मुद्राराक्षसम् (सटीक संस्कृत नाटक)
Mudrarakshasam Natakam with Hindi Commentary
महाकवि विशाखदत्त द्वारा
- तृतीयोऽङ्कः २०५
'चासौ शरत् प्रवृत्तशरत् कर्मधारय स०, तस्याः गुणाः, तेषाम् प्रख्यापनम् षष्ठी-तत्०। यह 'आशीर्वचनम्' का विशेषण है। सुवर्णशतसहस्रम्—सौ हजार स्वर्ण-मुद्रायें। सुवर्णात् शतानि, तेषां सहस्रम्। अर्थोत्सर्गः—उद्√सृज्+घञ् भावे=उत्सर्गः=दानम्। अर्थस्य=धनस्य उत्सर्गः। निरुद्धचेष्टाप्रसरस्य—प्रतिहतोद्योगावसरस्य। प्र√सृ+अप् भावे बाहुलकात्=प्रसरः। चेष्टायाः प्रसरः षष्ठीतत्०। निरुद्धः चेष्टाप्रसरः अस्य बहुव्रीहि स०, तस्य। यह 'मे' का विशेषण है। स्वयम्—आत्मना। अनभियुक्तानाम्—राजकार्येष्व-स्वतन्त्राणाम्।
राजा—यद्येवं, तर्हि कौमुदीमहोत्सवप्रतिषेधस्य प्रयोजनं श्रोतुमिच्छामि।
चाणक्यः—वृषल ! कौमुदीमहोत्सवानुष्ठानस्य किं प्रयोजनमित्यहमपि श्रोतुमिच्छामि।
राजा—प्रथमं तावत् ममाज्ञाव्याघातः।
चाणक्यः—वृषल ! ममापि खलु त्वदाज्ञाव्याघात एव कौमुदीमहोत्सवप्रतिषेधस्य प्रथमं प्रयोजनम्। कुतः ?—
अम्भोधीनां तमालप्रभवकिसलयश्यामवेलावनाना-
मा पारेभ्यश्चतुर्णां चटुलतिमिकुलक्षोभितान्तर्जलानाम्।
मालेवाज्ञा सपुष्पा तव नृपतिशतैरुह्यते या शिरोभिः
सा मय्येव स्खलन्ती प्रथयति विनयालङ्कृतं ते प्रभुत्वम् ॥२४॥
अन्वयः—तमालप्रभवकिसलयश्यामवेलावनानां चटुलतिमिकुलक्षोभितान्तर्जलानां चतुर्णां अम्भोधीनां पारेभ्यः आ या तव आज्ञा सपुष्पा माला इव नृपतिशतैः शिरोभिः उह्यते सा मयि एव स्खलन्ती (सती) ते प्रभुत्वं विनयालङ्कृतं प्रथयति ॥२४॥
व्याख्या—तमालप्रभवकिसलयश्यामवेलावनानां—तमालेभ्यः प्रभवन्तीति तमालप्रभवाणि तमालजातानि यानि किसलयानि नवपल्लवाः तैः श्यामानि कृष्णानि वेलावनानि तीरवर्तिकाननानि येषां तादृशानाम्, चटुलतिमिकुलक्षोभितान्तर्जलानाम्—चटुलानि चपलानि यानि तिमिकुलानि महामत्स्यसमूहाः तैः
२०६ मुद्राराक्षसम्
क्षोभितम् आन्दोलितम् अन्तर्जल गभीरतलवर्ति सलिल येषा तादृशाना, चतुर्णाम्, अम्भोधीना—सागराणा पारेभ्य या—तीरपर्यन्त यो भूभाग तत्र, या, तव—ते, आज्ञा—आदेश, सपुष्पा—पुष्पयुक्ता, माला इव—स्रगिव, नृपतिशतै—राजसमूहै, शिरोभि—उत्तमाङ्गै, उह्यते—धायते, सा—आज्ञा, मयि एव—चाणक्य एव, स्खलन्ती—व्याहता (गता), त, प्रभुत्व—स्वामित्व विनयाऽलङ्कृत—विनयेन शीलेन अलङ्कृत भूषित, प्रथयति—ख्यापयति ॥२४॥
