मृच्छकटिकम् (सटीक संस्कृत नाटक)
Mricchakatikam with Sanskrit-Hindi Commentary
महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा
पृष्ठ 729, कुल 760 में से
संदर्भ में पढ़ेंदशमोऽङ्कः ६४१
यथा--'आर्ये ! मा साहसं कुरु, जीवति आर्यचारुदत्त' इति । परन्तु दुःखव्यापृततया कः शृणोति ? कः प्रत्ययते ? )
चारुदत्तः - (सोद्वेगम्) हा प्रिये ! जीवत्यपि मयि किमेतत् व्यवसितम् ? ( उद्धर्वमवलोक्य दीर्घं निश्वस्य च )
न महीतलस्थितिसहानि भवच्चरितानि चारुचरिते ! यदपि ।
उचितं तथापि परलोकसुखं न पतिव्रते ! तव विहाय पतिम् ॥ ५६ ॥
( इति मोहमुपगतः । )
कहा "आर्ये ! दुस्साहस मत करो, आर्य चारुदत्त जीवित हैं।" लेकिन दुःख से अति व्याकुल होने के कारण कौन सुनता है ? कौन विश्वास करता है ?
अन्वयः— हे चारुचरिते ! यदपि, भवच्चरितानि, महीतलस्थितिसहानि, न, तथापि, हे पतिव्रते ! पतिम्, विहाय, तव, परलोकसुखम्, न, उचितम् ॥५६॥
शब्दार्थ— हे चारुचरिते = हे सुन्दर चरित्रवाली [ प्रिये ], यदपि = यद्यपि, भवच्चरितानि = आपके चरित्र, महीतलस्थितिसहानि = पृथ्वी लोक में रहने के योग्य, न = नहीं हैं, अर्थात् स्वर्ग में रहने योग्य हैं, तथापि = फिर भी, हे पतिव्रते = हे पतिव्रता, पतिम् = (मुझ) पति को, विहाय = छोड़कर, तव = तुम्हारा, परलोकसुखम् = परलोक का सुख, न = नहीं, उचितम् = ठीक है ॥५६॥
अर्थ—चारुदत्त— ( उद्वेगसहित ) हाय प्रिये ! मेरे जीवित रहने पर भी ( तुमने ) यह क्या कर डाला ? ( ऊपर देख कर और लम्बी सांसें लेकर ) —
हे सुन्दर चरित्रवाली ! आपके चरित्र यद्यपि पृथिवीलोक में रहने के योग्य नहीं हैं अर्थात् स्वर्गादियोग्य हैं। फिर भी, हे पतिव्रते ! मुझ पति को छोड़ कर तुम्हारा ( अकेला ) स्वर्गसुख ( प्राप्त करना ) उचित नहीं है ॥५६॥
( ऐसा कह कर मूर्च्छित हो जाता है । )
टीका— स्वमृत्युवधं श्रुत्वा आत्मदाहाय प्रयतमानां पत्नीमाकर्ण्य तद्गुणान् स्मरन् विलपति-नेति। हे चारुचरिते ! = चारु = सुन्दरम्, प्रशस्यम् चरितम् = आचरणम्, यस्यास्तत्सम्बुद्धौ रूपम्, हे प्रशस्याचरणवति !, भवच्चरितानि = भवत्याः चरितानि = आचरणानि, यदपि = यद्यपि, महीतलस्थितिसहानि = महीतले = पृथ्वीतले, स्थितिम् = अवस्थानम्, तां सहन्ते = योग्यानि भवन्ति, पृथिवीलोकनिवास-योग्यानि, न = नैव, सन्ति = वर्तन्ते, तथापि = एवं सत्यपि, हे पतिव्रते = पतिः = भर्ता, भर्तुःशुश्रूषा एव व्रतम् = नियमः यस्यास्तत्सम्बुद्धौ, यद्वा पतिः व्रतमिव, यस्यास्तत्सम्बुद्धौ रूपम्, पतिम् = भतीरम् अग्न्यादिसाक्ष्येण पतिरूपेणांगीकृतम्, मामिति शेषः, विहाय = त्यक्त्वा, तव = भवत्याः, धूताया इत्यर्थः, परलोकसुखम् = परलोकसुखोपभोग इति भावः, न = नैव, उचितम् = प्रशंसनीयम्। एवञ्च मया सहैव त्वया प्राणा हातव्याः,
४१ मृ०