भारतकोश
संग्रह पर लौटें

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

( ३१ ) दृष्टविरोधोद्धृतश्रुतिविरोधपरिहारः ११५-११८ शा० भा० ११५, भा० वि० ११५, त० वा० ११५, न्या० सु० ११६, भा० प्र० ११६-११८ । ब्राह्मणत्वादिजातेः जन्मनिमित्तकत्वं न गुणकर्मनिमित्तकत्वम् ११७ शास्त्रदृष्टविरोधोद्धृतश्रुतिविरोधपरिहारः ११८-१२० शा० भा० ११८, भा० वि० ११८-११९, त० वा० ११९, न्या० सु० ११९-१२०, ब्राह्मणत्वादिजातेर्जन्मनिमित्तकत्वम् भा० प्र० १२० । अर्थवादफलाभावार्थमुद्धृतशोभतेऽस्यमुखमितिश्रुतिवाक्यविरोधपहारः १२०-१२२ शा० भा० १२०-१२१, भा० वि० १२१, त० वा० १२१, न्या० सु० १२२, भा० प्र० १२२ । अन्यश्रुत्यानर्थक्यपरिहारः १२३-१२४ शा० भा० १२३, भा० वि० १२३, त० वा० १२३, न्या सु० १२३-१२४, भा० प्र० १२४ । परिणामतः सारतश्च फलविशेषसमर्थनम् १२४-१२७ शा० भा० १२४, भा० वि० १२५, त० वा० १२५-१२६, न्या० सु० १२६, भा० प्र० १२६-१२७ । अभागिप्रतिषेधपरिहारप्रदर्शनम् १२७-१२९ शा० भा० १२७, भा० वि० १२७-१२८, त० वा० १२८, न्या० सु० १२८-१२९, भा० प्र० १२९ । औदुम्बराधिकरणम् कथञ्चिदर्थवादश्रुतीनां विधिरूपेण प्रतीतानामर्थवादत्वव्यवस्थापनम् १२९-१४१ शा० भा० १२९, भा० वि० ११९-१३०, त० वा० १३०-१३१ केचिन्मतोत्थापनं तत्समाधानञ्च त० वा० १३१ अपरे तु इत्यनेन पक्षान्तोत्थापनं तत्समाधानञ्च त० वा० १३१ केचिन्मतस्य पुनरुत्थापनं तत्समाधानञ्च त० वा० १३१ उदाहरणान्तरप्रदर्शनेन स्वमतोत्थापनम् त० वा० १३१ तन्त्रवार्तिककारमतम् त० वा० १३१

( ५२ ) अथ वेत्यनेन व्याख्यान्तराणामुदाहरणम् त० वा० १३२ अपराचार्यमतोत्थापनम् त० वा० १३२ कासाञ्चिदर्थवादश्रुतीनां विधिरूपेण प्रतीतानामर्थवादत्वव्यवस्थापनम् न्या० सु० १३४ वार्तिकमतेन पौनरुक्त्यपरिहारः न्या० सु० १३५ यद्वेत्यनेनाक्षेपस्तत्परिहारश्च न्या० सु० १४० विधिरूपेण प्रतीतानामर्थवादश्रुतीनामर्थवादरूपत्वेन प्रामाण्यव्य स्थापनम् न्या० सु० १४०-१४१ पूर्वोक्तपूर्वपक्षे युक्तिप्रदर्शनम् १४१ शा० भा० १४१, भा० वि० १४१-१४२, त० वा० १४२, न्या० सु० १४२, भा० प्र० १४२ । प्रदर्शितपूर्वपक्षयुक्तिखण्डनम् १४२-१४५ शा० भा० १४२, भा० वि० १४३, त० वा० १४३-१४४, न्या० सु० १४४, भा० प्र० १४४-१४५ । विध्येकवाक्यत्वात् विधेयविषयप्रशंसयाऽर्थवादवाक्यसार्थकयप्रदर्शनम् १४५-१५० शा० भा० १४५, भा० वि० १४५-१४६, त० वा० १४६-१४७ । यत्तु इत्यनेन पक्षान्तरोत्थापनम् त० वा० १४७ विध्येकवाक्यत्वात् विधेयविषयप्रशंसाऽर्थवादवाक्यसार्थवयप्रदर्शनम् न्या० सु० १४७, भा० प्र० १५० अर्थवादस्य विधित्वाभावे युक्त्यन्तरप्रदर्शनम् १५१-१५४ शा० भा० १५१, भा० वि० १५१, त० वा १५२, न्या० सु० १५२-१५३, भा० प्र० १५३-१५४ । अर्थवादवाक्यस्य विधित्वाभावे युक्त्यन्तरप्रदर्शनम् १५१-१५४ शा० भा० १५१, भा० वि० १५१, त० वा० १५२, न्या० सु० १५२-१५३, भा० प्र० १५३-१५४ । अर्थवादवाक्यस्य विधित्वाभावे युक्त्यन्तरप्रदर्शनम् १५४-१५७ शा० भा० १५४-१५५, भा० वि० १५५, त० वा० १५५, न्या० सुं० १५६, भा० प्र० १५६-१५७ ।

( ३३ ) स्तुत्यर्थकार्थवादवाक्यानां स्वतन्त्रविधित्वे १५७-१५८ वाक्यभेदे दोषापत्तिप्रदर्शनमधिकरणोपसंहारश्च । शा० भा० १५७ भा० वि० १५०, त० वा० १५७, न्या० सु० १५७-१५८, भा० प्र० १५८ । वाक्यभेदस्वरूपनिरूपणम् भा० प्र० १५८-१५९ इति द्वितीयमौदुम्बराधिकरणम् अथ तृतीयं हेतुवन्निगदाधिकरणम् हेतुसदृशकथितवाक्यानामर्थवादत्वस्थापनार्थं पूर्वपक्षस्तत्समाधानञ्च । १५९-१६७ शा० भा० १५९, भा० वि० १५९-१६० विभिन्नाभिप्रायप्रदर्शनपूर्वकं पूर्वोक्तविषयविवेचनम्, त० वा० १६०-१६१, न्या० सु० १६१-१६६, भा० प्र० १६६-१६७ । पूर्वोक्तश्रुतीनां युक्त्या समर्थनम् १६७-१७१ शा० भा० १६७, भा० वि० १६७-१६९, त० वा० १६९, न्या० सु० १६९-१७०, भा० प्र० १६०-१७१, शा० भा० १७१, भा० वि० १७१, त० वा० १७१, न्या० सु० १७१, भा० प्र० १७१ । शूर्पश्रुतेरन्नसाधनत्वाभावे स्तुतित्वमनुचितमितिपूर्वपक्षस्तन्निरासश्च १७१-१७५ शा० भा० १७१-१७२, भा० वि० १७२, त० वा० १७३, न्या० सु० १७४-१७५, भा० प्र० '७५ । निगदाधिकरणसिद्धान्तप्रदर्शनम् १७५-१७९ शा० भा० १७५, भा० वि० १७६, त० वा० १७७, न्या० सु० १७७-१७८, भा० प्र० १७८-१७९ । इति निगदाधिकरणम्