हिन्दी अनुवाद—राजा—यदि ऐसा है तो कौमुदीमहोत्सव को रोकने का प्रयोजन सुनना चाहता हूँ ।
चाणक्य—वृषल ! कौमुदीमहोत्सव मनाने का क्या प्रयोजन है, यह मैं भी सुनना चाहता हूँ ।
राजा—पहले तो (न मानने से) मेरी आज्ञा का उल्लङ्घन होता है ।
चाणक्य—मेरा भी तो तुम्हारी आज्ञा का उल्लङ्घन करना ही कौमुदी-महोत्सव को रोकने का पहला प्रयोजन है । क्योंकि—
तमाल वृक्षों के नवीन पल्लवों से काले बने हुए तटवर्ती वनों वाले और चंचल महामत्स्यों के समूह से क्षुब्ध भीतरी जल वाले चारों समुद्रों के तीर-पर्यन्त भू-भाग पर जो तुम्हारी आज्ञा फूलों की माला के समान सैकड़ों राजाओं के द्वारा सिर से लगायी जाती है, वह मुझमें ही स्खलित होती हुई (अर्थात् मेरे ही आगे भग्न होती हुई) तुम्हारे प्रभुत्व को विनय से विभूषित बताती है ॥२४॥
टिप्पणी—आज्ञाव्याघात—आज्ञा का उल्लङ्घन । 'आज्ञाऽव्याघात' इस पाठ में 'आज्ञा का उल्लङ्घन न होना' अर्थ करना चाहिए । वि-आ√हन्+घञ् भावे=व्याघात । न व्याघात अव्याघात । आज्ञाया अव्याघात पक्षे आज्ञाया व्याघात । तमालप्रभव०—प्रभवति अस्मात् इति प्र√भू+अप् अपादाने= प्रभव । तमाल प्रभव एषाम् इति तमालप्रभवाणि तादृशानि किसलयानि (आगे दे० व्याख्या) । तिमि—बहुत बड़े आकार का एक समुद्री मत्स्य । इसके सम्बन्ध में कहा गया है—'अस्ति मत्स्य तिमिर्नाम शतयोजनविस्तृत । तिमिङ्गिलगिलो-ऽप्यस्ति तद्गिलोऽप्यस्ति राघव ।।' अन्तर्जलम्—अन्त स्थित जलम् मध्यमपदलोपी स० अथवा जलस्य अन्त षष्ठीतत्० । 'राजदन्तादिषु परम्' इत्यनेन जलस्य पर-
तृतीयोऽङ्कः २०७
निपातः । उह्यते—धारण की जाती है । √ वह् + लट्—ते कर्मणि । इस श्लोक में उपमा अलंकार है, ओज गुण है, गौडी रीति है और स्रग्धरा छन्द है । इसका लक्षण १, १ में देखिए ॥२४॥
राजा—अथापरमपि प्रयोजनं यत्तच्छ्रोतुमिच्छामि ।
चाणक्यः—तदपि कथयामि ।
राजा—कथ्यताम् ।
चाणक्यः—शोणोत्तरे ! मद्वचनात् कायस्थमचलदत्तं ब्रूहि, यत् भद्रभट-प्रभृतीनां लेख्यपत्रं तत्तावत् दीयतामिति ।
प्रतीहारी—जं अज्जो आणवेदि त्ति ( यदार्य आज्ञापयतीति । )
[ निष्क्रम्य पुनः प्रविश्य ] अज्ज ! इदं पत्तं । (आर्य ! इदं पत्रम् । )
चाणक्यः—वृषल ! श्रूयताम् ।
राजा—दत्तावधानोऽस्मि ।
