मृच्छकटिकम् (सटीक संस्कृत नाटक)
Mricchakatikam with Sanskrit-Hindi Commentary
महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा
दशमोऽङ्कः ६४१
यथा--'आर्ये ! मा साहसं कुरु, जीवति आर्यचारुदत्त' इति । परन्तु दुःखव्यापृततया कः शृणोति ? कः प्रत्ययते ? )
चारुदत्तः - (सोद्वेगम्) हा प्रिये ! जीवत्यपि मयि किमेतत् व्यवसितम् ? ( उद्धर्वमवलोक्य दीर्घं निश्वस्य च )
न महीतलस्थितिसहानि भवच्चरितानि चारुचरिते ! यदपि ।
उचितं तथापि परलोकसुखं न पतिव्रते ! तव विहाय पतिम् ॥ ५६ ॥
( इति मोहमुपगतः । )
कहा "आर्ये ! दुस्साहस मत करो, आर्य चारुदत्त जीवित हैं।" लेकिन दुःख से अति व्याकुल होने के कारण कौन सुनता है ? कौन विश्वास करता है ?
अन्वयः— हे चारुचरिते ! यदपि, भवच्चरितानि, महीतलस्थितिसहानि, न, तथापि, हे पतिव्रते ! पतिम्, विहाय, तव, परलोकसुखम्, न, उचितम् ॥५६॥
शब्दार्थ— हे चारुचरिते = हे सुन्दर चरित्रवाली [ प्रिये ], यदपि = यद्यपि, भवच्चरितानि = आपके चरित्र, महीतलस्थितिसहानि = पृथ्वी लोक में रहने के योग्य, न = नहीं हैं, अर्थात् स्वर्ग में रहने योग्य हैं, तथापि = फिर भी, हे पतिव्रते = हे पतिव्रता, पतिम् = (मुझ) पति को, विहाय = छोड़कर, तव = तुम्हारा, परलोकसुखम् = परलोक का सुख, न = नहीं, उचितम् = ठीक है ॥५६॥
अर्थ—चारुदत्त— ( उद्वेगसहित ) हाय प्रिये ! मेरे जीवित रहने पर भी ( तुमने ) यह क्या कर डाला ? ( ऊपर देख कर और लम्बी सांसें लेकर ) —
हे सुन्दर चरित्रवाली ! आपके चरित्र यद्यपि पृथिवीलोक में रहने के योग्य नहीं हैं अर्थात् स्वर्गादियोग्य हैं। फिर भी, हे पतिव्रते ! मुझ पति को छोड़ कर तुम्हारा ( अकेला ) स्वर्गसुख ( प्राप्त करना ) उचित नहीं है ॥५६॥
( ऐसा कह कर मूर्च्छित हो जाता है । )
टीका— स्वमृत्युवधं श्रुत्वा आत्मदाहाय प्रयतमानां पत्नीमाकर्ण्य तद्गुणान् स्मरन् विलपति-नेति। हे चारुचरिते ! = चारु = सुन्दरम्, प्रशस्यम् चरितम् = आचरणम्, यस्यास्तत्सम्बुद्धौ रूपम्, हे प्रशस्याचरणवति !, भवच्चरितानि = भवत्याः चरितानि = आचरणानि, यदपि = यद्यपि, महीतलस्थितिसहानि = महीतले = पृथ्वीतले, स्थितिम् = अवस्थानम्, तां सहन्ते = योग्यानि भवन्ति, पृथिवीलोकनिवास-योग्यानि, न = नैव, सन्ति = वर्तन्ते, तथापि = एवं सत्यपि, हे पतिव्रते = पतिः = भर्ता, भर्तुःशुश्रूषा एव व्रतम् = नियमः यस्यास्तत्सम्बुद्धौ, यद्वा पतिः व्रतमिव, यस्यास्तत्सम्बुद्धौ रूपम्, पतिम् = भतीरम् अग्न्यादिसाक्ष्येण पतिरूपेणांगीकृतम्, मामिति शेषः, विहाय = त्यक्त्वा, तव = भवत्याः, धूताया इत्यर्थः, परलोकसुखम् = परलोकसुखोपभोग इति भावः, न = नैव, उचितम् = प्रशंसनीयम्। एवञ्च मया सहैव त्वया प्राणा हातव्याः,
४१ मृ०
६४२ मृच्छकटिकम्
शर्विलकः--अहो ! प्रमादः ।
त्वरया सर्पणं तत्र मोहमार्योऽत्र चागतः ।
हा धिक् प्रयत्नवैकल्यं दृश्यते सर्वतोमुखम् ॥ ५७ ॥
येन आवयोः सहैव स्वर्गसुखप्राप्तिः स्यादिति भावः । प्रमिताक्षरा वृत्तम्, एतल्लक्षणम्--“प्रमिताक्षरा सजससैः कथिता ॥५६॥
विमर्श--अपनी पत्नी के आचरण से अत्यन्त प्रसन्न और सन्तुष्ट रहने वाला चारुदत्त उसी की मृत्यु का समाचार सुनकर अति व्याकुल हो जाता है। वसन्तसेना उसे मिल चुकी है फिर भी वह अपनी पतिव्रता पत्नी को किसी भी स्थिति में छोड़ना सहन नहीं कर सकता। वह उसे पतिव्रता के धर्मों का संकेत करके अकेले स्वर्ग-सुख-प्राप्ति का निषेध करता है। हारीत ने पतिव्रता का यह लक्षण किया है—
आर्त्तार्ते, मुदिता हृष्टे, प्रोषिते मलिना कृशा ।
मृते म्रियेत या पत्यौ सा स्त्री ज्ञेया पतिव्रता ॥५६॥
अन्वयः--तत्र, त्वरया, सर्पणम्, ( अपेक्षितम् ) अत्र, च, आर्यः, मोहम्, आगतः, हां धिक्, सर्वतोमुखम्, प्रयत्नवैकल्यम्, दृश्यते ॥५७॥
शब्दार्थ--तत्र=वहाँ [ आर्या धूता के पास ), त्वरया=जल्दीसे, सर्पणम्=पहुँचना, ( अपेक्षितम्=अपेक्षित, है) च=और, अत्र=यहाँ, आर्यः=श्रीमान्, चारुदत्त, मोहम्=मूर्च्छा को, आगतः=प्राप्त हो गये, मूर्छित हो गये, हा धिक् !=हाय धिक्कार है, सर्वतोमुखम्=सभी ओर, प्रयत्नवैकल्यम्=प्रयासों की विफलता, दृश्यते=दिखाई पड़ रही है ॥५७॥
अर्थ--शर्विलक--हाय ! बहुत बड़ी असावधानी ( हो गयी ) ।
वहाँ ( आर्या धूता के पास ) जल्दी जाना ( अपेक्षित ) है और यहाँ आर्य ( चारुदत्त ) मूर्छित हो गये हैं। हाय धिक्कार है, सभी ओर प्रयासों की विफलता दिखाई दे रही है ॥५७॥
टीका--मूर्च्छितस्य चारुदत्तस्य धूतासमीपे गमनमतिदुष्करमिति तस्याः प्राणरक्षणं दुःशकमिति विचिन्त्य शर्विलकः स्वप्रयासवैकल्यं विलोकयन् आह--त्वरयेति । तत्र=तस्मिन् स्थाने यत्रार्या धूता अग्नौ प्रविश्य स्वप्राणान् परित्यक्तुं प्रयतमानावस्ति, त्वरया=अतिशीघ्रमेव, सर्पणम्=गमनम्, अपेक्षितम्, च=किन्तु, अत्र=अस्मिन् स्थाने, आर्यः=श्रीमान् चारुदत्त:, मोहम्=मूर्च्छाम्, आगतः=उपगतः, एवञ्च मूर्च्छितः सः स्वपत्न्याः रक्षणं कथं करिष्यतीति भावः, हा धिक्=हा कष्टम्, सर्वतोमुखम्=सर्वस्मिन् वस्तुनि, मुखम्=प्रारम्भः, प्रसक्तिर्वा यस्य तत्, सर्वतो-
दशमोऽङ्कः ६४३
वसन्तसेना--समस्ससिदु अज्जो। तत्थ गदुअ जीवावेदु अज्जं। अण्णधा अधीरत्तणेण अणत्थो सम्भावीयदि। (समाश्वसितु आर्यः। तत्र गत्वा जीवयतु आर्याम्। अन्यथा अधीरत्वेन अनर्थः सम्भाव्यते।)
चारुदत्तः--(समाश्र्वस्य सहसोत्थाय) हा प्रिये! क्वासि? देहि मे प्रति-वचनम्।
चन्दनकः--इदो इदो अज्जो। (इत इत आर्यः।)
(इति सर्वे परिक्रामन्ति।)
(ततः प्रविशति यथानिर्दिष्टा धूता चेलाञ्चलमाकर्षन् विदूषकेनानुगम्यमानो रोहसेनो रदनिका च।)
धूता--(सास्रम्) जाद! मुञ्चेहि मं, मा विग्धं करेहि। भीआमि अज्जउत्तस्स अमङ्गलाकण्णणादो। (जात! मुञ्च माम्, मा विघ्नं कुरु, बिभेमि आर्यपुत्रस्य अमङ्गलाकर्णनात्।) (इत्युत्थाय अञ्चलमाकृष्य पावकाभिमुखं परिक्रामति।)
रोहसेनः--माद अज्जए! पडिवालेहि मं, तुए विणा ण सक्कुणोमि जीविदं धारेदुं। (मातरायें! प्रतिपालय माम्, त्वया विना न शक्नोमि जीवितं धारयितुम्।) (इति त्वरितमुपसृत्य पुनरञ्चलं गृह्णाति।)
गमीत्यर्थः, प्रयत्नानाम्=मम प्रयासानाम्, वैफल्यम्=विफलता, दृश्यते=विलोक्यते। एवञ्चात्र मया किंकरणीयमिति विचारयितुं न शक्यते। पथ्यावक्त्रं वृत्तम् ॥५७॥
**अर्थ--वसन्तसेना--**आर्य धैर्य धारण करें। वहाँ जाकर आर्या [धूता] को जीवनदान करें। नहीं तो अधीर होने से अनर्थ [मृत्यु] की सम्भावना है।
चारुदत्त--(धैर्य धारण करके अचानक उठकर) हा प्रिये! कहाँ हो? मुझे उत्तर दो।
चन्दनक--इधर, इधर आइये आर्य!
