मृच्छकटिकम् (सटीक संस्कृत नाटक)
Mricchakatikam with Sanskrit-Hindi Commentary
महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा
पृष्ठ 476, कुल 760 में से
संदर्भ में पढ़ें३८८ | मृच्छकटिकम्
अवि अ (अपि च)
उज्जाणेसु सभासु अ मग्गे णअरीअ आवणे घोसे । तं तं जोहह तुरिअं संका वा जाएए जत्थ ॥ ७ ॥ ( उद्यानेषु सभासु च मार्गे नगर्यामापणे घोषे । तं तमन्वेषयत त्वरितं शङ्का वा जायते यत्र ॥ ७ ॥ )
रे रे वीरअ ! किं किं दरिसेसि भणाहि दाव वीसद्धं । भेत्तूण अ बन्धणअं को सो गोवालदारअं हरइ ॥ ८ ॥ ( रे रे वीरक ! किं किं दर्शयसि भणसि तावद्विश्रब्धम् । भित्त्वा, च बन्धनकं कः स गोपालदारकं हरति ॥ ८ ॥ )
यद्वा मयि विश्वासवन्तः, जनाः, आगच्छत=आयात, त्वरितम्=सत्वरम्, यतध्वम्=तद्ग्रहणाय प्रयत्नं कुरुध्वम्, लघु=शीघ्रमेव, कुरुध्वम्=अपेक्षितं कार्यं सम्पादयत, येन=येन हेतुना, राज्ञः=नृपस्य पालकस्य, राज्यलक्ष्मीः=राज्यश्रीः, गोत्रान्तरम्=पालकाद्भिन्नस्य आर्यकस्य समीपम्, गन्तुम्=व्रजितुम्, न=नैव, प्रभवति=समर्था भवेत् । गाथा वृत्तम् ॥ ६ ॥
**अन्वयः—**उद्यानेषु, सभासु, मार्गे, नगर्याम्, आपने, घोषे, च, यत्र, वा, शङ्का जायते, तम्, तम्, त्वरितम्, अन्वेषयत ॥ ७ ॥
**शब्दार्थ—**उद्यानेषु=बगीचों में, सभासु=सभाओं में, मार्गे=रास्ते में, नगर्याम्=नगरी में, आपने=बाजार में, च=और, घोषे=अहीरों की बस्ती में, वा=अथवा, यत्र यत्र=जहाँ जहाँ, शंका=सन्देह, जायते=उत्पन्न होता हो, तम् तम्=उस उसको, त्वरितम्=शीघ्र ही, अन्वेषयत=खोजो ॥ ७ ॥
**अर्थ—**बगीचों में, सभाओं में, रास्ते में, नगर में, बाजार में और बस्ती में अथवा जहाँ जहाँ सन्देह हो जाय उस उसको शीघ्र ही खोजो ॥ ७ ॥
**टीका—**रक्षकान् अन्वेषणीयस्थानानि सूचयति-उद्यानेष्विति । उद्यानेषु=आक्रीडेषु, सभासु=उत्सवादिस्यथलेषु, मार्गे=पथि, नगर्याम्=नगरमध्ये, आपने=हट्टे, च=तथा, घोषे=आभीरपल्ल्याम्, वा=अथवा, यत्र यत्र==यस्मिन् यस्मिन् स्थाने, शङ्का=आर्यकसद्भावसन्देहः, जायते=उत्पद्यते, तम् तम्=स्थानविशेषम्, त्वरितम्=शीघ्रमेव, अन्वेषयत=गवेषयत । आर्या वृत्तम् ॥ ७ ॥
**विमर्श—**यहाँ सभा शब्द से वे सभी स्थान लेने चाहिये जहाँ कई लोग एकत्रित होकर बैठे हों । 'नगरी' इससे नगर का घनी आबादीवाला क्षेत्र लेना चाहिये । यहाँ आर्या अथवा गाथा छन्द है ॥ ७ ॥
**अन्वय—**रे रे वीरक ! किम्, किम्, दर्शयसि, विश्रब्धम्, तावत्, भणसि, बन्धनकम्, भित्त्वा, सः, कः, गोपालदारकम्, हरति ? ॥ ८ ॥