चाणक्यः—[ वाचयति ] स्वस्ति सुगृहीतनामधेयस्य देवस्य चन्द्रगुप्तस्य सहोत्थायिनां प्रधानपुरुषाणामितोऽपक्रम्य मलयकेतुमाश्रितानां प्रमाणलेख्यपत्रम् । तत्र प्रथमं तावत् गजाध्यक्षो भद्रभटः, अश्वाध्यक्षः पुरुषदत्तः, महाप्रतीहारस्य चन्द्रभानोर्भागिनेयो हिङ्गुरातः, देवस्य स्वजनगन्धी महाराजो बलगुप्तः, देवस्यैव कुमारसेवको राजसेनः सेनापतेः सिंहबलस्य कनीयान् भ्राता भागुरायणः मालवराजपुत्रो रोहिताक्षः क्षत्रगणमुख्यतमो विजयवर्मा इति ।
[ आत्मगतम् ] एते वयं देवस्य कार्येऽवहिताः स्म इति ।
[ प्रकाशम् ] एतावदेतत् पत्रम् ।
हिन्दी अनुवाद—राजा—अच्छा, दूसरा जो प्रयोजन है, उसे भी सुनना चाहता हूँ ।
चाणक्य—उसे भी कह देता हूँ ।
राजा—कह डालिए ।
चाणक्य—शोणोत्तरे ! मेरी ओर से कायस्थ अचलदत्त से कहो कि भद्रभट आदि का लिखा हुआ जो पत्र है, वह दे दो ।
२०८ मुद्राराक्षसम्
प्रतोहारी—जो आर्य की आज्ञा । [ निकलकर पुन प्रवेश करके ] आय ! यह पत्र है ।
चाणक्य—वृपल ! सुनो ।
राजा—(सुनने मे) दत्तचित्त है ।
चाणक्य—[ वांचता है ] कल्याण हो, प्रात म्मरणीय महाराज चन्द्रगुप्त के साथ उठने (-बैठने) वाले तथा यहा (कुसुमपुर) से भागकर मलयकेतु का आश्रय लेने वाले प्रधान राजपुरुषो का प्रामाणिक रूप से लिखा हुआ पत्र है । उनमे से पहले तो ( १ ) गज-सेनापति भद्रभट, ( २ ) अश्व-सेनापति पुरुषदत्त, ( ३ ) महाप्रतीहार चन्द्रभानु का भानजा हिङ्गरात, ( ४ ) महाराज का आत्मीय महाराज बलगुप्त, ( ५ ) महाराज का ही बाल-सेवक राजसेन, ( ६ ) सेनापति सिंहदत्त का छोटा भाई भागुरायण, ( ७ ) मालव का राजकुमार राहिताक्ष और ( ८ ) क्षत्रियो मे नवश्रेष्ठ विजयवर्मा है ।
[ मन म ] ये हम सब महाराज के कार्य मे सावधान हैं ।
[ प्रगट ] यह पत्र इतना ( ही ) है ।
टिप्पणी—लेख्यपत्रम्—√लिख्+ण्यत् कर्मणि=लेख्यम् । तस्य पत्रम् । गजाध्यक्ष—अक्ष=व्यवहार । अधिगत अक्षम् इति अध्यक्षः प्रादितत्० । गजेषु अध्यक्ष सुप्सुपा स० । महाप्रतीहारस्य—प्रधानद्वारपालकस्य । भागिनेय—भगिन्या अपत्यम् इति भगिनी+ढक्—एय । स्वजनगन्धी—आत्मीयजन-सम्बन्धी । स्व चा स्वजन कर्मधारय स० । तस्य गन्ध लेश स्वजनगन्धः । सः अस्ति अस्य इति स्वजनगन्ध+इनि । कुमारसेवक—बचपन से सेवा करने वाला । कुमारस्य सेवक 'याजकादिभिश्च' इति समास शेषषष्ठ्या वा समासः । कनीयान्—छोटा । अतिशयेन युवा इति युवन्+ईयसुन्=कनीयान् वा यवीयान् 'युवाल्पयो कनन्यतरस्याम्' इत्यनेन कनादेशस्य विकल्पात् । क्षत्रगणमुख्यतम—क्षत्र=क्षत्रिय । क्षत्राणा गण । तस्मिन् मुख्यतम ।
राजा—आर्य ! एतेषामपरागहेतून् श्रोतुमिच्छामि ।