(यह कहकर सभी घूमते हैं।)
(इसके बाद पहले बतलायी गयी अवस्थावाली धूता, वस्त्र के छोर को खींचता हुआ और विदूषक द्वारा अनुसरण किया जाता हुआ रोहसेन तथा रदनिका प्रवेश करते हैं।)
धूता--(आंसुओं के सहित) बेटा! मुझे छोड़ दो, विघ्न मत करो, आर्यपुत्र के अमङ्गल [मृत्युसमाचार] को सुनने से डरती हूँ। (ऐसा कहकर उठकर आँचल छुड़ाकर आग की ओर बढ़ती है।)
रोहसेन--मां आर्ये! मुझे पालो (या मेरी प्रतीक्षा करो।) तुम्हारे बिना मैं जीवनधारण नहीं कर सकता। (ऐसा कह कर शीघ्र ही पास जाकर फिर आँचल पकड़ लेता है।)
| ६४४ | मृच्छकटिकम् |
|---|
विदूषकः--भोदीए दाव वम्हणीए भिण्णत्तणेण चिदाधिरोहणं पावं उदाहरन्ति रिसिओ । ( भवत्यास्तावत् ब्राह्मण्या भिन्नत्वेन चिताधिरोहणं पापमुदाहरन्ति ऋषयः । )
धूता--वरं पावाचरणं, ण उण अज्जउत्तस्स अमङ्गलाकण्णणं । ( वरं पापाचरणम्, न पुनरार्यपुत्रस्य अमङ्गलाकर्णनम् । )
शर्विलकः--(पुरोऽवलोक्य) आसन्नहुतवहा आर्या । तत् त्वर्यतां त्वर्यताम् । ( चारुदत्तः त्वरितं परिक्रामति । )
धूता--रअणिए ! अवलम्ब दारअं, जाव अहं समीहिदं करेमि । ( रदनिके ! अवलम्बस्व दारकम्, यावदहं समीहितं करोमि । )
चेटी--( सकरुणम् ) अहं पि जधोपदेसिणि म्हि भट्टिणीए । ( अहमपि यथोपदेशिन्यस्मि भर्त्र्याः । )
धूता--( विदूषकमवलोक्य ) अज्जो दाव अवलम्बेदु । ( आर्यस्तावदबलम्बताम् । )
विदूषकः-(सावेगम्) समीहिद-सिद्धिाए पउत्तेण बम्हणो अग्गदो कदव्वो । अदो भोदीए अहं अग्गणी होमि । (समीहितसिद्धये प्रवृत्तेन ब्राह्मणः अग्रतः कर्त्तव्यः । अतो भवत्या अहमग्रणीर्भवामि । )
विदूषक--आप ब्राह्मणी का ( पति से ) अलग होकर अर्थात् अकेले चिता पर चढ़ना ऋषि लोग पाप कहते हैं ।
धूता--पाप कर लेना अच्छा है न कि आर्यपुत्र का अमंगल ( मृत्युसमाचार ) सुनना ।
शर्विलक--( सामने देखकर ) आर्या आग के समीप ( जा चुकी ) हैं । अतः जल्दी करो जल्दी करो ।
( चारुदत्त जल्दी-जल्दी चलने लगता है । )
धूता--रदनिका ! बच्चे को पकड़ो, तब तक मैं अपना अभीष्ट ( अग्नि प्रवेश ) कर लूं ।
चेटी--( करुणापूर्वक ) आप जैसा कह रही हैं वैसा ही मैं भी आपसे कहने वाली हूँ । अर्थात् मुझे पहले आग में प्रवेश कर लेने दो, आप बच्चे को पकड़िये ।
धूता--( विदूषक की ओर देखकर ) तो आर्य ! आप ही पकड़ लीजिये ।
विदूषक--( घबड़ाहट के साथ ) अभीष्ट की सिद्धि के लिये ब्राह्मण को आगे करना चाहिये । अतः मैं आपके आगे-आगे चलता हूँ ।
दशमोऽङ्कः ६४५
धूता—कधं पच्चादिट्ट म्हि दुवेहि । (बालकमालिङ्ग्य) जाद ! तुमं ज्जेव पज्जवट्टावेहि अत्ताणं अम्हाणं तिलोदअदाणाअ अदिक्वन्ते किं मणोरहेहिं । (सनिःश्वासम्) ण क्खु अज्जउत्तो तुमं पज्जवट्टाविस्सदि । (कथं प्रत्यादिष्टास्मि द्वाभ्याम् । )( जात ! त्वमेव पर्यवस्थापय आत्मानम् अस्माकं तिलोदकदानाय । अतिक्रान्ते किं मनोरथैः । ) ( न खल्वार्यपुत्रस्त्वां पर्यवस्थापयिष्यति । )
चारुदत्तः—(आकर्ण्य सहोपसृत्य) अहमेव पर्यवस्थापयामि बालिशम् ।
( इति बालकं बाहुभ्यामुत्थाप्य वक्षसाऽऽलिङ्गति । )
धूता—( विलोक्य ) अम्महे ! अज्जउत्तस्स ज्जेव स्सरसञ्जोओ । (पुन-निपुणं निरूप्य सहर्षम्) दिट्ठिआ अज्जउत्तो ज्जेव एसो । पिअं मे पिअं (अहो ! आर्यपुत्रस्यैव स्वरसंयोगः । ) ( दिष्ट्या आर्यपुत्र एवैषः । प्रियं मे प्रियम् । )
बालकः —( विलोक्य सहर्षम् ) अम्हो ! आवुको मं परस्सजदि । ( धूतां प्रति ) अज्जए ! वड्ढवीअसि आवुको ज्जेव मं पज्जवट्टावेदि ! (इति प्रत्या-लिङ्गति ) ( अहो ! तातो मां परिष्वजति । ) ( आर्ये ! वर्द्धसे, तात एव मां पर्यवस्थापयति । )
चारुदत्तः—( धूतां प्रति )
हा प्रेयसि ! प्रेयसि विद्यमाने कोऽयं कठोरो व्यवसाय आसीत् ।
अम्भोजिनी लोचनमुद्रणं किं भानावनस्तंगमिते करोति ? ॥५८॥
धूता—क्या दोनों ने अस्वीकार कर दिया ? ( बच्चे का आलिङ्गन करके ) बेटा ! हम लोगों को तिलजल देने के लिये तुम्हीं अपने पर संयम रक्खो, अर्थात् जीवित रहने का धैर्य रखो । ( तुम्हारे ) मर जाने पर हम लोगों के मनोरथ व्यर्थ हो जायेंगे । आर्यपुत्र तुम्हारा पालन ( रक्षा ) नहीं कर पायेंगे ।
चारुदत्त—(सुनकर अचानक पास पहुँचकर) मैं ही बालक की रक्षा करूँगा ।
( यह कह कर बच्चे को हाथों से उठाकर हृदय से आलिंगन कराता है । )
धूता—( देखकर ) अरे, यह तो आर्यपुत्र की ही आवाज है । ( फिर अच्छी तरह देखकर हर्षसहित ) भाग्यवशात् यह आर्यपुत्र ही हैं । हमारा प्रिय है प्रिय है ।
बालक—(देखकर हर्षसहित ) अहो ! पिता जी मेरा आलिंगन करते हैं । ( धूता की ओर ) आर्ये ! वृद्धि हो रही है, पिता ही मेरा पालन कर रहे हैं । ( ऐसा कह-कह बदले में आलिंगन करता है । )
अन्वयः—हा प्रेयसि ! प्रेयसि, विद्यमाने, ( अपि ), कः, अयम्, कठोरः, व्यवसायः, आसीत्, किम्, भानौ, अनस्तङ्गमिते, ( अपि ), अम्भोजिनी, लोचन-मुद्रणम्, करोति ? ॥ ५८ ॥
| ६४६ | मृच्छकटिकम् |
|---|
धूता— अज्जउत्त ! अदो ज्जेव सा अचेतणेत्ति चुम्बीअदि [ उच्ची-अदि ] । ( आर्यपुत्र ! अतएव सा अचेतनेति चुम्ब्यते [ उच्यते ] । )
