुक्तानि लौकिकानीति, धर्मभेदाच्चाथा लौकिकवैदिकवाक्यानामन्यत्वम् । तदन्यत्वाच्च वाक्यार्थान्यत्वं तथा पदानां धर्मभेदात्पदार्थानां च पदभेदाद् भेद इति पूर्वपक्षं प्रतिज्ञायाऽन्वयः । धर्म- भेदमात्रेण कथं पदभेदः ? कथं च पदभेदमात्रेण पदार्थभेद ? इत्याशङ्काद्वयनिराकरणार्थं हेतुगर्भविशेषणसहितदृष्टान्तोपादानम् । शब्दाभेदे धर्मव्यवस्थावैय्यर्थ्यापत्तेस्तत्साफल्याय शब्दभेदः कल्प्यते । तद्भेदे चौत्सर्गिकोऽर्थभेदः संज्ञा चोत्पत्तिसंयोगादित्यनेन सेत्स्यति पदादृष्टार्थप्रतिपत्त्यर्थस्य शब्दस्यादृष्टार्थेन धर्मेण प्रयोजनाभावादर्थप्रतिपत्त्यर्थमेव धर्मापेक्षे- त्यर्थप्रतिपादनसामाग्र्यतिरेकाद्वाचकभेदो जराराजेति क्रमभेदादिवेत्याशयः । ननु वैदिकपदानां लौकिकेभ्योऽन्यत्वे सम्बन्धग्रहणाभावेनार्थानवधारणादर्थान्यत्वेन पूर्वपक्षो न युक्त इत्याशङ्कयाह—यदीति । लौकिकार्थासम्भव एवानर्थक्येन वेदाप्रामाण्या- पादनायाऽन्यत्वमिषेण पूर्वपक्षिणो वक्तुमभिप्रेतः । निर्विषयत्वाच्च प्रकृतचिन्तानारम्भायैव वेदाप्रामाण्योपपादनायोच्यत इत्यविरोध इत्याशयः । अग्निवृत्राणि जङ्घनदित्यन्यदिदं रूपमिति भाष्यं न्यूनाधिकक्रमान्यत्वाद्यभावेन रूपभेदानुपलब्धेरयुक्तमाशङ्कय व्याचष्टे— स्वरेणेति । लौकिकस्यानियतस्वरत्वात्स्वरानपेक्षस्यार्थप्रतिपादकत्वम्, वेदे तु स्वरनियमा- त्सोऽपि सहकारीति सामग्रीभेदाद् गौगीर् इति वर्णातिरेकवत्स्वरातिरेकात्पदान्यतेत्याशयः । धर्माभिप्रायो वा रूपशब्द इति व्याख्यान्तरमाह—अध्यायेति । कर्मव्युत्पन्नाव- ध्यायानध्यायशब्दौ । यदा कदाचिद्येन केनचिद्यथा कथंचिदध्येयः न वैदिक इत्यर्थः । यद्वा अग्निवृत्राणि जङ्घनदिति वैदिकस्याग्निशब्दस्य वृत्रहननसमर्थवस्तुवाचित्वाव- गमो लौकिकः । व्युत्पन्नाग्निशब्दवाच्यस्य च ज्वलनस्य तदसामर्थ्यात् अर्थान्तरे चाव्युत्पन्न- स्यैव शक्त्यान्तरकल्पने गौरवापत्तेः गत्यर्थस्यागिधातोः ‘शोनिर्नलोपश्चेति’ सूत्रेणौणादिके निप्रत्यये कृतेऽग्निशब्दव्युत्पत्त्यवधारणान्न प्रकृतिप्रत्ययान्वाख्यानभेदेनाव्युत्पन्नाल्लौकिका- दग्निशब्दाद् व्युत्पन्नस्य वैदिकस्याग्निशब्दस्य रूपान्यताभिप्रेतेति व्याख्यान्तरमाह— वृत्रेति । शब्दान्यत्वाच्चेति पदान्यत्वेन पदार्थान्यत्वप्रतिपादकं भाष्यं स्पष्टत्वान्न व्याख्यातम् । अपि चेत्यादिभाष्यं लोकसिद्धानामेव गवां देवसम्बन्धनिमित्तोत्तानवहनात्मकधर्म- विशेषप्रतिपादकत्वेनास्य वाक्यस्य अन्यार्थत्वलिङ्गत्वाभावाद्युक्तमाशङ्क्योपपादयितुमाह— विदग्धेति । यथा ‘यो विदग्धः स नैर्ऋत’ इति स्वरसतो विदग्धोद्देशेन नैर्ऋतत्वविधिः प्रतीयमाना उत्पत्तिशिष्टदेवतावरुद्धे देवतान्तरविध्ययोगाद्यो नैर्ऋतः, स विदग्ध इति- वचनव्यक्त्यन्तराङ्गीकरणेन ‘प्रकरणे सम्भवन्नपकर्षो न कल्प्येतेत्यत्र भाष्यकृता मग्नः ।
तथात्र 'वषट्कर्त्तुः प्रथमभक्ष' इतिवत् समासान्निष्कृष्य गोमात्रस्योद्देशायोगात् देवगवानां चोत्तानवहनवदसिद्धत्वाविशेषात् कथंचित् सिद्धेश्चोत्तानवहनस्यापि सम्भवाद्यच्छब्दयोगः प्राथम्यमित्याद्युद्देश्यलक्षणमित्यनेन न्यायेन प्राथम्योपात्तोत्तानवहनोद्देशप्रतीतेस्तदुद्देशेन गोशब्दवाच्यत्वविध्याश्रयणात्स्वरसतः प्रतीयमानस्य देवगवोद्देशेनोत्तानवहनविधौ भङ्गः कृत इत्यर्थः । नन्वेवं सति य उत्ताना वहन्ति ते देवानां गोशब्दवाच्या इति वेदवाक्यगतपदपौर्वा- पर्यालोचनेनालौकिकस्याप्यर्थस्य यूपादिवत्प्रतीतिसिद्धेर्लौकिकवैदिकशब्दार्थान्यत्वेऽपि व्यक्त्याकृतिचिन्तोपपत्तेरुपोद्घातोऽनर्थकः स्यादित्याशङ्क्याह सर्वेषां चेति । नन्वर्थावगत्य- भावे कथमस्यार्थान्यथावेदकतेत्याशङ्क्यापातप्रतिभानेन लिङ्गमपेतपूर्वपक्षिणोक्तम् । परमार्थ- तस्तु शब्दान्यमेवार्थान्यहेतुरिति दर्शयितुमाह-ग्राह्यत्वादिति । स्वाध्याय एवोपनीतेनैव त्रैवर्णिकेनैव शुश्रूषासाधितगुरुसम्प्रदायेनैव च ग्राह्यत्वं वैदिकानां धर्म्मः । यदाकदाचित्केन केनचिद्यथा कथंचित् न ग्राह्यत्वं लौकिकमिति धर्म्मभेदः । आदिशब्दो नियतानियतस्वरा- द्यभिप्रायः । नियतैः पदैर्वाक्यरचना वेदे, लोके त्वनियतैः । तद्द्वारा वैदिकानीमानि पदानि, लौकिकानीति व्यपदेशभेदः । वाक्यभेदनिबन्धनत्वात् व्यपदेशभेदस्य, न पदभेदा- पादकतेत्याशङ्कानिराकरणार्थम् --नियतेत्युक्तम् । पदरचनात्मकत्वात् वाक्यानां पदभेदं विना तद्भेदायोगाद्वाक्यभेदनिबन्धनत्वे पदभेदस्येतरेतराश्रयत्वापत्तेः स्वरादिनियमानियम- कृतपदस्वरूपभेदनिबन्धन एव व्यपदेशभेद इत्याशयः । धर्मभेद-व्यपदेशभेदाभ्यां शब्दानां भेदः तद्भेदाच्चार्थानामित्यर्थः । भिन्नानां वर्णानामेकार्थप्रतिपादननिबन्धनत्वेऽर्थभेदस्येतरेत- राश्रयं स्यादित्याशङ्कानिराकरणार्थं पदभेदे कारणान्तरस्य पूर्वोक्तस्योपन्यासः । वनस्पते हिरण्यपर्णेति सामानाधिकरण्यनिर्देशे लोकसिद्धस्य वनस्पतेर्हिरण्यपर्णत्वस्यानु- पलब्धिविरोधेन वनस्पतिशब्दवाच्यत्वप्रतीतेः, घृतस्य च मधुशब्दवाच्यत्वप्रतीतेर्वाक्यस्वार- स्यादेव स्पष्टत्वन्न तत्प्रतिपादकं भाष्यद्वयं व्याख्यातम् । सिद्धान्ते यथाभाष्यं सुयोजमपि सूत्रमाकृत्यधिकरणपूर्वकपक्षेऽन्यथा योजयिष्यमाणत्वाद्विधैकार्थं योजयति-प्रयोगेति । तेष्विति । लौकिकवैदिकशब्दार्थेष्वित्यर्थः । अविभागादिति सूत्रावयवावतारणार्थम्- तस्मादित्युक़्तम् । य एवेतिभाष्येण प्रयोगचोदनाभावादित्यकारप्रश्लेषं विना व्याख्याय, इतरथेत्यनेनाकारप्रश्लेषेण व्याख्यानान्तरं कृतम् । तत्रैकत्वेऽनेकत्वे चोभयभावप्राप्तावेकत्वे सति पुनर्वचनस्य परिसंख्यार्थत्वापत्तेर्द्वितीयमेव व्याख्यानं सम्मतमिति सूचयितुमादौ व्याचष्टे - भेदे सतीति । आद्यव्याख्यानं व्याचष्टे -एकत्वे सतीति । तस्मादेकशब्दत्वमिति भाष्यम् । सौत्रमर्थपदं शब्दस्याप्युपलक्षणार्थमिति दर्शयितुं द्वेधार्थैकत्वपदं व्याचष्टे- अर्थकत्वमिति । एतदेव प्रपञ्चयति - शब्देति । ननु प्रयोगचोदनाभावादित्यनेनैव शब्दार्थैक- त्वसिद्धेरविभागादित्यनर्थकं हेत्वन्तराभिधानार्थत्वे वा शब्दैक्यमात्रविषयत्वेनाव्यापकतया दौर्बल्याद् बलवति हेतौ प्रयुक्ते दुर्बलोपन्यासः क्लिष्टो भवतीत्यनेन न्यायेन पूर्वमुपन्यस्येते- त्याशङ्क्योच्यत इति भाष्येण पूर्वस्य प्रयोजनाभिधानार्थत्वादेतदेव हेत्वभिधानमित्युक्त-