( ३४ ) अथ मन्त्राधिकरणम् मन्त्रार्थानामविवक्षितार्थमितिपूर्वपक्षः १७९-२०४ शा० भा० १७९-१८१, भा० वि० १८२-१८७, त० वा० १८७-१९१, न्या० सु० १९१-१९९, भा० प्र० १९९-२०४। अदृष्टार्थत्वसमर्थनेन प्रतीयमानार्थविवक्षितत्वसिद्धिः २०४-२०९ शा० भा० २०४, भा० वि० २०४-२०६, त० वा०२०६, न्या० सु० २०६-२०८, भा० प्र० २०८-२०९। मन्त्रानर्थकत्वपूर्वपक्षनिरासः २०९-२१० शा० भा० २०९, भा० वि २०९, त० वा० २०९-२१०, भा० वि० २०९ । न्या० सु० २१०, भा० प्र० २१०। आनर्थक्यनिवारणे परिसंख्याप्रदर्शनम् २१०-२१७ शा० भा० २१०-२११, भा० वि २११ अपूर्वनियमपरिसंख्याविधीनां निरूपणम् त० वा० २११-२१२, त० वा० २१२-२१३, न्या० सु० २१३-२१५, भा० प्र० २१५- २१६। अर्थवादपरतया मन्त्राणां विवक्षितार्थत्वसमर्थनम् २१७-२२१ शा० भा० २१६, भा० वि० २१६-२१८, त० वा० २१८-२२०, न्या० सु० २२०-२२१, भा० प्र० २२१। मन्त्राणां विवक्षितार्थत्वे उद्भावितदोषनिरासः २२२-२२३ शा० भा० २२२, भा० वि० २२२, त० वा० २२२, न्या० सु० २२२, भा० प्र० २२२-२२३। बुद्धशास्त्रोद्भावितविवक्षितार्थपक्षदोषनिरासः २२३-२२४ शा० भा० २२३, भा० वि० २२३, त० वा० २२३, न्या० सु० २२३-२२४, भा० प्र० २२४। अविद्यमानवचनादितिदोषनिरासः २२४-२२८ शा० भा० २२४, भा० वि० २२४-२२५, त० वा० २२५, न्या० सु० २२६, भा० प्र० २२६-२२८।

( ३५ ) गौणप्रयोगान्मन्त्रार्थविरोधसमाधानम् २२८-२३१ शा० भा० २२८, भा० वि० २२८, त० वा० २२९, न्या० सु० २२९, भा० प्र० २२९-२३१ । मन्त्राणां दुर्विज्ञेयत्वेनाविवक्षितार्थत्वनिरासः २३१-२३६ शा० भा० २३१, भा० वि० २३१-२३२, त० वा० २३२-२३४, न्या० सु० २३४-२३५, भा० प्र० २३५-२३६ । अनित्यसंयोगादिति सूत्रोत्थापितपूर्वपक्षनिरासः २३६-२३८ शा० भा० २३६, भा० वि० २३६-२३७, त० वा० २३७, न्या० सु० २३७, भा० प्र० २३७-२३८ । मन्त्राणां विवक्षितार्थकत्वे युक्तिप्रदर्शनम् २३८-२३९ शा० भा० २३८, भा० वि० २३८, त० वा० २३८, न्या० सु० २३८, भा० प्र० २३८-२३९ । अविद्यमानवचनत्वादिति हेतुनोत्थापितापत्तीनामर्थवादपरतया समाधानम् २३९-२४१ शा० भा० २३९, भा० वि० २३९, त० वा० २३९, न्या० सु० २४०, भा० प्र० २४१ । मन्त्राणां विवक्षितार्थत्वसमर्थनम् २४१-२४२ शा० भा० २४१, भा० वि० २४१, त० वा० २४२, न्या० सु० २४२, भा० प्र० २४२ । इति मन्त्राधिकरणम् स्मृत्यधिकरणम् स्मृतेः आचारस्य च प्रामाण्ये पूर्वपक्षः २४३-२५७ शा० भा० २४३, भा० वि० २४३, ता० वा० २४३-२४८, न्या० सु० २४८-२५१, भा० प्र० २५१-२५७ । स्मृत्याचारसिद्धान्तपक्षव्यवस्था २५८-२८० शा० भा० २५९, भा० वि० २५९, त० वा० २६५ केषाञ्चिच्छङ्का तत्समाधानञ्च त० वा० २५९-२६५ अलौकिकविषयाणां वेदमूलकत्वम् त० वा० २६७

( ३६ ) शिक्षादीनां वेदमूलकत्वम् त० वा० २६७-२६८ स्मृत्याचारसिद्धान्तपक्षव्यवस्था न्या० सु० २६९-२७५ शिक्षाद्यङ्गानामुपयोगकथनम् न्या० सु० २७५-२७८ स्मृत्याचारसिद्धान्तपक्षव्यवस्था भा० प्र० २७८-२८० । श्रुतिविरुद्धस्मृत्याचारविषयाधिकरणम् ( विरोधाधिकरणम् ) २८०-३१९ शा० भा० २८०-२८२, भा० वि० २५९ पृष्ठे द्रष्टव्यम् त० वा० २८२-२८७ तुल्यबलयोर्विकल्पशङ्कानिरासौ त० वा० २८२-२८७ अतुल्यबलविकल्पस्यान्याय्यत्वम् त० वा० २८७ विकल्पस्याष्टदोषत्ववर्णनम् त० वा० २८७ वाक्यान्तरे दोषचतुष्टयस्योपपादनम् त० वा० २८७-२९६ स्पर्शनस्य क्लृप्तं मूलं कल्प्यं स्मृतेरिति समाधानम् त० वा० २९६- २९७ विरोधाधिकरणम् न्या० सु० २९७-३१७, भा० प्र० ३१७-३१९। औदम्बरीस्तम्भवेष्टनस्मृतिविश्लेषणम् ३१९-३४६ शा० भा० ३१९, भा० वि० ३१९-३२०, त० वा० ३२० अधिकरणान्तराशङ्का त० वा० ३२१ भाष्यकारीयाधिकरणाक्षेपः त० वा० ३२१ दीक्षितान्नभोजनविचारः त० वा० ३२३-३२६ अष्टाचत्वारिंशदिति उदाहरणनिरासः त० वा० ३२६ प्रसङ्गाद् बादरायणमतस्य निर्देशः त० वा० ३२७ जैमिनिमतस्योपन्यासः त० वा० ३२७ वार्तिकमतेन सूत्रार्थवर्णनम् त० वा० ३२७ शाक्यादिवचसां श्रुतिस्मृतिविरुद्धत्ववर्णनम् त० वा० ३२९ हेतुदर्शनेन शाक्यमतनिरासः त० वा० ३३० औदुम्बरीस्तम्भवेष्टनस्मृतिविश्लेषणम् न्या० सु० ३३०-३३१ भाष्यकारीयाधिकरणाक्षेपः ( वार्तिकमतेन प्रथमाधिकरणाशयः ) न्या० सु० ३३१-३४१ द्वितीयव्याख्यानम् ( वार्तिकमतेन बाह्यमताप्रामाण्यम् ) न्या० सु० ३४१-३४३ औदुम्बरीवेष्टनस्मृतिविवेचनम् भा० प्र० ३४३-३४४ तन्त्रवार्तिकमतविवरणम् भा० प्र० ३४४-३४६ ।