विदूषकः—(दृष्ट्वा सहर्षम्) ही ही भो ! एदेहिं ज्जेव अच्छीहिं पिअव-अस्सो पेक्खीअदि । अहो ! सदीए पहवो जदो उजलणप्पवेश-व्यवसा-एण ज्जेव पिअसमागमं पाविदा । ( चारुदत्तं प्रति ) जेदु जेदु पिअवअस्सो । ( आश्चर्यं भोः ! एताभ्यामेवाक्षिभ्यां प्रियवयस्यः प्रेक्ष्यते । अहो ! सत्याः प्रभावः यतो ज्वलनप्रवेश-व्यवसायेनैव प्रियसमागमं प्रापिता । ) (जयतु जयतु प्रियवयस्यः । )
शब्दार्थ— हा प्रेयसि = हाय प्रियतमे !, प्रेयसि = प्रियतम अर्थात् मेरे, विद्य-माने = जीवित रहने पर भी, कः = कौन सा, अयम् = यह, कठोरः = कठोर, व्यवसायः = प्रयास, कार्य करने का विचार, आसीत् = था, किम् = क्या, भानौ = सूर्य के, अनस्तं-गमिते = अस्त न होने पर, ( अपि = भी ) अम्भोजिनी = कमलिनी, लोचनमुद्रणम् = ( पुष्परूपी ) नेत्र को बन्द, करोति = करती है ? ! । ५८ ।।
अर्थ--चारुदत्त-- ( धूर्ता की ओर ) -
हाय प्रियतमे ! मुझ प्रियतम के जीवित रहने पर भी यह कौन सा कठोर निर्णय या काम था । क्या सूर्य के अस्त न होने पर भी कमलिनी अपनी आंखें बन्द करती है ? ।। ५८ ।।
**टीका —**प्रियतमस्य मृत्युदण्डं श्रुत्वा तद्विरहमसहमाना सहसैव स्वान् प्राणान् परित्यक्तुमिच्छन्तीं धूतामविमृश्यकारित्वेन सादरमनुयुङ्क्ते—हा प्रेयसीति । हा = इदं शोकसूचकमव्ययम्, प्रेयसि = प्रियतमे, प्रेयसि = प्राणादपि प्रेयसि पत्यो मयि, विद्यमाने = वर्तमाने, जीवति सतीत्यर्थः, कः = कीदृशः अयम् = एषः, त्वयाऽ-नुष्ठीयमानः, व्यवसायः = उद्योग अग्निनप्रवेशरूप इत्यर्थः, आसीत् ? सर्वथाऽनुचितोऽ-विवेकपूर्णश्चास्ति, भानौ = सूर्ये, अनस्तङ्गमिते = अस्ताचलशिखरे अनधिष्ठिते, यद्वा विधिना तत्र अप्रापिते सत्व, अम्भोजिनी = कमलिनी, लोचनमुद्रणम् = नेत्रनिमीलनम्, पद्मसंकोचमित्यर्थः, करोति किम् = विदधाति किम् ? नैव करोतीति भावः । एवमेव मयि जीवत्यपि त्वया प्राणपरित्यागस्य व्यवसायः सर्वथाऽविवेकपूर्ण एवेति त्वया ज्ञेयम् । ‘अनस्तंगमिते’ इत्यत्र नञः समस्तप्रयोगे तदर्थस्य प्राधान्यानवगमाद् अविमृष्ट-विधेयांशरूपो दोष इति जीवानन्दः । दृष्टान्तालंकारः, इन्द्रवज्रा वृत्तम् ।। ५८ ।।
**अर्थ--धूता--**आर्यपुत्र ! इसी लिये तो वह अचेतन ऐसा कही जाती है ।
विदूषक--(देखकर, हर्षसहित) हा, हा, अरे ! इन्हीं आंखों से प्रिय मित्र को देख रहा हूँ। अहो ! सती का प्रभाव, जो अग्नि में प्रवेश के उपक्रम से ही प्रिय-समागम को प्राप्त करा दी गई । ( चारुदत्त के प्रति ) प्रिय मित्र की जय हो, जय हो ।
दशमोऽङ्कः ६४७
**चारुदत्तः—**एहि मैत्रेय ! (इत्यालिङ्गति ।)
**चेटी—**अहो ! संविधाणं । अज्ज ! वन्दामि । (अहो ! संविधानकम् । आर्य ! वन्दे ।) ( इति चारुदत्तस्य पादयोः पतिता । )
चारुदत्तः— ( पृष्ठे करं दत्त्वा ) रदनिके ! उत्तिष्ठ । ( इत्युत्थापयति । )
धूता— (वसन्तसेनां दृष्ट्वा ) दिट्ठिआ कुसलिणो बहिणीआ ? ( दिष्ट्या कुशलिनी भगिनी ? )
**वसन्तसेना—**अहुणा कुसलिणो संवृत्ताम्हि । ( अधुना कुशलिनी संवृत्तास्मि । ) ( इत्यन्योन्यमालिङ्गतः । )
**शर्विलकः—**दिष्टया जीवितसुहृद्वर्ग आर्यः ।
**चारुदत्तः—**युष्मत्प्रसादेन ।
**शर्विलकः—**आर्ये वसन्तसेने ! परितुष्टो राजा भवतीं वधूशब्देनानुगृह्णाति ।
**वसन्तसेना—**अज्ज ! किदत्थम्हि । ( आर्ये ! कृतार्थास्मि । )
शर्विलकः— ( वसन्तसेना मवगुण्ठ्य चारुदत्तं प्रति ) आर्य ! किमस्य भिक्षोः क्रियताम् ?
**चारुदत्तः—**भिक्षो ! किं तव बहुमतम् ?
**चारुदत्तः—**आओ मैत्रेय ! ( यह कहकर आलिंगन करता है । )
**चेटी—**अहो ! कैसा शुभ संयोग बना है । आर्य ! प्रणाम करती हूँ । ( यह कहकर चारुदत्त के पैरों पर गिर जाती है । )
चारुदत्त— ( पीठ पर हाथ रखकर ) रदनिका ! उठो । ( यह कह कर उठाता है । )
धूता— ( वसन्तसेना को देखकर ) सौभाग्यवश बहिन कुशलतायुक्त हैं ?
**वसन्तसेना—**अब कुशलयुक्त हो गयी हूँ । ( यह कह कर एक दूसरे का आलिंगन करती हैं । )
**शर्विलक—**सौभाग्यवश आर्य सुहृद्वर्गसहित जीवित हैं ।
**चारुदत्त—**तुम्हारी अनुकम्पा से ।
**शर्विलक—**सम्माननीय वसन्तसेना जी ! प्रसन्न राजा ( आर्यक ) आपको 'वधू' शब्द से अनुगृहीत ( अलंकृत ) कर रहे हैं ।
**वसन्तसेना—**आर्य ! मैं कृतार्थ हो गयी हूँ ।
शर्विलक— ( वसन्तसेना को घूंघट युक्त बनाकर चारुदत्त की ओर ) आर्य ! इस भिक्षु का क्या किया जाय ?
**चारुदत्त—**भिक्षु ! तुम्हारा सबसे अधिक अभीष्ट क्या है ?
६४८ | मृच्छकटिकम्
भिक्षुः-इमं ईद्दिशं अणिच्चत्तणं पेक्खिअ दिउणे मे पव्वज्जाए बहुमाणे संवुत्ते । (इदमीदृशमनित्यत्वं प्रेक्ष्य द्विगुणो मे प्रव्रज्यायां बहुमानः संवृत्तः ।)
चारुदत्तः-सखे ! दृढोऽस्य निश्चयः । तत्पृथिव्याः सर्वविहारेषु कुलपतिरयं क्रियताम् ।
शर्विलकः यथाह आर्य ।
भिक्षुः--पिअं णो पिअं । ( प्रियं नः प्रियम् । )
वसन्तसेना--सम्पदं जीवाविदम्हि । ( साम्प्रतं जीवापितास्मि । )
शर्विलकः--स्थावरकस्य किं क्रियताम् ?