३० ] प्रथमाध्याये तृतीयपादः ६३९ माभाति । तस्मादिष्टापत्तिरूपहेत्वभिधानप्रतीतेरयुक्तमाशङ्क्याह—प्रयोगेति । लिङ्गदर्शन- बलेनात्रैको वेदवादी पूर्वपक्षी रूपभेदादिनान्यः शुष्कतार्किकः तत्र पूर्वः शुष्कतार्किकस्य त्विदं प्रत्यवस्थानमित्याशयः । अत इति ल्पब्लोपे पञ्चमी इदमभिप्रेत्याहेत्यर्थः अविभागं पञ्चधा व्याचष्टे--तदुच्यत इति । स एवायं गोशब्द इति प्रत्यभिज्ञानरूपप्रत्ययस्य लौकिक- वैदिकशब्देष्वविभागादित्यर्थः । रूपाविभागादित्यनेन विलक्षणरूपाप्रतीतेरित्युक्ते घटपटयोर- ज्ञायमानत्वावस्थायां वैलक्षण्याप्रतीतावैक्याभावात्तन्मात्रेणैक्यासिद्धिमप्याशङ्क्य—ज्ञायमानयोः- लौकिकवैदिकशब्दयोरित्युक्तम् । सादृश्यनिमित्तभ्रान्त्यध्यवसितैकत्ववशेनपि वैलक्षण्या- प्रतीत्युपपत्तिमप्याशङ्क्य ज्ञायमानयोरर्थयोरवश्यं कथंचिद्वैलक्षण्येन भाव्यं तदभावात्त्विह भेदो नास्तीत्याशयः । वाक्यतत्समूहमात्रनिबन्धनस्य पदवर्णानां तदन्तर्गतत्वादयं न पदवर्णविषयत्वस्यैते लौकिका इमे वैदिका इति व्यपदेशस्य वस्तुतः पदवर्णेषु विभागाभावा- दित्यर्थः । वस्तुतो वाक्यनिबन्धनस्तत्समूहनिबन्धनो वाऽयं व्यपदेशः तदन्तर्गतनिमित्तया तु भ्रान्त्या पदवर्णविषयत्वमनेनोपात्तमित्योपाधिकत्वान्नासो पदवर्णानां भेदमापादयती- त्याशयः । शब्दानां प्रतिनियतविलक्षणाभिव्यञ्जकाभिव्यङ्ग्यत्वनियमात्तदभावो वात्राभेद- हेतुरुक्त इति—तथेत्यनेनोक्तम् । लक्षणेत्यनेन लक्षणाभेदो लक्ष्याभेदे—हेतुरुक्त इत्युक्तम् । छन्दसि भाषायां वेति विशेषणेन भिन्नलक्षणलक्षितानां सिद्धान्तिनामपि भेदाभ्युपगमात्तद्व्या- वृत्तिसूचनार्थम्—बहुतरेत्युक्तम् । अत इत्युपसंहारभाष्यं व्याचष्टे—प्रत्यक्षेति । तांश्चेति भाष्यं चकारेण शब्दैक्यमर्थैक्ये हेतुं सूचयतीति व्याचष्टे—एकेति । यच्चोक्तमिति भाष्येण लिङ्गदर्शनान्यनुभाष्य नास्तिवचनमित्यादिनोत्तानवहनानुवादेन गोशब्दवाच्यत्वविधित्वमस्य निराकृत्य गवानुवादेनोत्तानवहनविधित्वमुक्तं तद्व्याचष्टे—यथाश्रुतेति । गोमधुवनस्पति- शब्दानां यार्थान्तरद्योतिका श्रुतिरूपन्यस्ता सा न्यायसिद्धार्थकत्वाद्विरोधेन प्रयोजनेनोत्तान- वहनादिगुणमात्रा नातः परा व्याख्येयेत्यर्थः । अनन्तरोक्तार्थैकत्वसाधकशब्दैकत्वलक्षण- न्यायपरामर्शार्थं यथाश्रुतत्वं लोकसिद्धत्वं विशेषणमुक्तम् । न च गुणमात्रान्यत्वेनार्थान्यत्वं भविष्यतीति दृष्टान्तपूर्वकमाह—यथा हीति । अस्तु वा गुणान्यत्वेन देवसम्बन्धिनां गोमधुवनस्पतीनां भेदः तथाप्यगृहीतसम्बन्धत्वेन तेषां वाच्यत्वायोगाद्वैदिकानामपि गवादि- शब्दानां लौकिका एवार्था इति मत्वाद्द—न चेति । दक्षिणादिसाधनत्वेन च विहितानां गवां देवसम्बन्धिनामस्वत्वेन दातुमशक्यत्वान्मनुष्यसम्बन्धितैव निश्चीयत इत्याह— मनुष्येति । देवसम्बन्धिनश्च वनस्पतेर्मरुगतस्य गुणान्यत्वेन लौकिकवनस्पतितो भेदेऽपि कर्मभूमिगतयज्ञसाधनत्वायोगाद्वैदिकस्यापि वनस्पतिशब्दस्य लौकिक एवार्थ इत्याह— एवमिति । लौकिकस्य च घृतस्य देवसम्बन्धान्मधुत्वेन लौकिकान्मधुतोभेदेऽपि देवसम्बन्धा- पादितरसोवीर्यविपाकात्पूर्वं घृतस्य मधुत्वाभावेन मधुपर्कादिसाधनत्वायोगाद्वैदिकस्यापि मधुशब्दस्य लौकिक एवार्थ इत्याह – यस्त्विति । सर्वेषां च वैदिकशब्दार्थानामन्यत्वे सत्युत्तानादिशब्दानामप्यज्ञानान्न तदनुवादेन गवादिशब्दवाच्यत्वं विधातुं शक्यमिति, प्रतिपादनाथं 'यदि चान्य' इति भाष्यं व्याचष्टे—न चेति ।
मधुगुणमात्रान्यतापारत्वे कार्योपयोगाभावाद्वाक्यानर्थक्यं स्यादित्याशङ्कानिराकरणार्थं न चेति भाष्येण स्तुत्यर्थत्वमुक्तम् । तत्र निरालम्बनस्तुत्यनुपपत्तिमाशङ्क्यालम्बनमाह— अत इति । लौकिकानामेव गवादीनां यज्ञादौ विनियुक्तानामिह स्वर्गं वै त्वालोकं गमयिष्याम इत्यादिदर्शनेन स्वर्गलोकप्राप्तेर्देवसम्बन्धप्रभावादुत्तानवहनाद्यलौकिकगुणान्तरप्राप्तिर्भविष्य- तीत्याशयः । स्वर्गगमनामावेऽपि वा भूमिगतानामेव गवां ‘देवाश्च याभिर्यजते ददाति च’ वा ज्योतिस्ताभिः स च ते गोपत्तिः सहेत्यादिदर्शनाद्देवोद्देश्येन त्यक्तानां दुःखसागरतारणा- र्थत्वावगतेरुत्तानवहनत्वादिगततारणगुणयोगेनोत्तानवहनप्रतिपादनमित्यालम्बनान्तरमाह— अथ वेति । यद्वोत्तानवहनाभावेऽपि देवानां तथा प्रतीतेस्तदालम्बनमुत्तानवहनप्रतिपादनमित्यालम्ब- नान्तरमाह—पृथिवीति । दृष्टिवशाद्धोत्तानवहनप्रतिपादनमित्यत्राप्यतीतेनान्वयः । कथं देवानामुत्तानवहनदृष्टिरित्यपेक्षायां—पृथिवीगोलकत्रैलोक्यभ्रमणादिनेत्युक्तम् । पृथिवीगोल- कस्य भ्रमणे किं प्रमाणमित्यपेक्षायां—पुराणोक्तेनेत्युक्तम् । ननु सत्यपि भ्रमणे कथमुत्तान- वहनदर्शनमित्यपेक्षायामाह—यथैवेति । अधोदेशस्योपरिदर्शनं परिवर्त्तनं विप्रतीपीभावं विना न युक्तमिति भूमेर्विप्रतीपिभावात्तद्गतानां गवामुत्तानवहनदर्शनमुपपन्नमित्यर्थः । तस्मादित्युपसंहारभाष्यं व्याचष्टे -- तस्मादिति । यदेति प्रकृतविचारानुसन्धानभाष्यं व्याचष्टे—इतीति । श्रोतॄबुद्धिप्रथनाय पक्षान्त- राण्यपि दर्शयितुमौचित्यप्रतिज्ञां तावत्करोति—द्वौ चेति । यद्यपीत्यनेन भाष्यकारोऽपि यत्र पदोच्चारणानर्थक्यं तत्र व्यक्तिरर्थः अन्यत्राकृतिरिति भाष्येणोभयपक्षम् अस्तु विशेषणत्वेनाकृतिं वक्ष्यति विशेष्यत्वेन व्यक्तिमित्यनेन चाकृतिविशिष्टायामाकृतौ वर्त्तेतेत्य- नेन च व्यक्तिविशिष्टाकृतिपक्षं दर्शयिष्यतीति सूचितं तानि दर्शयितुं जातिव्यक्त्योस्ता- वदष्टपक्षीमुद्दिशते—नियोगेनेति । नियोगशब्देन च नियमम्, विना पक्षद्वयं विशिष्टावेत्यनेन च पक्षद्वयमुक्तम् । एतेषामेवाष्टानां पक्षाणां परस्परव्यतिकरेणापरांन् षण्णवतिपक्षान् सूचयितुमाह—एत इति । जातिव्यक्त्योरेवोद्दिष्टानां नियमादिपक्षाणां लिङ्गादिसिद्धित्रि- योगेन संहतात्मभिः, असंहतात्मभिश्च सह सम्प्रधारणे विविक्तोद्देशेन, परस्परव्यक्तिकरेण चापरांश्चतुर्दश चतुः शतानि च पक्षान् वक्तुं योजना कार्येत्याह—लिङ्गेति । नियोगेनेति श्लोकं व्याचष्टे प्रथमं तावदिति । एते पक्षा इति श्लोकार्धं व्याख्यातुं षण्णवतिपक्षा- नाह - तथेति । द्वावाभ्यामित्यनेन विशेषणविशेष्यभावनिरपेक्षाम्यां व्यक्त्याकृतिभ्यां समुच्चिताभ्यां विशिष्टः सम्बन्धो गोशब्दस्यार्थं इति चतुर्थः पक्षो लाघवायान्ते दर्शित इत्येकाऽष्टपक्षी । किमाकृत्यैव विशिष्टसमुदायः किं व्यक्त्यैवाऽथाऽकृत्या व्यक्त्या वाऽथ सम्बन्धेनाऽथाकृतिविशिष्टया व्यक्त्याऽथ व्यक्तिविशिष्टयाऽकृत्या अथ व्यक्त्याकृतिभ्यां परस्परविशिष्टाभ्यामथ विशेषणविशेष्यत्वनिरपेक्षाभ्यां समुच्चिताभ्यां व्यक्त्याकृतिभ्यां परस्परविशिष्टाभ्यामुत विशेषणविशेष्यत्वनिरपेक्षाभ्यां समुच्चिताभ्यां व्याक्त्याकृतिभ्यामिति द्वितीया । किमाकृत्यैव विशिष्टः सम्बन्ध एव गोशब्दस्यार्थः, अथ समुदाय एव अथ
