भारतकोश
संग्रह पर लौटें

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

खं. ८ अ. ३२ पान ७२ ॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐ योगिनां हृदये ढुंढिर्वर्तते कथितो मया । अज्ञानिनां निराकारः पंचभूतात्मकस्तथा ॥१७॥ सगुणं निर्गुणं भिन्नं गणेशस्य न विद्यते । नोत्पत्तिनाशाभावश्च सर्ववन्मूर्खसत्तम ॥१८॥ अयं देहयुतः प्रोक्तः स्वेच्छया देहवर्जितः । अंतर्धाय खमात्मानं तिष्ठति योगनायकः ॥१९॥ विश्वं ब्रह्मयुतं सर्वं लयं गतं यदा मुने । ब्रह्मणस्पतिसंज्ञे च योगे तन्मयभावतः ॥२०॥ नरकुंजर- रूपं तदभेदेन समास्थितम् । तत्प्राप्त्यर्थं विभिन्नं च भवति भक्तिलालसम् ॥२१॥ योगी योगबलेनैव भवति ब्रह्मरूपगः । तथापि ब्रह्मसामर्थ्यं तस्य देहे न विद्यते ॥२२॥ ब्रह्मणस्पतिशब्दार्था सत्ता गाणेशदेहके । वर्तते सर्वदा तस्मात्तं भजंते तु योगिनः ॥२३॥ एवमुक्त्वा महायोगी विश्वामित्रः प्रतापवान् । गालवं तूष्णींभावेनाभजत्तं गणनायकम् ॥२४॥ तमुवाच पुनः शिष्यो गालवः प्रणिपत्य च । निंद्यस्वात्मनात्मानं संशयस्यापनुत्तये ॥२५॥ गालव उवाच । अज्ञानेनावृतोऽहं त्वां पृच्छामि मुनिसत्तम । शिष्यं तारय योगेन योगयुक्तं तथा कुरु ॥२६॥ गणेशो योगशांतिस्थो सदा योगींद्रसत्तम । कथं देव इति ख्यातः कथितो वेदवादिभिः ॥२७॥ देवाः सत्त्वयुता नाथ नरा राजसतां गताः । तामसा असुराः प्रोक्तास्त्रिलोके वासकारिणः ॥२८॥ एवं मे संशयं स्वामिन्नुद सर्वज्ञ ते नमः । येन संशयहीनोऽहं भजिष्यामि गजाननम् ॥२९॥ विश्वामित्र उवाच । देवाः सत्त्वगुणेनैव युक्ताः स्वर्गनिवासिनः । इंद्रादयो न संदेहस्तेष्विंद्रः परमा गतिः ॥३०॥ ब्रह्मणो दिवसांते ते लयं गच्छंति नित्यदा । अन्ये कर्मकरा देवा भवंति मानवाः पुनः॥३१॥ कर्मणा लभते स्थानं ब्रह्मणः सृष्टिकारिणः । कर्मरूपः स वै प्रोक्तो न देवसमतां व्रजेत् ॥३२॥ परमेष्ठी समाख्यातः परा सेष्टिस्तदात्मिका । इष्टयास्तस्मान् परं किंचिल्लभ्यते नैव मानवैः ॥३३॥ शिवो विष्णुस्तथा भानुः शक्तिश्चत्वार ईश्वराः । अभवन् सत्यसंकल्पाः सगुणा निर्गुणा मुदा ॥३४॥ गणेशो ब्रह्मभूतो वै स्वेच्छाचारो महामते । एवं भेदप्रकारेण ज्ञातव्यो निश्चयार्थिभिः ॥३५॥ दिवु क्रीडात्मको धातुः पठ्यते मुनिभिर्मुदा । सर्वत्र क्रीडनाद्देवाः कथिताः सर्वपूजिताः ॥३६॥ स्वधर्मनिष्ठजे स्वस्वकर्मणि क्रीडने रताः । देवा इंद्रमुखास्तेन कथिताः शास्त्रवादिभिः ॥३७॥ सृष्ट्वा चराचरं सर्वं तत्र क्रीडति नित्यदा । ब्रह्मा तेन मुनींद्रैः स देव इत्यभि- धीयते ॥३८॥ अनंतकोटिब्रह्मांडानि रचित्वा स्वमायया । शिवादयश्च चत्वारस्तेषु क्रीडंति देवकाः ॥३९॥ सत्यसंकल्प- कत्वाद्वै ईश्वरास्ते प्रकीर्तिताः । देवाः क्रीडनभावाच्च सगुणनिर्गुणादिषु ॥४०॥ असत् सत् स मनेतीति परं सृष्ट्वा चतुर्विधम् । विश्वं विश्वात्मसंयुक्तं तत्र क्रीडति विघ्नपः ॥४१॥ जगत्सु ब्रह्मसु प्राज्ञैः क्रीडनाङ्गणजातिषु । देवो गणेश्वरः प्रोक्तः पश्य ॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐ

वेदेषु वर्णितम् ॥४२॥ अतो देवसमानास्ते न भवंति कदाचन । ब्रह्मादयो महाभागा देवशब्दप्रधारकाः ॥४३॥ सूत उवाच । विश्वामित्रवचः श्रुत्वा गालवोऽत्यंतविस्मितः । जगाद तं महाभागं संशयेन समन्वितः ॥४४॥ गालव उवाच । देवा हविर्भुजः सर्वे तद्वदिमे महामते । हविर्भुजो महेशाद्या अभवन् भागमिश्रिताः ॥४५॥ दैत्याद्यैः कर्मनाशेन पीडिता अमरा यदि । तदा शंभ्वादयस्तद्वदुपोषणयुताः कृताः ॥४६॥ तेन देवसमानास्ते दृश्यंते नाऽत्र संशयः । वद संशयनाशार्थं शिष्यं योगींद्रसत्तम ॥४७॥ विश्वामित्र उवाच । अज्ञानासुरभावाद्यैर्देवा ब्रह्मादयः किल । उपोषणयुताः सर्वे कृता दैत्यैर्भवं- त्यतः ॥४८॥ अथाऽन्यच्छृणु तत्त्वं त्वं सर्वसंशयनाशनम् । खंडैश्वर्ययुता इंद्रादयो देवाः प्रकीर्तिताः ॥४९॥ मन्वंतरे गते देवा इंद्राद्या भागवर्जिताः । देहत्यागं प्रकुर्वंति तपसा ध्यानशालिना ॥५०॥ अन्ये देवा भवंति स्मान्यस्मिन् मन्वंतरे मुदा । इंद्राद्यास्तेन ते प्रोक्ताः खंडैश्वर्यात्मका मुने ॥५१॥ स्वस्वमन्वंतरेष्वेव ते भवंति हविर्भुजः । नष्टे मन्वंतरे देवा हविर्भागविवर्जिताः ॥५२॥ तथा ब्रह्मा स्वयं साक्षाद्धविर्भागधरो न च । द्विपरार्धमयं कालं भुनक्ति स हविः प्रभुः ॥५३॥ अत ऐश्वर्यसंयुक्तः कल्पमात्रं न संशयः । कथमिंद्रादिकैरस्य समता भवतीत्यहो ॥५४॥ बुधैः स परमेष्ठीति कथितश्चेष्टि- भक्षणाम् । अखंडैश्वर्ययुक्तैष्टिश्च सर्वत्र संमता ॥५५॥ शिवादयः समाख्याता हविर्भुजस्ततोऽधिकः । अत ऐश्वर्य- संयुक्ता अखंडं हि हविर्भुजः ॥५६॥ गालव उवाच । हविर्भुजः समाख्याता देवाः शास्त्रेषु मानद । यज्ञभागविहीनत्वात् कथं देवो गजाननः ॥५७॥ विश्वामित्र उवाच । यज्ञेषु विविधेष्वेव गणेश आदिरुच्यते । पूज्यस्तथा हविर्भोक्ता सर्वसिद्धि- प्रदायकः ॥५८॥ एकभागाश्रिता भावाद्गणेश इति कथ्यते । समूहानां समायोगस्तत्र किं संशयो मुने ॥५९॥ वेदेषु गणराजस्य यज्ञो भिन्नो निरूपितः । ब्राह्मणस्पत्यसंज्ञस्तु हविर्भुक् तत्र विघ्नपः ॥६०॥ एकभागाश्रिता देवा विष्णुशंकर- मुख्यकाः । अतः स्वस्वपदेष्वेव पूजनीयाः प्रयत्नतः ॥६१॥ सर्वकर्मसु विघ्नेश आदिपूज्यः प्रकीर्तितः । सर्वपूज्यो महाविघ्न- समूहानां प्रपालनात् ॥६२॥ गालव उवाच । पंच देवाः समानाश्च सगुणा निर्गुणा मताः । गणेशः सर्वपूज्यादिपूज्यः कथं बभूव ह ॥६३॥ विश्वामित्र उवाच । सगुणा निर्गुणाः प्रोक्ता ईश्वराः शंभुमुख्यकाः । सत्यसंकल्पभावेन योगरूपा न तेऽभवन् ॥६४॥ एकगुणाश्रिताः सर्वे सगुणाः परिकीर्तिताः । महालये लयं ते वै गच्छंति गुणधारणात् ॥६५॥ सगुणा नाशवंतस्ते निर्गुणा नाशवर्जिताः । योगरूपास्तयोर्योगे शिवाद्याः संमता बुधैः ॥६६॥ नरकुंजरयोगत्वात् गणेशो योग-

यहाँ प्रस्तुत पृष्ठ का संपूर्ण एवं यथावत् लिप्यंतरण दिया गया है:

खं. ८ अ. ३३ पान ७४ वाचकः । सगुणो निर्गुणः सोऽपि तादृशस्तन्मयोऽभवत् ॥६७॥ योगरूपः सदा देवो सगुणो निर्गुणोऽपि वा । स्वेच्छया द्विविधं सृष्ट्वा खेलते भाववर्जितः ॥६८॥ स्वानंदनगरे संस्थो देहधारी गजाननः । स्वानंदस्य लयो नास्ति वेदादिषु विचारय ॥६९॥ अतोऽयं नाशहीनोऽपि देहभृच्छोभते स्वयम् । सगुणे योगनाथश्चांतर्धाय निर्गुणे रतः ॥७०॥ अंतर्धाय गणेशानो निर्गुणं योगशांतिदः । योगरूपे रतः सद्यः स्वेच्छया नात्र संशयः ॥७१॥ अतोऽयं ज्येष्ठराजश्च कथितो वेदवादिभिः । ज्येष्ठानां ज्येष्ठभावाद्धै गतः सर्वादिपूज्यताम् ॥७२॥ पंचचित्तमयी बुद्धिः सिद्धिर्भ्रांतिप्रदा मता । तयोः स्वामी गणेशानः सेव्यते मे हृदि स्थितः ॥७३॥ एवमुक्त्वा महायोगी विरराम महामुने । गालवः संशयं त्यक्त्वा प्रणनाम कृतांजलिः ॥७४॥

॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते श्रावणमासमाहात्म्ये गालवसंशयनाशनं नाम द्वात्रिंशोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ सूत उवाच । गणेशप्राप्तिकामार्थं गालवो मुनिसत्तमम् । पुनः पप्रच्छ सद्विद्विनयेन द्विजोत्तमः ॥१॥ गालव उवाच । द्रष्टुमिच्छामि विघ्नेशं तदुपायं वद प्रभो । तवाज्ञावशगो भूत्वाऽऽचरिष्यामि तदेव च ॥२॥ विश्वामित्र उवाच । प्राप्तं श्रावणमासं त्वं विद्धि गालव सौख्यदम् । तत्रानुष्ठानभावेन गणेशं पश्य सिद्धिद ॥३॥ एवमुक्त्वा ददौ तस्मै मंत्रमेकाक्षरं मुनिः । तं प्रणम्य महाविप्रं गालवस्तादृशे रतः ॥४॥ श्रावणे गणपं ध्यात्वा पुरश्चरणतत्परः । जजाप मंत्रराजं स विधियुक्तं विधानवित् ॥५॥ पयो भुक्त्वा गणेशानं तोषयामास गालवः । सदा ध्यानपरो भूत्वा चिंतयत्तं महामतिः ॥६॥ अमायां गणराजस्तु ययौ भक्तिनियंत्रितः । सिद्धिबुद्धियुतो विप्रं सिंहगः सर्वभाववित् ॥७॥ तमागतं समालोक्य गालवः प्रेमसंयुतः । समुत्थाय प्रणम्यादौ पुपूज विघ्ननायकम् ॥८॥ पुनः प्रणम्य सर्वेशं तुष्टाव स कृतांजलिः । साश्रुनेत्रो गणाध्यक्षं सर्वसिद्धिप्रदायकम् ॥९॥ गालव उवाच । अमेयमायामयरूपधारिणे मायाविहीनाय परात्परात्मने । योगाय योगेश सुयोगदायिने विघ्नेश्वरायैव नमो नमः प्रिय ॥१०॥ अचिंत्यरूपधाराय विघ्नेशाय नमो नमः । सिंहगाय चतुर्बाहुधारकाय सुरूपिणे ॥११॥ स्वानंदनगरस्थायिन् सदा स्वानंदरूपिणे । अनंतविभवायैव हेरंबाय नमो नमः ॥१२॥ लंबोदराय देवाय

खं. ८ अ. ३३ पान ७५

देवदेवेशरूपिणे । असुराणां निहंत्रे च असुराय नमो नमः ॥१३॥ सिद्धिबुद्धिविलासस्य कारिणे ब्रह्मरूपिणे । ब्रह्माकार- शरीरायैकदंताय नमो नमः ॥१४॥ सगुणाय नमस्तुभ्यं निर्गुणाय गुणात्मने । सदा शांतिप्रदात्रे ते धूम्रवर्णाय ते नमः ॥१५॥ पाशांकुशधरायैकदंताभयप्रधारिणे । नाभिशेषाय सर्वोदौ पूज्याय ते नमो नमः ॥१६॥ किं स्तौमि त्वं गणाध्यक्ष यत्र वेदा विसिस्मिरे । अतो नमनमात्रेण प्रसन्नो भव विघ्नप ॥१७॥ सूत उवाच । एवं स्तुत्वा गणेशानं ननर्ते प्रेमविह्वलः । धन्योऽहं कृतकृत्योऽहमुच्चरंश्च पुनः पुनः ॥१८॥ तमुवाच गणाधीशो वरान् वरय गालव । दास्यामि श्रावणस्यैव व्रतेन तुष्टि- मागतः ॥१९॥ त्वया कृतमिदं स्तोत्रं भवेत् सर्वार्थदायकम् । पठतां शृण्वतां विप्र मद्भक्तिवृद्धिकारकम् ॥२०॥ धनधान्यप्रदं पूर्णं भुक्तिमुक्तिप्रदायकम् । आरोग्यादिकरं चास्तु ब्रह्मश्रद्धा प्रवर्धनम् ॥२१॥ एवमुक्त्वा गणेशानो विरराम महामते । गालवस्तं प्रणम्यादौ जगाद करसंपुटः ॥२२॥ गालव उवाच । भक्तिं देहि त्वदीयां मे गाणपत्यं कुरु प्रभो । योगं शांतिप्रदं पूर्णं नान्यं याचे गजानन ॥२३॥ तथेति तमथोक्त्वाऽसौ गणेशोऽन्तरधीयत । गालवः खेदसंयुक्तो वियोगाद्गणपस्य तु ॥२४॥ ततो जगाम विप्रेंद्रं विश्वामित्रं ननाम सः । वृत्तांतं कथयामास सोऽपि संहर्षितोऽवदत् ॥२५॥ विश्वामित्र उवाच । धन्योऽसि कृतकृत्योऽसि मान्योऽसि मे महामुने । सच्छिष्येण त्वया पुत्र तारितोऽहं न संशयः ॥२६॥ एवं प्रशंसितो विप्रो विश्वा- मित्रेण गालवः । तं प्रणम्य ययौ सोऽपि स्वेच्छाचारी यथा तथा ॥२७॥ सदा गणपतिं भक्त्याऽभजदनन्यचेतसा । गालवो योगिवंद्यश्च बभूव परमार्थवित् ॥२८॥ गाणेशानि जगामासौ क्षेत्राणि गणपे रतः । अंते मयूरक्षेत्रे तु वासं चकार हर्षितः ॥२९॥ तत्रैव गणनांथं सोऽभजद्भावसमन्वितः । क्षेत्रसंन्यासविप्रैश्च पूजितोऽकथयत् कथाः ॥३०॥ इदं गालवमाहात्म्यं कथितं पापनाशनम् । पठनाच्छ्रवणात् सर्वसिद्धिदं जंतवे भवेत् ॥३१॥ अन्यच्छृणु चरित्रं यत् सर्वसौख्यकरं मुने । महाराष्ट्रेऽन्त्यजः कश्चिच्छुश्राव श्रावणस्य च ॥३२॥ माहात्म्यं गणनांथस्य भक्त्याश्रितं द्विजात् पुरा । तत्र चित्तं समानीय गणराजपरो- ऽभवत् ॥३३॥ आगते श्रावणे मासे स्नात्वा देवालये स्थितम् । ननाम नियमेनैव नित्यं भक्तिसमन्वितः ॥३४॥ ततः स्वव्यवसायेषु कुटुंबपोषणे रतः । चकार विविधान् कामांल्लोकानां द्रव्यकारणात् ॥३५॥ समाप्ते श्रावणे मासे मृतं तं दैवयोगतः । प्रगृह्य गाणपा जग्मुः स्वालयं हर्षसंयुताः ॥३६॥ मार्गे संगच्छतस्तस्यांगाद्वायुः सहसाऽऽययौ । पंचचौरशरीरांगे पस्पर्श दैवयोगतः ॥३७॥ चौराणां बुद्धिभेदोऽथ बभूवे तेन ते पुनः । ऊचुः परस्परं चौराः पापकर्मपरायणाः ॥३८॥

पान ७६

चौरा ऊचुः । नित्यं पापसमाचारा वयं चौर्यपरायणाः । लोकेभ्यो दुःखदाः पूर्णा का गतिर्नो भविष्यति ॥३९॥ पापिनां नरकेष्वेव गतिर्दुःखतरा भवेत् । यमस्य यातना तत्र दुःसहा नात्र संशयः ॥४०॥ नरके वासिनो नित्यं भविष्यामो वयं यतः । अतः परं न कर्तव्यं चौर्यं चौराः कदाचन ॥४१॥ एवं निश्चत्य मार्गे ते वनस्थे संस्थिता मुधा । तत्राऽकस्मात् समायाता ब्राह्मणा दश तापसाः ॥४२॥ तान् दृष्ट्वा गोभिरानंदसंयुक्तान् पापनिश्चयाः । चौराः खड्गधरा याता हंतुं तांस्ते द्विजा जगुः ॥४३॥ द्विजा ऊचुः । किमर्थं शस्त्रसंयुक्ताश्चौरा यूयं समागताः । गावो ग्राह्याः सुखेनैव वयं गच्छामहे पुनः ॥४४॥ मा हिंसां कुरुत प्राज्ञा ब्राह्मणवधसंश्रिताम् । ब्रह्महत्याभवं पापं वज्रलेपसमं भवेत् ॥४५॥ तेषां तद्वचनं श्रुत्वा चौरास्तान् खड्गधारकाः । ऊचुर्नियम्य स्वात्मानं पापत्रासभयातुराः ॥४६॥ चौरा ऊचुः । ब्रह्महत्याभवं पापं तत् कीदृक् यातनाप्रदम् । कनोपायेन पापानि लयं गच्छंति भो द्विजाः ॥४७॥ वयं पापसमाचारा जन्मादारभ्य नित्यदा । नानाविधानि पापानि कुर्महे चाधुनावधिम् ॥४८॥ चराम किं वयं चौरास्तदर्थं पापनाशकम् । उपायं तद्वदध्वं नो दयया ब्राह्मणोत्तमाः ॥४९॥ चौराणां वचनं श्रुत्वा ब्राह्मणास्तानथाब्रुवन् । विस्मिता भयसंयुक्ता लोकोद्धारपरायणाः ॥५०॥ ब्राह्मणा ऊचुः । अनुतापेन पापानि नश्यंति चौरनायकाः । अतः परं च पापानि मा चरध्वं तदा किल ॥५१॥ श्रावणे गणनांथं ते सेवध्वं ब्रह्मनायकम् । तेन पापविहीनाश्च गमिष्यथ परां गतिम् ॥५२॥ एवमुक्त्वा महाभागास्ताननुज्ञाप्य ते ययुः । ब्राह्मणाः स्वाश्रमं गोभिर्युक्ता हर्षसमन्विताः ॥५३॥ समीपे श्रावणं मासं समागतं विलोक्य ते । चौराः स्वगृहमागत्य गणेशमभजन् परम् ॥५४॥ स्नात्वा प्रातर्गणेशानं प्रणम्य भावसंयुताः । प्रदक्षिणपराः सर्वे प्रहरं ह्यभवन् मुने ॥५५॥ ते च एकभुजः सर्वे ब्रह्मचर्यपरायणाः । मासमात्रं व्रतं चक्रुः साधवस्ते बभूविरे ॥५६॥ इह भुक्त्वाऽखिलान् भागानंते स्वानंदमाययुः । एवं नाना जना विप्र श्रावणे लेभिरे गतिम् ॥५७॥ तेषां चरित्रकं पूर्णं कथने नैव शक्यते । किंचिन्नियमयुक्तानां का कथा व्रतकारिणाम् ॥५८॥ एवं श्रावणमाहात्म्यं गाणपत्यपदप्रदम् । कथितं मुनिशार्दूल समासेन सुखप्रदम् ॥५९॥ शृणुयाच्छावयेद्वाऽपि पठेद्यो स लभेत् पदम् । गाणेशं विविधान् भोगान् भुक्त्वाऽन्ते मुनिसत्तम ॥६०॥

॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते श्रावणमासमाहात्म्यवर्णनं नाम त्रयस्त्रिंशोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ सूत उवाच । मलमासभवं चित्रं चरित्रं कथयाम्यहम् । संक्षेपेण मुनिश्रेष्ठ शृणु सर्वार्थदायकम् ॥१॥ कलिकल्मषरूपेण मलेन पीडिताः सुराः । शरणं केशवस्यैव ययुर्विप्रेंद्रमुख्यकैः ॥२॥ स्तुत्वा नानाविधैस्तोत्रैर्विष्णुं धर्मप्रपालकम् । घोरं कलिभवं पापं तदर्थमब्रुवन् वचः ॥३॥ देवर्षय ऊचुः । लेशमात्रेण धर्मस्तु संस्थितोऽधर्मसंहतः । तेनोपोषणसंयुक्तान् रक्षस्व शरणार्थिनः ॥४॥ कलिना पापरूपेण जनार्दन जिता वयम् । पृथिवीं त्वमपि त्यक्त्वा किं स्थितोऽसि महाप्रभो ॥५॥ तेषां तद्वचनं श्रुत्वा तानुवाच स्वयं हरिः । मेघगंभीरया वाचा सर्वेषां पालकः प्रभुः ॥६॥ हरिरुवाच । मा भयं देवविप्राद्याः कुरुताहं न संशयः । करिष्यामि भवत् कार्यं कलिं जित्वा सुदुर्जयम् ॥७॥ एवमुक्त्वा महाविष्णु- र्देवर्षीन् विससर्ज ह । विचारमकरोच्चित्ते दृष्ट्वा घोरं कलेर्बलम् ॥८॥ कलिमलप्रणाशार्थं समर्थं चिंत्य माधवः । आययौ मयूरक्षेत्रे तपोर्थं गणपे रतः ॥९॥ मलमासं समासाद्य नानामलर्निंकृतनम् । गाणेशपंचकं पूज्यं व्रतं चकार मासजम् ॥१०॥ घृतभुक् गणनांथं सोऽसेवयद्यत्नसंयुतः । उषःस्नात्वा यथान्यायं चकार ढुंढिचिंतनम् ॥११॥ ढौढं मासव्रतं कृत्वा परिपूर्णं जनार्दनः । पारणं ब्राह्मणैः सार्धं निशि निद्रायुतोऽभवत् ॥१२॥ स्वप्ने ददर्श विघ्नेशं धूम्रवर्णं गजाननम् । अश्ववाहं द्विह- स्ताभ्यां खड्गचर्मधरं हरिः ॥१३॥ स उवाच महाविष्णुं स्वभक्तं भक्तपालकः । मेघगंभीरनादेन हर्षयन् हर्षवर्धनः ॥१४॥ श्रीगणेश उवाच । नानामलप्रणाशार्थं मलमासव्रतं चरेत् । तदेव सुकृतं विष्णो त्वया मद्भक्तिकारिणा ॥१५॥ मलमासस्य देवोऽहं ढुंढयित्वा विशेषतः । हरामि मलसद्भूतं दुःखं पापमयं परम् ॥१६॥ अतस्त्वमीदृशो भूत्वा मां स्मृत्वा हृदि भक्तितः । कलिं जेष्यसि देवेश धर्मं संस्थापयिष्यसि ॥१७॥ एवमुक्त्वा गणेशानस्ततोंऽर्धानमाकरोत् । प्रबुद्धः केशवोऽत्यंतं स्मृत्वा हर्षयुतोऽभवत् ॥१८॥ प्रणम्य स मयूरेशं धृत्वा वेषं नराधिकम् । अश्वगः श्यामवर्णस्थो बभूव खड्गधारकः ॥१९॥ कल्कि- र्नाम्ना महाबाहुः स्मृत्वा विघ्नेश्वरं हृदि । स्वांगान्नानाविधां सेनां कल्प्य दुष्टवधे रतः ॥२०॥ नाना जनहृदिस्थः स कलिः प्रयत्नसंयुतः । तं जेतुं ययते स्माऽपि हीनवीर्यो बभूव ह ॥२१॥ ततो धर्मयुतांल्लोकांश्चकार स जनार्दनः । हत्वा दुष्टान् महाघोरनानाय्य ब्राह्मणोत्तमान् ॥२२॥ एवं कृत्वांऽतर्दधेऽसौ स्तुतो देवर्षिभिर्हरिः । वैकुंठमगमत् सद्यो हर्षनिर्भरमानसः ॥२३॥ शौनक उवाच । धूम्रवर्णावताराख्यो गणेशः कलिना पुरा । युयुधे तं विजित्वा स कलिं कृतमधारयत् ॥२४॥ कल्कि- र्विष्णुस्तथा दुष्टं कलिं जिग्ये तथाऽधुना । वर्णितं तत्र किं मुख्यं द्विविधं संशयप्रदम् ॥२५॥ सूत उवाच । महाघोरस्वरूपोऽयं

कलिः सृष्टः स्वयंभुवा। पापसेनासमायुक्तो जिग्ये धर्मं क्षणे क्षणे ॥२६॥ तन्नाशार्थं विशेषेण देवा मुनिगणास्तथा। नानावताररूपैस्तं जयंति स्म प्रयत्नतः ॥२७॥ गणराजस्य तदपि वरेण मूलवर्जितः। कलिर्न जायते विप्र पुनर्वृद्धिं प्रयाति सः ॥२८॥ दशवर्षवयोयुक्ता नारी गर्भवती भवेत्। गृहे गृहे तथा त्रिंशत् परमायुर्भवेन्नृणाम् ॥२९॥ वर्णसंकररूपाश्च जनाः सर्वे धरातले। सार्धैकभागो विश्वस्थो भवेद्धर्मो महामुने ॥३०॥ तदा विष्णुः सुरार्थैः संप्राथितः कल्किरूपधृक्। जित्वा कलिं पुनः सोऽपि धर्मं संस्थापयेत् परम् ॥३१॥ यदा पंच वयो वर्षा नारी गर्भवती भवेत्। षोडशाब्दपरं चायुर्मानवानां गृहे गृहे ॥३२॥ महाघोरं कलिं वीक्ष्य कस्मिन् कल्पे शिवादयः। तं जेतुं न समर्थाश्च बभूवुर्विष्णुमुख्यकाः ॥३३॥ विश्वा- धर्मात्र रूपेण धर्मस्तिष्ठेद्धरातले। हाहाकाररवैर्युक्ता जनास्तत्र सुदुःखिनः ॥३४॥ तदा विघ्नेश्वरं सर्वे गच्छंति स्म शरण्यकम्। धूम्रवर्णो गणाध्यक्षो कलिं जिग्ये सुदुर्जयम् ॥३५॥ पुनर्धर्मं समास्थाप्य कृतं तथा महामुने। एवं कलिबलं दृष्ट्वाऽवतारं कुरुते स्म च ॥३६॥ एवं मलभवे मासे व्रतं कृत्वा जनार्दनः। जिग्ये कलिमलं पूर्णं महापापौघरूपिणम् ॥३७॥ अन्यच्छृणु महाविप्र माहात्म्यं मलसंभवम्। धौम्यः सौम्यतपोयुक्तो बभूव परमद्युतिः ॥३८॥ स ययौ योगप्राप्त्यर्थं दधीचिं योग- पारगम्। तं प्रणम्य विनीतात्मा संस्थितस्तेन पूजितः ॥३९॥ उवाच तं महाभागं दधीचिं मुनिवंदितम्। कृतांजलिनतो भूत्वा धौम्यश्च तपतां वरम् ॥४०॥ धौम्य उवाच। तपसा स्वर्गभोगश्च लभ्यते सर्वजंतुभिः। ब्रह्मभूयप्रदं विप्र तपो नैव प्रकीर्तितम् ॥४१॥ अतो मां शाधि तं योगिन् योगं शांतिपदप्रदम्। संसाध्य कृतकृत्योऽहं भविष्यामि विशेषतः ॥४२॥ ब्रह्मणि तन्मया विप्र कथ्यंते ब्राह्मणा बुधैः। अतो मां ब्राह्मणं पूर्णं कुरुष्व कृपया विभो ॥४३॥ धौम्यस्य वचनं श्रुत्वा हर्षयुक्तो महामुने। दधीचिस्तं महाभागं जगाद हर्षसंयुतः ॥४४॥ दधीचिरुवाच। ब्रह्म नाना विधं प्रोक्तं वेदादिषु विशेषतः। गाणेशं तेषु मुख्यं च ब्रह्मणां ब्रह्मदायकम् ॥४५॥ अहं पुरा तपोनिष्ठः क्षुपं राजशिरोमणिम्। स्पर्धयित्वा महाभागाऽभवं शैवो निरंतरम् ॥४६॥ क्षुपार्थमागतं विष्णुं जित्वा योगपरायणः। ब्रह्मणि सहजे विप्र संस्थितोऽहं सुसौख्यदे ॥४७॥ तत्र स्वाधीनभावं च दृष्ट्वा श्रांतोऽभवं पुरा। स्वाधीनत्वं पराधीनत्वं ब्रह्मणि न दृश्यते ॥४८॥ ततोऽहं शांतिप्राप्त्यर्थं शंकरं चागमं प्रभुम्। तं प्रणम्य महादेवमस्तवं विविधैः स्तवैः ॥४९॥ ततो मामब्रवीच्छंभुः स्मयमान इदं वचः। किमर्थमागतो विप्र दधीचे वद सांप्रतम् ॥५०॥ शिवस्य वचनं श्रुत्वा हर्षयुक्तो महादरात्। पुनः प्रणम्य विश्वेशं