चारुदत्तः--सुवृत्त अदासो भवतु । ते चाण्डालाः सर्वचाण्डालानामधिपतयो भवन्तु । चन्दनकः पृथिवीदण्डपालको भवतु । तस्य राष्ट्रियश्यालस्य यथैव क्रिया पूर्व्वमासीत्, वर्त्तमाने तथैवास्तु ।
शर्विलकः--एवं यथाह आर्य्यः । परमेनं मुञ्च मुञ्च, व्यापपादयामि ।
चारुदत्तः-( अभयं शरणागतस्य । 'शत्रुः कृतापराधः' १०।५५ इत्यादि पद्यं पठति । )
शर्विलकः-तदुच्यतां किं ते भूयः प्रियं करोमि ?
भिक्षु-इस ऐसी अनित्यता को देखकर संन्यास में मेरा दुगुना अनुराग बढ़ गया है ।
चारुदत्त--मित्र ! इसका दृढ़ निश्चय है । इसलिये इसे पृथिवी पर सभी बौद्ध-विहारों का कुलपति बना दिया जाय ।
शर्विलक-आर्य की जैसी आज्ञा ।
भिक्षु-हमारे लिये प्रिय है, प्रिय है ।
वसन्तसेना - अब मैं जीवित करा दी गयी हूँ ।
शर्विलक--स्थावरक का क्या किया जाय ?
चारुदत्त--सदाचारी यह नौकर न रहे । ( धनवान् बना दिया जाय । ) वे चाण्डाल सभी चाण्डालों के अधिपति ( राजा ) बना दिये जाँय । चन्दनक सारी पृथिवी के अपराधियों को दण्ड देने का अधिकारी बना दिया जाय । उस राजा के शाले शकार की गतिविधियाँ जैसी पहले थीं वैसी ही अब भी रहें ।
शर्विलक--श्रीमान् जैसा कहते हैं वैसा ही होगा, लेकिन इस ( शकार ) को छोड़ दीजिये, छोड़ दीजिये, मार डालता हूँ ।
चारुदत्त-शरण में आये हुये को अभयदान है ।
( अपराधी शत्रु शरण में आया हो उसे शस्त्र से नहीं मारना चाहिये अपि तु उपकार द्वारा मारा हुआ कर देना चाहिये । इत्यादि १०।५५ वाँ पद्य पढ़ता है । )
शर्विलक--तो बताइये आपका और कौन सा प्रिय करूँ ?
| दशमोऽङ्कः | ६४९ |
|---|
चारुदत्तः—अतः परमपि प्रियमस्ति ?
लब्धा चारित्रशुद्धिश्चरणनिपतितः शत्रुरप्येष मुक्तः प्रोत्खातारातिमूलः प्रियसुहृदचलामार्यकः शास्ति राजा। प्राप्ता भूयः प्रियेयं प्रियसुहृदि भवान् सङ्गतो मे वयस्यो लभ्यं किञ्चातिरिक्तं यदपरमधुना प्रार्थयेऽहं भवन्तम् ॥५६॥
**अन्वयः—**चारित्रशुद्धिः, लब्धा, चरणनिपतितः, एषः, शत्रुः, अपि, मुक्तः, प्रोत्खातारातिमूलः, प्रियसुहृत्, आर्यकः, राजा, (सन्), अचलाम्, शास्ति, इयम्, प्रिया, भूयः, प्राप्ता, मे, वयस्यः, भवान्, प्रियसुहृदि, संगतम्, अतिरिक्तम्, च, किम्, लभ्यम्, यत्, अपरम्, अधुना, अहम्, भवन्तम्, प्रार्थये ॥ ५६ ॥
**शब्दार्थ—**चारित्रशुद्धिः=चरित्र की शुद्धता, निर्दोषता, लब्धा=प्राप्त हो गयी, चरणनिपतितः=पैरों पर गिरा हुआ, एषः=यह, शत्रुः=दुश्मन, शकार, अपि=भी, मुक्तः=छूट गया, प्रोत्खातारातिमूलः=शत्रु के मूल=राजा पालक को नष्ट कर देने वाला, प्रियसुहृद्=प्रिय मित्र, आर्यकः=आर्यक, राजा=राजा, शासक, (सन्=होता हुआ ), अचलाम्=पृथिवी का, शास्ति=शासन कर रहा है, इयम्=यह, प्रिया=प्रेयसी ( वसन्तसेना ), भूयः=फिर, प्राप्ता=मिल गयी, मे=मेरे, वयस्यः=प्रिय, भवान्=आप, प्रियसुहृदि=प्रिय मित्र आर्यक अथवा मेरे ( साथ ) में, संगतः=मिल गये, च=और, अतिरिक्तम्=बाकी, अधिक, किम्=क्या, लभ्यम्=प्राप्त करने योग्य है, यत्=जो, अपरम्=दूसरा, अधुना=इस समय, अहम्=मैं, भवन्तम्=आपसे, प्रार्थये=मागूँ ॥ ५६ ॥
**अर्थ—चारुदत्त—**इससे अधिक प्रिय भी कुछ है ?
(झूठे आरोप से दूषित) चरित्र की शुद्धता (निर्दोषता) प्राप्त हो गयी। पैरों पर गिरा हुआ यह शत्रु (शकार) भी छोड़ दिया गया। शत्रुओं के मूल-भूत राजा पालक को नष्ट कर देने वाला प्रिय मित्र आर्यक राजा होकर पृथिवी का शासन कर रहा है। यह प्रेयसी (वसन्तसेना) फिर से मिल गयी। मेरे मित्र आप प्रिय मित्र (आर्यक अथवा मेरे) के साथ मिल गये। और अब क्या प्राप्त करना शेष है जो दूसरा इस समय मैं आपसे मागूँ ॥ ५६ ॥
**टीका—**अभीप्सितानि सर्वाण्यपि वस्तूनि लब्धानि भाग्यवशात् । अतो नाधुना किमप्यवशिष्टं प्रार्थनीयमिति प्रतिपादयति—लब्धेति । चारित्रस्य=चरित्रमेव चारित्रम्, स्वार्थेऽण्, तस्य शुद्धिः=मिथ्या-वसन्तसेनाबधाभियोगात् मुक्तिरिति भावः, लब्धा=प्राप्ता, वसन्तसेनाप्राप्त्या तद्द्वकलंकात् मुक्तो जात इति भावः, चरणयोः=पादयोः, निपतितः=विलुण्ठितः प्राणरक्षार्थमिति भावः, एषः=पुरोवर्तमानोऽयम्, शत्रुः=रिपुः, शकार इत्यर्थः, अपि, मुक्तः=परित्रातः, मृत्युदण्डविधानमकृत्वैव
६५० | मृच्छकटिकम्
कांश्चित्तुच्छयति प्रपूरयति वा कांश्चिन्नयत्युन्नतिं कांश्चित् पातविधौ करोति च पुनः कांश्चिन्नयत्याकुलान् । अन्योन्यं प्रतिपक्षसंहतिमिमां लोकस्थितिं बोधय- न्नेष क्रीडति कूपयन्त्रघटिकान्यायप्रसक्तो विधिः ॥६०॥
परित्यक्तः, प्रोत्खातम् = उत्पादितम् अराटीनाम् = शत्रूणाम्, मूलम् = आदिः, आश्रय-स्थानमित्यर्थः, येन, सः, विनाशितरिपुमूलभूतपालकादिरिति भावः, प्रियसहृत् = प्रियं मित्रम्, आर्यकः = एतन्नामा आभीरपुत्रः, राजा = शासकः सन्, अचलाम् = पृथिवीम्, शास्ति = भुनक्ति, इयम् = एषा पुरोविद्यमाना, प्रिया = प्रियतमा, वसन्तसेना, भूयः = पुनः, प्राप्ता = सम्मिलिता, मे = मम, वयस्यः = सुहृद्, भवान् = त्वं शर्विलकः, प्रियसूहृदि = प्रियमित्रे आर्यके मयि वा, संगतः = मिलितः, अतिरिक्तम् = पूर्वोक्तादेः भिन्नम्, किं लभ्यम् = किं प्राप्यम्, न किमपि प्राप्यमिति भावः, यत् अपरम् = अन्यत्, अधुना = इदानीम्, अहम्, भवन्तम् = त्वाम्, उपकारिणं शर्विलकमित्यर्थः, प्रार्थये = याचे । सर्वाभीष्टसिद्धया न किमपि प्रार्थनीयमधुनावशिष्टमिति भावः। स्रग्धरा वृत्तम् ॥५९॥
