भारतकोश
मुद्राराक्षसम् (सटीक संस्कृत नाटक)

मुद्राराक्षसम् (सटीक संस्कृत नाटक)

Mudrarakshasam Natakam with Hindi Commentary

महाकवि विशाखदत्त द्वारा

DevanagariSanskritpublished488 पृष्ठ

पृष्ठ 292, कुल 488 में से

संदर्भ में पढ़ें
पृष्ठ 292
  • तृतीयोऽङ्कः २०५

'चासौ शरत् प्रवृत्तशरत् कर्मधारय स०, तस्याः गुणाः, तेषाम् प्रख्यापनम् षष्ठी-तत्०। यह 'आशीर्वचनम्' का विशेषण है। सुवर्णशतसहस्रम्—सौ हजार स्वर्ण-मुद्रायें। सुवर्णात् शतानि, तेषां सहस्रम्। अर्थोत्सर्गः—उद्√सृज्+घञ् भावे=उत्सर्गः=दानम्। अर्थस्य=धनस्य उत्सर्गः। निरुद्धचेष्टाप्रसरस्य—प्रतिहतोद्योगावसरस्य। प्र√सृ+अप् भावे बाहुलकात्=प्रसरः। चेष्टायाः प्रसरः षष्ठीतत्०। निरुद्धः चेष्टाप्रसरः अस्य बहुव्रीहि स०, तस्य। यह 'मे' का विशेषण है। स्वयम्—आत्मना। अनभियुक्तानाम्—राजकार्येष्व-स्वतन्त्राणाम्।

राजा—यद्येवं, तर्हि कौमुदीमहोत्सवप्रतिषेधस्य प्रयोजनं श्रोतुमिच्छामि।

चाणक्यः—वृषल ! कौमुदीमहोत्सवानुष्ठानस्य किं प्रयोजनमित्यहमपि श्रोतुमिच्छामि।

राजा—प्रथमं तावत् ममाज्ञाव्याघातः।

चाणक्यः—वृषल ! ममापि खलु त्वदाज्ञाव्याघात एव कौमुदीमहोत्सवप्रतिषेधस्य प्रथमं प्रयोजनम्। कुतः ?—

अम्भोधीनां तमालप्रभवकिसलयश्यामवेलावनाना-
मा पारेभ्यश्चतुर्णां चटुलतिमिकुलक्षोभितान्तर्जलानाम्।
मालेवाज्ञा सपुष्पा तव नृपतिशतैरुह्यते या शिरोभिः
सा मय्येव स्खलन्ती प्रथयति विनयालङ्कृतं ते प्रभुत्वम् ॥२४॥

अन्वयः—तमालप्रभवकिसलयश्यामवेलावनानां चटुलतिमिकुलक्षोभितान्तर्जलानां चतुर्णां अम्भोधीनां पारेभ्यः आ या तव आज्ञा सपुष्पा माला इव नृपतिशतैः शिरोभिः उह्यते सा मयि एव स्खलन्ती (सती) ते प्रभुत्वं विनयालङ्कृतं प्रथयति ॥२४॥

व्याख्यातमालप्रभवकिसलयश्यामवेलावनानां—तमालेभ्यः प्रभवन्तीति तमालप्रभवाणि तमालजातानि यानि किसलयानि नवपल्लवाः तैः श्यामानि कृष्णानि वेलावनानि तीरवर्तिकाननानि येषां तादृशानाम्, चटुलतिमिकुलक्षोभितान्तर्जलानाम्—चटुलानि चपलानि यानि तिमिकुलानि महामत्स्यसमूहाः तैः