( ३७ ) शिष्टाकोपाधिकरणम् स्मृतीनां श्रुतिविहितविषयाबाधे प्रामाण्यम् ३४६-३५१ शा० भा० ३४६, भा० वि० ३४७, त० वा० ३४७ प्रमाणप्रमेयबलाबलविचारः त० वा० ३४८ स्मृतीनां कुत्राप्रामाण्यम्, कियदंशे चेति पूर्वपक्षः न्या० सु० ३४८- ३५०, भा० प्र० ३५०-३५१ स्मृतीनां कुत्राप्रामाण्यम्, कियदंशे चेति पूर्वपक्षः ३५१-३५५ शा० भा० ३५१, भा० वि० ३५१, त० वा० ३५१-३५२, न्या० सु० ३५२-३५४, भा० प्र० ३५४-३५५ पूर्वपक्षखण्डनपूर्वकं सिद्धान्तपक्षव्यवस्थापनम् ३५५-४०३ शा० भा० ३५५-३५६, भा० वि० ३५६-३५७, त० वा० ३५७-३५८ कालस्याङ्गत्वोपपादनम् त० वा० ३५८-३५९ विरोधाभावकथनम् त० वा० ३५९ भाष्योक्तोदाहरणाक्षेपः त० वा० ३५९-३६० वेदाविरुद्धशाक्यवचसामप्रामाण्यनिरूपणम् त० वा० ३६०-३६२ सदाचारप्रामाण्याधिकरणम् त० वा० ३६२ अद्यतनानामाचारक्षेपः त० वा० ३६२-३६३ सिद्धान्तप्रदर्शनम् त० वा० ३६३-३६४ अन्योन्याश्रयत्वशङ्कानिरासौ त० वा० ३६४-३६५ आत्मतुष्टेर्धर्मे प्रामाण्यसाधनम् त० वा० ३६५ आत्मतुष्टेः प्रामाण्योपसंहारः त० वा० ३६५-३६६ अनेकैर्दृष्टान्तैरात्मतुष्टेः प्रामाण्यसमर्थनम् त० वा० ३६६ पूर्वपक्षे उदाहृतानां क्रमेण परिहारवर्णनम् त० वा० ३६६-३६८ सुरानिषेधे उक्तस्यार्थस्य संक्षेपः त० वा० ३६९ लिङ्गोपन्यासः त० वा० ३६९ आधुनिकानामाक्षेपपरिहारोपपादनम् त० वा० ३६९-३७० ब्राह्मणराजन्यौ वैश्यश्च न सुरां पिवेदित्यत्र पुंलिङ्गस्य विवक्षाऽस्ति न वेति विचारः त० वा० ३७०-३७१ विधिप्रतिषेधयोरत्यन्तभेद इतिवादिनां मतम् त० वा० ३७१ मतभेदेन पूर्वोक्तवाक्यार्थवर्णनम् त० वा० ३७१

( ३८ ) उद्देश्यविशेषणस्याविवक्षोपपादनम् त० वा० ३७२-३७३ प्रकारान्तरेणाधिकरणव्याख्यानम् ( द्वितीयं वर्णकम् ) त० वा० ३७३-३७५ तृतीयवर्णकरूपेणाधिकरणान्तरव्यवस्था त० वा० ३७५ शिष्टाकोपाधिकरणम् न्या० सु० ३७५-३८० धर्मव्यतिक्रमवर्णनम् न्या० सु० ३८०-३८१ अद्यतनानां धर्मव्यतिक्रमवर्णनम् पूर्वपक्षः न्या० सु० ३८१-३८२ सिद्धान्तवर्णनम् न्या० सु० ३८२-३९१ पुंस्त्वस्य विवक्षितशङ्कासमाधानं न्या० सु० ३९१-३९२ सर्वत्र लिङः प्रवर्तकतावाचित्वमतोपन्यासः न्या० सु० ३९२-३९८ शास्त्रप्रसिद्धपदार्थप्रामाण्याधिकरणम् न्या० सु० ३७५-३९८ शिष्टाकोपाधिकरणम् भा० प्र० ३९९-४०३ बवराधिकरणम् ( आर्यम्लेच्छबलाबलविचारः ) ४०३-४१६ शा० भा० ४०३, भा० वि० ४०४, त० वा० ४०४ ४०५, ( पूर्व- पक्षः ) न्या० सु० ४०५-४१३, ( सिद्धान्तः ) न्या० सु० ४१३- ४१५, भा० प्र० ४१६ । बवराधिकरणम् ४१६-४३० शा० भा० ४१६, भा० वि० ४१७, त० वा० ४१८-४१९ पील्वधिकरणम् ( पूर्वपक्षः ) त० वा० ४१९-४२० वार्तिकमतेन पीलुवर्णकम् त० वा० ४२० ( स्मृत्याचारविरोधे बलाबलचिन्तनम् ) समा विप्रतिपत्तिरिति सूत्रयोजना त० वा० ४२० तेष्वदर्शनादिति सूत्रयोजना त० वा० ४२१ सिद्धान्तः त० वा० ४२१ यज्ञो वै देवेभ्योऽश्वो भूत्वाऽपाक्रामत्सोऽपः प्राविशत् ( पूर्वपक्षः ) बलाबलपूर्वपक्षः त० वा० ४२२ आर्यम्लेच्छयोर्बलाबलविचारसिद्धान्तः (बलाबले सिद्धान्तः) यववराहाधिकरणम् ४२३-४२४ यववराहाधिकरणम् (पिकनेमाधिकरणम्) न्या० सु० ४२५-४२९ भा० प्र० ४२९-४३० पिकनेमाधिकरणम् (सिद्धान्तः) ४३१-४५२ शा० भा० ४३१, भा० वि० ४३१-४३३, त० वा० ४३३-४३७, न्या० सु० ४३७-४५१, भा० प्र० ४५१-४५ ।