अन्वयः —कूपयन्त्रघटिका-न्यायप्रसक्तः, एषः, विधिः, अन्योन्यम्, प्रतिपक्ष-संहतिम्, इमाम्, लोकस्थितिम्, बोधयन्, क्रीडति, [ एषः ], कांश्चित्, तुच्छयति, कांश्चित्, वा, प्रपूरयति, कांश्चित्, उन्नतिम्, नयति, कांश्चित् पातविधौ, करोति, पुनः, कांश्चित्, च, आकुलान्, नयति ॥६०॥
शब्दार्थ—कूपयन्त्रघटिका-न्याय-प्रसक्तः=कूपयन्त्र ( रेंहट ) की बाल्टियों की [ ऊपर नीचे जाने की ] पद्धति की नकल करने में लगा हुआ, एषः=यह, विधिः=भाग्य, अन्योन्यम्=परस्पर, प्रतिपक्षसंहतिम्=शत्रुओं अर्थात् धनवत्ता-निर्धनता, ऊँचापन-नीचापन आदि विरोधी धर्मों की, संहतिम्=समुदाय रूप, इमाम्=इस, लोकस्थितिम्=संसार की स्थिति को, बोधयन्=बतलाता हुआ, क्रीडति=खेलता है, (एषः=यह ), कांश्चित्=किन्हीं को, तुच्छयति=तुच्छ=रिक्त बना देता है, वा=अथवा, कांश्चित्=किन्हीं को, प्रपूरयति=खूब पूर्ण कर देता है, कांश्चित्=किन्हीं को, उन्नतिम्=उत्थान की ओर, नयति=ले जाता है, कांश्चित्=किन्हीं को, पातविधौ=पतन के मार्ग में, नीचे, करोति=कर देता है, पहुँचा देता है, च=और, पुनः=फिर, कांश्चित्=किन्हीं को आकुलान्=व्याकुल, नयति=कर देता है ॥६०॥
अर्थ—कुआँ के रंहट की बाल्टियों की पद्धति को नकल करने वाला यह भाग्य परस्पर विरोधी धर्मों ( धनवत्ता और निर्धनता, ऊँचापन और नीचापन आदि ) की समूहरूप इस लोकस्थिति को बतलाता हुआ खेला करता है। यह किन्हीं को रिक्त ( तुच्छ ) बनाता है किन्हीं को भरा ( पूर्ण ) कर देता है।
दशमोऽङ्कः
६५१
तथापीदमस्तु
भरतवाक्यम् —
क्षीरिण्यः सन्तु गावो, भवतु वसुमती सर्वसंपन्नसस्या,
पर्जन्यः कालवर्षी, सकलजनमनोनन्दिनो वान्तु वाताः ।
किन्हीं को उन्नति की ओर ले जाता है, किन्हीं को पतन के रास्ते में नीचे पहुँचा देता है और किन्हीं को व्याकुल कर देता है ॥६०॥
टीका — स्वजीवनेऽपि विधेर्विविधप्रभावाननुभूय सर्वत्रैव तस्य माहात्म्यं निरूपयन् तस्य क्रीडनतुल्यत्वं प्रतिपादयति-कांश्चिदिति। कूपयन्त्रम् = कूपाज्जलनिः-सारणार्थं प्रयुज्यमानं विविधघटिकायुक्तं यन्त्रम् 'रहट' इति हिन्दीभाषायाम्, तस्य याः घटिकाः = क्षुद्रघटाः, तासां न्यायः = आचरणम्, पद्धतिर्वा तत्र प्रसक्तः = प्रवृत्तः, तद्वद्व्यवहारवर्ततेति भावः, “कूपयन्त्रम् = वार्युद्धरणयन्त्रं तस्य या घटिकास्तासां न्यायः = एकस्या अधोमज्जनमेकस्या रिक्तीभावः, एकस्या जलपूरणमिति रूपः, तत्र प्रसक्तः, विधिः क्रीडति” इति पृथिवीधरः। एषः = अयम्, विधिः = दैवम्, अन्योन्यम् = परस्परम् प्रतिपक्षाणाम् = विरोधिनाम् = धनिकत्वनिर्धनत्वादिविधर्माणाम्, संहतिम् = समूहरूषाम्, इमाम् = एताम्, सर्वैरेवानुभूयमानाम्, लोकस्थितिम् = संसारव्यवहारम्, बोधयन् = ज्ञापयन्, क्रीडति = दीव्यति, खेलतीति भावः। अयं विधिः, कांश्चित् = कियतो जनान्, तुच्छयति = रिक्तीकरोति, धनाद्यपहारेण सर्वविधशून्यं करोति 'तुच्छं करोतीत्यर्थे 'तत्करोति तदाचष्टे' इति णिच्, वा = अथवा, कांश्चित् जनान् प्रपूरयति = पूर्णान् करोति, धनादिभिरिति शेषः, कांश्चित् = कियतो जनान्, उन्नतिम् = उन्नत-पदम्, उन्नतावस्थाम्, नयति = प्रापयति, कांश्चित् = कियतो जनान्, पातविधौ = पतनमार्गे, करोति = विदधाति, अधः पातयतीति भावः, स्रग्धरा वृत्तम् ॥६०॥
विमर्श — खेती आदि के काम के लिये कुआँ से पानी निकालने के लिये 'रंहट' का प्रयोग किया जाता है। इसमें परस्पर अनेक बाल्टियां जुड़ी रहती हैं। जब पहिया चलता है तो कुछ ऊपर आ जाती हैं और उनका पानी गिर कर खेतों में जाता है। वही बाद में खाली हो कर नीचे जाती हैं और पहले गयी हुयी खाली बाल्टियां भरकर ऊपर आ जाती हैं। यही क्रम चलता रहता है। भाग्य भी संसार की यही दशा करता रहता है। किसी को खाली करता है, किसी को भरापूरा करता है, किसी को ऊपर लाता है तो किसी को नीचे गिरा देता है। चारुदत्त अपने जीवन में भाग्य की इस विलक्षणता का स्वयम् अनुभव कर चुका है। अतः वह अब इन घटनाओं से अति दुःखी या अति प्रसन्न नहीं होना चाहता ॥६०॥
अन्वयः — गावः, क्षीरिण्यः, सन्तु, वसुमती, सर्वसस्यसम्पन्ना, भवतु, पर्जन्यः, कालवर्षी, (भवतु) वाताः, सकलजनमनोनन्दिनः, [सन्तः], वान्तु, जन्मभाजः,
१५२ मृच्छकटिकम्
मोदन्तां जन्मभाजः, सततमभिमता ब्राह्मणाः सन्तु सन्तः
श्रीमन्तः, पान्तु पृथ्वीं प्रशमितरिपवो धर्मनिष्ठाश्च भूपाः ॥६१॥
( इति निष्क्रान्ताः सर्वे । )
संहारो नाम दशमोऽङ्कः ।
समाप्तं मृच्छकटिकम्
—०—
सततम्, मोदन्ताम्, ब्राह्मणाः, अभिमताः, सन्तु, सन्तः, श्रीमन्तः, सन्तु, भूपाः, च, प्रशमितरिपवः, धर्मनिष्ठाः, पृथिवीम्, पान्तु ॥६१॥
शब्दार्थ—गावः=गायें, क्षीरिण्यः=दूधवाली, सन्तु=हों, वसुती=पृथिवी, सर्व-सस्यसम्पन्ना=सभी प्रकार के धान्यों से परिपूर्ण, भवतु=हो, पर्जन्यः=मेघ, कालवर्षी=समय पर वर्षा करने वाला, [ भवतु=हो ], वाताः=हवायें, सकलजनमनोनन्दिनः=समस्तलोगों के मन को आनन्द देनेवाली, ( सन्तः=होती हुयीं ) वान्तु=बहें, बजें, जन्मभाजः=जन्म लेने वाले सभी प्राणी, सततम्=सदैव, मोदन्ताम्=खुश रहें, ब्राह्मणाः=ब्राह्मणलोग, अभिमताः=सब के प्रिय, सन्तु=हों, सन्तः=सदाचारी लोग, श्रीमन्तः=धनादिसम्पन्न, सन्तु=रहें, च=और, भूपाः=राजा लोग, प्रशमितरिपवः=शत्रुओं का शमन [नाश] करनेवाले, धर्मनिष्ठाः=धर्मपरायण, ( सन्तः=होते हुये ) पृथिवीम्=पृथ्वी का, पान्तु=पालन करें ॥ ६१ ॥
अर्थ—फिर भी, यह हो—
( भरतवाक्य )