खं. ८ अ. ३४ पान ७९ कृतांजलिपुटोऽवदम् ॥५१॥ दधीचिरुवाच । नमस्ते शंकरायैव शिवाय सुखवादिने । ब्रह्मणे सहजायैव नेतिरूपप्रधारिणे ॥५२॥ स्वामिन्नव्यक्तगोऽहं तु ब्रह्मप्राप्त्यर्थमादरात् । घोरं सहजजं तत्र भावं दृष्ट्वाऽतिविस्मितः ॥५३॥ स्वाधीनत्वं कथं तत्र सहजे ब्रह्मणि प्रभो । स्वाधीनान्न परं ब्रह्म लभ्यते योगसेवया ॥५४॥ स्वाधीनत्वं पराधीनत्वं ब्रह्मणि न दृश्यते । कथं स्वाधीनजं मोहं दधते सहजात्मकम् ॥५५॥ अहं शैवः सदा नाथ त्वां जानामि परात्परम् । अतस्त्वां शरणं यातः शांतियोगं वदस्व माम् ॥५६॥ श्रीशिव उवाच । सम्यक् पृष्टं त्वया विप्र सर्वेभ्यः सुखदायकम् । कथयामि महायोगं ब्रह्म तन्मयताकरम् ॥५७॥ स्वाधीनं त्रिविधं तात वर्तते न कदाचन । तुरीयं सहजं ब्रह्म स्वाधीनं नात्र संशयः ॥५८॥ चतुर्णामत्र संयोगे स्वानंदः परिकीर्तितः । स्वसंवेद्येन योगेन लभ्यते योगिभिः परः ॥५९॥ पंचभिर्वर्जितो योगो ह्ययोग इति कथ्यते । न तत्र ब्रह्मणां योगो जगतां जायते कदा ॥६०॥ तयोर्योगे महायोगिन् शांतियोगः प्रकीर्तितः । पंचचित्तभवं भावं त्यक्त्वा शांतिमवाप्स्यसि ॥६१॥ अहं गणेशरूपश्च भिन्नत्वं मे न वर्तते । सदा संयोगता कुत्राऽयोगता भ्रांतिदा भवेत् ॥६२॥ पंचचित्तमयी बुद्धिः सिद्धिर्भ्रांतिकरी मता । माये त्यक्त्वा स्वयं चिंतामणिः साक्षाद्भविष्यसि ॥६३॥ एवमुक्त्वा स्वयं मह्यं ददौ शंभुर्महामनुम् । एकाक्षरं गणेशस्य तेनाहं भ्रामितोऽवदम् ॥६४॥ शैवोऽहं सततं नाथ किं मां वदसि मानद । गणेशोपासनं केन मार्गेण तं भजाम्यहम् ॥६५॥ शिव उवाच । गणाः समूहरूपास्तांस्तद्रूपान् भावयाधुना । सहजानां समायोगे गणोऽहं गणपस्य वै ॥६६॥ गणेशाकारभावेन गणाः सर्वे विचारय । तत्र किं व्यभिचारस्ते भवते वद सांप्रतम् ॥६७॥ एवमुक्त्वा स्वयं शंभुर्विरराम महामते । अहं संशयहीनस्त्वं प्रणम्य वनगोऽभवम् ॥६८॥ शंभुना कथितं योगं साधयित्वा परात् परम् । योगशांतियुतोऽहं तु जातः शंभुप्रसादतः ॥६९॥ सदा शांतिसमायुक्तो भजामि द्विरदाननम् । गुरुरूपधरं शंभुं गाणपत्योऽहमादरात् ॥७०॥ एतत्ते कथितं सर्वं ब्रह्मभूयकरं परम् । त्वमपि गणराजं तं भजस्व भावसंयुतः ॥७१॥ एवमुक्त्वा ददौ तस्मै गाणेशं षोडशाक्षरम् । मंत्रं दधीचिः प्रेम्णा संयुतः सकलसिद्धिदम् ॥७२॥ पुनश्चोवाच योगज्ञो दधीचिस्तं विशेषवित् । दधीचिर्गणनाथं तमभजद्भावसंयुतः ॥७३॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते मलमासमाहात्म्ये दधीचिधौम्यसंवादो नाम चतुस्त्रिंशोऽध्यायः ॥

खं. ८ अ. ३५ पान ८०


॥ श्रीगणेशाय नमः ॥ सूत उवाच । धौम्यो जजाप मंत्रं तं ध्यात्वा हृदि गजाननम् । क्रमेण योगभूमिस्यः शमदमपरो- ऽभवत् ॥१॥ ततः समागतं वीक्ष्य मलमासं विशेषतः । अज्ञानमलनाशार्थं चकार तद्भवं व्रतम् ॥२॥ उषः स्नात्वा विधानेन गणेशे पंचके रतः । सदा गणपतिं धौम्यः सस्मार शुद्धचेतसा ॥३॥ आगतं गणराजं तं ततो भक्तो मुनीश्वर । अमायां स समालोक्य हर्षितोऽभून् महामुनिः ॥४॥ उत्थाय तं प्रणम्याऽऽदौ पुपूज भक्तिसंयुक्तः । पुनः प्रणम्य विघ्नेशं तुष्टाव कृतसंपुटः ॥५॥ धौम्य उवाच । नमाम्यहं गणेशानं सर्वसिद्धिप्रदायिनम् । भक्तानां भवयुक्तानामन्येषां विपरी- तगम् ॥६॥ धन्योऽहं सर्वभावेष्वधुना दृष्ट्वा गजाननम् । किं स्तौमि त्वां महाभाग योगेशं योगरूपिणम् ॥७॥ तव दर्शनमात्रेण ज्ञानयुक्तो वदाम्यहम् । स्तोत्रं ते प्रीतिदं पूर्णं शृणु सर्वज्ञसत्तम ॥८॥ गणेशाय नमस्तुभ्यं योगशांति- प्रदायिने । शांतीनां शांतिरूपाय हेरंबाय नमो नमः ॥९॥ अनामयाय ज्येष्ठाय ज्येष्ठपदप्रदायिने । ज्येष्ठानां ज्येष्ठरूपाय विघ्नेशाय नमो नमः ॥१०॥ नामरूपात्मकेष्वेव शक्तिरूपाय ते नमः । आत्मसु रवये तुभ्यं समेषु विष्णवे नमः ॥११॥ अव्यक्तेषु महेशाय संयोगेषु निजात्मने । निवृत्तिषु ह्ययोगाय कलांशेन नमो नमः ॥१२॥ योगेषु शांतिरूपाय ब्रह्मणस्पतये नमः । आदिमध्यांतभेदैस्तु खेलकाय नमो नमः ॥१३॥ नानामायाप्रचालाय सिद्धिवृद्धिपते नमः । स्वानंदवासिने तुभ्यं भक्तरक्षणतत्पर ॥१४॥ किं स्तौमि त्वां गणाधीश वेदा योगिन एव च । न समर्था अतो नाथ प्रणमामि गजाननम् ॥१५॥ एवमुक्त्वा गणाधीशं पपाताऽसौ धरातले । दंडवद्गणनाथस्य पादौ गृह्य महामुनिः ॥१६॥ तमुत्थाप्य स्वयं प्राह गणेशो ब्रह्मणं पतिः । वरान् वरय धौम्य त्वं दास्यामि स्तोत्रतोषतः ॥१७॥ स्तोत्रं त्वया कृतं मे यत् पठते शृण्वते सदा । सर्वसिद्धिप्रदं चास्तु नानाभावार्थदायकम् ॥१८॥ योगशांतिप्रदं पूर्णं मयि भक्तिविवर्धनम् । यं यमिच्छति तं तं वै दास्यामि स्तोत्रतोषतः ॥१९॥ सूत उवाच । गणेशवचनं श्रुत्वा धौम्यो हर्षसमायुतः । तं जगाद गणाधीशं भक्तेशं भक्तवत्सलम् ॥२०॥ धौम्य उवाच । प्रसन्नोऽसि यदा नाथ तदा ते भक्तिमुत्तमाम् । देहि मे योगशांतिं तु यत्र त्वं मोदसे सदा ॥२१॥ तथेति गणनाथस्तमुक्तवा चांतर्हितोऽभवत् । धौम्यः खिन्न इवात्यंतं तत्रैव संस्थितोऽभवत् ॥२२॥ तत्र संस्थापयामास ब्राह्मणैर्मंत्रकोविदैः । गणेशं तं सदा ध्यात्वा पूज्य भक्तिं चकार ह ॥२३॥ शौनक उवाच । अकर्मकारिणः प्रोक्ता सात्त्विकाः शास्त्रसंमतम् । कर्मकर्तार एवं तु राजसाः परिकीर्तिताः ॥२४॥ विकर्मकारिणः सर्वे तामसाः सूत निश्चितम् । त्रिधा


खं. ८ अ. ३५ पान ८१ भेदयुताः सर्वे भवंति भुवि मानवाः ॥२५॥ ब्रह्मार्पणतया मुक्तिं गच्छंति द्विज सात्त्विकाः । सकामाद्राजसा जन्ममृत्यु- युक्ता भ्रमंति ते ॥२६॥ तामसा नरकेष्वेव शिश्नोदरपराः किल । गच्छंति त्रिगुणे भावे संस्था जनास्त्रिधा गतिम् ॥२७॥ तत्र तामसभावाख्यः शंकरः परिकीर्तितः । तं भजंति महाभागाश्चतुर्वर्गफलार्थिनः ॥२८॥ तामसस्य तु ये भक्ता नारकाः संमताः पुरा । शिवभक्ताः कथं सर्वे भवंति ब्रह्मभूतकाः ॥२९॥ सूत उवाच । सम्यक् पृष्टं त्वया विप्र सर्वेषामुपकारकम् । कथयामि यथा व्यासाच्छ्रुतं सर्वज्ञसत्तमात् ॥३०॥ तम अज्ञानरूपं यत् सौषुप्तं शास्त्रसंमतम् । अज्ञानात् द्विविधं सर्वं समुत्पन्नं विचारय ॥३१॥ सात्त्विकमांतरं स्वाप्नं जागृद्वाह्यं तु राजसम् । तयोर्मूलस्वरूपत्वात्तामसः शंकरः स्मृतः ॥३२॥ तत्राधिकारकं वक्ष्ये त्रिगुणरूपधारिणाम् । क्षणे क्षणे रजः संस्था व्यवस्था विविधात्मिकाः ॥३३॥ सृजति सात्त्विकस्तद्वदवस्थाः पालको मतः । तामसस्ताः समाहृत्य लीनाः करोति सर्वदा ॥३४॥ अतः सर्वमिदं विप्र त्रिभिर्व्याप्तं समंततः । गर्भाधा- नादिप्रारभ्य भरणांतं सुशोभते ॥३५॥ कर्माकर्मविकर्माणि त्रिगुणैः संयुतानि च । कर्मयोगस्य विप्रेश गुणा इमे प्रकीर्तिताः ॥३६॥ न तत्र शंभुमुख्यास्ते सुरा ग्राह्या बुधैः कदा । अतः शंकरभक्ताश्च लभंते सर्वमंजसा ॥३७॥ अधुना शृणु माहात्म्यं मलमासभवं परम् । वैश्यः कश्चिच्छमो नाम बभूवे मालवे मुने ॥३८॥ स श्रुत्वा मलमासस्य माहात्म्यं मलनाशनम् । गणेशभक्तिसंयुक्तश्चकार व्रतमुत्तमम् ॥३९॥ मलमासं समासाद्य स्नात्वा प्रातर्गणाधिपम् । सस्मार स्मरणेनैव ततः कार्यपरोऽभवत् ॥४०॥ एकदा मार्गसंस्थं च वैश्यं निद्रायुतं निशि । तत्र तं भक्षितुं प्रेता दश याता महाबलाः ॥४१॥ तस्मिन् काले शमो दैवादभूज्जाग्रन् महामुने । ददर्श तान् महाप्रेतान् सस्मार गणनायकम् ॥४२॥ जगाद स्वांतरे सोऽपि गणेश करुणानिधे । रक्ष मां प्रेतपेभ्यस्त्वं त्वत्पादे भक्तिसंयुक्तम् ॥४३॥ मलमासस्य देवेश दिवसाः सप्त एव च । उर्वरिता व्रतं मेऽत्र भग्नं नोचेद्भविष्यति ॥४४॥ समाप्ते मलमासे मां मारयस्व गजानन । नाधुना व्रतसंस्थं तु रक्ष रक्ष दयानिधे ॥४५॥ मलमासव्रते संस्थं दृष्ट्वा प्रेता भयातुराः । जातिस्मरा बभूवुस्ते रुरुदुस्तं प्रणम्य वै ॥४६॥ ततः स विस्मितो भूत्वा तान् प्रपच्छ महाबलान् । किमर्थं दुःखसंयुक्ता भवंतो मां ब्रुवंतु च ॥४७॥ प्रेता ऊचुः । पूर्वजन्मनि भो वैश्य वयं ब्राह्मणसंभवाः । अनाचाररताः सर्वे मृता यमगृहे गताः ॥४८॥ तत्र नानाविधां पूर्णां यातनां दुःखदां पराम् । भुक्त्वा प्रेताः कृतास्तेन यमेन साधुसत्तम ॥४९॥ अत्र शीतोष्णकायेषु नाना द्वंद्रेषु सर्वदा । पतिता