( ३९ ) कल्पसूत्राधिकरणम् (पूर्वपक्षः) ४५२-४६६ शा० भा० ४५२, भा० वि० ४५२-४५३, त० वा० ४५३ कल्पसूत्रयोर्भेदवर्णनम् त० वा० ४५३-४५६ उक्तार्थे सूत्रकारवचनम् त० वा० ४५६ उक्तदाढ्याय कात्यायनवचनोपन्यासः त० वा० ४५६-४५९ शाक्यग्रन्थानां वेदवत्स्वातन्त्र्येण प्रामाण्यमिति पूर्वपक्षः त० वा० ४५९, न्या० सु० ४५९-४६६, भा० प्र० ४६६ । सिद्धान्तपक्षः ४६६-४७३ शा० भा० ४६६, भा० वि० ४६७, त० वा० ४६७-४६९, ऋग्वेदस्यापौरुषेयत्वे युक्तिः त० वा० ४६९-४७० यजुर्वेस्यापौरुषेयत्वे हेतुः ता० वा० ४७० सामवेदेष्वियं युक्तिः त० वा० ४७० ४७१ असन्नियम्यादित्यस्य त्रेधा व्याख्यानम् त० वा० ४७१ कल्पसूत्राणां स्वातन्त्र्येण प्रामाण्यनिरासः त० वा० ४७१-४७२ सिद्धान्तपक्षः न्या० सु० ४७२, भा प्र० ४७२-४७३ । कल्पसूत्राणामपौरुषेयत्वनिरासः ४७३-४८० शा० भा० ४७३, भा० वि० ४७३-४७४, त० वा० ४७४-४७६, न्या० सु० ४७७-३७९, भा० वि० ४७८-४८० । कल्पसूत्राधिकरणोपसंहारः ४८०-४८२ शा० भा० ४८०, भा० वि० ४८०, त० वा० ४८०-४८१, भा० प्र० ४८१-४८२ । होलाकाधिकरणम् ४८२-४८६ देशाचारविषये प्रामाण्यार्थमधिकरणावतारणाविषये पूर्वपक्षः शा० भा० ४८२ भा० वि० ४८२, त० वा० ४८३-४८४, भा० प्र० ४८४-४८६ । होलाकाधिकरणसिद्धान्तपक्षः ४८६-४९१ शा० भा० ४८६, भा० वि० ४८६-४८७, त० वा० ४८७-४८८ कस्यचिन्मतस्योपन्यासः, तन्निराकरणम् त० वा० ४८८-४९० होलाकाधिकरणसिद्धान्तपक्षः भा० प्र० ४९०-४९१ ।

( ४० ) होलाकाधिकरणप्रसङ्गे शिष्टकर्मव्यवस्था ४९१-४९२ शा० भा० ४९१, भा० वि० ४९१ त० वा० ४९१-४९२, भा० प्र० ४९२ । होलाकादिकर्मणः न देशविशेषसम्बद्धत्वम् ४९२-४९५ शा० भा० ४९२-४९३, भा० वि० ४९३, त० वा० ४९३-४९४, भा० प्र० ४९४-४९५ । देशविशेषसम्बद्धत्वेऽपि देशसंयोगादाख्याप्रतिपादनम् ४९५-४९७ शा० भा० ४९५, भा० वि० ४९५-४९६, त० वा० ४९६, न्या० सु० ४९६, भा० प्र० ४९६-४९७ । देशविशेषसम्बद्धत्वशङ्कानिराकृतिः ४९७-५०१ शा० भा० ४९७, भा० वि० ४९७, त० वा० ४९७-४९८, न्या० सु० ४९८, भा० प्र० ४९८-४९९, शा० भा० ४९९, भा० वि० ४९९ भाष्यमते दूषणम् त० वा० ४९९ देशविशेषसम्बद्धशङ्कानिराकृतिः न्या० सु० ५००, भा० प्र० ५००-५०१ । होलाकादीनां देशविशेषसम्बद्धत्वे पूर्वपक्षः ५०२ शा० भा० ५०२, भा० वि० ५०२, त० वा० ५०२, न्या० सु० ५०२, भा० प्र० ५०२ । सिद्धान्तपक्षः ५०३-५०५ शा० भा० ५०३, भा० वि० ५०३, त० वा० ५०३, न्या० सु० ५०३-५०४, भा० प्र० ५०४-५०५ । व्याकरणाधिकरणम् ५०५-७२० सर्वेषां शब्दानां साधुत्वमिति पूर्वपक्षः शा० भा० ५०५, भा० वि० ५०५-५०६, त० वा० ५०६-५०८ कात्यायनकर्तिकाबलम्बनेन शङ्का त० वा० ५०८-५०९ नियमापूर्वस्य निरासः त० वा० ५०९-५१० वेदवत् स्वातन्त्र्येण प्रामाण्यनिरासः त० वा० ५१० व्याकरणस्मृतेः धर्मशास्त्रैस्तुल्यत्वम् त० वा० ५१०

सूत्रवार्तिकभाष्यकाराणां प्रयोजनविगानेनाप्रामाण्यम् त० वा०

( ४१ ) सूत्रवार्तिकभाष्यकाराणां प्रयोजनविगानेनाप्रामाण्यम् त० वा० ५१०-५११ ज्ञानप्रयोगयोरन्योऽन्यतरस्यानुनिष्पादितत्वेन उपसंहारः त० वा० ५११ व्यवहारनित्यतया कण्ठस्थनित्यतया वेदस्य नित्यत्वनिरासः त० वा० ५११-५१२ पातञ्जलभाष्यानुसारेणाशङ्कानिरासो त० वा० ५१२-५१३ कल्पसूत्रकारादीनामपशब्दप्रयोगवर्णनम् त० वा० ५१३-५१४ इतिहासपुराणयोरपशब्दवर्णनम् त० वा० ५१४ वेदेऽपि अपशब्दप्रयोगवर्णनम् त० वा० ५१४ व्याकरणसूत्रवार्तिकभाष्येषु अपशब्दवर्णनम् त० वा० ५१५-५१६ अन्यसिद्धैर्वेदरक्षादिप्रयोजननिराकरणम् त० वा० ५१७ वेदरक्षाया इहाध्याथिभिरेव सम्भवात् व्याकरणस्य नैष्फल्यम् त० वा० ५१७-५१८ काव्यप्रयोगनियमोत्पत्त्याशास्त्रत्वाच्च व्याकरणस्य वैय्यर्थम् त० वा० ५१८ ऊहस्याप्यन्यतस्सिद्धत्वाद् व्याकरणस्यानुपयोगः त० वा० ५१८-५१९ मन्त्रेषु व्याकरणेनेहकरणमशक्यमित्यत्र प्रमाणोपन्यासः त० वा० ५१९ प्रयोजनवत्त्वे प्रमाणत्वेनोपन्यस्तस्यागमस्य निरासः त० वा० ५१९-५२० आगमस्य श्रुत्याद्यङ्गताबोधकप्रमाणपरत्वेन व्याख्यानम् त० वा० ५२० वेदागमशिक्षाद्यङ्गपरत्वेन द्वितीयं व्याख्यानम् त० वा० ५२०-५२१ प्रातिशाख्यपरत्वेन तृतीयं व्याख्यानम् त० वा० ५२१ व्याकरणस्य प्रयोगशास्त्रत्वमाशङ्कानिरासो त० वा० ५२१ व्याकरणस्य शब्दापशब्दज्ञानं प्रयोजनमित्यस्य निरासः त० वा० ५२१ गौरवस्यैवोपचारेण लाघवकथनमिति उपहासकथनम् त० वा० ५२१ भर्तृहरिणा वाक्यपदीयेऽभिहितस्यार्थस्य निरासः त० वा० ५२१-५२२ पञ्चमस्यासन्देहप्रयोजनस्य निरासः त० वा० ५२२ वेदविरुद्धार्थे व्याकरणस्याप्रामाण्यमिति प्रतिपादनम् त० वा० ५२२-५२३