चाणक्य—वृपल ! श्रूयताम् । अत्र यावेतौ गजाध्यक्षाश्वाध्यक्षौ भद्रभटपुरुषदत्तनामानौ, एतौ खलु स्त्रीमद्यमृगयाशीलो हस्त्यश्वावेक्षणे-
तृतीयोऽङ्कः । २०६
ऽनभियुक्तौ इति स्वाधिकाराभ्यामवरोप्य मया स्वजीवनमात्रेणैव स्थापितौवित्यपरक्तौ, गत्वा स्वेन स्वेन चाऽधिकारेण व्यवस्थाप्य मलयकेतुमाश्रितौ। यावेतौ हिङ्गुरातबलगुप्तौ, तावत्यन्तलुब्धप्रकृतौ दत्तं धनमबहुमन्यमानौ 'तत्र बहु लभ्येत' इति मलयकेतुमाश्रितौ। योऽप्यसौ भवतः कुमारसेवको राजसेनः सोऽपि तव प्रसादादतिप्रभूतकोषहस्त्यश्वं सहसैव सुमहदैश्वर्यमवाप्य पुनरुच्छेदशङ्कया मलयकेतुमाश्रितः। योऽयमपरः सेनापतेः सिंहबलस्य कनीयान् भ्राता भागुरायणः, असावपि तत्र काले पर्वतकेन सह समुत्पन्नसौहार्दः तत्प्रीत्या च 'पिता ते चाणक्येन घातितः' इति रहसि त्रासयित्वा मलयकेतुमपवाहितवान्। ततो भवदपथ्यकारिषु चन्दनदासप्रभृतिषु निगृह्यमाणेषु स्वदोषशङ्कयाऽपक्रम्य मलयकेतुमाश्रितः। तेना 'प्यसौ मम प्राणरक्षक' इति कृतज्ञतामनुवर्तमानेन आत्मनोऽन्तरममात्यपदं ग्राहितः। यौ तौ लोहिताक्षविजयवर्माणौ, तावप्यतिमानित्वात् स्वदायादेभ्यस्त्वया दीयमानमसहमानौ मलयकेतुमाश्रितौ—इत्येषामपरागहेतवः।
व्याख्या—एतेषाम्—भद्रभटप्रभृतीनाम्, अपरागहेतून्—विरागकारणानि, श्रोतुम्—आकर्णयितुम्, इच्छामि—वाञ्छामि । अत्र—भद्रभटादिष्वित्यर्थः, यावेतौ, भद्रभटपुरुषदत्तनामानौ, गजाध्यक्षाश्वाध्यक्षौ—हस्तिपालकाश्वपालकौ, एतौ—तौ, स्त्रीमद्यमृगयाशीलौ—नारीमदिराखेटस्वभावौ, हस्त्यश्वावेक्षणे—गजवाजिसंरक्षणे, अनभियुक्तौ—असावधानौ, इति हेतोः, स्वाधिकाराभ्याम्—गजवाजिसंरक्षणात्मकाभ्यामित्यर्थः, अवरोप्य—पृथक्कृत्य, स्वजीवनमात्रेणैव—स्वजीविकानिर्वाहमात्रेणैव, स्थापितौ, इति अपरक्तौ—त्यक्तानुरागौ ( सन्तौ ), गत्वा, स्वेन स्वेन च अधिकारेण—हस्तिपालकत्वेन अश्वपालकत्वेन रूपेणेत्यर्थः, व्यवस्थाप्य—निश्चित्य आत्मानमिति शेषः, मलयकेतुम्—पर्वतकपुत्रम्; आश्रितौ, —अवलम्बितवन्तौ । यावेतौ—यावेतौ—इमौ, हिङ्गुरातबलगुप्तौ—एतदाख्यौ, तौ, अत्यन्तलुब्धप्रकृतौ—परमलोभाविष्टस्वभावौ, दत्तम्—अर्पितम्, धनं—द्रव्यम्, अबहुमन्यमानौ—स्वल्पमवगच्छन्तौ, 'तत्र—मलयकेतुपार्श्वे, बहु—प्रचुरं, लभ्येत—प्राप्येत' इति—अस्मात् कारणात्, मलयकेतुम्, आश्रितौ । योऽप्यसौ—यश्चैषः, भवतः—तव, कुमारसेवकः—बाल्यभृत्यः, राजसेनः, सोऽपि, तव—भवतः, प्रसादात्—अनुग्रहात्, अति प्रभूतकोषहस्त्यश्वं—अति-
