भारतकोश
मृच्छकटिकम् (सटीक संस्कृत नाटक)

मृच्छकटिकम् (सटीक संस्कृत नाटक)

Mricchakatikam with Sanskrit-Hindi Commentary

महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा

DevanagariSanskritpublished760 पृष्ठ

पृष्ठ 204, कुल 760 में से

संदर्भ में पढ़ें
पृष्ठ 204

११६ मृच्छकटिकम्

रक्खो। अणुदासीणं से जोव्वणं पडिभासेदि। (अपवारितकेन प्रावृणोति।) (कथं परिजन इति मामवगच्छति। आश्चर्यम्! जातीकुसुमवासितः प्रावारकः, अनुदासीनमस्य यौवनं प्रतिभासते।)

चारु०— ननु रदनिके! रोहसेनं गृहीत्वाऽभ्यन्तरं प्रविश।

वसन्त०— [स्वगतम्।] अभागिणी क्खु अहं तुम्हे अब्भन्तरस्स। [अभागिनी खल्वहं तव अभ्यन्तरस्य।]

चारु०— ननु रदनिके! प्रतिवचनमपि नास्ति! कष्टम्!

यदा तु भाग्यक्षयपीडितां दशां नरः कृतान्तोपहितां प्रपद्यते।
तदाऽस्य मित्राण्यपि यान्त्यमित्रतां चिरानुरक्तोऽपि विरज्यते जनः ॥५३॥

चमेली के फूलों की गन्ध से सुगन्धित उत्तरीय, इसका यौवन [उपभोग तृष्णा से] उदासीन=विरक्त नहीं हुआ है।

चारुदत्त— अरी रदनिके! रोहसेन को लेकर भीतर जाओ।

वसन्तसेना— (स्वगत) तुम्हारे (घर के) भीतर (प्रवेश करने) के सौभाग्यवाली (योग्य) नहीं हूँ।

अन्वयः— यदा, नरः, कृतान्तोपहिताम्, भाग्यक्षयपीडिताम्, दशाम्, प्रपद्यते, तदा, तु, अस्य, मित्राणि, अपि, अमित्रताम्, यान्ति, चिरानुरक्तः, अपि, जनः, विरज्यते ॥ ५३ ॥

शब्दार्थ— यदा=जब, नरः=मनुष्य, कृतान्तोपहिताम्=प्रतिकूल भाग्यद्वारा उपस्थापित, भाग्यक्षयपीडिताम्=भाग्यनाश के कारण दलित, दशाम्=अवस्था को प्रपद्यते=प्राप्त करता है, तदा=उस समय, तु=तो, मित्राणि=मित्र, अपि=भी, अमित्रताम्=शत्रुता को, यान्ति=प्राप्त कर लेते हैं, चिरानुरक्तः=बहुत समय से प्रेम करने वाला, अपि=भी, जनः=मनुष्य, विरज्यते=विरक्त=विमुख हो जाता है ॥५३॥

अर्थ—चारुदत्त— अरी रदनिके! (तेरे पास) उत्तर भी नहीं है?

जब मनुष्य दुर्दैव द्वारा उपस्थापित, भाग्यनाश के कारण दलित दुर्दशा को प्राप्त हो जाता है, तब इस (निर्धन) के मित्र भी शत्रुता को प्राप्त हो जाते हैं और दीर्घकाल से अनुराग रखने वाला व्यक्ति भी विरक्त (अनुरागहीन हो जाता है ॥ ५३ ॥

टीका— नरः = मानवः, यदा = यस्मिन् काले, कृतान्तोपहिताम्=कृतान्तेन दैवेन, उपहिताम् = प्रापिताम्, भाग्यक्षयपीडिताम् = भाग्यस्य अदृष्टस्य, क्षयेण=विनाशेन, पीडिताम्=दलिताम् दशाम्=अवस्थां, प्रपद्यते=प्राप्नोति, तदा=तस्मिन् काले, अस्य=निर्धनस्य, मित्राणि=सखायः, अपि अमित्रताम्=शत्रुताम्, यान्ति=गच्छन्ति, चिरानुरक्तः अपि=दीर्घकालाद् अनुरागयुक्तः अपि, जनः=मानवः, विरज्यते=विरक्तो भवति। अत्र अप्रस्तुतात् प्रस्तुताया रदनिकायाः प्रतीतेरप्रस्तुत-प्रशंसालङ्कारः। वंशस्थं वृत्तम्-वदन्ति वंशस्थबिलं जतौ जरौ ॥ ५३ ॥