३० ] प्रथमाध्याये तृतीयपादः ६४१ सम्बन्धो वा, समुदायो वाप्यसम्बन्धश्च समुदायश्च, उत व्यक्त्यैव विशिष्टः, सम्बन्ध एवाप्यसमुदाय एव अथ विकल्पोऽथ समुच्चयविशिष्टयाकृत्या किं व्यक्तिः, अथाकृत्यऽथ वा विशिष्टः सम्बन्ध एव । अथ समुदाय एव, अथ विकल्पोऽथ समुच्चयः । अथ एवं समुदायेन विशिष्टः सम्बन्ध एव अथ सम्बन्धेन विशिष्टः समुदाय एव अथ विकल्पोऽथ समुच्चयः किमाकृतिविशिष्टया व्यक्त्या विशिष्टः सम्बन्ध एव अथ समुदाय एव अथ विकल्पोऽथ समुच्चयः । अथोभाभ्यां परस्परविशिष्टाभ्यां विशिष्टः सम्बन्ध एव अथ समुदाय एव अथ विकल्पोऽथ समुच्चयः । अथोभाभ्यां स्वतन्त्राभ्यां विशिष्टः सम्बन्ध एवाथ समुदाय एवाथ विकल्पोऽथ समुच्चय इति चतस्रोऽष्टपक्ष्यः । सम्बन्ध एवेत्येवकारेण प्रतितियोगिभूतेन समुदायेन सह नियोगविकल्पसमुच्चयरूपपक्ष- चतुष्टयसूचनात् पूर्वोक्ताभ्यां सह षड् भवन्ति सम्बन्धवत्समुदायमपि प्रत्याकृत्यादेर्विशेषण- त्वपक्षः पूर्ववत्सम्बन्धविशिष्टसमुदायपक्षमात्रातिरिक्तत्वेन योज्या इत्यर्थः । किं सम्बन्ध- विशिष्टसमुदायपक्षमात्रातिरिक्तत्वेन योज्या इत्यर्थः । किं सम्बन्धेनैव विशिष्टाकृतिरित्या- कृतिग्रहणस्य व्यक्त्युपलक्षणार्थत्वात्किं सम्बन्धेनैव विशिष्टा व्यक्तिर्गोशब्दार्थोऽथ समुदायेनैव विशिष्टा अथ विकल्पमानाभ्यामुत समुच्चिताभ्यामित्यपरपक्षचतुष्टयीसूचनेन सप्तम्यष्ट- पक्ष्युक्ता । तथैतद्विशिष्टापीत्येतच्छब्देन सम्बन्धसमुदाययोः परामर्शादष्टम्युक्ता किमाकृति- विशिष्टसमुदायविशिष्टा व्यक्तिरेवाथ व्यक्तिविशिष्टसमुदायविशिष्टाकृतिरेवाथ विकल्प उत समुच्चय इति सम्बन्धवत्समुदायमपि व्यक्त्याकृत्योर्विशेषणविशेष्यभावयोजनात् नवम्युक्ता । सम्बन्धवत्समुदायस्यादिविशेषणत्वयोजनाद्दशमी । सम्बन्धवत्समुदायमपि प्रत्यादिविशेषण- योर्व्यक्त्याकृत्योर्नियोगादिपक्षचतुष्टययोजनादेकादशी । विशेष्यविशेषणयोर्व्यक्त्याकृत्योर्नि- योगादिपक्षचतुष्टयकल्पनायाम् आदिविशेषणत्वेन सम्बन्धवत्समुदायस्यादिविशेषणत्वयोजनाद् द्वादशी इति परस्परव्यतिकरेण षण्णवत्यष्टपक्ष्या सह चतुःशतं पक्षा भवन्ति । लिङ्गकारकसंख्याभिरित्यनेन सूचितानपरांश्चतुर्दश चतुःशतानि पक्षी संक्षेपेण दर्श- यति - एवं जातिव्यक्त्योरिति । किं लिङ्गमेव गोशब्दार्थोऽथ लिङ्गं वाथ जातिर्वाथ लिङ्गं च जातिश्च, अथ जातिलिङ्गयोः सम्बन्धः, अथ समुदायः, अथ लिङ्गविशिष्टा जातिः । अथ जातिविशिष्टं लिङ्गमित्याद्यामष्टपक्षीं दर्शयित्वा, किमाकृत्यैव विशिष्टः सम्बन्धो लिङ्गेनैव वेत्यादिव्यक्तिस्थाने लिङ्गं प्रक्षिप्य परस्परव्यतिकरेण षण्णवतिपक्षयोज- नया चतुःशतं रचयितव्यम् । कारकस्य जात्या सम्प्रधारणे द्वितीयं चतुः शतम् । संख्यायास्तृतीयम् । लिङ्गस्य व्यक्त्या सह सम्प्रधारणे चतुर्थम् कारकस्य पञ्चमम्, संख्याया षष्ठम्, लिङ्गसंख्याकारकयुग- लस्य जात्या सह सम्प्रधारणात् सप्तमम्, लिङ्गकारकयुगलस्य अष्टमम्, संख्याकारकयुगलस्य व्यक्त्या सह सम्प्रधारणे दशमम्, लिङ्गकारकयुगलस्यैकादशम् । संख्याकारयुगलस्य द्वादशम्, लिङ्गादित्रयस्य जात्या सह सम्प्रधारणे त्रयोदशम्, व्यक्त्या सह चतुर्दशमितिन्यायेन चतुः- शतेन सह पञ्चदश चतुःशतानि, षष्ठाधिकं सार्द्धपक्षसहस्रं भवति । ४१
६४२ मीमांसादर्शनम् [ सू० ग्रन्थस्त्वेवं योज्यः । जातिव्यक्तिविषयैर्नियोगादिभिरष्टभिः पक्षैर्विकल्पिताः परस्पर- व्यतिकरेण कल्पिता येऽन्ये षण्णवतिः पक्षास्तेषामाद्यैरष्टभिः सह समुच्चितानां प्रत्येकं लिङ्गादीनां जात्या सह सम्प्रधारणायामुत्थानं दर्शयित्वा व्यक्त्या सह दर्शयितव्यम् । तथा लिङ्गसंख्यादियुगलानि व्यतिकरेण कल्पयित्वा लिङ्गादिसहितैकैकजा व्यक्तिविषया- पेक्षया विकल्पा दर्शयितव्याः । लिङ्गदीनां कियतां जात्या, व्यक्त्या वा सम्प्रधारणेत्य- पेक्षायां प्रत्येकमेकैकेन द्वाभ्यां युगलीभूताभ्यां त्रिभिश्च लिङ्गादिभिः सहिताया एकैकस्या जातेर्व्यक्तेश्च—विकल्प्य इत्युक्तम् । ननु लिङ्गादीनां प्रत्ययार्थत्वात्प्रातिपदिकवाच्यत्वेन चिन्ता न युक्तेत्याशङ्क्य— त्रियोगेत्युक्तम् । स्त्रियां यत्प्रातिपदिकं वर्त्तत इति व्याख्यादर्शनाद्वैयाकरणैस्तावज्जाति- व्यक्तिवल्लिङ्गस्यापि प्रातिपदिकार्थत्वेनेष्टेति त्रिकप्रातिपदिकार्थवाचित्वात्ते त्रियोगाः । निपा- तोपसर्गवत्प्रत्ययस्यापि द्योतकमात्रत्वेन वाचकत्वाभावात्संख्याकारकयोरपि प्रातिपदिकार्थत्वं येऽभ्युपगच्छन्ति , ते पञ्चकप्रातिपदिकार्थवाचित्वात्पञ्चयोगाः तन्मताश्रयणेनेमे विकल्पा इत्यर्थः । सम्बन्धसमुदायानपेक्षत्वे वा लिङ्गादित्रयेण सह जातिव्यक्त्योर्योगस्तदपेक्षत्वे पञ्चभिरिति व्यवस्थया विकल्पविषयप्रदर्शनम् । ये तु वैयाकरणाः शब्दस्वरूपस्यापि वाच्यत्वमिच्छन्ति, तन्मतेन तस्यापि जातिव्यक्तिसम्बन्धसमुदायलिङ्गकारकसंख्याभिः- संहतासंहतात्मभिः सह सम्प्रधारणेन त्रिषष्ठ्यधिकपक्षिभिश्चतुरुत्तराणि पञ्चशतानि पक्षान्सूच- यितुमाह – एवमिति । षट्कैः सहेति द्वितीयेन सहशब्देन सप्तकसाहित्यं विवक्षितम् । जात्यादिभिः सप्तभिरे- कैकशो द्विकैस्त्रिकैश्चतुष्कैः पञ्चकैः षट्काभ्यां चेत्येतैः सप्तकेन सहितैः सह शब्दस्वरूपस्य विकल्पनेत्यर्थः । किं जातिरेव गोशब्दार्थः, अथ गोशब्दस्वरूपमेव, अथ जातिर्वा शब्द- स्वरूपं वा अथ जातिश्च शब्दस्वरूपं च, अथ सम्बन्धः, अथ समुदायः, अथ जातिविशिष्ट- स्वरूपं स्वरूपविशिष्टा वा जातिरित्येवमेकैकशः सहाष्टपक्षीं दर्शयित्वा, जाति-व्यक्ति-जाति- सम्बन्ध-जाति-समुदाय-जाति-लिङ्गजातिकारकजातिसंख्यादिकैः षड्भिर्व्यक्तिसम्बन्धव्यक्त्ति- समुदायव्यक्त्तिलिङ्गव्यक्क्तिकारकव्यक्त्तिसंख्यादिकैः पञ्चभिः सम्बन्धसमुदायसम्बन्धलिङ्ग- सम्बन्धकारक-सम्बन्धसंख्या-द्विकैश्चतुर्भिसमुदायलिङ्गसमुदायकारकसमुदायसंख्याद्विकेनेकै- नैकविंशतिरष्टपक्षयो दर्शयितव्याः । जातिव्यक्तिसम्बन्धजातिसम्बन्धसमुदायजातिसमुदायलिङ्गजातिलिङ्गकारकजातिकार- कसंख्यात्रिकैः पञ्चभिः व्यक्तिसम्बन्धसमुदायव्यक्त्तिसमुदायलिङ्गव्यक्त्तिलिङ्गकारकव्यक्त्ति- कारकसंख्यात्रिकैश्चतुर्भिः सम्बन्धसमुदायलिङ्गसम्बन्धलिङ्गकारकसम्बन्धकारकससंख्यात्रि- कैस्त्रिभिः समुदायलिङ्गकारकसमुदायकारकसख्यात्रिकाभ्यां द्वाभ्यां लिङ्गकारकससंख्या- त्रिकेनेकेन पञ्चदशजातिव्यक्तिसम्बन्धसमुदायजातिसम्बन्धसमुदायलिङ्गजातिसमुदायलिङ्ग- कारकजातिलिङ्गकारकसख्याचतुष्कैश्चतुर्भिव्यक्तिसम्बन्धसमुदायलिङ्गव्यक्त्तिसमुदायलिङ्ग - कारकव्यक्त्तिलिङ्गकारकसख्याचतुष्कैस्त्रिभिः सम्बन्धसमुदायलिङ्गकारकसम्बन्धलिङ्गका-