मु० रा०—१४
२१० मुद्राराक्षसम्
प्रभूत. विवृद्ध. कोष धनराशि हस्तिन. गजा. अश्वाश्च घोटकाञ्च यस्मिन् तत् । सुमहत्-सुविपुलम्, ऐश्वर्यम्-सम्पत्, अवाप्य-प्राप्य, पुन -भूय, उच्छेद-शङ्कया-विनाशभिया, मलयकेतुम्, आश्रित । योऽयमपर, सेनापते -सेनाध्यक्षस्य, सिंहबलस्य, कनीयान् भ्राता-अनुज, भागुरायण., असावपि-सोऽपि, तत्र काले-मलयकेतुसामीप्यसमये, पर्वतकेन-मलयकेतुपित्रा, सह-साक, समुत्पन्नसौहार्द -समुत्पन्न सौहार्दं मैत्री यस्य तादृश, तत्प्रीत्या च-तस्य पर्वतकम्य प्रीत्या स्नेहेन च, ते-तव, पिता-जनक, चाणक्येन-कौटिल्येन, घातित -विनाशित, इति-इत्यम्, रहसि-एकान्ते, त्रासयित्वा-भाययित्वा, मलयकेतुम्, अपग्राहितवान्-अपसारितवान् । तत -तदनन्तरम्, भवदपथ्यकारिषु-त्वदनिष्टकारिषु, चन्दनदासप्रभृतिषु-चन्दनदासादिषु, निगृह्य-माणेषु-दण्ड्यमानेषु, स्वदोषशङ्कया-निजापराधभयेन, अपक्रम्य-इतो निर्गत्य, मलयकेतुम्, आश्रित । असौ-भागुरायण., मम-मे, प्राणरक्षक-जीवन-त्राता, इति, कृतज्ञताम्-प्रत्युपकारिताम्, अनुवर्तमाननेन-अपेक्षमाणेन, तेन-मलयकेतुना, ह्यपि, आत्मन.-स्वस्य, ह्यान्तरम्-अभ्यवहितम्, अमात्यपद-मन्त्रिपद, ग्राहित -प्रापितः । यौ तौ, लोहिताक्षविजयवर्माणौ-तदाख्यो जनौ, तौ अपि, अतिमानित्वात्-बहुभिमानवत्वात्, स्वदायादेभ्य-निजबन्धुभ्य, त्वया-भवता, दीयमान-वितीर्यमानम्, असहमानौ-अमृष्यमाणौ, मलयकेतुम् आश्रितौ । इति-इमे, एषाम्-भद्रभटप्रभृतीनाम्, अपरागहेतवः-विराग-कारणानि (वर्तन्ते) ।
हिन्दी अनुवाद—राजा—आर्य ! इन लोगो की विरक्ति के कारणों को सुनना चाहता हूँ ।
चाणक्य—वृषल ! सुनो । उनमें से ये जो गजसेनापति तथा अश्वसेनापति (क्रमश.) भद्रभट और पुरुषदत्त नाम के (व्यक्ति) हैं, ये दोनों स्त्री, मदिरा और शिकार में आसक्त होने के कारण हाथो-घोड़ो की देखभाल करने में असावधान रहते थे—इसलिए मैंने (इन्हें) अधिकारच्युत करके अपनी जीविका के निर्वाहमात्र पर रहने दिया । अतः विरक्ति से (ये दोनों शत्रु-पक्ष में) जाकर अपने-अपने अधिकार के अनुरूप कार्य पाकर मलयकेतु के आश्रित हो गए । ये जो हिङ्गुरात और बलगुप्त हैं, वे दोनों अत्यन्त लोभी स्वभाव के कारण (तुम्हारे) दिये हुए धन को थोडा समझते हुए 'वहां बहुत मिलेगा' ऐसा सोचकर मलयकेतु के आश्रय में
तृतीयोऽङ्कः । २११