खं. ८ अ. ३६ | पान ८२ दुःखसंयुक्ता भ्रमामो यत्र तत्र ह ॥५०॥ अधुना दैवयोगेन भक्षितुं त्वां समागताः। त्वद्दर्शनजपुण्येन जातिस्मरा भवामहे ॥५१॥ मलमासव्रतस्थस्त्वं तारयास्मान् दयानिधे। गणेशस्मृतिसंयुक्तः स्नानं करोषि नित्यदा ॥५२॥ एकस्नान- भवं पुण्यं देहि वैश्य वयं तदा। अस्मभ्यं तेन निःपापा गमिष्यामोऽपुनर्भवम् ॥५३॥ प्रेतानां वचनं श्रुत्वा हर्षयुक्तः शमोऽब्रवीत् । प्रेतान् दुःखयुतान् वीक्ष्य दयायुक्तः स्वभावतः ॥५४॥ शम उवाच । किं मया क्रियते प्रेता मलमासभवं व्रतम् । स्नानमात्रं कृतं नित्यं गणेशस्मृतिसंयुक्तम् ॥५५॥ गणेशस्मरणस्यैव महिमा केन गण्यते। पुराणेषु श्रुतं तस्मात् वचः शृणुत मे हितम् ॥५६॥ एकनामस्मृतेः पुण्यं ददामि स्नानसंभवम्। तेन बंधनहीनाश्च भविष्यथ न संशयः ॥५७॥ एवमुक्त्वा ददौ तेभ्य एकस्नानभवं फलम् । मलमासे गणेशस्य स्मृतियुक्तं महामुने ॥५८॥ ततस्तत्र समायाता गाणेशा यानसंयुताः। प्रेतान् गृह्य ययुः सर्वे स्वानंदं गणपे रताः ॥५९॥ तत्र लंबोदरं दृष्ट्वा ब्रह्मभूता बभूविरे । प्रेताः पश्य महाश्चर्यं शौनक मलमासगम् ॥६०॥ एवं नाना जना विप्र सिद्धिं प्राप्ता विशेषतः। ढौँढे मासे कति ब्रूयां संख्यातुं न क्षमो ह्यहम् ॥६१॥ संक्षेपेण मया तुभ्यं कथितं चरितं शुभम् । मलमासभवं चित्रं श्रवणात् सर्वदायकम् ॥६२॥ यः पठेच्छ्रावयेद्वाऽपि शृणुयात् स लभेत् परम् । इह भुक्त्वाऽखिलान् भोगान् स्वजनैः परिवारितः ॥६३॥ ॥ ओमिति श्रीमदंत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते मलमासमाहात्म्यवर्णनं नाम पंचत्रिंशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ सूत उवाच । प्रसंगात् सर्वमासानां कथयामि चरित्रकम् । गणेशभक्तिदं चित्रं शृणुध्वं मुनयः परम् ॥१॥ प्रातः स्नानं विधायैव गाणेशे पंचके रतः। नित्यं द्वादशमासेषु स सर्वार्थमवाप्नुयात् ॥२॥ असाध्यं साधयेन् मर्त्यः परं यद्यपि दुर्लभम् । लभेत् द्वादशमासेषु गणेशे पंचके रतः ॥३॥ अत्र ते कथयिष्यामीतिहासं पूर्वसंभवम् । श्रवणात् पठनात् नृणां पावनं सर्वसिद्धिदम् ॥४॥ नलो नाम महाराजो निषधेषु बभूव ह। धर्मशीलो वदान्यश्च स्वधर्मनिरतः सदा ॥५॥ दमयंत्या युतः सोऽपि विचारमकरोत् हृदि । त्रिलोकगमने शक्तो भविष्यामि कथं नरः ॥६॥ नरदेहधरो यस्तु

खं. ८ अ. ३६ पान ८३ स्वेच्छागतिर्युतो भवेत्। तदा तस्य यशो धन्यमिह सर्वातिगं भवेत् ॥७॥ एवं विचार्य विप्रेशं गौतमं स ययौ नृपः। प्रणम्य तं महाभागं पप्रच्छ स्वहितावह्म् ॥८॥ नल उवाच । नरदेहधरः स्वामिंस्त्रिलोकगः कथं भवेत् । तन्मे कथय तत्त्वज्ञ करिष्यामि यथातथम् ॥९॥ गौतम उवाच । श्रावणे तु प्रतिपदि शुद्धपक्षं महानृप । प्रातः स्नात्वा स्वशाखोक्तं कर्म नित्यत्मकं चरेत् ॥१०॥ ततो गाणेशकं राजन् पंचकं भक्तिसंयुतः । नियमेन समापूज्य व्रतयुक्तो भवेन्नरः ॥११॥ आषाढीं स समासाद्यामावास्यां गणपे रतः। मंडपे गणनांथं च पूजयेद्धेमनिर्मितम् ॥१२॥ द्वादश ब्राह्मणांस्तत्र वरयेद्वेदपारगान्। होमं कुर्यात् दशांशेन जपस्यैतैर्महामते ॥१३॥ वायनं ब्राह्मणाग्यैव प्रदद्यात् स बलिं चरेत्। ततः पूर्णाहुतिं कृत्वा भोजयेत्तांस्तु पायसैः ॥१४॥ प्रतिपदि पुनः पूज्य गणेशं सर्वसिद्धिदम् । सुवासिनीभिः संयुक्तान् द्विजान् स्त्रीभिस्तु भोजयेत् ॥१५॥ एकविंशतिसंख्याकानथवा संख्यातिगान्। दक्षिणां विपुलां दत्वा तोषयेत्तान् विशेषतः ॥१६॥ योषिभ्यः कंचुकादींश्च नानालंकारांस्तथा। प्रदद्याऽऽन्नम्य स सर्वान् गृह्याशिषं विसर्जयेत् ॥१७॥ सोपस्कारं गणाध्यक्षं प्रदद्यात् गुरवे परम्। अन्येभ्यः शक्तिप्रायाण्यादद्याद्दानानि हर्षतः ॥१८॥ एवं कुरु महीपाल ज्ञानयुक्तो भविष्यसि । त्रिलोगस्तथा सर्वं लभसे मनसीप्सितम् ॥१९॥ एवमुक्त्वा महायोगी गौतमो विरराम ह। नलस्तं प्रणिपत्यैव स्वगृहं प्रययौ पुरा ॥२०॥ चकार सर्वधर्मज्ञो नलो गणपतौ रतः । यथाविधि व्रतं मुख्यं संवत्सरप्रमाणकम् ॥२१॥ ततः स योगिवंद्यश्च बभूव ज्ञानसंयुतः। त्रिलोक्यां गमने शक्तो भूपालो नरदेहगः ॥२२॥ एवं नाना जना विप्र व्रतं संवत्सरात्मकम् । चक्रुस्ते योगिवंद्याश्च बभूवुर्ज्ञानसंयुताः ॥२३॥ मनेप्सितां प्रलभ्यैव दुर्लभां सिद्धिमूत्तमाम् । अंते स्वानंदगाः सर्वे ब्रह्मभूता बभूविरे ॥२४॥ तेषां चरित्रकं सर्वं मया वक्तुं न शक्यते । अनंतत्वात् महाभाग संक्षेपेण निरूपितम् ॥२५॥ गाणेशपंचकस्यैव सेवने न समर्थकाः । किंचिन्नियमसंयुक्ता व्रतं चक्रुः परे नराः ॥२६॥ तेऽपि सिद्धिं समासाद्य मनेप्सितां मुदा युताः । अंते गणपलोके तु गत्वा ब्रह्म प्रलेभिरे ॥२७॥ शूद्रः कश्चिद् बृहत्कर्मा नाम्ना वंध्यो बभूव ह। पुत्रार्थं प्रयतो भूत्वा नानाकर्मपरो- ऽभवत् ॥२८॥ न लेभे संततिं सोऽपि ततोऽतिदुःखसंयुतः । प्रजगाम वनं घोरं तत्र विप्रान् ददर्श ह ॥२९॥ तान् प्रणम्य महाभागानपृच्छत् पुत्रदायकम् । उपायं ते समाचख्युर्व्रतं संवत्सरात्मकम् ॥३०॥ श्रुत्वा विधियुतं पूर्णं व्रतं गाणेश्वरं परम्। प्रणम्य तान् समायातः स्वगृहं हर्षसंयुतः ॥३१॥ गाणेशपंचकं पूर्णं सेवितुं न बभूव ह। समर्थः स ततो विप्र

चकार स्वल्पभावतः ॥३२॥ स्नात्वा गणपतेः पूजां चकार पार्थिवीं पराम् । नाममंत्रैः स्वयं नित्यं ब्रह्मचर्ययुतोऽभवत् ॥३३॥ एकभुङ् नियमे संस्थ्यश्चकार व्रतमुत्तमम् । समाप्य तद्व्रतं पूर्णं गणेशमभजन्मुदा ॥३४॥ द्विजातीनां स शुश्रूषां चकार धर्मसंयुक्तः । मिलितेन तदन्नेन कुटुंबं समपोषयत् ॥३५॥ ततः स्वल्पेन कालेन पुत्रं लेभे महामुने । ज्ञानयुक्तं सरूपं तं दृष्ट्वाऽतिहर्षितोऽभवत् ॥३६॥ क्रमेण पंच पुत्राश्च पुत्त्र्यस्तिस्रो बभूविरे । शूद्रस्य स गणेशानं मन्यते स्म समर्थकम् ॥३७॥ अंते स्वानंदलोकं स जगाम भार्यया युतः । इह भुक्त्वाऽखिलान् भोगान् ब्रह्मभूतो बभूव ह ॥३८॥ एवं नाना जना विप्र किंचित् कृत्वा व्रतात्मकम् । नियमं सिद्धिसंयुक्ता बभूवुः कति ते ब्रुवे ॥३९॥ उद्यापनं मया प्रोक्तं तदेव सर्वसंमतम् । सर्वमासेषु कर्तव्यं मासात्मकव्रतेऽपि च ॥४०॥ चातुर्मास्यव्रते विप्र उद्यापनमिदं स्मृतम् । मलमासव्रते तद्वदिदं कर्तव्य- मादरात् ॥४१॥ सांवत्सरं व्रतं मुख्यं कथितं ते समासतः । पठनाच्छ्रवणाच्चेदं सर्वदं प्रभविष्यति ॥४२॥

॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते संवत्सरव्रतमाहात्म्यवर्णनं नाम षट्त्रिंशोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ शौनक उवाच । चातुर्मास्य व्रतं ब्रूहि गाणेशं सर्वदायकम् । न तृप्यामि कथां श्रुत्वा नानाश्चर्यविवर्द्धि- नीम् ॥१॥ सूत उवाच । अत्र ते कथयिष्यामि पुरातनभवं परम् । इतिहासं महाभाग श्रवणात् सर्वदायकम् ॥२॥ बृहदश्व इति ख्यातो ब्राह्मणः परमार्थवित् । तपोयुक्तो महातेजाः शापानुग्रहणे क्षमः ॥३॥ नानातपःप्रभावेणांऽतर्ज्ञानं संबभूव ह । हृदि तस्य ततः सोऽपि शमदमपरोऽभवत् ॥४॥ सोऽहं ब्रह्मणि संस्थ्योऽभूत् अंते शून्यमये मुनिः । शांतियुक्तः स्वभावेन संस्थितो ब्रह्मवित्तमः ॥५॥ तस्याऽऽश्रमे महायोगी विभांडः सहसाऽऽगतः । तं प्रणम्य महाभागं पुपूज भक्तिसंयुतः ॥६॥ विश्रांतं मुनिमुख्यं स जगाद हर्षसंयुतः । विभांडं विनयेनैव युक्तो वचनमुत्तमम् ॥७॥ बृहदश्व उवाच । निरालंबमयं ब्रह्म सदैकरूपधारकम् । ध्यातृध्यानविहीनं यत् तत्त्वमेव न संशयः ॥८॥ महाभाग्येन दृष्ट्वा त्वां साक्षात् योगीश्वरं परम् । अधुना कृतकृत्योऽहं जातस्ते पाददर्शनात् ॥९॥ एवं तस्य वचः श्रुत्वा विभांडस्तमुवाच ह । योगयुक्तं

खं. ८ अ. ३७ पान ८५ सुनैपुण्यं ज्ञात्वा शांतिप्रदायकः ॥१०॥ विभांड उवाच। अहं गणेशरूपश्चेत्तत्रैकत्वं न विद्यते । निरालंबभवं सौख्यं मुने कुत्र प्रवर्तते ॥११॥ तस्य तद्वचनं श्रुत्वा बृहदश्वस्तमब्रवीत् । सुशांतिदं विस्मितः किं तदर्थं लालसी सदा ॥१२॥ बृहदश्व उवाच । पूर्णशांतिप्रदं नाथ वद मां करुणानिधे । सोऽहंकारात्परं भावं न जानामि कदाचन ॥१३॥ विभांड उवाच । अहं पुरा तपोनिष्ठोऽभवं तत्र समाययुः । इंद्रेण प्रेषिता नार्यस्तपोभंगार्थमादरात् ॥१४॥ नृत्यगानादि चिह्नौर्मां मोहनाय समुद्यताः । अप्सरसस्ततो धैर्यमहं धृत्वा स्थितोऽभवम् ॥१५॥ ततोऽति हठसंयुक्ताः स्त्रियः कामसमन्विताः । हावभावकटाक्षाद्यै- श्चिह्नैर्मां समपीडयन् ॥१६॥ ततो मे विह्वलत्वाङ्गे वीर्यं पपात भूतले । तृणयुक्ते सुसंखिन्नोऽगमं त्यक्त्वा स्वमाश्रमम् ॥१७॥ ततस्त्वप्सरसः सर्वा जग्मुः स्वर्गं महामुने । अहं जाजलिकं विप्रमगमं तं नतोऽभवम् ॥१८॥ तेन सम्मानितो नित्यमवसं तपसा युतः । अवदं गणनाथस्य पूजने सक्तमादरात् ॥१९॥ एकनिष्ठतया स्वामिन्नित्यं भक्तिसमन्वितः । त्यक्त्वा देवेंद्रकान् सर्वान् गणेशं भजसे कथम् ॥२०॥ एवं पृष्टो मया योगी जाजलिः परमार्थवित् । मामुवाच दयायुक्त- स्तत्तेऽहं कथयामि तु ॥२१॥ जाजलिरुवाच । गणेशान्न परं ब्रह्म वेदे पश्य महामते । ब्रह्मणस्पति संज्ञं तं वदंति वेदवा- दिनः ॥२२॥ अहं पुरा तपोनिष्ठोऽभवं नित्यं महामुने । अत्यंततपसा मेऽभूद् व्याप्तं सर्वं चराचरम् ॥२३॥ ततोऽकस्मात् समायातमाश्रमे मे महामुनिः । लोमशं तं प्रणम्याहमपूजं भक्तिसंयुतः ॥२४॥ ततो मामब्रवीत् विप्रो लोमशः सर्वविन् मुनिः । दयायुक्तः स्वभावेन महायोगींद्रवंदितः ॥२५॥ लोमश उवाच । किं तपोनिष्ठभावेन साध्यं कर्तुमभीप्ससि । योगं साधय तत्त्वज्ञ स्वयं ब्रह्म भविष्यसि ॥२६॥ तपसा सर्वभोगश्च लभ्यते मानवैः सदा । पुनः पतनभावात्तन्नमत्तं द्वंद्वसंयुक्तः ॥२७॥ एवं तस्य वचः श्रुत्वा तं प्रणम्य पुनर्मुनिम् । अपृच्छं योगदं मार्गं विनयेन समन्वितः ॥२८॥ केन मार्गेण योगज्ञ लभे योगं महामुने । तं वदस्व करिष्यामि त्वच्छिष्योऽहं विधानतः ॥२९॥ लोमश उवाच । पुराऽहं कर्मयोगेन मूकस्तपःसमन्वितः । प्रणम्य भक्त्या ब्रह्माणमपृच्छं सर्वदं वद ॥३०॥ ततस्तेन समाख्यातं सर्वसारं सुशांतिदम् । गाणेशं सर्वमान्यं तत् पुराणं संश्रुतं मया ॥३१॥ श्रवणस्य च माहात्म्याद्द्वाणीयुक्तोऽभवं पुरा। ततो हर्षसमायुक्तो मुने विधिं नतो विभुम् ॥३२॥ ततः स्वमाश्रमं गत्वा गणेशकथितं परम् । गीताज्ञानं समाराध्य योगिवंद्योऽभवं मुदा ॥३३॥ ततो गणेश्वरं स्थाप्य स्वाश्रमे तं विधानतः । पूज्य ध्यानपरो भूत्वा तोषयामि स्म विघ्नपम् ॥३४॥ एकाक्षरजपा-

सक्तं मां ज्ञात्वा गणनायकः । शतवर्षैः प्रसन्नोऽभूदाययौ वरदः प्रभुः ॥३५॥ तमागतं समालोक्योत्थाय नत्वा गजाननम् । पूज्य नानाविधैः स्तोत्रैः स्तुतोऽसौ मामुवाच ह ॥३६॥ श्रीगणेश उवाच । वरं वृणु महाभागेप्सितं मनसि लोमश । दास्यामि तपसा तुष्टो भक्त्या ते मुनिसत्तम ॥३७॥ लोमश उवाच । गाणपत्यं कुरुष्व त्वं मां ते भक्तिसमन्वितम् । नान्यं याचे वरं नाथ मिथ्या मायाभ्रमात्मकम् ॥३८॥ आयुष्यं विपुलं देहि तेन युक्तो निरंतरम् । भजिष्यामि गणेशान चरणं ते तद- र्थतः ॥३९॥ ततो मामब्रवीद्देवो गणेशो भक्तवत्सलः । गाणपत्यप्रियोऽत्यंतं भविष्यसि स्वयं मुदा ॥४०॥ कल्पे कल्पे च ते रोम लयं गच्छति नित्यदा । एवं क्रमेण सर्वाणि यांति लोमानि नाशकम् ॥४१॥ तदा देहं परित्यज्य मल्लोके आग- मिष्यसि । तत्र मां भक्तिभावेन भजिष्यसि न संशयः ॥४२॥ यद्यदिच्छसि योगीश तत्तत्ते सफलं सदा । भविष्यति स्मृतः कार्ये प्रकटोऽहं भवामि ते ॥४३॥ एवमुक्त्वाऽंतर्दधेऽसौ गणेशो ब्रह्मनायकः । खिन्नोऽहं तं समास्थाप्य नित्यपूजा- परायणः ॥४४॥ ततो बहौ गते काले मुने मन्वंतरात्मके । मघवाऽन्यः समुत्पन्नस्त्रिलोकीराज्यकारकः ॥४५॥ विश्वकर्माण- माहूय जगाद मघवा वचः । गृहं मे कुरु शोभाढ्यं नानाऽऽश्चर्ययुतं परम् ॥४६॥ वाटिकादिकमेवं मे भोगार्थं रचयस्व च । तथेति विश्वकर्माऽसौ चकार दुःखसंयुतः ॥४७॥ तथापि मघवा शांतो न बभूव महामुने । तेनाश्चर्ययुतो नित्यमिदं कुरु महामते ॥४८॥ विश्वकर्मा ततः खिन्नः सस्मार गणनायकम् । इंद्रं त्यक्त्वाऽन्यदेवानां गृहार्थं व्याकुलोऽभवत् ॥४९॥ कदाऽयं गृहकार्यं तु गजाननः समाप्य माम् । मोचयिष्यति देवेशोऽन्यदेवकार्यसिद्धये ॥५०॥ ततोऽहं दैवयोगेनागमं देवेंद्रसत्तमम् । मघवा पूज्य मां वाक्यं जगाद हर्षसंयुतः ॥५१॥ इंद्र उवाच । धन्यं मे जन्मकर्मादि त्वत्पादयुगदर्शनात् । किं पत्रं मस्तके विप्र पलाशस्य धृतं वद ॥५२॥ लोमश उवाच । देहो नश्वररूपोऽयं पतिष्यति न संशयः । तदर्थं गृहसंभूतं श्रमं कः प्रसमाचरेत् ॥५३॥ वृष्टिसंवारणार्थायोष्णभावार्थनिवारणात् । पत्रं गृहस्वरूपं तु पुरंदर धृतं मया ॥५४॥ एवं मद्गिरमाकर्ण्य मामुवाच पुरंदरः । कल्पे लोम्नः प्रणाशस्ते भवेत्ते नैव लोमशः ॥५५॥ आज्ञां कुरु महाभाग त्वदर्थं गृहमुत्तमम् । कारयिष्यामि विप्रेश तत्र निलयं सुखी भव ॥५६॥ वयं चतुर्दश प्राज्ञाऽभवन् त्वल्लोमनाशके । तदपि त्वं किमर्थं तं देहं वदसि नश्वरम् ॥५७॥ श्रुत्वाऽहं मघवंतं तमवदं हर्षसंयुतः । इंद्र किं मां त्वं वदसि भ्रांतिदं योगनाशनम् । ॥५८॥ नष्टं देहं समालोक्य कः श्राम्येत्तत्र पंडितः । योगामृतेन संतुष्टोऽहं भ्रमामि यदृच्छया ॥५९॥ पिपीलिका