( ४२ ) वाक्यार्थनिर्णयेऽपि व्याकरणस्यानुपयोगवर्णनम् त० वा० ५२३ व्याख्यानादेव सन्देहनिवृत्तेः नहि सन्देहाद्वेदनिरूपणम् त० वा० ५२३ स्वरार्थनिश्चयस्य निरासः त० वा० ५२३-५२४ आनुषङ्गिकाणां त्रयोदशानां प्रयोजनानां निरासः त० वा० ५२४-५२७ लक्षणं प्रवर्त्यमिति भाष्योक्तस्य अर्थस्य निरासः त० वा० ५२७-५२८ दृष्टार्थेषु शब्देषु अदृष्टार्थनियमस्यासंभवोपपादनम् त० वा० ५२८-५२९ स्फोटपक्षे संस्कारानुपपत्तिवर्णनम् त० वा० ५२९-५३१ व्याकरणाधिकरणे पूर्वपक्षः त० वा० न्या० सु० ५३१-५७०, भा० प्र० ५७०-५७१ । व्याकरणाधिकरणे सिद्धान्तपक्षः ५७१-५८० शा० भा० ५७१, भा० वि० ५७१-५७२, त० वा० ५७२-५७४, न्या० सु० ५७४-५७६, भा० प्र० ५७६-५८० । आशङ्कानिरासो ५८०-५८४ शा० भा० ५८०, भा० वि० ५८०-५८१, त० वा० ५८१-५८२, न्या० सु० ५८२-५८३, भा० प्र० ५८३-५८४ । शा० भा० ५८४, भा० वि० ५८४-५८५, शा० भा० ५८५ भा० वि० ५८५-५८६, शा० भा० ५८६, भा० वि० ५८६, त० वा० ५८६-५८९ । साधुनियमप्रयोगनियमयोरभ्युपगमे पूर्वोक्तदोषपरिहारः त० वा० ५८९ विधिनिषेधतया स्वरूपप्रतिपादनपरस्यादिशास्त्रत्वम् त० वा० ५८९-५९० अर्थापत्त्याऽपि साधुत्वसमर्थनम् त० वा० ५९०-५९३ नियमापूर्वस्याश्रयनिरूपणम् त० वा० ५९३ तत्रैव दृष्टान्तप्रदर्शनम् त० वा० ५९२-५९३ शास्त्रशब्दस्य रूढ्या योगेन च व्याकरणस्य ग्रहणम् त० वा ५९३-५९४ सदृष्टान्तं व्याकरणस्य शास्त्रत्वनिषेधे परिहारकथनम् त० वा० ५९४ व्याकरणस्य स्मृतिभिर्वैषम्येऽपि वेदमूलत्वेन व्याकरणान्तरेण साम्यम् त० वा० ५९४-५९५

सूत्रवार्तिकभाष्याकाराणां विगानस्य परिहारः त० वा० ५९५

( ४३ ) सूत्रवार्तिकभाष्याकाराणां विगानस्य परिहारः त० वा० ५९५ सूत्रप्रत्याख्यानस्य समाधानम् त० वा० ५९५ सत्यं ब्रूयादित्यस्य स्मृतिविहितस्य सत्यद्वयस्य निर्वचनम् त० वा० ५९५ साधुनियमप्रयोगनियमार्थाय व्याकरणम् त० वा० ५९६ वार्तिकभाष्यकारयोः परिहारं कृत्वा चिन्तान्यायेन आत्मज्ञानस्याभ्युदयनिः श्रेयसफलकत्वेन अप्रकरणस्थत्वे- नार्थवादत्वमिति वर्णनम् त० वा० ५९६-५९७ आदिमद्व्याकरणस्यानादिविधिमूलकत्वं व्यवहारनित्यतामादायो- पपत्तिः त० वा० ५९७-५९८ व्याकरणाधिकरणसिद्धान्तपक्षः न्या० सु० ५९८-६१५ भा० प्र० ६१५-६१६ आकृत्यधिकरणे पूर्वपक्षः शा० भा० ६१६-६१९, भा० वि० ६१९-६२३ लोकवेदाधिकरणम् त० वा० ६२३-६२५ आकृत्यधिकरणे पूर्वपक्षः त० वा० ६२५ वार्तिकमतम् त० वा० ६२६-६२७ भाष्योक्तपक्षद्वयस्य समर्थनम् त० वा० ६२७ पुनरुक्तिसमाधानं त० वा० ६२७ संस्थानाकृत्योर्भेदप्रतिपादनम् ६२७ शब्दान्तरादिभिः षड्भिः प्रमाणैः कर्मभेदः त० वा० ६२७-६२८ तार्किकजैमिनिमतयोरोपन्यासः त० वा० ६२८ तन्निरासः त० वा० ६२८-६२९ अत्र शङ्कासमाधाने त० वा० ६२९ स्वमतोपन्यासः त० वा० ६२९-६३० भर्तृहरिणा वाक्यपदीयेऽभिहितस्यार्थस्यानुवादः त० वा० ६३० तन्निरासः त० वा० ६३०-६३२ वक्ष्यमाणेन निरासहेतुना अस्य पक्षस्य निराकरणम् त० वा० ६३२ हरिणोक्तस्य दृष्टान्तस्य प्रतिक्षेपः त० वा ६३२-६३३ अपूर्वदेवतास्वर्गादिशब्दानामर्थान्तरपरत्वम्, न सत्तावाचित्वमित्यु- पपादनम् त० वा० ६३३ संशयस्योपसंहारः त० वा० ६३३-६३५ पूर्वपक्षः न्या० सु० ६३५-६५६ आकृतिशक्त्यधिकरणम् भा० प्र० ६५६-६६०