चले गए। यह जो तुम्हारा बचपन का सेवक राजसेन है, उसने भी तुम्हारी कृपा से अत्यधिक धन, हाथी और घोड़ों वाले विपुल ऐश्वर्य को एकाएक प्राप्त करके पुनः नष्ट होने के भय से मलयकेतु का आश्रय ले लिया। यह जो दूसरा सेनापति सिंहबल का छोटा भाई भागुरायण है, वह भी उस समय पर्वतक के साथ मित्रता होने तथा उस (-पर्वतक) के प्रेम के कारण 'तुम्हारे पिता को चाणक्य ने मरवाया है' इस प्रकार एकान्त मे मलयकेतु को डराकर भगा ले गया। तदनन्तर तुम्हारा अहित करने वाले चन्दनदास आदि के पकड़ लिये जाने पर अपने अपराध (के प्रकट हो जाने) की आशंका से भागकर (यह भागुरायण) मलयकेतु के आश्रय में चला गया। उस (मलयकेतु) ने भी 'यह मेरा प्राण-रक्षक है' इस प्रकार कृतज्ञता का अनुभव करते हुए अपने अव्यवहित अमात्य के पद पर (उसे) नियुक्त कर दिया। जो वे लोहिताक्ष और विजयवर्मा हैं, वे दोनों भी अत्यंत अभिमानी होने के कारण अपने बंधुओं को तुम्हारे द्वारा दिये जाने को सहन न करते हुए मलयकेतु के आश्रित हो गए—ये है इनकी विरक्ति के कारण।
टिप्पणी—अपराग—विरक्ति। अप √रञ्ज् + घञ् भावे। स्त्रीमद्यमृगयाशीलो—मृगयनम् इति √मृग (अदन्त चुरादि) + णिच् स्वार्थे + श भावे = मृगया = शिकार। स्त्री च मद्यञ्च मृगया च इति स्त्रीमद्यमृगयाः। ताः शीलयतः इति स्त्रीमद्यमृगयो √शील् + णिच् स्वार्थे + ण कर्तरि। स्वजीवनमात्रेणैव—जीवति अनेन इति √जीव् + ल्युट्करणे = जीवनम् = जीविका। स्वयोः जीवनम् तदेव स्वजीवनमात्रम् मयूरव्यंसकादि स०, तेन करणे तृतीया। स्वेन स्वेनाधिकारेण—अपने-अपने अधिकार से अर्थात् जिस पद से हटाये गये थे वही पद मलयकेतु के यहाँ प्राप्त करके। अत्यन्तलुब्धप्रकृती—अत्यन्तम् लुब्धा प्रकृतिः ययोः तादृशो। तत्र काले—कुसुमंपुर मे घेरा डालने के समय। स्वदोषाशङ्कया—स्वस्य दोषः, तस्मात् आशङ्का सुप्सुपा स०, तया हेतौ तृतीया। प्राणरक्षकः—प्राणानां रक्षकः 'याजकादिभिश्च' इति समासः, अथवा शेषषष्ठ्या समासः, अथवा प्राणान् रक्षति इति प्राण √रक्ष् + अण् कर्तरि = प्राणरक्षः। ततः स्वार्थे कन्। आत्मनोजनन्तरम्—अविद्यमानमन्तरमस्य अनन्तरम्। आत्मनः स्वस्य राजपदस्य अनन्तरम् अदूरम् अमात्यपदम्। ग्राहितः—√ग्रह् + णिच् + क्त। स्वदायादेभ्यः—√दा + घञ् कर्मणि दायः।
२१२ मुद्राराक्षसम्
दायमदन्ति इति दाय √अद् + अण् कर्तरि, अथवा दायमाददते इति दाय-आ √दा + क कर्तरि = दायादा । स्वस्य दायादा , तेभ्य ।
राजा—आर्य ! एवमेतेषु परिज्ञातापरागहेतुषु क्षिप्रमेव कस्मान्न प्रतिविहितमार्येण ?