३० ] प्रथमाध्याये तृतीयपादः ६४३ रकसंख्याचतुष्काभ्यां द्वाभ्यां समुदायलिङ्गकारकसंख्याचतुष्केनैकेन दश जातिव्यक्ति- सम्बन्धसमुदायलिङ्गजातिसम्बन्धसमुदायलिङ्गकारकजातिसमुदायलिङ्गकारकसंख्यापञ्चकै - स्त्रिभिर्व्यक्तिसम्बन्धसमुदायलिङ्गकारकसंख्यापञ्चकाभ्यां द्वाभ्यां सम्बन्धसमुदायलिङ्ग- कारकसंख्यापञ्चकेनैकेन षट्जातिव्यक्तिसम्बन्धसमुदायलिङ्गकारकजातिसम्बन्धसमुदाय- लिङ्गकारकसंख्याषट्काभ्यां द्वाभ्यां व्यक्तिसम्बन्धसमुदायलिङ्गकारकसंख्याषट्केनैकेन तिस्रः सप्तकेन वैकेति षट्पञ्चाशदष्टपक्ष्यः प्रथमाभिः सप्तभिः सह त्रिषष्टिरष्टपक्ष्यश्चतूत्तराणि पञ्चशतानि पक्षाः पूर्वंगणितेन षष्ठ्यधिकेन सार्द्धेन पक्षसहस्रेण सह चतुःषष्ठ्यधिकं पक्ष- सहस्रद्वयं भवति । परस्परव्यतिकरादेतेषां बहवोऽपराः सम्भवन्तोऽपि नोच्यन्ते ग्रन्थगौरव- भीतितः । नन्वेतेषां पक्षाणां विशेषणविशेष्यभावसंहतान्यत्वेऽपि स्वरूपनिष्कर्षाभावेन भेदेनाऽ- भावान्न भेदेनोपन्यासो युक्त इत्याशङ्क्याह—एते चेति । यथा जात्यादीनां निष्कर्षा- भावेऽप्यन्वयव्यतिरेकप्रसूतया भेदबुद्ध्या भेदः तथैषामपि पक्षाणां स्वरूपभेदाभावान्निष्कर्षा- भावेऽपि विशेषणविशेष्यभावाद्यन्वयप्रसूतमाभेदबुद्ध्या भेदो भविष्यतीत्यर्थः । ननु सत्यपि भेदे प्रत्यक्षादि नैतावतां भेदानामग्रहणात्कथं तत्पूर्वकशब्दविषयतैतावतां भेदानां विचार्यते इत्याशङ्क्याह—सर्वत्रेति । प्रत्यक्षेणेन्द्रियसयुक्तद्रव्यधर्मंतत्समवेतजातिगुणक्रिया-तत्समवेत- गुणत्वादिंसामान्यग्रहणात्, अनुमानेन च स्वव्यापकाग्नितद्गतौष्ण्यभास्वरत्वादिग्रहणाद- नेकात्मकवस्तुप्रतीतेर्विवेकामावात्स्तोकभेदप्रतीतिः । शब्दस्य तु सर्वात्मकवस्तुविषयतायामेके- नैव गोशब्दादिना सर्वात्मकवस्तुप्रतीतिसिद्धेः शुक्लादिशब्दानर्थक्यापातादेकैकांश निष्कृष्ट- शक्तिकत्वेनांऽशान्तराणां लक्षणासिद्धज्ञानत्वादवाच्यत्वावगतेः सूक्ष्मांशविवेचकतया सर्वभेद- बोधकत्वं युक्तमित्याशयः । ननु सामान्यविशेषवाधादेर्जातिव्यक्तिवाच्यत्वविचारमात्रासिद्धेः पक्षान्तराणि निष्प्रयो- जनत्वान्न कार्याणीत्याशङ्कयाह—पदादिति । शङ्क्यमानस्र्ववाच्यान्तरविप्रतिपत्तिनिरासं विना वाच्यत्त्वानवधारणान्न पदार्थविचारणपूर्वकंवाच्यार्थावधारणसिद्धिरित्याशयः । सौकर्यार्थं पूर्वोत्तरपक्षविभागमाह—अत्र चेति । नन्वेतावतां पक्षाणां विद्यमानत्वेन सप्रयोजनत्वेन च भाष्यकारानुपन्यासे किं कारणमित्याशङ्क्याह—व्यक्ताविति । अन्वय- व्यतिरेकावगम्यसामान्यमात्रशक्त्यपर्यालोचननिबन्धनत्वसाम्यात् व्यक्तिपक्षे दर्शिते, सम्बन्धादीनामपि वाच्यत्वं कस्मान्न स्यादित्याशङ्कोत्थानात्तात्पर्यालोचनेन च व्यक्तिपक्षे निराकरणसिद्धेनं भाष्यकृतोपन्यस्ता इत्यर्थः । नन्वनुपन्यासाद्भाष्यकृतोऽसत्त्वाभिप्रायः निष्प्रयोजनत्वाभिप्रायो वा कस्मान्न कल्प्यत इत्याशङ्क्याह—न चेति । सद्भावप्रयोजन- योरुक्तत्वान्न तयोरभिप्रायोर्मध्ये कश्चित्सम्भवतीत्याशयः । एतस्माद्भाष्यकाराप्रदर्श- नात्कारणादित्यर्थः । नन्वेवं सति व्याख्यातृभिरुपपत्तयोऽपि सर्वेषु पक्षेषु प्रत्येकमपन्य- स्योपन्यस्य निराकार्या इत्याशङ्क्याह—दर्शिताष्वपीति । शब्दशक्त्यपर्यालोचनस्य पूर्वपक्ष- बीजस्य सर्वेषु तुल्यत्वादित्याशयः ।
६४४ मीमांसादर्शनम् [ सू० का पुनरिति भाष्येणाकृतिव्यक्त्योः प्रश्नपूर्वकं स्वरूपनिरूपणं कृतम् । तस्य प्रयोजनमाह-ततश्चेति । विषयावधारणं विचारमुखम् । ननु सम्बन्धादीनामपि विचार- विषयत्वात्किमिति स्वरूपं न निरूपितमित्याशङ्कच प्राधान्येनाकृतिव्यक्त्योरेव विचार- विषयत्वमनन्तरोक्तम् ततश्चेत्यनेन कारणतया परामृष्टम् । अकृतित्वस्वरूपनिरूपणस्य पौनरुक्त्यमाशङ्कते-नन्विति । परिहरति - सत्यमिति । मात्रशब्दं सर्वसामान्यव्याप्त्यर्थ- त्वेन व्याख्यातुं भाष्यपाठपूर्वकं सामान्यानि विभजति-द्रव्येति । प्रथमशब्देन परशब्दः कुतश्चिद्व्यावृत्तत्वात्सर्वसामान्योक्तत्वाभिप्रायेण व्याख्यातः । गुणत्वकर्मत्वयोरादिशब्दे- नोपादानम् । द्रव्यत्वावान्तरसामान्यानि विभजति- पुनरिति । वायुत्वादीनां भिन्नतेत्यर्थः । पृथिवीत्वस्य तद्भेदघटत्वादिसामान्योक्त्या ज्ञातुं शक्यत्पादनुपन्यासः मनोभेदस्य चात्मभेदाधीनत्वादात्मत्वसामान्योक्त्यैव मनस्त्वसामान्यसिद्धेरनुपन्यासः । पृथिवी- त्वावान्तरसामान्यावधिभेदेन विभजति-- पृथिवीत्वादिति । पृथिवीत्वात्परं पाश्चात्यं घटत्वं घटव्यक्तिषु समाप्य, एतेषु घटत्वं तद्व्यक्तिष्वन्यं सामान्यमित्यर्थः । घटत्वादीन्यन्यानि घटत्वेनैव व्याख्यातानि । वृक्षत्वात्तु पृथिवीत्वावान्तरसामान्यात्परं शिंशपात्वाद्येवान्त्यं सामान्यमित्याह-वृक्षत्वादिति । शरीरत्वात्परं गोत्वादीत्याह-शरीरत्वाच्चेति । मनुष्यत्ववाची पुंस्त्वशब्दः । गोत्वात्परस्य सामान्यस्याभावात् त्यागेनाश्वत्वात्परं वाजिकत्वाद्यन्त्यं सामान्यमित्याह-वाजिकत्वादि चेति । ननु कर्कत्वशोणत्वादेरप्यवान्तर- सामान्यस्य भावान्न वाजिकत्वादेरन्त्यतेत्याशङ्क्य - कर्कादित्वेति । अश्वत्वैकार्थसम- वायिशुक्लावान्तरसामान्यं कर्कत्वम् । रक्तावान्तरसामान्यं शोणत्वमित्यर्थः । हस्तित्वात्परा भद्रादिजातयोऽन्त्या इत्याह - हस्तित्वादिति । आदिशब्देन मृगजात्युपादानं ताश्च दिङ्नागकुलजातास्वेव हस्तिव्यक्तिषु वर्तन्त इति दिङ्नागकुलशब्देनोक्तम् । मनुष्यत्वात्प- रोऽवान्तरसामान्यभेदो ब्राह्मणत्वं ग्राह्यत्वात्सामान्यावान्तरभेदात्कौण्डिन्यत्वाद्दी सामान्ये समाप्यत इत्याह पुंस्त्वादिति । द्रव्यावान्तरसामान्यानि विभज्य, गुणकर्मावान्तर- सामान्यानि विभज्य, गुणकर्मावान्तरसामान्यानि विभक्तुमाह -तथेति । गुणत्वस्य रूपतादि यदवान्तरसामान्यम्, कर्मत्वस्य च जन्मतादि, ततः परं यच्छुक्लत्वादिरूपावान्तरसामान्यं तच्छुक्लत्वादिसामान्यव्यक्तिभूतेषु भासुरधूसरादिषु गुणेषु प्रतितिष्ठतीति समाप्यते । शुक्लत्वादेः परं सामान्यं नास्तीत्यर्थः । ये तु शुक्लत्वाद्यवान्तरसामान्यस्य कर्कत्वादेर्व्यक्तिभूता गुणाः तेषु शुक्लत्वादि न प्रतितिष्ठतीति विशेषसूचनार्थस्तच्छब्दः : असिद्धस्य कर्तुः स्वात्मलाभफलकव्यापारसामान्यं जन्मत्वम् । सिद्धस्य कर्तुरनात्मलाभफलकव्यापारसामान्यं- यागत्वादिशब्देनोक्तम् । कर्मत्वावान्तरसामन्यस्य जन्मतवस्यावान्तरसामान्याभावात्तत्यागेनान्यात्मलाभफलक- सिद्धकर्तृव्यापारात्मककर्मावान्तरसामान्यानि यागत्वादीनि विभजति - कर्मणामपीति । कर्मावान्तरसामान्यं यागत्वादि यजतिददातीत्यादिभिर्धातुभिर्विभागेनोक्तमित्युक्तेन यजदेव- पूजासङ्गतिकरणदानेषु ह्रुदानादनयोर्दुदाञ्दान इति त्रयाणामपि दानवाचित्वेन पर्यायतया