( ४४ ) शङ्कानिरासौ शा० भा० ६६०, भा० वि० ६६०-६६१ त० वा० ६६१, न्या० सू० ६६१-६६३, भा० प्र० ६६३-६६४ सिद्धान्तपक्षः शा० भा० ६६४-६६७, भा० वि० ६६७-६७२ त० वा० ६७२-६७४ परगतेनाधिकरणं व्याख्याय स्वमतेन नामाख्यातयोरर्थनिर्णयः इति निरूपणम् त० वा० ६७४ आख्यातार्थविचारस्य भावार्थाधिकरणे कृतत्वात् अत्र प्रकृत्यर्थविचारः त० वा० ६७४ अत्र सिद्धस्यैव तत्र व्यवहारो भाष्यकृतः त० वा० ६७४-६७५ अपूर्वं कस्मादिति प्रधानविचारे न पुनरुक्तिशङ्का त० वा० ६७५ संगतिसंशययोरुपपादनम् त० वा० ६७५ आकृतिपक्षेऽपि क्रियाया उपपत्तिर्व्यक्तिमादायैव वाच्येति फलवैलक्षण्याभावशङ्कासमाधाने त० वा० ६७५ ६७६ आकृतिशब्दार्थ इत्यत्र हेतूपन्यासाथमिति कथनम् त० वा० ६७६ आकृतेश्शब्दार्थत्वं पूर्वसिद्धं व्यक्तैर्वाच्यावाच्यत्वचिन्ता त० वा० ६७६ शब्दनित्यत्वाधिकरणे लौकिकशब्दानामभेदो विचारितः, अत्र लौकिकानां वैदिकानां शब्दानां भेदाभेदविचार इति प्रकारान्तरम त० वा० ६७७ लौकिकवैदिकानां शब्दानांमर्थभेदाभेदविचारः त० वा० ६७७ पूर्वपक्षः त० वा० ६७७-६७८ भेदपक्षे हेत्वन्तरोपन्यासः त० वा० ६७८-६७९ सिद्धान्तः त० वा० ६७९-६८० पक्षाणामानन्त्येऽपि भाष्यमतेन पक्षचतुष्टयोपपादनम् त० वा० ६८०-६८१ पूर्वपक्षः त० वा० ६८२-६८३ सिद्धान्तः त० वा० ६८३-६८४ सामान्यस्य वाच्यत्वसमर्थनम् त० वा० ६८४ व्यक्तैर्वाच्यत्वेऽनुपपत्तिप्रदर्शनम् त० वा० ६८४ समुदायस्य वाच्यत्वनिरासः त० वा० ६८५ एतावता वार्त्तिकेन व्यक्तिसमुदायपक्षौ दूषयित्वा जातिपक्षः समर्थितः अपरभाष्यव्याख्यायाम् त० वा० ६८५-६८८ सिद्धान्तपक्षः त० वा० ६८८, न्या० सू० ६८८-७११, भा० प्र० ७११-७१६ मीमांसादर्शनस्थश्लोकानां सूची ७२१-७४१ मीमांसादर्शनस्थशब्द सूची ७४२-७४६

मीमांसादर्शनम् [ भावप्रकाशिकाभावार्थोपबृंहित-भाष्यविवरण- न्यायसुधाव्याख्योपेत-तन्त्रवार्त्तिकव्याख्यान- सनाथीकृत-शाबरभाष्यसहितं जैमिनि- प्रणीतं मीमांसादर्शनम् ] प्रथमो भागः

(यह पृष्ठ रिक्त है / Blank page)

मीमांसादर्शनम् प्रथमाध्याये द्वितीयः पादः आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानां तस्माद- नित्यमुच्यते ॥ १.२.१ ॥ [पू०] शाबरभाष्यम् 'सोऽरोदीद्यदरोदीत्तद्रुद्रस्य रुद्रत्वम्' १। प्रजापतिरात्मनो वपामुदक्खिदत् २। देवा वै देवयजनमध्यवसाय दिशो न प्राजानन्' ३ इत्येवमादीनि समाम्नातारः समामनन्ति वाक्यानि । तानि किं कञ्चिद्धर्मं प्रमिमते, उत नेति भवति विचा- रणा । तदभिधीयते । क्रिया कथमनुष्ठीयेतेति हि तां ४वेदितुं समाम्नातारो वाक्यानि समामनन्ति । तद्यानि वाक्यानि क्रियां नावगमयन्ति, क्रियासम्बद्धं वा किञ्चित्, एवमेव भूतमर्थमन्वाचक्षते रुदितवान्‌रुद्रो, वपामुच्चिखेद प्रजापतिः, देवा वै दिशो न प्रजज्ञिर इत्येवं जातीयकानि, तानि कं धर्मं प्रमिमीरन् ? अथोच्येत—अध्याहारेण वा विपरिणामेन वा, व्यवहितकल्पनया वा, व्यव- धारणकल्पनया वा, गुणकल्पनया वा कश्चिदर्थः कल्पयिष्यत इति, स कल्प्य- मानः कः कल्प्येत ? रुद्रः किल रुरोद अतोऽन्येनापि रोदितव्यम् । उच्चि- खेदात्मनो वपां प्रजापतिरतोऽन्योऽप्युत्खिदेदात्मनो वपाम् । देवा वै देवयजन- काले दिशो न प्रज्ञातवन्तः, अतोऽन्योऽपि दिशो न प्रजानीयादिति । तच्चाशक्यम् । इष्टवियोगेन५, अभिघातेन वा यद् बाष्पनिर्मोचनम्, तद्रोदन- मित्यच्यते । न च तदिच्छातो भवति । न च कश्चिदात्मनो वपामुत्खिद्य, तामग्नौ प्रहृत्य तत उत्थितेन तूपरेण पशुना यष्टुं शक्नुयात् । न च देव- यजनाध्यवसानकाले केचिद् दिशो मुह्येयुः । अत एषामानर्थक्यम् । तस्मादेवं जातीयकानि वाक्यान्यनित्यानीत्युच्यन्ते । यद्यपि च नित्यानि, तथाऽपि न नित्यमर्थं कुर्वन्तीति । स एष वाक्यैकदेशस्याऽऽक्षेपो न कृत्स्नस्य वाक्यस्य । नन्वेकदेशाद्विना साकाङ्क्षः पदसमूहो न पर्याप्तः स्वस्मै प्रयोजनाय । अत आक्षिप्त एवेति । नैवम् । भवति हि कश्चित्पदसमूहो योऽर्थवादेभ्यो विनाऽपि विदधाति किञ्चिदर्थम् । यानि पुनस्तैः सह संयुज्यार्थान्तरे वर्तन्ते, तान्येक- देशाक्षेपेणाऽऽक्षिप्यन्ते ॥ १ ॥ १. तै० सं० १-५-१ । २. तै० सं० २-१-१ । ३. तै० सं० ६-१-५ । ४. अनुष्ठेयेति॰वदि॰ पु० । ५. अ इष्टवियोगादिना ।