गायें खूब दूध देने वालीं हों । पृथिवी ( सर्वविध ) धान्यों से परिपूर्ण हो । मेघ समय पर वर्षा करने वाला हो । हवायें सभी के मन को आनन्द देने वाली होती हुयी बहें । जन्म लेने वाले सभी प्राणी सदैव आनन्द प्राप्त करें, सुखी रहें । ब्राह्मण लोग सबके प्रिय बनें । सदाचारी लोग धनवान बनें । राजा लोग शत्रुओं का शमन करने वाले और धर्मपरायण होते हुये पृथिवी का पालन करें ॥ ६१ ॥
( यह कह कर सभी निकल जाते हैं । )
॥ इस प्रकार 'संहार' नामक दशम अंक समाप्त हुआ ॥
॥ इस प्रकार मृच्छकटिक समाप्त हुआ ॥
—: ० :—
दशमोऽङ्कः ६५३
टीका—गावः=सौरभेय्यः, क्षीरिण्यः=बहुदुग्धमत्यः, भूमार्थे इनिः, सन्तु=भवन्तु, दुग्धनिष्पन्नघृतादिभिरेवाज्यस्य निष्पादनात् यज्ञोपकारित्वम्, यज्ञेन च मेघादिसमुत्पत्तिः, तया च वृष्ट्या सस्योत्पत्तिरिति बोध्यम्, तदेवाह—वसुमती=रत्नगर्भा पृथिवी, सर्वसस्यैः=सर्वविधधान्यैः, सम्पन्ना=समृद्धिमती, विविधशस्य-परिपूर्णेत्यर्थः, भवतु=जायताम्, पर्जन्यः=मेघः, कालवर्षी=अपेक्षितकाले वृष्टिकारकः, भवतु, वाताः=पवनाः, सकलजनमनोनन्दिनः=सकलजनानाम्=समस्तलोकानाम्, मनांसि=चित्तानि, नन्दयन्ति=आनन्दयन्तीति तादृशाः, सन्तः, वान्तु=प्रवहन्तु, जन्मभाजः=उत्पत्तिमन्तः, जाताः प्राणिन इत्यर्थः, सततम्=निरन्तरम्, मोदन्ताम्=हृष्यन्तु, सुखिनो भवन्तु, सन्तः=सज्जनाः, श्रीमन्तः=धनादिसम्पन्नाः, सन्तु=भवन्तु, भूपाः=राजानः, प्रशमिताः=विनाशिताः, रिपवः=शत्रवः, यैस्तादृशाः, तथा, धर्म-निष्ठाः=धर्मपरायणाः पराक्रमिणः धार्मिकाश्च, सन्तः, पृथिवीम्=धरणीम्, स्वपाल्य-भूमिमित्यर्थः, पान्तु=रक्षन्तु। दण्ड्यान् दण्डयन् सज्जनान् रक्षन् परिपालयन्त्वित्यर्थः। अनेन प्रशस्तिर्नाम निर्वहण-सन्ध्यङ्गमपक्षिप्तम्। तदुक्तमादिभरते—'देवद्विजनृपादीनां प्रशस्तिः स्यात् प्रशंसनम्।' 'आदि-मध्यावसाने च कुर्यान्मङ्गलमि'ति वचनमनुसृत्य नाटकस्यान्ते मङ्गलं विहितमिति बोध्यम्। परिसंख्यालंकारः, स्रग्धरावृत्तम् ॥ ६१ ॥
विमर्श—प्रस्तुत श्लोक इस नाटक का अन्तिम वाक्य है। इसे भरतवाक्य कहा जाता है। इसमें सभी के कल्याण की कामना व्यक्त की जाती है। नाटक की समाप्ति हो जाने पर नट अपनी भूमिका को छोड़कर आचार्य भरत का रूप धारण कर मंगलवाक्य पढ़ता है। इसका विधान नाट्यशास्त्र में है—
'अन्ते काव्यस्य नित्यत्वात् कुर्यादाशिषमुत्तमाम्' ॥६१॥
॥ इस प्रकार जयशङ्कर-लाल-त्रिपाठि-विरचित 'भाव-प्रकाशिका' हिन्दीसंस्कृत-व्याख्या में मृच्छकटिक का दशम अङ्क समाप्त हुआ ॥
यत्प्रसादात् समाप्तेयं व्याख्या 'भावप्रकाशिका'।
विश्वनाथाय साम्बाय तस्मै भक्त्याहमर्पये ॥
॥ शुभं भूयात् ॥
---*---
मृच्छकटिकस्थ-सुभाषितानि
| गद्यानि | पृष्ठाङ्काः |
|---|---|
| अकन्दसमुत्थिता पद्मिनी, अवञ्चको वणिक् अचौरः सुवर्णकारः, अकलहो ग्रामसमागमः, अलुब्धा गणिकेति दुष्करमेते संभाव्यते । | ३०६ |
| अक्षिभ्यां मन्त्रितम्, वाचा मूकितम् । | ५५७ |
| अनतिक्रमणीया भगवती गोकाम्या ब्राह्मणकाम्या च । | २१० |
| अपेयेषु तडागेषु बहुतरमुदकं भवति । | १६३ |
| अहो धिग्वैषम्यं लोकव्यवहारस्य । | ५४४ |
| अहो व्यवहारपराधीनतया दुष्करं खलु परचित्तग्रहणमधिकरणिकैः । | ५०७ |
| ईदृशो दासभावः यत् सत्यं न कमपि प्रत्याययति । | ६०४ |
| एते खलु दास्याः पुत्रा अर्थकल्यवर्त्ता वरटाभीता इव गोपालदारका अरण्ये यत्र यत्र न खाद्यन्ते तत्र तत्र गच्छन्ति । | ४६ |
| कामो वामः । | ३११ |
| किं हीनकुसुमं सहकारपादपं मधुकर्यः पुनः सेवन्ते । | १३४ |
| गगनतले प्रतिवसन्तौ चन्द्रसूर्यावपि विपत्तिं लभेते । | ६१३ |
| गणिका नाम पादुकान्तरप्रविष्टेव लेष्टुका दुःखेन पुनर्निराक्रियते । | ३०८ |
| गणिका हस्ती कायस्थो भिक्षुश्चाटो रासभाश्च यत्रैते निवसन्ति तत्र दुष्टा अपि न जायन्ते । | ३०८ |
| गुणः खल्वनुरागस्य कारणं न पुनर्बलात्कारः । | ८० |
| दरिद्रपुरुषसंक्रान्तमनाः खलु गणिका लोकेऽवचनीया भवति । | १३३ |
| दुर्लभा गुणा विभवाश्च । | १६३ |
| दुष्करं विषमौषधीकर्तुम् । | ४५३ |
| द्यूतं हि नाम पुरुषस्यासिंहासनं राज्यम् । | १४७ |
| न कालमपेक्षते स्नेहः । | ४१८ |
| न चन्द्रादातपो भवति । | २५६ |
| न पुष्पमोषमर्हत्युद्यानलता । | ७५ |
| न युक्तं परकलत्रदर्शनम् । | ११८ |
| पुरुषभाग्यानामचिन्त्याः खलु व्यापारा यदहमीदृशीं दशामनुप्राप्तः । | ५७४ |
| पुरुषेषु न्यासा निक्षिप्यन्ते न पुनर्गेहेषु । | १५२ |
| मूले छिन्ने कुतः पादपस्य पालनम् । | ५६७ |
सुभाषितानि
६५५
गद्यानि
| गद्यानि | पृष्ठाङ्काः |
|---|---|
| रत्नं रत्नेन संगच्छते । | ८० |
| लोके कोऽप्युत्थितः पतति कोऽपि पतितोऽप्युत्तिष्ठते । | ६१३ |
| वीणा हि नामासमुद्रोत्थितं रत्नम् । | १८३ |
| सर्वत्रार्जवं हि शोभते । | ६३३ |
| साहसे श्रीः प्रतिवसति । | २४३ |
| स्वके गेहे कुक्कुरोऽपि तावच्चण्डो भवति । | ६७ |
श्लोकाः
| श्लोकाः | अंकाः | श्लोकाः |
|---|---|---|
| अग्राह्या मूर्धजेष्वेताः स्त्रियो गुणसमन्विताः ।<br>न लताः पल्लवच्छेदमर्हन्त्युपवनोद्भवाः ॥ | ८ | २१ |
| अपण्डितास्ते पुरुषा मता मे ये स्त्रीषु च श्रीषु च विश्वसन्ति ।<br>श्रियो हि कुर्वन्ति तथैव नार्यो भुजङ्गकन्यापरिसर्पणानि ॥ | ४ | १२ |
| अभ्युदयेऽवसाने तथैव रात्रिन्दिवमहतमार्गा ।<br>उद्दामेव किशोरी नियतिः खलु प्रत्येषितुं याति ॥ | १० | १९ |