३० ] प्रथमाध्याये तृतीयपाद। ६४५ स्मृतत्वात्कथं विभागार्थं हेतुतेत्याशङ्कयाऽपर्यायेत्युक्तं प्रक्षेपपरस्वत्वापादनवाचित्वेन लोक- तोऽर्थभेदावगतेर्व्याकरणस्य शब्दान्वाख्यानमात्रार्थत्वेनार्थतात्पर्याभावात्स्वत्वनिवृत्त्यंशोप- लक्षणमात्रार्थत्वेन च यजिजुहोतिस्मृत्योर्दानशब्दोपपत्तेर्दानपर्यायस्मृत्योत्सारणमिव त्याग- त्वादेरप्यवान्तरविभागोऽभ्यासादिभिः क्रियत इत्याह—प्रविभज्यत इति । विधानशब्देनास- कृद्विधिरभ्यासो—नासकृच्छ्रु तिमात्राभित्युक्तम् । संख्योत्पत्तिगता द्वयादिका संख्याऽप्यन्य- लिङ्गैव । गुणो पूर्वंसंयोगाह्रैः, अनुपादेयसम्बन्धसचिवो सन्निधिः प्रकरणान्तरम् । ननु यागत्वदिजात्यभ्युपगमे यजत्यादीनामपि विचारविषयत्वोपपत्तेर्जातिशब्दा एव चिन्त्यत इति किमित्युक्तमित्याशङ्कयाह—अन्ये त्विति । कर्मणामेव यागहोमादिरूपेण भेदः, न यागादीनां ज्योतिष्टोमदर्शपूर्णमासादिरूपेणेति येषां मतम्, तदभिप्रायेण जातिशब्दा- नामेवोदाहरणतोक्तेत्याशयः । किं तेषां यागादिभेदाभावभ्रान्तौ कारणमित्यपेक्षायाम् अपि वाऽव्यतिरेकाद्रूपशब्दाविभागाच्च गोत्ववदेककर्म्यं स्यान्नामधेयं च सत्त्ववदिति (६.३.१२) षष्ठाधिकरणसिद्धान्तसूत्रगतमैककर्म्यशब्दं भ्रान्तिकारणं दर्शयितुमाह—अपि चेति । ऐक्य- शब्दोक्तस्य प्रत्यभिज्ञानस्य सादृश्यनिमित्तत्वाशङ्कानिवृत्त्यर्थं देवतोद्देशपूर्वकद्रव्यत्यागात्मक- रूपाभेदात्तत्प्रतिपादकयज्यादिशब्दाभेदाच्च कर्मभेदे प्रमाणाभावान्न सादृश्य—निमित्तता युक्तेत्युक्तम् । द्रव्यान्तरेण नीवारादिना कृतस्य कर्मणो व्रीह्यादिद्रव्यकादर्शपूर्णमासादेर्या- गाद् भेदापत्तेर्न प्रतिनिध्युपादानं युक्तमिति प्रतिपादनार्थेन 'क्रियाणामाश्रितत्वादू द्रव्यान्तरे विभागः स्यात् (६-३-११) इति पूर्वपक्षसूत्रेणोक्तमाश्रयभेदेन भेदं निराकत्तुं गोत्ववदिति दृष्टान्तितम् । यथा सत्त्वस्य गोत्वादेः पदार्थस्य गौरित्याद्यभिन्नं नामधेयमभेदापादकम्, तथा प्रतिनिधिनिष्पादितेऽपि कर्मणि दर्शपूर्णमासादिनामधेयं याज्ञिकैः प्रयुक्तमभेदापादकमिति युक्त्यन्तरम् । प्रत्यभिज्ञानेनैवैक्ये सिद्धेऽभ्युच्चयमात्रत्वान्नेहोपन्यस्तम् । प्रतिनिधिनिष्पा- दितकर्मविषयविषयस्याप्यस्य न्यायस्य विध्यन्तरविहितेष्वपि तुल्यत्वं मन्वानानामभि- प्रायेणैतदुदाहृतम् । एवं सामान्यानि विभज्य, सर्वव्याप्त्यर्थत्वेन भाष्यं व्याचष्टे— एवमिति । नन्वाकृतिशब्दस्य संस्थानवाचित्वमक्षपादाद्युक्तं परित्यज्य, जातिवाचित्वं किमित्युक्तमित्याशङ्कयात्मादिषु द्रव्येषु, गुणकर्मसु चाभावादित्याह—नेति । क्व पुनः संस्थानमस्ति, क्व वा नेत्यपेक्षायामाह । पार्थिवेषु संस्थानं स्वाभाविकम्, जन्मादिषु औपाधिकमिति निरूपणम्—सर्वेषु हीति । पार्थिवेषु स्वाभाविकं संस्थानम् । अग्नेर्ज्वलनादिन्धनसंस्थानानुसारिसंस्थानभेददर्शनात् तोयस्य चाधारभूते पात्रसंस्थानानुसारिसंस्थानभेददर्शनाद्, घटाद्यवच्छिन्नाकाशस्य चावच्छेदकघटादि- संस्थानानुसारिसंस्थानभेददर्शनाद्, वायोश्च घटाद्यवच्छिन्नाकाशसञ्चारिणो घटादिसंस्थाना- नुसारिसंस्थानभेददर्शनादौपाधिकम् । यद्यपि क्वचिद् वृष्ट्युदकोद्भवंगतज्वालादौ पार्थिव- द्रव्यपरिग्रहाभावेऽप्याकारः संस्थानापरपर्यायः प्रतीयते, तथापि विलक्षणाकारस्याप्यग्नि- तोयव्यक्तिष्वग्नितोयशब्दप्रयोगान्नैकशब्दवाच्यत्वयोग्यः सर्वाग्नितोयव्यक्त्यनुवृत्तैक आकारश्च पद्यरचनात्मकसंस्थानशब्दवाच्यो योऽभिधेयाकृतिकलक्षणं स्यादित्यनुवृत्तिशब्देन सूचितम् ।
६४६ मीमांसादर्शनम् [ सू० कल्प्येतेत्यनेनौपाधिकत्वं दर्शितम् । दिगादीनां तु न स्वाभाविकं संस्थानम्, भाव्यौपाधिक- मित्यर्थः । नन्वनुगतैकाकारप्रत्ययवेद्यत्वाज्जातिरप्याकाराभावे न सम्भवतीत्याशङ्क्याह— सामान्येति । संस्थानाख्याकाराभावेऽप्येकाकारप्रत्ययवेद्यः सर्वस्वव्यक्त्यनुगतो विजाती- येभ्यो व्यावृत्तो निरालम्बनबुद्ध्ययोगाद् ब्राह्मण्यादिवन्नापह्नोतुं शक्य इत्याशयः । सर्वेषु स्वविशेषेष्वनुवृत्तिरेव रूपं यस्येति विग्रहः । उपसंहरति—तस्मादिति । नन्वाकृत्यादिषु संस्थानासम्भवेऽपि गवादिषु सद्भावाद् गवादिशब्दानां संस्थानात्मका- कृतिवाचित्वं भविष्यतीत्याशङ्क्याह—संस्थानस्य चेति । नानाव्यक्त्यनुगतनित्यसामान्या- भ्युपगमात्संस्थानस्याकृतित्वे सामान्यं वाच्यमिति व्यवहारो न युज्यत इत्यर्थः । संस्थान- सामान्यस्य त्वाकृतिलक्षणत्वेन गोत्वाद्याकृतीनां वैलक्षण्यं सिद्ध्येदित्याह—अथेति । नन्ववान्तरसंस्थानसामान्यस्याकृतित्वमभ्युपगमान्न सङ्करापत्तिरित्याशङ्क्याह—न चेति । गोशब्दालम्बनत्वासम्भवे कारणमाह—तस्य हीति । नन्वेवं सति संस्थानस्याकृतित्वशङ्का- कारणाभावात् किं तन्निराकरणार्थेन सर्वसामान्यानामाकृतित्वमभिधानेनेत्याशङ्क्याह— तेनेति । येन संस्थानस्याकृतित्वं न युक्तम्, तेन निराकृतमिति । तेनेत्यस्य योजना शङ्को- पोद्वलनाय दृष्टान्ताभिधानम् । ननु सामान्यशब्देनैव संस्थानशङ्कानिवृत्तिसिद्धेः सर्वसामान्यव्याप्त्यर्थो मात्रशब्दोऽनर्थक इत्याशङ्क्याह—अतश्चेति । सर्वं सामान्यमाकृतिरित्यभिप्रेत्य यो मात्रशब्दः प्रयुक्तः, सोऽतः शङ्काव्यावर्तनात् कारणाच्छङ्काव्यावृत्त्यर्थमिति, यावदिति योज्यम् । ऊहितशङ्का- निवृत्त्यर्थंश्चकारः । व्यक्तौ च सर्वशब्दानां वाच्येहाकृतित्वेन विवक्षिता, न सामान्यान्त- राणीति शङ्कान्तरनिराससूचनार्थो वा । व्यक्तिस्वरूपनिरूपणार्थंस्यासाधारणेति भाष्यस्यान्येषां व्याख्यानं दूषयितुमुपन्य- स्यति—असाधारणेति । गौर्गौरित्येकाकारप्रत्ययस्य सामान्याख्यानुवृत्ताकारविषयत्वाच्छा- बलेयो बाहुलेय इति अनेकाकारप्रत्ययस्य च विशेषाख्यव्यावृत्ताकारविषयत्वान्न तद्व्यति- रिक्ताकारिभूतवस्तुसद्भावे प्रमाणमस्तीति, व्यक्तिशब्दस्य विशेषसमूहवाचित्वेन, वृक्षा वनमितिवद्वचनभेदे दोषाभावात् वृक्षाणामाश्रयो वनमितिवच्चाश्रय ( विशेषाणामाश्रयो व्यक्तिरिति 'अग्नेरुत्तानामाश्यस्तु' व्यवहारस्य वृक्षाणामाश्रयो वनमितिवदुपपत्तेरित्यर्थः ) व्यपदेशोपपत्तेः कर्म्मधारय एव युक्त इत्याशयः । 'आविर्भावतिरोभावधर्मकेष्वनुयायि यत् । तद्धर्मि यत्र वा ज्ञानं प्राग्धर्मग्रहणाद् भवेद् ॥' अ० सू० श्लो० १५२ इत्यनेन न्यायेन प्रत्यक्षसूत्रावयवानुवृत्तव्यावृत्तव्यतिरिक्तस्य धर्मिणः साधितत्वात्तद- पह्नवो न युक्त इत्यभिप्रायेण दूषयति—तत्विति । साधारण्यत्वविशेषाणां नासाधारण- व्यक्तात्मकत्वं युक्तमित्याह—खण्डेति । एतदेव व्याचष्टे -- खण्डेति । अन्योऽपीत्यने- नान्तरशब्दो शाबलेयवर्णेऽपि शबलापत्य इत्येवं व्याख्यातः शबलाशब्देन च तच्छब्दः