[header] खं. ८ अ. ३७ | पान ८७ [/header]

भवच्चेंद्रो नरः सुद्युम्नसंज्ञितः । पूर्वसंस्कारयोगेनाश्वमेधशतकारकः ॥६०॥ स त्वं यज्ञफलं भोक्तुं जातोऽसि मघवाऽधुना । पतिष्यसि पुनर्दैव तत्र का ते गतिर्भवेत् ॥६१॥ एवमुक्त्वा महायोगी लोमशः स्वप्रभावतः । ददौ जातिस्मरत्वं तु मघ- वते महायशाः ॥६२॥ मघवा सर्वमालोक्य त्रासयुक्तो बभूव ह । प्रणम्य लोमशं सोऽपि पप्रच्छ हितकारकम् ॥६३॥ इंद्र उवाच । जन्ममृत्युहरं तात वद योगं परात् परम् । येन कामादिकं सर्वं नाशं गच्छति तत्क्षणात् ॥६४॥ लोमश उवाच । गणेशं भज भावेन ततो योगमवाप्स्यसि । ब्रह्मणां ब्रह्मरूपोऽयं सदा शांतिपरायणः ॥६५॥ इंद्र उवाच । नामरूपधरं देवं वदसे किं गणेश्वरम् । योगाकारं महाभाग वद तस्य महो महत् ॥६६॥ लोमश उवाच । योगरूपो गणेशोऽयं योगप्राप्त्यर्थ- मादरात् । नामरूपधरो जातो भक्तानां क्रीडनोत्सुकः ॥६७॥ संप्रज्ञातमयो देहो मस्तकं गजवाचकम् । असंप्रज्ञातरूपं तत्तयोर्योगे गजाननः ॥६८॥ सिद्धिभ्रांतिकरी माया बुद्धिर्भ्रांतिधरा मता । ताभ्यां क्रीडति ब्रह्मेशो जगत्सु ब्रह्मसु प्रभो ॥६९॥ खसंवेद्येन योगेन दर्शनं तस्य जायते । तेन स्वानंदवासी स कथितः शास्त्रवादिभिः ॥७०॥ गणाः समूह- रूपाश्च बाह्यांतरादियोगतः । ब्रह्माकारो गणेशानस्तेषां स्वामी प्रकीर्तितः ॥७१॥ एवमुक्त्वा महायोगी लोमशो मंत्रमा- दिशत् । षडक्षरं गणेशस्यैंद्रार्थं विधिसमन्वितम् ॥७२॥ इंद्रः प्रणम्य विप्रेशमुवाच विनयान्वितः । वद शीघ्रं गणेशस्य दर्शनं मे कथं भवेत् ॥७३॥ लोमश उवाच । दक्षिणायनरूपा सा रात्रिर्देवी दिवौकसाम् । रात्रौ कर्माधिकारो न नराणां भूनिवासिनाम् ॥७४॥ तज्ज्ञात्वा दुःखसंयुक्ता रात्रिर्ब्रह्माणमावदत् । सत्कर्मसंयुतां नाथ मां कुरुष्व पितामह ॥७५॥ ततो ब्रह्मा ददौ तस्यै मंत्रं षोडशवर्णकम् । गणेशस्य ययौ सा तं प्रणम्य वनमुत्तमम् ॥७६॥ ध्यात्वा हृदि गणाधीशं तताप तप उत्तमम् । आषाढयां पूर्णिमायां सा समारेभे ततः परम् ॥७७॥ कार्तिक्यां पूर्णिमायां तां प्रसन्नोऽभूद्गजाननः । आययौ वरदानार्थं रात्रिं भक्तिनियंत्रितः ॥७८॥ समागतं गणाध्यक्षं सा विलोक्य ननाम तम् । तुष्टाव विविधैः स्तोत्रै- र्भक्तिनम्रात्मकंधरा ॥७९॥ ततः प्रसन्नतां यातो गणेशस्तामुवाच ह । वरान् वरय रात्रे त्वं दास्यामि हृदि ते स्थितान् ॥८०॥ रात्रिरुवाच । भक्तिं ते चरणे नाथ देहि मेऽनन्यधर्मिणीम् । सत्कर्मसंयुतां मां त्वं कुरुष्व रात्र्यपि प्रभो ॥८१॥ तस्यास्तद्वचनं श्रुत्वा तां जगाद गजाननः । भक्तिर्मदीयपादे ते भविष्यति महामते ॥८२॥ आषाढी पूर्णिमाद्यं च कार्तिकी पूर्णिमांतगम् । चातुर्मास्यं सिद्धिदं च भविष्यति सुधर्मिणाम् ॥८३॥ गाणेशपंचकं सेव्यं चातुर्मास्ये त्वदीयके । सर्वसिद्धिसमायुक्ता भवि-

खं. ८ अ. ३७ पान ८८ ष्यसि न संशयः ॥८४॥ षण्मासेषु महाभागे भव सत्कर्मसंयुता । नाना देवप्रियाऽत्यंतं सत्कर्मणः प्रतापत: ॥८५॥ विवाहादिकमेवं ते समयेन भविष्यति। अन्यन्नानाविधं कर्म देवतोषं तथाऽस्तु च ॥८६॥ चातुर्मास्यव्रतेनैव मां नराः पर्युपासते । सांवत्सरभवं पुण्यं लभंते पूर्णभावतः ॥८७॥ एवमुक्त्वाऽंतर्दधेऽसौ गणेशो भक्तवत्सलः । रात्रिस्तं प्रणि- पत्यैव हर्षयुक्ताऽभवत् सदा॥८८॥ अतस्त्वं देवराजेंद्र चातुर्मास्यव्रतं कुरु। योगयुक्तो महाभागो भविष्यसि न संशयः ॥८९॥ एवमुक्त्वा महेंद्रं तं पूजितस्तेन चागमम् । स्वस्याश्रमं गणेशानमभजं मुनिसत्तम ॥९०॥ इंद्रस्ततः समाहूय विश्वकर्माणमादरात् । जगाद तं महाभागं गच्छ त्वं स्वगृहं सुर ॥९१॥ विश्वकर्मा ययौ स्थानं स्वकीयं हर्षसंयुतः । अभजद्गणनाथं स विस्मितः सन् महामतिः ॥९२॥ इंद्रो राज्यं विनिक्षिप्य देवेषु वनगोऽभवत् । ध्यात्वा हृदि गणेशानमजपन् मंत्रमुत्तमम् ॥९३॥ चातुर्मास्यव्रतं चक्रे गाणेशे पंचके रतः । तेन व्रतप्रभावेण योगयुक्तो बभूव ह ॥९४॥ चित्तमोहं परित्यज्य स चिंतामणितन्मयः । भूत्वा स्वगृहमागत्य चकार राज्यमुत्तमम् ॥९५॥ निःस्पृहः सर्वभोगेषु सदा विघ्नेशतत्परः । बभूव राज्यसंस्थोऽपि महेंद्रः परमार्थवित् ॥९६॥ नित्यव्रतं चकारासौ महेंद्रो भक्तिसंयुतः । चातुर्मास्य- भवं विप्र सर्वसिद्धिप्रदायकम् ॥९७॥ भुक्त्वा मन्वंतरस्थं स्वराज्यं निहतकंटकम् । अंते स्वानंदगो भूत्वा ब्रह्मभूतो बभूव ह ॥९८॥ जाजलिरुवाच । देवाः कर्मफलं भुक्त्वा पतंति भूमिमंडले । स्वर्गेषु यत् कृतं कर्म फलहीनं मतं बुधैः ॥९९॥ इंद्रः कथं महाभाग चातुर्मास्यव्रतोद्भवम् । फलं प्राप्य गणेशानं ययावंते वद प्रभो ॥१००॥ लोमश उवाच । त्वयोक्तं जाजले वाक्यं तदेव सर्वसंमतम् । स्वर्गभूमौ कृतं कर्म निष्फलं जायते सदा ॥१॥ पृथिव्यां भारते खंडे समागत्य महामुने । देवाः कुर्वंति कर्माणि तानि सत्फलकानि तु ॥२॥ कर्मभूमौ कृतं कर्म देवैर्वा दानवैर्नरैः । जंतुभिर्विविधैः सर्वैः सफलं संभवेत् सदा ॥३॥ अतो व्रतं मुख्यतमं कुरु विघ्नेशतत्परः । चातुर्मास्यभवं चित्रं गाणेशपंचके रतः ॥४॥ गणेशकृपया सर्वं ज्ञास्यसि नात्र संशयः । अंते तल्लीनतां विप्र गमिष्यसि विशेषतः ॥५॥ जाजलिस्तं प्रणम्याऽऽदौ लोमशं गुरुमुख्यकम् । जगाम स्वाश्रमं त्यक्त्वा बल्लालेशं महामतिः ॥६॥ तत्र गत्वा व्रतं मुख्यं चकार भक्तिसंयुतः । चातुर्मास्ये यथाशास्त्रयुक्तं पयः प्रभक्षयन् ॥७॥ समाप्ते तद्व्रते सद्यः प्रसन्नो गणनायकः । आययौ जाजलिं विप्रं वरदो भक्तवत्सलः ॥८॥ तमागतं समालोक्य जाजलिः प्रणनाम ह । पूज्य नम्य प्रतुष्टाव कृत्वा करपुटं प्रभुम् ॥९॥ जाजलिरुवाच । नमस्ते ब्रह्मनाथाय