पाद्यते । न चैवं सत्यर्थवादमात्रोदाहरणसंभवः सामान्यविनियोगप्रतिपादन-

४ मीमांसादर्शनम् [ सू० भाष्यविवरणम् यस्मादाविर्भूद्विश्वं यत्र च प्रविलीयते । तत्स्वतः सच्चिदानन्दं नमस्यामः परं महः ॥ १ ॥ प्रणमामि गणेशानं देवीं वाचं तथा गुरून् । यत्कृपालोकनादेव मनो मे शुद्धतामगात् ॥ २ ॥ श्रीमच्छाबरभाष्यस्य मया शिष्यहितैषिणा । कुमारिलोकभावस्य क्रियते विवृतिर्मया ॥ ३ ॥ अस्याधिकरणस्य विषयमाह--सोरोदीदित्यादिना । सङ्गतयस्त्वेवंद्रष्टव्याः- अथातो धर्मजिज्ञासेति प्रमाणादिभिः धर्मे जिज्ञास्यतया प्रतिज्ञाते किं तत्र प्रमाणमित्यपेक्षायां प्रथमेऽध्याये प्रमाणं निरूप्यते, तेनार्थवादादिप्रामाण्यनिरूप- णस्यापि धर्मप्रमाणविचारत्वादस्त्यध्यायसङ्गतिः, पादसङ्गतिस्तु प्रथमे सूत्रे समस्तस्य वेदस्य विवक्षितार्थतया प्रामाण्यप्रतिज्ञायां सत्यामपि अर्थवादादि- प्रायाण्यस्य विधिप्रामाण्याधीनत्वात् विधिभागस्यैव धर्मे प्रामाण्यं प्रतिज्ञाय प्रसाधितं प्रथमे पादे, अधुना धर्मप्रमितार्थवादादोनामुपयोगातद्विशेषाभावेना- प्रामाण्यमाशङ्क्य, तत्प्रतिपादनेन प्रामाण्यं प्रतिपाद्यत इत्येवं मन्तव्याः । यद्वोत्तरसूत्रसन्दर्भपर्यालोचनया चोदनाशब्दस्य वेदमात्रपरत्वावगमात् समस्तस्यैव वेदस्य धर्मे प्रामाण्यं चोदनासूत्रे प्रतिज्ञातम् । तच्च परतः प्रामाण्या- दिनिषेधेन समस्तस्य विध्याद्यात्मनो वेदस्यापातप्रतिपन्नैकवाक्यताबलेना- विवेचितावान्तरव्यापारं सामान्यतः प्रतिपादितम्, सम्प्रत्यर्थवादादीनामुपयोग- मात्राभावेन प्रातिस्विकोपयोगाभावेन चाक्रियार्थत्वादाक्षिप्योपयोगातद्विशेष- प्रतिपादनेन समाधीयत इति । वेदाधिकरणसङ्गतिस्तु चोदनानां प्रामाण्ये पदपदार्थसम्बन्धौत्पत्तिकत्वादिभिः प्रतिपादितेऽनन्तराधिकरणेन वेदपौरुषेयतया तदवयवानां तासां पौरुषेयत्वेना प्रामाण्यमाशङ्क्य, वेदापौरुषेयत्वप्रतिपादनेन चोदनानामपि तथात्वेन प्रामाण्ये प्रतिपादिते वेदावयवत्वेन धर्मप्रमाणतया बुद्धिसमारूढानामर्थवादादीनां तत्र प्रामाण्यमस्ति न वेति विचार्यते इति । अत्र चाद्येऽधिकरणे सर्वेषामेवार्थवादमन्त्र- नामधेयानामक्रियार्थत्वेनानर्थक्यमाशङ्क्याध्ययनविधिपरिग्रहाविशेषात् सामा- न्यतः क्रियार्थत्वं विधिना त्वेकवाक्यत्वात् इति सूत्रावयवेन प्रतिपाद्य, विशेषतोऽर्थवादानां द्वारविशेषाभावेनाक्रियार्थत्वमाशङ्क्य द्वारविशेषः प्रति- पाद्यते । न चैवं सत्यर्थवादमात्रोदाहरणसंभवः सामान्यविनियोगप्रतिपादन- दशाया मन्त्रनामधेययोरुपलक्षणत्वात् विशेषविनियोगप्रतिपादनाभिप्रायेण च तावन्मात्रोदाहरणं मन्त्रापेक्षया च प्रवृत्त्यङ्गत्वेन पदैकवाक्यत्वेन चार्थवादानां

१ ] प्रथमाध्याये द्वितीयपादः ५ विधिसन्निधानादर्थवादाधिकरणप्राथम्यम् । चिन्ताप्रयोजनं त्वर्थवादानां धर्म- प्रमित्युपयोगितया प्रामाण्यसिद्धिरिति । अध्ययनविधिपरिग्रहात् अक्रियार्थत्वाच्च संशयमाह—तानीति—कश्चि- दिति । यथाश्रुतशब्दप्रतिपादितं स्वार्थपर्यवसानानुपपत्तिकल्पितचोदनाप्रमाणकं वा स्वसन्निधिपठितविधिप्रमाणकं वेत्यर्थः । धर्ममित्यधर्मस्याप्युपलक्षणम्, तत्तस्यां विचारणायाम् अभिधीयते पूर्वपक्षः अक्रियार्थत्वेनानर्थक्ये साधनीये हेतोरन्यथासिद्धिनिरासाय सूत्रकृताम्नायस्य क्रियार्थत्वादित्युक्तम्, तस्यान्यथा- सिद्धिं परिहरन् पूर्वपक्षमाह—क्रियेत्यादिना । क्रिया=प्रवृत्तिनिवृत्तिलक्षणार्थ- भावना, सा कथम्, केन प्रकारेणानुष्ठेयेत्यपेक्षायां तत्प्रतिपत्तिद्वारेण तद्गतेष्टा- निष्टसाधनत्वप्रतिपत्तये वाक्यानि समामनन्तीत्यर्थः, क्रियाबोधनव्यापारेण वेदस्य धर्माधर्मयोः प्रामाण्यमिति प्रतिपादितम्, चोदनालक्षणो धर्म इत्यादिनेत्याशयः । ततः किमित्यपेक्षायां स्वशक्त्यवगतधर्मप्रामाण्यं तावन्न संभवतीत्यानर्थक्यमत- दर्र्थानामिति सूत्रांशं योजयन्नाह—तद्यानीति । तत्तथासत्येवंजातीयकानि यानि क्रियाभावं गमयन्ति, तानि न कश्चिद्धर्मं प्रमिमोरन्वित्यन्वयः । ननु क्रियाप्रातिपदिकत्वाभावेऽपि यथा साध्यसाधनेतिकर्तव्यताप्रतिपाद- कानां प्रामाण्यम् । तद्वत्किं न स्यात् अत आह—क्रियासम्बद्धमिति । किं तर्हि तान्यवगमयन्ति इत्यत्र आह—एवमिति । एवमित्युक्तं दर्शयति—रोदित्वा- निति । एवमर्थवादानां श्रुत्या क्रियार्थत्वाभावेन धर्मप्रामाण्ये निरस्ते, वृत्त्यन्तर- माश्रित्य क्रियार्थत्वं चोदयति—अथेति । कश्चित् क्रियारूपः साक्षात्क्रियार्थत्वा- भावेनानर्थक्यकल्पनात् कथञ्चित् क्रियार्थत्वेन धर्माधर्मप्रामाण्यकल्पनं वरम्, अन्यथाध्ययनविधिविरोधादिति भावः । वृत्त्यन्तराणामत्यन्तासंभवेनाध्याहार- पक्षमाश्रित्य समाधत्ते—स कल्प्यमान इति । यद्यप्युपादानवदुपेक्षाया अपि प्रमाणफलत्वेनाध्ययनविधेस्तद्विषयतयाप्युपपत्तेः न विधिकल्पकत्वं तथाभ्यु- पेत्योच्यत इति सूचयितुं कल्प्यमान इत्युक्तम् । अतीते रुद्ररोदनादौ प्रमाणान्त- राभा ॰ ॰ ॰ ॰ ॰ ॰ सत्यत्वनिश्चयात् तद्द्वारेणापि न विधिकल्पनेति किलकारः । दिशो न ज्ञातवन्तः—दिङ्मूढा आसन् । दिशो न प्रजानीयादिति दिक्षु मुह्येदिति यावत् । एवमध्याहारेण विधिकल्पना प्रकारमनूद्य दूषयति—तच्चेति । कल्पनं तच्छब्दार्थः । कुत इत्याशङ्क्य कल्प्यमानार्थस्येच्छाधीनतया दुरुपशां- नत्वेन दृष्टविरुद्धत्वादित्याह—इष्टेत्यादिना । अभिघातः—दण्डप्रहारादिः । न चेष्टवियोजनादिद्वारापि तत्कर्तुं शक्यम्, तत्रापोच्छाया असंभवत्, मङ्गलाचरणशीलतावादिशास्त्रविरोधाच्चेति भावः । वपोत्खननस्यापि इच्छा- संभवेन वाक्यशेषोक्ततूपरयागानुष्ठानासम्भवेन चाशक्यस्यानुष्ठानत्वेन दृष्टविरुद्ध-