३० ] प्रथमाध्याये तृतीयपादः ६४७ वार्त्तिकश्लोकस्थ इत्यर्थं । शाबलेयशब्दप्रकृतिभूतशबलाप्रातिपदिकपरामर्शार्थत्वेन व्याख्यातः । एतच्चेत्यनेनादिशब्दोक्तं शबलाख्यविशेषस्य साधारण्यं व्याख्यातम् । एतदेव शबलेति नामाऽन्यत्रापि व्यक्तौ वर्त्तत इत्यर्थः । कथमित्यपेक्षिते प्रकारद्वयमुक्तं याहच्छि- कत्वासिद्धौ—सङ्केतवशादित्युक्तम् । नामशब्देनावास्तवोऽपि वर्णद्वयशून्योऽयं विशेषः प्रोक्तव्य इति सूचितम् । याहच्छिकशबलापत्ये साधारणार्थं तदपत्ये वेति पुनर्वचनं शाबलेय इति नाम वर्त्तत इत्याद्यनुषङ्गेण योज्यम् । ननु साधारण्येऽपि व्यक्तिमात्रलक्षणार्थ- त्वेनादोषो भविष्यतीत्याशङ्कयाह—असाधारणेति । दोषान्तराभिधानार्थं चेदमुक्तम् । दोषान्तरमाह—विशेषेति । व्यक्तिशब्दस्य समुदायवाचित्वाभावान्न वृक्षा वनमित्ये- तत्तुल्यतेत्याशयः । स्वमतेन व्याचष्टे—तस्मादिति । दोषसाम्यमाशङ्कते—नन्विति । या व्यक्तिः सौत्रं लक्षणेति लक्षणत्वेनोपादीयमानानां विशेषाणां समुदायेनासाधारण्येन च विशेषणाद्युक्तम- साधारण्यम् । परमते तु विशेषव्यतिरिक्ताय व्यक्तेरभावेनोद्देश्यत्वायोगाच्चे विशेषास्ते व्यक्तिशब्दवाच्या इत्युद्देश्यानां विशेषाणामविशेषेण व्यक्तिविशेषशब्दयोः पर्यायत्वापत्ते- स्तन्निवृत्त्यर्थम्, मृष्यामहे हविषा विशेषणमितिवदेकस्मिन् विशेषणे कृतेऽर्थसिद्धेर्विशेषणान्त- रस्य विवक्षितुमशक्यत्वाच्छू तेनासाधारण्येन विशेषितानां व्यक्तिशब्देनेत्यर्थः । समुदायेन विशेषणानुपपत्तेः प्रत्येकमेव विशेषाणां व्यक्तिशब्दवाच्यत्वप्रसङ्गाद्वैषम्यमभिप्रेत्य परिहरति—उच्यत इति । ननु विशेषसमुदायाश्रयत्वमात्रेण व्यक्त्युपलक्षणसिद्धेः किम- साधारणविशेषणेनेत्याशङ्कयाह—प्रविभक्ता हीति । पिण्डात्मना समुदायात्मना साधारण- त्वेनेत्यर्थः । विशिष्टा व्यक्तिर्गवादिशब्दवाच्यत्वेनाभिमता । नासाधारण्यं विनोपलक्षयितुं शक्येत्याशयः । नन्वेवं सत्यत्यन्तसहस्रव्यक्तिगतस्य खण्डादिर्विशेषसमूहस्यासाधारणा- भावान्नोपलक्षकत्वं स्यादित्याशङ्कयाह—न चेति । ननु प्रतिव्यक्त्यपूर्वविशेषाभ्युपगमे विशेषानन्त्यापत्तेरदृष्टकल्पना गौरवं स्यादित्याशङ्कयाह—अनन्तेति । ननु खण्डत्वादीना- मनेकव्यक्तिसाधारण्ये कथं विशेषव्यपदेश्यतेत्याशङ्कयाह—परेति । व्यक्तेर्विशेषेभ्योऽन्यत्वं पूर्वोक्तं भाष्यकृद्वचनेन द्रढयति—एतच्चेति । सामान्यस्य व्यक्तिपारतन्त्र्याद् व्यक्तेः सामान्याश्रयत्वं मुख्यम्, समुदायाद्याश्रयत्वं तु वृक्षाश्रयो वनमितिवत् समुदायस्य तन्मध्ये समुदायिप्रतीतेरौपचारिकम् । न च सकृच्छ्रुतस्याश्रयशब्दस्योभयरूपता युक्तेत्याशयः । व्यक्तिभाष्यस्य परव्याख्यादूषणेनाकृतिभाष्यस्य द्रव्याद्यनुगतसत्तासामान्यमेवाकृतिर्न गोत्वाद्यवान्तरसामान्यमिति सत्तावाच्यत्ववादिनां व्याख्यां बुद्धिस्थां दूषयितुं तन्मतं तावदुपपन्यस्यति—तत्रेति । उपन्यासार्थस्तत्र शब्दः सर्वशब्दानां पर्यायत्वशङ्कानिवृत्तये शब्दस्वरूपेण गोत्वादिना वा व्यवच्छेदाभिधानम् । अत्रार्थे तदीयं श्लोकं पठति— यथाहुरिति । अस्तीत्येवं रूपः सत्तासामान्यरूपः सर्वशब्दानामर्थं इतीदृशं प्रत्याय्यस्य वाच्यस्य लक्षणमाहुः । तस्य गवादिपदेष्वपूर्वादिपदैः सह तुल्यत्वादित्यर्थः । अपूर्वादीनां हि शब्दैकगोचरत्वात् तेन च विशेषाप्रतीतेरस्ति किंचिदित्येतावन्मात्ररूपेण प्रतीतेरपूर्वादि-
६४८ मीमांसादर्शनम् [ सू० शब्दानां शब्दावाचित्वावधारणात्तद्दृष्टान्तेन गवादिशब्दानामपि सत्तावाचिताऽनुमीयत इत्यर्थः । एतच्च 'सत्त्वप्रधानानि नामानि' प्रातिपदिकार्थः तत्तेत्यादिदर्शनान्नामविषय- मेवेति सर्वशब्दस्तद्विषयतया सङ्कोचनीयः । दूषयति—तत्त्विति । कक्ष्याशब्दः कोष्ठवाची । द्रव्यत्वगुणत्वकर्मत्वान्येकस्यां सत्तावान्तरसामान्यकक्ष्यायां वर्त्तन्ते । पृथिवोत्वादीनि द्रव्यत्वावान्तरसामान्यकक्ष्यायाम्, रूपत्वादीनि गुणत्वावान्तरसामान्यकक्ष्यायामित्येवमादिः कक्ष्याणां विभागः । तत्र द्रव्यशब्देन द्रव्यत्वसत्तयोर्निश्चयं प्रतीतिर्भवति । पृथिवीत्वादिषु सन्दिग्धा प्रतीतिः, गुणत्वादिषु त्वप्रतीतिरेव, गुणशब्दाद् गुणत्वसत्तयोर्निश्चयप्रतीतिः । रूपत्वादिषु सन्दिग्धप्रतीतिः । द्रव्यत्वादिष्वप्रतीतिरेवेत्यादिकक्ष्ययाविभागेन सामान्यानां प्रतिपादनात्सर्वशब्दानां च सत्ता- वाचित्वे द्रव्यशब्दाद् गुणत्ववद् द्रव्यत्वस्याप्यप्रत्ययापत्तेः । सत्ताद्वारेण वा प्रत्यये पृथिवीत्वादिवत् सन्दिग्धप्रतीतिप्रसङ्गाद् गुणत्वादावपि च तादृक्प्रतीतिप्रसङ्गात् सत्ता- वान्तरसामान्यविषयाणां द्रव्यादिशब्दानामेव तावद् सत्तावाचित्वमयुक्तम् । तत्रैवं सति दूरान्तरितार्थानां गवादिशब्दानां सुतरां सत्तावाचकत्वे शक्तिर्नास्तीत्यर्थः । श्लोकं व्याचष्टे—प्रतिनियतेति । ननु द्रव्यादिशब्दानां द्रव्यत्वाद्यवच्छिन्नशब्दवाचि- त्वाद्व्यवस्था भविष्यतीत्याशङ्कानिराकरणार्थं विशिष्टाभिधानपक्षं निराकरिष्यन्परानभि- मतमपि शुद्धाभिधानं विशिष्टाभिधाने निराकृते यदि कश्चिदङ्गीकुर्यात्तत्तदपि निराकार्यं- मिति मत्वा विकल्पयति तावत्सत्तामिति । आद्यं तावत्पक्षं निराकरोति—शुद्धेति । ननु देशाद्यपेक्षया घटादिवत्सत्तायां नास्तित्वाभिधानं न विरोत्स्यते अत आह—देशेति । आ देशब्दो वस्त्वभिप्रायो । यथाकाशस्य कूपपूरणेनोपलम्भप्रतिबन्धात्प्रतीयमानावस्था- पेक्षया नास्त्याकाशमित्युच्यते, तथात्रापीत्याशङ्कानिराकरणार्थः । मूर्तद्रव्यावष्टम्भो ह्याकाशोपलम्भप्रतिबन्धकोऽन्वयव्यतिरेकाभ्यामवगम्यते । न तु सत्तायाः किञ्चिदुपलम्भ- प्रतिबन्धकमस्तीत्याशयः । व्यक्तिमात्रगतत्वेऽपि जातेराकाशादिव्यक्तीनां विभुत्वात् सत्ताया विभुत्वसिद्धिः । सत्ताशब्दस्य लौकिकव्यवहारे च जातिवाचित्वाभावात्, सर्वशब्दानां महासामान्यवा- चित्वेऽपि सत्तावाचित्वाभिधानं न युक्तमित्याह—रूढोतं । लोकदृष्टेत्यनेन गवादि- शब्दवत् सत्ताशब्दस्य लौकिकव्यवहारे प्रयोगाभावाज्जातिवाचित्वनिषेधस्य लोकविरोधः परिहृतः । किं तर्हि सत्ताशब्दवाच्यं युज्यत इत्यपेक्षायामाह—य एव हीति । योऽस्तिशब्देन द्वितीयो भावविकार उच्यते । स एव सत्तेत्येतद्युज्यत इत्यर्थः । अनेन चास्तिशब्दोऽपि न वस्तुत्वापरपर्यायमहासामान्यवाचीति सूचितम् । द्वितीयभावविकारवाचिनोऽस्तेर्धातोः शतृन्तात्तल्लि कृते सत्ताशब्दव्युत्पत्तेरित्याशयः । ननु वस्तुशब्दस्यापि द्वितीयभावविकार- वाचित्वात्सत्तास्तिशब्दयोर्वस्तुशब्दपर्यायत्वमविरुद्धमित्याशङ्क्याह—जायमानेति । प्रथमो भावविकारो जायमानत्वम् । विपरिणामस्तृतीयः । आदिशब्देन वृद्धयपक्षयो चतुर्थपञ्चमावु-