खं. ८ अ. ३७ पान ८९ बल्लालेशस्वरूपिणे । बल्लालवरदात्रे ते गणेशाय नमो नमः ॥११०॥ विघ्नेशाय महाविघ्ननाशनाय परात्मने । भक्तानां भक्तनाथाय भक्तानां विघ्नकारिणे ॥११॥ परात्परतरायैव सगुणाय चतुर्भुज । निर्गुणाय तयोर्योगे हेरंबाय नमो नमः ॥१२॥ वक्रतुंडाय देवायैकदंताय महोदर । लंबोदराय सर्वेषां मात्रे पित्रे नमो नमः ॥१३॥ स्वानंदवासिने तुभ्यं सदा स्वानंदभोगिने । नानामायाप्रचालाय मायिकाय नमो नमः ॥१४॥ सिद्धिबुद्धिपते तुभ्यं सिद्धिबुद्धिमयाय ते । अमेयशक्तये चैव शक्तिहीनाय ते नमः ॥१५॥ देवाय दानवायैव देवदानवमर्दिने । सर्वाकाराय सर्वेभ्यो हीनाय ते नमो नमः ॥१६॥ योगानां योगनाथाय शांतीनां शांतिरूपिणे । ब्रह्मणां पतये तुभ्यं चिंतामणे नमो नमः ॥१७॥ किं स्तौमि त्वां गणाध्यक्ष यत्र वेदा विसिस्मिरे । धन्योऽहं सर्वभावैः पश्यामि त्वां योगरूपिणम् ॥१८॥ एवमुक्त्वा गणेशानं ननाम भक्तिभावतः । तमुत्थाप्य गणेशानो जगाद भक्तवत्सलः ॥१९॥ श्रीगणेश उवाच । त्वया कृतमिदं स्तोत्रं सर्वसिद्धिकरं भवेत् । पठतां शृण्वतां विप्र मयि भक्तिविवर्धनम् ॥२०॥ वरान् ब्रूहि महाभाग दास्यामि मनसीप्सितान् । तपसा भक्तिभावेन तुष्टो व्रतेन निश्चितम् ॥२१॥ जाजलिरुवाच । तव भक्तिं स्थिरां देहि गाणपत्यपदप्रदाम् । योगशांतिकरीं नाथ नान्यं याचे गजानन ॥२२॥ ओमित्युक्त्वा गणाधीशोऽन्तर्दधे मुनिसत्तम । जाजलिस्तं प्रणम्यैव हर्षयुक्तो बभूव ह ॥२३॥ एवं व्रतस्य माहात्म्यं विभांड कथितं मया । येनाहं योगिनां वंद्योऽभवं योगपरायणः ॥२४॥ तदादि वार्षिकं विप्र चातुर्मास्यभवं व्रतम् । करोमि गणप्रीतयै बल्लालेशं समाश्रितः ॥२५॥ त्वमप्येतादृशं विप्र व्रतं कुरु महाद्भुतम् । चातुर्मास्ये महायोगिवंद्यः सद्यो भविष्यसि ॥२६॥ एवमुक्त्वा ददौ तस्मै मंत्रमष्टाक्षरं मुनिः । सविधिं गणराजस्य विभांडाय महात्मने ॥२७॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते चातुर्मास्यमाहात्म्ये विभांडव्रतोपदेशवर्णनं नाम सप्तत्रिंशोऽध्यायः ॥

शीर्षक (Header): खं. ८ अ. ३८ | पान ९०


॥ श्रीगणेशाय नमः ॥ विभांड उवाच । बल्लालेशचरित्रं मे ब्रूहि योगींद्रसत्तम । बल्लालेशः कथं नाम्ना गणेशोऽभूच्छुभप्रदः ॥१॥ केनासौ स्थापितो देवः पल्लीसामीप्यगोऽभवत् । चरित्रं वद योगीश सर्वसिद्धिकरं परम् ॥२॥ जाजलिरुवाच । सिंधुदेशे समाख्याता पल्ली नाम्नी पुरी पुरा । तत्र कल्याणनामैको वैश्यो धर्मयुतोऽभवत् ॥३॥ इंदुमती महाभागा पत्नी तस्य सुरूपिणी । तस्यां पुत्रोऽभवत्तस्माद्बल्लालो भक्तिसंयुतः ॥४॥ पुत्रस्यैकादशे नाम दिवसे स चकार ह । बल्लालो ब्राह्मणैरुक्तो भक्तिबलसमन्वितः ॥५॥ बल्लालो गणनाथस्य ध्यानयुक्तः सदाऽभवत् । क्षुधां तृषां न जानाति भक्तिभावात् स्म नित्यदा ॥६॥ माता पुत्राय स्तन्यं तु ददौ हर्षसमन्विता । कृत्वा स्मरणमत्यंतमतिविस्मितमानसा ॥७॥ न रुरोद कदा बालस्तन्यार्थं मुनिसत्तम । ततश्चचाल पद्भ्यां स जानुना वैश्यनंदनः ॥८॥ पृथिव्यां गणपं धूलिमयं कृत्वा महामतिः । धूल्योपचारकैस्तं स पूजयामास भक्तितः ॥९॥ ततः पद्भ्यां गतिं चक्रे बल्लालो गणपे रतः । अवदत् स्खलितां वाचं जय विघ्नेश आदरात् ॥१०॥ ततः किंचिद्गते काले स वयस्यैः समन्वितः । पुपूज गणनाथं तं यत्र तत्र महीतले ॥११॥ बालान् संशिक्षयामास मा खेलं कुरुत प्रियाः । नाशभूतं महाभागाः खेलं गाणेशचिह्नितम् ॥१२॥ भजध्वं गणपं नित्यं तेन सर्वं हितं भवेत् । ततस्ते तादृशं चक्रुर्गाणपत्यपरायणाः ॥१३॥ ततः काले गते किंचित्तत्र लोकभवं परम् । विघ्नं भक्तिविघाताख्यं ज्ञात्वा सोऽपि सुदुःखितः ॥१४॥ विचार्य हृदि बालैः स मुदा ग्रामसमीपगम् । पर्वतं वैश्यपुत्रोऽपि जगाम भक्तिकारणात् ॥१५॥ तत्र सुंदररूपं स पाषाणं स्थाप्य बालकैः । पुपूज वनजैः पत्रैः फलैः पुष्पैर्गजाननम् ॥१६॥ त्रिकालपूजनं कृत्वा रात्रौ स्वगृहमयायौ । भुक्त्वा सुष्वाप बल्लालो गाणपत्याग्रणीर्महान् ॥१७॥ पुनः प्रातः समुत्थाय बालकैः स जगाम ह । गणेशं भक्तिसंयुक्तस्तैः पुपूज महामुने ॥१८॥ ततो लोकाः पुरे संस्था बालान् संताड्य तान् जगुः । अभुक्त्वा नित्यमानंदात् कुत्र गच्छथ बालकाः ॥१९॥ निशायामेकभुक्तेन कथं तिष्ठथ नित्यदा। बल्लालसंगसंयुक्ता मा गच्छथ कदाचन ॥२०॥ एवं क्रोधसमायुक्ता जना नगरवासिनः । अशिक्षयन् स्वपुत्रादींस्ते तथापि वनं ययुः ॥२१॥ बल्लालसहिताः सर्वे गणेशभजने रताः । नानाछंदयुतास्तं ते गणेशमभजन् परम् ॥२२॥ ततोऽतिक्रोधसंयुक्ताः कल्याणं प्रययुः किल । जनाः श्रेष्ठं महावैश्यं जगुस्तं भयवर्जिताः ॥२३॥ नागरा ऊचुः । बल्लालो बालकान् गृह्य याति नित्यं वनांतरम् । उपोषण- समायुक्तान् रात्रावागच्छति प्रभो ॥२४॥ कृशा नो बालकाः सर्वे कृतास्तेन दुरात्मना । अद्य श्वो वा मरिष्यंति स्वसुतं

शिक्षयाऽधुना ॥२५॥ नानाप्रयत्नवंतोऽपि वयं सर्वे महामते । ताडयामः सुतान् गृह्य तथापि त्वत्सुते रताः ॥२६॥ तेषां तद्वचनं श्रुत्वा कल्याणः क्रोधसंयुतः । विसृज्य तान् ययौ शीघ्रं वने हंतुं सुतं शुभम् ॥२७॥ महांप्तं दंडमादाय क्रोधयुक्तः स्वभावतः । जगाम बालसामीप्ये ददर्श बालकान् मुने ॥२८॥ तृणकाष्ठादिभिश्चित्रं धातुभी रंजितं परम् । कृत्वा देवालयं देवं स्थाप्य पूजापरायणान् ॥२९॥ कांश्चित् प्रदक्षिणपरान् नामकीर्तनसंयुतान् । ध्याननिष्ठान् तपोनिष्ठान् पुराणवाचकान् परान् ॥३०॥ नानाछंदकरान् वैश्यो गाणेशान् परमार्थकान् । बल्लालं ध्यानसंस्थं तु गणेशस्य पुरः सुतम् ॥३१॥ ततो दंडेव देवस्य देवालयं बभंज ह । दृष्ट्वा बाला भयोद्विग्नाः पप्लुः सर्वतो दिशम् ॥३२॥ एक एव स बल्लालो न चचाल दृढाऽऽसनात् । नियमस्थो महाभक्तस्तं जग्राह पिता सुतम् ॥३३॥ दण्डेन ताडयामास बल्लालं यमसंनिभः । तस्य देहात् प्रसुस्राव रुधिरं सर्वतो द्विज ॥३४॥ तथापि स गणेशानं न मुमोच हृदि स्थितम् । सस्मार देहसंत्यागे तत्परो वैश्यजः प्रभुम् ॥३५॥ ततो देवं प्रगृह्यैव चिक्षेप गणनायकम् । दूरे पर्वतभागे स वल्लीपाशानथानयत् ॥३६॥ तैः सुतं हस्तपादेषु बबंध दृढमेव सः । ततस्तं क्रोधसंयुक्तो जगाद वैश्यजोऽधमः ॥३७॥ कल्याण उवाच । मामनादृत्य नित्यं त्वं देवपूजापरोऽसि वै । तस्येदं त्वं फलं मुख्यं भुंक्ष्व पुत्र महाद्भुतम् ॥३८॥ लोका मां लज्जया हीना वदंति त्वद्विचेष्टितम् । अयशस्कारिणं पुत्रं मारयस्व महामते ॥३९॥ त्वया पुत्रेण सर्वत्र निंदितोऽहं कृतोऽधुना । वंध्यः पुरा मुदा युक्तः सुयशा नगरेषु तु ॥४०॥ अतो देहं परित्यज्य गच्छ विघ्नेश्वरं सुत । स तं सर्वं शुभं देवः करिष्यति न संशयः ॥४१॥ एवमुक्त्वा महापापी जगाम नगरं पुनः । गृहे समागतस्तत्र विघ्नयुक्तो बभूव ह ॥४२॥ गलत्कुष्ठयुतश्चांधो बधिरः कुब्ज एव च । मूककीटसमायुक्तो बभूव सहसा मुने ॥४३॥ ततोऽतिखेदसंयुक्तो बभूव वैश्यदूषकः । पत्नी तं तादृशं दृष्ट्वा शुशोच दुःखसंयुता ॥४४॥ पप्रच्छ तं पतिं सा तु न स शुश्राव तां गिरम् । मूकत्वान्न स्वयं किंचिज्जगाद दुःखसंयुतः ॥४५॥ ततो जना जगुस्तां ते नागरा भयसंयुताः । वृत्तांतं वनसंभूतं बल्लालताडनात्मकम् ॥४६॥ ततोऽतिदुःखसंयुक्ता सा जगाम वनं जनैः । सुतं द्रष्टुं सती विप्र रुदतींदुमती परम् ॥४७॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते कल्याणदुर्गतिवर्णनं नामाष्टत्रिंशोऽध्यायः ॥