| अम्भोजिनी लोचनमुद्रणं किं भानावदस्तंगमिते करोति ॥ | १० | १८ |
| अयं च सुरतज्वालः कामाग्निः प्रणयेन्धनः ।<br>नराणां यत्र हूयन्ते यौवनानि धनानि च ॥ | ४ | ११ |
| आत्मभाग्यक्षतद्रव्यः स्त्रीद्रव्येणानुकम्पितः ।<br>अर्थतः पुरुषो नारी या नारी साऽर्थतः पुमान् ॥ | ३ | २८ |
| आलाने गृह्यते हस्ती वाजी वल्गासु गृह्यते ।<br>हृदये गृह्यते नारी यदीदं नास्ति गम्यताम् ॥ | १ | ५० |
| इन्द्रः प्रवाह्यमाणो गोप्रसवः संक्रमश्च ताराणाम् ।<br>सुपुरुषप्राणविपत्तिश्चत्वार इमे न द्रष्टव्याः ॥ | १० | ७ |
| इह सर्वस्वफलिनः कुल-पुत्र-महाद्रुमाः ।<br>निष्फलत्वमलं यान्ति वेश्याविहगभक्षिताः ॥ | ४ | १० |
| एता हसन्ति च रुदन्ति च वित्तहेतोर्विश्वासयन्ति पुरुषं न तु विश्वसन्ति ।<br>तस्मान्नरेण कुलशीलसमन्वितेन वेश्याः श्मशानसुमना इव वर्जनीयाः ॥ | ४ | १४ |
| कांश्चित्तुच्छयति प्रपूरयति वा कांश्चिन्नयत्युन्नतिं<br>कांश्चित्पातविधौ करोति च पुनः कांश्चिन्नयत्युन्नतिम् ।<br>अन्योन्यं प्रतिपक्षसंहतिमिमां लोकस्थितिं बोधय-<br>न्नेष क्रीडति कूपयन्त्रघटिकान्यायप्रसक्तो विधिः ॥ | १० | ६० |
६५६ मृच्छकटिकम्
| श्लोकाः | अङ्काः/श्लोकाः |
|---|---|
| किं कुलेनोपदिष्टेन शीलमेवात्र कारणम् । | ६ ७ |
| भवन्ति सुतरां स्फीताः सुक्षेत्रे कण्टकिद्रुमाः ॥ | ८ २६ |
| कूष्माण्डी गोमयलिप्तवृन्ता शाकं च शुष्कं तलितं खलु मांसम् ।<br>भक्तं च हैमन्तिकरात्रिसिद्धं लीनायां च वेलायां न खलु भवति पूति ॥ | १ ५१ |
| क्रोधः कुपुरुषस्येव स्वगात्रेष्वेव सीदति ॥ | १ ५५ |
| गणयन्ति न शीतोष्णं रमणाभिमुखाः स्त्रियः ॥ | ५ १६ |
| गुणेषु यत्नः पुरुषेण कार्यो न किञ्चिदप्राप्यतमं गुणानाम् ।<br>गुणप्रकर्षाड्डुडुपेन शम्भोरलङ्घ्यमुल्लङ्घितमुत्तमाङ्गम् ॥ | ४ २३ |
| गुणेष्वेव हि कर्तव्यः प्रयत्नः पुरुषैः सदा ।<br>गुणयुक्तो दरिद्रोऽपि नेश्वरैरगुणैः समः ॥ | ४ २२ |
| चारित्रेण विहीन आढ्योऽपि च दुर्गंतो भवति ॥ | १ ४३ |
| छिद्रेष्वनर्था बहुलीभवन्ति ॥ | ६ २६ |
| जलं कूलावपातेन प्रसन्नं कलुषायते । | ९ २४ |
| तपसा मनसा वाग्भिः पूजिताः बलिकर्मभिः ।<br>तुष्यन्ति शमिनां नित्यं देवताः किं विचारितैः ॥ | १ १६ |
| त्यजति तं किल जयश्रीर्जहति च मित्राणि बन्धुवर्गश्च ।<br>भवति च सदोपहास्यो यः खलु शरणागतं त्यजति ॥ | ६ १८ |
| दारिद्र्यात् पुरुषस्य बान्धवजनो वाक्ये न संतिष्ठते,<br>सुस्निग्धा विमुखीभवन्ति सुहृदः स्फारीभवन्त्यापदः ।<br>सत्वं ह्रासमुपैति शीलशशिनः कान्तिः परिम्लायते,<br>पापं कर्म च यत् परैरपि कृतं तत्तस्य संभाव्यते ॥ | १ ३६ |
| दारिद्र्यात् ह्रियमेति ह्रीपरिगतः प्रभ्रश्यते तेजस ,<br>निस्तेजाः परिभूयते परिभवान्निर्वेदमपद्यते ।<br>निर्विण्णः शुचमेति शोकपिहितो बुद्ध्या परित्यज्यते<br>निबुद्धिः क्षयमेत्यहो निधनता सर्वापदामस्पदम् ॥ | १ १४ |
| दारिद्र्यान्मरणाद् वा मरणं मम रोचते न दारिद्र्यम् ।<br>अल्पक्लेशं मरणं दारिद्र्यमनन्तकं दुःखम् ॥ | १ ११ |
| द्वयमिदमतीव लोके प्रियं नराणां सुहृच्च वनिता च ॥ | ४ २५ |
| दैवी च सिद्धरपि लङ्घयितुं न शक्या । | ६ २ |
| धनैर्वियुक्तस्य नरस्य लोके किं जीवितेनादित एव तावत् । | ५ ४० |
| न पर्वताग्रे नलिनी प्ररोहति न गर्दभा वाजिधुरं वहन्ति । | ४ १७ |
सुभाषितानि ६५७
| श्लोका: | अङ्काः | श्लोकाः |
|---|---|---|
| न शक्या हि स्त्रियो रोद्धुं प्रस्थिता दयितं प्रति ॥ | ५ | ३१ |
| न हि कमलं मधुपाः परित्यजन्ति । | ८ | ३२ |
| न ह्याकृतिः सुसदृशं विजहाति वृत्तम् ॥ | ६ | १६ |
| निवासचिन्तायाः परपरिभवो वैरमपरं<br>जुगुप्सा मित्राणां स्वजनजनविद्वेषकरणम् ।<br>वनं गन्तुं बुद्धिर्भवति च कलत्रात् परिभवः<br>हृदिस्थः शोकाग्निर्न च दहति सन्तापयति च ॥ | १ | १५ |
| निशायां नष्टचन्द्रायां दुर्लभो मार्गदर्शकः ॥ | ४ | २१ |
| नृणां लोकान्तरेस्थानां देहप्रतिकृतिः सुतः ॥ | ९ | ४२ |
| पक्षविकलश्च पक्षी शुष्कश्चतरुःसरश्च जलहीनम् ।<br>सर्पश्चोद्धृतदंष्ट्रस्तुल्यं लोके दरिद्रस्य ॥ | ५ | ४१ |
| पंचजना येन मारिता अविद्यां मारयित्वा ग्रामो रक्षितः ।<br>श्वबलः क्व चाण्डालो मारितोऽवश्यमपि स नरः स्वर्गं गाहते ॥ | ८ | २ |
| बहुदोषा हि शर्वरी । | १ | ५८ |
| भीताभयप्रदानं ददतः परोपकाररसिकस्यं ।<br>यदि भवति भवतु नाशस्तथापि खलु लोके गुण एव ॥ | ६ | १६ |
| मा दुर्गंत इति परिभवो नास्ति कृतान्तस्य दुर्गंतो नाम ।<br>चारित्रेण विहीन आढ्योऽपि च दुर्गंतो नाम ॥ | १ | ४३ |
| य आत्मबलं ज्ञात्वा भारं तुलितं वहति मनुष्यः ।<br>तस्य स्खलनं न जायते न च कान्तारगत. विपद्यते ॥ | २ | १४ |
| यथैव पुष्पं प्रथमे विकाशे समेत्य पातुं मधुपाः पतन्ति ।<br>एवं मनुष्यस्य विपत्तिकाले छिद्रेष्वनर्थाः बहुलीभवन्ति ॥ | ९ | २६ |
| यदा तु भाग्यक्षयपीडितां दशां नरः कृतान्तोपहितां प्रपद्यते ।<br>तदाऽस्य मित्राण्यपि यान्त्यमित्रतां चिरानुरक्तोऽपि विरज्यते जनः ॥ | १ | ५३ |
| यदि संभोव्यते पापमपापेन च किं मया । | ६ | ३७ |
| येऽभिभवन्ति साधुं ते पापास्ते च चाण्डाला । | १० | २२ |
| राहुगृहीतोऽपि चन्द्रो न वन्दनीयो जनपदस्य । | १० | २० |
| वरं व्यायच्छतो मृत्युर्नं गृहीतस्य बन्धने । | ६ | १७ |
| विपर्यस्तमनश्चेष्टैः शिलाशकलवर्मभिः ।<br>मांसवृक्षैरियं मूर्खैर्भाराक्रान्ता वसुन्धरा ॥ | ८ | ६ |