३० ] प्रथमाध्याये तृतीयपादः ६४९ पात्तौ । विनश्यता षष्ठः । सर्वशब्देन भावविकाररहितेष्वपि नित्येष्वाकाशादिषु वस्तुत्व- प्रतीतेर्न वस्तुशब्दो भावविकारवाचीति सूचितम् । ततश्चास्तिशब्दोऽपि न वस्तुत्ववाचीति पूर्वसूचितमर्थं प्रकटयन्नस्त्यर्थं इति पाठं दूषयति—तेनेति । लौकिकप्रयोगाभावाच्च समुदायप्रसिद्ध्यात्मलाभाभावे क्लृप्तावयवार्थत्यागेन समुदायस्य शक्त्यान्तरकल्पनं प्रोक्षण्यादिशब्दवन्न युक्तमित्याह—न चेति । सत्ताशब्दप्रकृतित्वात् सच्छब्दस्योपन्यासः । तस्माद्योगिक एव सत्ताशब्दे न रूढिरित्युपसंहरति—इतीति । यथा भवतीत्याख्यातस्यार्थे भवन्निति भवच्छब्दो धात्वर्थविशिष्टकर्तृत्ववाचित्वाद्योगिकः, तथास्तीत्याख्यातस्यार्थे सन्नितिशब्दोऽपि । ततश्च सतो भावः इत्यस्मिन्नर्थे सच्छब्दात्तल्प्रत्ययोत्पत्त्या सत्तेति प्रवर्त्तमानो यौगिक एव । ननु सत्ताशब्देन जातिः प्रतिपत्तव्या, वैशेषिकपरिभाषैव हि तत्प्रति कारणम् । नान्यत्किंचिदित्यर्थः । कीदृशी परिभाषेत्यपेक्षिते काश्यपीयं सूत्रं पठितम् । इतिकरणो बुद्ध्युपलक्षणार्थः । यतो वस्तुत्वान्महासामान्याद् द्रव्यादिषु सदिति बुद्धिर्भवति, सा सत्तेति सूत्रार्थः । परिभाषाशब्ददर्शनात् परिभाषासूत्रत्वशङ्कां निवर्त्तयितुं लक्षणसूत्र- मेवेदम्, स्वोत्प्रेक्षितत्वद्योतनार्थन्तु परिभाषात्वाभिधानमिति लक्षणशब्देन सूचितम् । किं पुनर्वैशेषिकाणां सत्ताशब्दस्य जातिवाचित्वप्रसिद्धौ कारणमित्यपेक्षायामाह—सेयमिति । वस्तुपर्यायेण क्रमेण वक्तीति वस्तुपर्यायवाची, वस्तुत्ववाचीत्यर्थः । भवच्छब्देन सह साधारणो द्वितीयभावविकाररूपोऽर्थोऽस्येति भवसाधारणार्थः । घटो भवति इत्यादिपूर्वा- ख्याख्यप्रथमभावविकारवाचित्वेनापि प्रसिद्धस्य भवतेर्भूंसत्तायामिति सत्ताख्यद्वितीयभाव- विकारवाचित्वस्मृतिबलाद्भवत्साधारणार्थत्वमव्ययसंज्ञकस्यास्तिशब्दस्योक्तेः । भवतिधात्वर्थ- मात्रवाचित्वेऽपि अव्ययास्तिशब्दस्य प्रकृत्यनुग्रहार्थं शतृप्रत्ययोपादानाद्वस्तुत्वद्वितीयं भावविकारूपार्थद्वयवाचिना अव्ययसंज्ञकेनास्तिशब्देनेयं प्रसिद्धिरुपपादितेत्यर्थः । क्व पुनरव्ययास्तिशब्दो वस्तुत्ववाची दृष्ट दृष्ट इत्यपेक्षायामाह—अस्तित्वमिति । दिग्योगनिमित्ता पञ्चमी यस्मादस्तिशब्दात्परो त्वत्तलो दृश्येते, स वस्तुत्ववाचीत्यर्थः । आख्यातप्रतिरूपक इत्याख्यातत्वभ्रान्तौ कारणमुक्तम् । नन्वाख्यात (शब्द एवायं कस्मान्न भवतीत्याशङ्क्याह—अप्रातिपदिकत्वाद्वेति । भवत्साधारणार्थत्वमुपपादयन्नामाख्यातत्वे कारणन्तरमाह—अस्तीति । तेनास्ति १) शब्देन सह समासाभ्युपगमदनाख्यातत्वम्, तस्य च सच्छब्दवाच्यद्वितीयभावविकारवाचित्वावगमात् भवत्साधारणार्थतेत्यर्थः । एतदेव व्याचष्टे—अस्तीति । अस्तिपदेन सह यो बहुव्रीहिः, सोऽव्ययसंज्ञकेन, नाख्यातसंज्ञकेन । तस्यासुबन्तत्वेन समासायोगादित्युक्तेः । नन्वव्ययस्यापि सुब्लोपान्वाख्यानेन सुबन्तत्वाद- व्ययीभाववच्चाहत्य बहुव्रीह्यविधानात्कथं समासः स्यादित्याशङ्क्य प्रत्ययलोपे प्रत्यय- लक्षणमिति स्मृतेः प्रत्ययलक्षणद्वारेण सुबन्तत्वमुक्तम् । १. अयं पा० २ पु० ना० ।
६५० मीमांसादर्शनम् [ सू० ननु सुबुत्पत्तेः प्राग्सुबन्तताऽस्तीत्याशङ्कचावश्यम्भावित्वेन सुबुत्पत्तेः प्राथम्यमुक्तम् । आवश्यकत्वोपपादनार्थं प्रातिपदिकत्वेन योग्यतोक्ता । ननु यथा पठतितमामिति अप्रातिपदि- कादपि तद्धितो जातः तथात्र तिङन्तस्यापि समासो भविष्यतीत्याशङ्कय तिङन्तेत्युक्तम् । तिङश्चेति सूत्रेणाहत्य विधानात्तत्र तद्धितो जातः । तिङन्तस्य तु समासत्वेनोपसंख्यानमपि नास्तीत्यर्थः । सदर्थवचन इत्यनेन सद्वाचिनः सच्छब्दस्यार्थपरत्वं व्याख्यातम् । कथमव्यय- शब्देनेयं प्रसिद्धिरूपपादितेत्यपेक्षायामाह - ततश्चेति । वस्तुनि महासामान्ये सति च द्वितीये भावविकारे सत्संज्ञकमस्तिशब्दं प्रयुज्यमानमुपलभ्य तदीयद्वितीयं भावविकारमाख्यानु- सरणेन च कृत्वाव्ययास्तिशब्देन सह प्रत्यासन्नमदूरान्तरार्थं कर्तृप्रतीत्याविनेति द्वितीय- भावविकारवाचितयास्त्यर्थं स्वच्छब्दमुपलभ्य, महासामान्यमप्यव्ययास्ति (शब्दवाच्यः सच्छब्दवाच्या सत्तेत्येवं कल्पितमित्यर्थः । नन्वव्ययास्तिशब्दवाच्यस्य द्वितीयभावविकारस्य सच्छब्दवाच्यत्वेऽपि कथं महासामान्यस्य सच्छब्दवाच्यत्वकल्पनमाशङ्कयाव्ययास्तिशब्द- वाच्यत्वहेतुना द्वितीयभावविकारदृष्टान्तेन तस्यापि सच्छब्दवाच्यत्वानुमानसूचनार्थं तार्किकैरित्युक्तम् । नन्वेवमपि तलप्रत्ययाधिक्यात् सत्ता¹) शब्दस्य कथं महासामान्यवाचितेत्याशङ्कय देवात्तलितिस्मृतेर्यथा देवतेति तलप्रत्ययः स्वार्थिकः तथाऽयमपीत्युक्तम् । ननु द्वितीयभाव- विकारे कृत्सञ्ज्ञकशत्प्रत्ययोपात्तकर्तृविशेषणतया सच्छब्दवाच्यत्वेन सहाव्ययास्तिशब्द- वाच्यत्वेन सहाव्ययास्तिशब्दवाच्यताऽनुमितसामान्यस्य बाधकर्तृकत्वान्न तथानुमानं सम्भवतीति धर्मविशेषविपरीतसाधनात् विरुद्धो हेतुः स्यादित्याशङ्क्य - इहापीत्युक्तम् । यथाऽव्ययास्तिशब्दवाच्ये द्वितीये भावविकारे कर्तृविशेषणत्व प्रतीर्नास्ति तथेह सच्छाब्दवाच्ये द्वितीयभावविकारे भवतीमपि कर्तृप्रतीतिं, सक्षीरेति समासोपपत्तये सुबन्तत्वयोग्य- प्रातिपदिकत्वयोग्यप्रातिपदिकत्वसिद्ध्यर्थं कृत्सञ्ज्ञकशत्प्रत्ययोच्चारणोपपत्तेरतन्त्रीकृत्य कर्तृनिरपेक्षधात्वर्थमात्रवाची सच्छब्दः तत्समानार्थत्वाच्च सत्ताशब्दोऽपीत्यर्थः । ननु स्मृत्यभावाच्छब्दपरस्य तलप्रत्ययार्थस्य स्वार्थिकं तत्त्वमविवक्षाहेत्वभावाच्च कर्तृप्रतीतेरतन्त्रीकरणमयुक्तमित्याशङ्कयापारमार्थिकाभ्युपगममात्रद्योतनार्थम्-गृहीत्वेत्युक्तम् । स्वार्थिकं तलं गृहीत्वा धात्वर्थमात्रवचनों च स्वच्छब्दसत्ताशब्दौ गृहीत्वेत्यन्वयः । नन्वनेन न्यायेनाख्यातसञ्ज्ञकस्याप्यस्तिशब्दस्य द्वितीयभावविकारवाचित्वान्महा- सामान्यवाचितापि प्रसज्येतेत्यनिष्टापत्तिशङ्कानिराकरणायाख्यातप्रत्ययोच्चारणास्या- नन्यार्थत्वेन कर्तृसंख्याकालादिप्रतीतेरतन्त्रीकर्तु मशक्यत्वात्कर्तृसंख्याकालादिनिरपेक्षशुद्ध- धात्वर्थमात्रवाचित्वमाख्यातास्तिशब्दस्य नास्तीति सूचयितुमेवकारः । ततश्चाख्यातास्ति- शब्दवाच्यद्वितीयभावविकारदृष्टान्तेनाऽव्ययत्वेऽस्तिशब्दवाच्यत्वहेतुता वस्तुत्वस्याख्यातास्ति- वाच्यमिहानुमीयमानं कर्तृसंख्यादिविशिष्टत्वेनैवानुमीयेत यदव्ययास्तिशब्दवाच्यम्, तत् १. अयं पा० २ पु० ना० ।