६ . मीमांसादर्शनम् [ सू० त्वादामरक्षणकर्त्तव्यताप्रतिपादकशास्त्रविरोधाच्च न विधानमित्याह—न होति—दिङ्मोहस्य चापुन्तन्त्रत्वेन दृष्टविरुद्धत्वात् 'प्राङ्मुखोऽन्नानि भुञ्जीत' इत्यादिशास्त्रविरोधाच्च न कर्तव्यमित्याह—न चेति । ननु माभूद्विधिकल्पना स्वार्थपर्यवसानमेवैषामस्तु, अथ वा किं विधिकल्पनया प्रामाण्याभ्युपगमेन प्राशस्त्यादिलक्षणाद्वारेण स्वसन्निहितविध्येकवाक्यतया धर्मप्रामाण्योपपत्तेरिति शङ्कां परिहरन्नुपसंहरति—अत इति । अतः क्रिया- बोधनद्वारेण धर्माधर्मप्रमापकत्वाभावादेषामर्थवादानामानर्थक्यं निष्प्रयोजनत्व- मेव युक्तमित्यर्थः । अयं भावः प्रयोजनवदर्थपर्यवसायित्वमध्ययनविधिपर्यालोचनया वेदमात्रस्य भवताभ्युपगतमेव । न चार्थवादानां स्वार्थपर्यवसायिनां तद्युज्यते, तत्प्रतीत्या प्रयोजनादर्शनात् । अतः प्राशस्त्यादिद्वारा विध्येकवाक्यत्वमेवैषां प्रामाण्य- प्रयोजकमाश्रयितव्यम् न च तत्र प्रमाणमस्ति, न च प्राशस्त्यादिणक्षणणैवेक- वाक्यत्वे प्रमाणम् सर्वत्रैकवाक्यताधीनत्वाल्लक्षणायाः तस्या अपि तदधीनत्वे परस्पराश्रयदोषप्रसङ्गात् । न च प्रयोजनवदर्थविवोधपरत्वं वेदस्य प्रतिपाद- यन्नध्ययनविधिरेवैकवाक्यत्वे प्रमाणमिति वाच्यम् । अध्ययनविधेरर्थवादशक्त्य- नुसारित्वेन तदवगमितस्यैव विशिष्टस्यार्थस्योपेक्षादिफलवत्त्वकल्पनायामेव तस्य सामर्थ्यादिति आनर्थक्यप्रतिपादनफलतया सूत्रशेषं व्याचष्टे—तस्मादिति । नन्वर्थवादेष्वप्यपौरुषेयत्वादिनित्यत्व हेतुसाम्यात् कथम नित्यत्वव्यपदेशः तत्राह—यद्यपीति । तथापि नित्यानां चोदनानां यत्कार्यं धर्माधर्मप्रमितिलक्षणम्, तन्न कुर्वन्तीति कृत्वा नित्या नित्यविलक्षणानि¹ अप्रमाणानीत्युच्येरन्नित्यर्थः । अन्यैर्वृत्तिकारैरिदं सूत्रं सर्ववेदप्रामाण्याक्षेपार्थं व्याख्यातम् । अर्थवादाप्रामाण्ये हि स्तुतिनिन्दादिलक्षणेतिकर्तव्यतांशाभावेन शब्दभावना- संभवात् चोदनाप्रामाण्यस्याक्षिप्तत्वं स्यादिति तां निराकरोति—स एष इति । वाक्यस्यैकदेशो वाक्यैकदेशः, विध्युद्देशातिरिक्तस्य वेदभागस्येति यावत् । अर्थवादादीनामविशेषेण धर्मं प्रत्यनुपयोगस्यापि पूर्वपक्षिणोऽभिमतत्वम् । न चेह वाक्यभेदमङ्गीकृत्य पूर्वपक्षप्रतिपादनात् एकवाक्यत्वासंभवेन वाक्यैकदेशत्वासंभवः, सिद्धान्त्यभिमतैकवाक्यत्वमाश्रित्यैकदेशत्वोक्त्यविरोधात् । यद्वा क्रय्योः, गौरियं हि सम्पन्नबहुक्षीरेत्यादौ कारकपदानाभिव स्तावक- पदानामप्येकवाक्यत्वदर्शनात्, वेदेऽप्येकवाक्यत्वसंभवमाश्रित्य तस्य वेदे द्वारा- भावेन निर्वाह मपश्यतः प्रत्यवस्थानात् पूर्वपक्षेप्येकवाक्यत्वमाश्रितमेवेति न विरोधः । १. नित्यानित्यविलक्षणानीति मातृकायां पाठः ।