४२ मृ०
| ६५८ | मृच्छकटिकम् |
|---|
| श्लोकाः | अङ्काः/श्लोकाः |
|---|---|
| विभवानुगता भार्या सुखदुःखसुहृद्भवन् ।<br>सत्यं च न परिभ्रष्टं यद्दरिद्रेषु दुर्लभम् ॥ | ३ २८ |
| विषमा इन्द्रियचोराः हरन्ति चिरसंचितं धर्मम् । | ८ १ |
| वेगं करोति तुरगस्त्वरितं प्रयातुं<br>प्राणव्ययान्न चरणास्तु तथा वहन्ति ।<br>सर्वत्र यान्ति पुरुषस्य चलाः स्वभावाः<br>भिन्नास्ततो हृदयमेव पुनर्विशन्ति ॥ | ५ ८ |
| वेश्याः श्मशानसुमना इव वर्जनीयाः । | १ १४ |
| शङ्कनीया हि लोकेऽस्मिन् निष्प्रतापा दरिद्रता । | ३ २४ |
| शत्रुः कृतापराधः शरणमुपेत्य पादयोः पतितः ।<br>शस्त्रेण न हन्तव्य उपकारहतस्तु कर्तव्यः ॥ | १० ५५ |
| शिरो मुण्डितं तुण्डं मुण्डितं चित्तं न मुण्डितं किमर्थं मुण्डितम् ।<br>यस्य पुनश्च चित्तं मुण्डितं साधु सुष्ठु शिरस्तस्य मुण्डितम् ॥ | ८ ३ |
| शून्यमपुत्रस्य गृहं चिरशून्यं यस्य नास्ति सन्मित्रम् ।<br>मूर्खस्य दिशः शून्याः सर्वं शून्यं दरिद्रस्य ॥ | १ ८ |
| शून्यैर्गृहैः खलु समाः पुरुषाः दरिद्राः । | ५ ५२ |
| संगं नैव हि कश्चिदस्य कुरुते संभाषते नादरात्<br>सम्प्राप्तो गृहमुत्सवेषु धनिनां सावज्ञमालोक्यते ।<br>दूरादेव महाजनस्य विहरत्यल्पच्छदो लज्जया<br>मन्ये निर्धनता प्रकाममपरं षष्ठं महापातकम् ॥ | १ ३७ |
| सत्कारधनः खलु सज्जनः कस्य न भवति चलाचलं धनम् । | ३ १५ |
| सत्यं न मे विभवनाशकृतास्तिचिन्ता<br>भाग्यक्रमेण हि धनानि भवन्ति यान्ति ।<br>एतन्तु मां दहति नष्टधनाश्रयस्य<br>यत् सौहृदादपि जनाः शिथिलीभवन्ति ॥ | १ १३ |
| सत्येन सुखं खलु लभ्यते सत्यालापे न भवति पातकम् ।<br>सत्यमिति द्वे अक्षरे मा सत्यमलीकेन गूहय ॥ | ६ ३५ |
| समुद्रवीचीव चलस्वभावाः सन्ध्याभ्रलेखेव मुहूर्तरागाः ।<br>स्त्रियो हतार्थाः पुरुषं निरर्थं निष्पीडितालक्तकवत्त्यजन्ति ॥ | ४ १५ |
सुभाषितानि ६५६
| श्लोकाः | अङ्काः/श्लोकाः |
|---|---|
| सर्वः खलु भवति लोके लोकः सुखसंस्थितानां चिन्तायुक्तः । विन्निपतितानां नराणां प्रियकारी दुर्लभो भवति ॥ | १० १५ |
| सस्यलम्पटबलीवर्दो न शक्यो वारयितु— मन्यकलत्रप्रसक्तो न शक्यो वारयितुम् । द्यूतप्रसक्तमनुष्यो न शक्यो वारयितुं योऽपि स्वाभाविकदोषो न शक्यो वारयितुम् ॥ | ३ २ |
| सुखं हि दुःखान्यनुभूय शोभते घनान्धकारेष्विव दीपदर्शनम् । सुखात्तु यो याति नरो दरिद्रतां धृतः शरीरेण मृतः स जीवति ॥ | १ १० |
| सुजनः खलु भृत्यानुकम्पकः स्वामी निर्धनकोऽपि शोभते । पिशुनः पुनर्द्रव्यगर्वितो दुष्करः खलु परिणामदारुणः ॥ | ३ १ |
| स्त्रियो हि नाम खल्वेता निसर्गादेव पण्डिताः । पुरुषाणां तु पाण्डित्यं शास्त्रैरेवोपदिष्यते ॥ | ४ १६ |
| स्त्रीभिर्विमानितानां कापुरुषाणां विवर्धते मदनः । सत्पुरुषस्य स एव भवति मृदुर्नैव वा भवति ॥ | ८ ९ |
| स्त्रीषु रागो न कार्यो रक्तं पुरुषं स्त्रियः परिभवन्ति । रक्तैव हि रन्तव्या विरक्तभावा तु हातव्या ॥ | ४ १३ |
| स्वात्मापि विस्मर्यंते ॥ | ७ ७ |
| हस्तसंयतो मुखसंयत इन्द्रियसंयतः स खलु मनुष्यः । किं करोति राजकुलं तस्य परलोको हस्ते सुनिश्चलः ॥ | * ४७ |
श्लोकानुक्रमणिका
| अङ्काः/श्लोकाः | | | अङ्काः/श्लोकाः | | | :--- | :---: | :---: | :--- | :---: | :---: | | अ | | | अमौक्तिकमसौवर्णम् | १० | १८ | | अंसेन विभ्रत्करवीरमालां | १० | २१ | अयं च सुरतज्वालः | ४ | ११ | | अग्राह्या मूर्धजेष्वेताः | ८ | २१ | अयं तव शरीरस्य | ४ | ७ | | अङ्गारकविरुद्धस्य | ६ | ३३ | अयं पटः सूत्रदरिद्रतां | २ | १० | | अत्थं शदं देमि शुवण्णअं | ८ | ४० | अयं हि पातकी विप्रो | ९ | ३६ | | अद्धं कलेवलं पडिवृत्तं | १० | ३५ | अयमेवंविधे काले | ६ | ३१ | | अद्याप्यस्य तथैव केश- | ८ | ५ | अये शस्त्रं मया प्राप्तं | ६ | २४ | | अनया हि समालब्धं | ३ | १५ | अलं चतुःशालमिमं प्रवेश्य | ३ | ७ | | अन्धआले पळाअन्ती | १ | ३१ | अवणेध बालअअणं | २ | १८ | | अन्धस्य दृष्टिरिव | ४ | ४६ | अवनतशिरसः प्रयाण | ८ | १५ | | अन्यं मनुष्यं हृदयेन | ४ | १६ | अवन्तिपुर्यां द्विजसार्थवाहो | १ | ६ | | अन्यस्यामपि जातौ मा | ८ | ४३ | अवहरइ कोवि तुरिअं | ६ | ११ | | अन्यासु भित्तिषु मया | ३ | १४ | अविज्ञातावसवेतेन | १ | ५४ | | अपण्डितास्ते पुरुषा मता मे | ४ | १२ | अशरणशरणप्रमोद- | ८ | ४ | | अपतितमपि तावत्सेव० | ८ | ४२ | अशी शुतिक्खे वलिदे | १ | ३० | | अपद्मा श्रीरेशा प्रहरणम् | ५ | १२ | असौ हि दत्त्वा तिमिराव० | ३ | ६ | | अपश्यतोऽद्य तां कान्तां | ७ | ६ | अस्मत्समक्षं हि वसन्तसेना | ९ | ३० | | अपापानां कुले जाते | ६ | ३७ | अह्मेहि चण्डं अहि | १ | २८ | | अप्येष नाम परिभूत- | ८ | २६ | आ | | | | अप्रीतिर्भवतु विमुच्यतां | ८ | ४१ | आअच्छध वीसत्था | ६ | ६ | | अभ्युदये अवशाणे | १० | १६ | आअट्टिदे शलोशं | १० | ३७ | | अब्भअं तुह देह हरो | ६ | २७ | आकर्षन्तु सुबद्ध्येनं | १० | ५३ | | अभ्युक्षितोऽसि सलिलैः | ६ | १६ | आत्मभाग्यक्षतद्रव्यः | ३ | २७ | | अमी हि दृष्ट्वा मदुपेतमेत- | १० | ६ | आर्येकेणार्यवृत्तेन | १० | ५१ | | अमी हि वस्त्रान्तनिरुद्ध- | १० | १६ | आलाने गृह्यते हस्ती | २ | ५० | | अमी हि वृक्षाः फलपुष्प- | ८ | ७ | आलोकविशाला मे | १ | ३६ | | अमूंहि भित्त्वा जलदान्तराणि | ५ | ४४ | आलोकितं गृहशिखण्डिभिः | ५ | १ |