३० ] प्रथमाध्याये तृतीयपादः ६५१ कर्तृसंख्यादिविशिष्टत्वेनाख्यातास्तिशब्दवाच्यमित्याख्यातास्तिशब्दवाच्ये द्वितीयभावविकारे व्याप्तिदर्शनादित्याशयः । ननु वस्तुत्वजातेः सच्छब्दवाच्यता तार्किककल्पिता पदवाक्यार्थ- तत्त्वज्ञैन्निराक्रियमाणा कथं प्रसिद्धिं यायादित्याशङ्कयाह—तदुक्तेति । 'यावद्यावद्विवादाय मुक्तकं दीयते मनः । अनवस्थादिदोषेण तावत्तावद्विहन्यते ॥' इत्यनेन न्यायेन चिरनिखाततडागादिगतशैवालवच्छुष्कतर्कस्याप्रतिष्ठितत्वेन निरा- कृतस्यापि पुनः पुनरुद्भूवेन समापयितुमशक्यत्वात्तार्किकोक्तस्यान्तगमने समापने अनाद- रादभियुक्तैरुपेक्षितत्वात्प्रसिद्धं सदिमां युक्तायुक्तत्वविचारावस्थां प्राप्तमित्यर्थः । प्रसिद्ध्या- भासं चेदम्, न परमार्थतो नियुक्तानामेवं प्रसिद्धिरस्तीति च शब्देनोक्तम् । किं तदित्य- पेक्षायामाह—येनेति । येन सत्ताया वस्तुत्वापरपर्यायमहासामान्यात्मकत्वेन गवादिशब्द- वाच्यत्वेनापि संज्ञा सम्भाव्यते । तत्सत्ताया महासामान्यरूपत्वमिमावस्थां प्राप्तमित्यर्थः । यद्वा युक्तायुक्तत्वविचारस्य कः प्रस्तुतपयोग इत्यपेक्षायामिदमुक्तम्, येन कारणेन सत्तायाः सामान्यरूपत्वे सति गवादिशब्दवाच्यत्वेनापि न सत्ता सम्भाव्यते, तेन तन्निरा- करणार्थं रूढिशब्दश्च नैवायमित्यादिनं न सत्ताशब्दस्य जातिवाचिता निराकृतेत्यर्थः । परमार्थतस्तु वस्तुत्वस्य जातिरूपस्यापि गवादिशब्दवाच्यत्वं नास्ति, किमुत सत्तायाः । जात्याख्याद्धर्मिद्धर्मान्तरत्वेन द्वितीयभावविकारत्वेन वर्त्तमानत्वादित्याह -- नन्विति । ननु वस्तुशब्दस्यापि निवासाद्यर्थाद्वसेर्धातोर्वसेस्तुन्निति सूत्रेणौणादिके तुन्प्रत्यये कृते व्युत्पत्तिसम्भवादनेकत्र नितरां प्रत्येकमेकमेव वसति वतं तइत्यवयवार्थयोगेन सत्तादिषु सामान्यं सामान्यमित्येकाकारप्रत्ययालम्बनस्यानेकेष्वेकस्य प्रत्येकवृत्तित्वलक्षणस्याभिधा- नादयौगिकत्वेन जातिवाचित्वं न युक्तमित्याशङ्कां निराकुर्वन्नथंगम्यत्वं विवृणोति—वस्तु- शब्दो हीति । व्यक्तेः प्रत्येकवृत्तिस्वभावादैवंविधयोगनिमित्तत्वे वस्तुशब्दस्य व्यक्तौ प्रयोगानुपपत्तिप्रसङ्गाद्यौगिकत्वासम्भवाभिधानार्थं व्यक्त्याश्रितत्वं वस्तुत्वसामान्यस्योक्तम् । जातेर्जात्याश्रितत्वाभावाद्वस्तुशब्दस्य जातिवाचित्वे जातौ प्रयोगानुपपत्तिमाशङ्क्य निःसामान्यानि सामान्यादीनीति वैभाषिकपरिभाषायाः प्रतीतिविरोधेनायुक्तत्वाज्जातेपि जात्याश्रयत्वं सम्भवतीति दर्शयितुं जात्यन्तराश्रितत्वमुक्तम् । नन्वेवं सति वस्तुत्वेऽपि वस्तुत्वप्रतीतेर्जात्यन्तराश्रयणायान्तरशब्दः । यथैव गोत्वरूपेण शाबलेयादौ गवाकारप्रत्यय- सिद्धयर्थं गोत्वमङ्गीकृतम्, न गोत्वे, तत्र गवाकारप्रत्ययस्य स्वरूपनिबन्धनोपपत्तेः । तथा जात्यन्तरे व्यक्तौ च वस्त्वाकारप्रत्ययसिद्ध्यर्थं वस्तुत्वं जातिरिष्यते, तत्र स्वरूप- निबन्धनत्वेनैव वस्त्वाकारप्रत्ययोपपत्तेर्नापरा वस्तुत्वं जातिरङ्गीकार्येत्याशयः । शुद्धाभि- धानपक्षस्य दृष्ट्टत्वोपसंहारपूर्वकम्, विशिष्टाभिधानपक्षस्य दुष्टत्वं प्रतिजानाति तावत् — शुद्धेति । दूषयति—यदेवेति । एतदेवं प्रपञ्चयितुं विकल्पयति—गोसत्ता चापीति । आद्ये कल्पे दोषमाह—तत्रेति । एतदेवोपपादयति — विशेषणमिति । गोव्यक्तिविशिष्टसत्ताभि- धानेऽप्येतमेव दोषमतिदिशति — तथेति । कल्पनागौरवापत्तेश्च केवलव्यक्त्यभिधानपक्षवद्वि-
६५२ मीमांसादर्शनम् [ सू० शेषणभूतव्यक्त्यभिधानपक्षोऽप्ययुक्त इत्याह—अनित्येति । अनित्यः सम्बन्धः तस्य चान्वय- व्यतिरेकाभ्यां विनाऽपि ज्ञानमनन्ताश्च शब्दशक्तयो यस्मिन्व्यक्त्यभिधाने प्रसज्यन्ते तत्त- थोक्तम् । दृष्टान्तं साध्यविकलत्वेन दूषयितुमनुभाषते—तस्त्विति । दूषयति श्लोकं-तन्नेति । श्लोकं व्याचष्टे—केचिदिति । श्रुतार्थापत्त्या पर्युपस्थापितस्यार्थविशेषस्य वचना वाचका इति पूर्वपदसमासान्निष्कृष्य योज्यं पर्युपस्थापनस्य नित्यपर्युपस्थापकापेक्षत्वात्पर्युपस्थापित- शब्दस्य श्रुतार्थापत्तिसापेक्षत्वेऽप्युत्तरपदसमासाविघातः । श्रुतार्थापत्त्या अपूर्वं पर्युपस्था- प्यते । स्वर्गो देवताश्च वाक्यशेषैः अर्थवादैर्वाक्यान्तरैश्च मन्त्रोपनिषदादिभिरुपस्थाप्यन्ते । ननु यद्यपि श्रुतस्वर्गयागसाध्यसाधनसम्बन्धान्यथानुपपत्त्या यागजन्यः स्वर्गोत्पादन- सामर्थ्यातिशयविशेषः कल्प्यते । तथापि समस्तवैदिकादृष्टार्थकम्मर्जन्यतिशयानुगतमपूर्वं शब्दवाच्यं सामान्यं न सत्तातोऽन्यत् प्रमाणान्तरेण लभ्यते । एवं सवनीयसूक्तादिमहेन्द्रादि- देवताविशेषावगमेऽपि सर्वदेवतानुगतं सामान्यं देवदाशब्दवाच्यं न सत्तातोऽन्येन लभ्यते । ये हि जनाः पुण्यकृत इत्यादिवाक्यशेषाच्च नक्षत्रलोकादिस्वर्गाविशेषावगमेऽपि न च वै स्वर्गलोका इत्यादिवाक्यशेषेभ्योऽनेकस्वर्गविगतेः सर्वानुयायिस्वर्गशब्दवाच्यं न सत्तातोऽ- न्येन लभ्यते इति वलात्सत्तैवापूर्वादिशब्दवाच्या स्यादित्याशङ्कयाह—कार्येति । सामान्ये- नेतीत्थम्भूतलक्षणे तृतीया । सामान्यरूपमप्यपूर्वादिसत्तातोऽन्यदेव लभ्यत इत्येवकारार्थे तुशब्दः । किं तदित्यपेक्षिते सर्वातिशयानुवृत्तिस्वर्गादिकार्योत्पादनसामर्थ्यसामान्यमपूर्वं- शब्दवाच्यम्, सर्वेन्द्रादिदेवतानुवृर्त्तिदीव्यतिधात्वर्थयोगित्वसामान्यं देवताशब्दवाच्यम्, सर्वस्वर्गानुवृर्त्तित्वदुःखमिश्रसुखनिष्ठसुखसङ्गतिसामान्यं स्वर्गशब्दवाच्यमित्युक्तम् । श्लोकं व्याख्यातुमपूर्वशब्दस्य तावत्सत्तातिरिक्तसामान्यवाचित्वमुपपादयति—सर्वेति । ननु लौकिकसाधनगतानां सामर्थ्यानां कार्यार्थापत्तिगम्यत्वेऽप्यपूर्वशब्दवाच्यत्वाभावात्, तद्वाक्यानां च वैदिकयागादिजन्यानां सामर्थ्यानां विशेषतः श्रुतार्थापत्तिगम्यत्वेऽपि सर्वकर्म- सामान्यविध्यभावेन सामान्यतः प्रमाणान्तरेणाऽनवगमात्सम्बन्धग्रहणासम्भवेन कथमपूर्व- शब्दाभिधेयतेत्याशङ्क्य—यागादीत्युक्तम् । क्लृप्तावयवसामर्थ्यानुसारेणैवापूर्वशब्दस्य सत्ता वैदिककर्मजन्यातिशयविशेषवत्त्व्यवान्तरसामान्याभिधायकत्वोपपत्तेर्न पृथक्सम्बन्ध- ग्रहणापेक्षेति भावः । देवशब्दस्य सत्तावाचित्वनिरासः देवताशब्दस्य सत्तातिरिक्तसर्वदेवतावत्त्व्यवान्तरसामान्यवाचित्वमुपपापयति—तथेति । दिवुक्रीडाविजिगीषाव्यवहारद्युतिस्तुतिकान्तिगतिष्विति सप्तस्वर्थेषु स्मृताद्दीव्यतेर्धातोर्घञि कृते देवशब्दव्युत्पत्तेः । सर्वेन्द्रादिदेवानुगतस्य क्रीडादिदीव्यत्यर्थयोगस्य सामान्यस्य सत्ता- तिरिक्सस्य सद्भावात्सुज्ञानो देवशब्देन सह देवानां सम्बन्ध इत्यर्थः । सत्ताव्यावृत्त्यर्थो विशेषशब्दोपाधिकत्वाद्वा देवशब्दस्यापूर्वशब्दवदेव जातिवाचित्वनिराकरणार्थः । ननु क्रीडादिदीव्यत्यर्थयोगस्य प्रमाणान्तरेण देवेष्वनवगमात्कथं तद्योगिनिमित्तेन देवशब्देन सह सम्बन्धज्ञानमित्याशङ्कयार्थान्तरानवगमेऽपि द्युत्यादेर्दीव्यत्यर्थस्य चन्द्रादौ प्रत्यक्षेणोप-