चाणक्य —वृषल ! न पार्यत प्रतिविधातुम् ।
राजा—किमकोशलात्, उत प्रयोजनापेक्षया ?
चाणक्य —कथमकोशलं भविष्यति, प्रयोजनापेक्षयैव ।
राजा—तदप्रतिविधानप्रयोजनमिदानीं श्रोतुमिच्छामि ।
चाणक्य —वृषल ! श्रूयतामवधार्यताञ्च ।
राजा—उभयमपि क्रियते, कथ्यताम् ।
चाणक्य —वृषल ! इह खलु विरक्ताना प्रकृतीना द्विविध प्रतिविधा-नम्—अनुग्रहो निग्रहश्चेति । अनुग्रहस्तावदाक्षिप्ताधिकारयो भद्रभटपुरुष-दत्तयो पुन अधिकारा रोपणमेव । अधिकारश्च पुनस्तादृशेषु व्यसनयोगा-दनभियुक्तेषु पुनरारोप्यमाण सकलमेव राज्यस्य मूल हस्त्यश्वमवसादयेत् । हिङ्गुरासबलगुप्तयोरत्यन्तलुब्धप्रकृतिकयो सकलराज्यप्रदानेनाप्यपरि-तुष्यतोरनुग्रह कथ कर्तु शक्य ? राजसेनभागुरायणयोस्तु धनप्रणाशभी-तयो कुतोऽनुग्रहस्यावकाश ? लोहिताक्षविजयवर्मणोरपि दायादमसह-मानयोरतिमानिनो कीदृशोऽनुग्रह प्रीति जनयिष्यतीति परिहृत पूर्व पक्ष । उत्तरोऽपि खलु वयमचिरादधिगतनन्देश्वर्या सहोत्थायिन प्रधान-पुरुषवर्गमुग्रेण दण्डेन पीडयन्तो नन्दकुलानुरक्ताना प्रकृतीनामविश्वास्या भवाम इत्यत परिहृत एव । तदेवमनुगृहीतास्मद्द्त्यपक्षो राक्षसोपदेश-श्रवणप्रवणो महीयसा म्लेच्छबलेन परिवृत पितृवधामर्षी पर्वतकपुत्रो मलयकेतुरस्मानभियोक्तुमुद्यत इति । सोऽयं व्यायामकालो नोत्सवकाल इति । अतो दुर्गसंस्कारे आरब्धव्ये किं कौमुदीमहोत्सवेन ? इति प्रतिषिद्ध ।
व्याख्या—एवम्—इत्थम्, परिज्ञातापरागहेतुषु—परिज्ञाता अवगता अपराग-
तृतीयोऽङ्कः । २१३
गाणां विरक्तीनां हेतवः कारणानि येषां तादृशेषु, एतेषु—भद्रभटादिपु, आर्येण—भवता, क्षिप्रमेव—शीघ्रमेव, कस्मात्—कथं, न प्रतिविहितम्—प्रतीकारः कृतः ? प्रतिविधातुं—प्रतिकर्तुं, न पारिंतं—न युक्तमित्यर्थः । किम्, अकौशलात्—असामर्थ्यात्, उत—अथवा, प्रयोजनापेक्षया—ईप्सितकार्यानुरोधेन ? अवधार्यताम्—विचार्यंताम् । इह—अस्मिन् संसारे, विरक्तानाम्—अनुरागरहितानाम्, प्रकृतीनां—प्रजानाम्, द्विविधं—द्विप्रकार, प्रतिविधानं—प्रतीकारः, अनुग्रहः—अनुकम्पा, निग्रहः—दण्डः, आक्षिप्ताधिकारयोः—आक्षिप्तः आच्छिद्य गृहीतः अधिकारः कार्यभारः ययोः तथाभूतयोः, भद्रभटपुरुषदत्तयोः, पुनः—भूयः, अधिकारारोपणामेव—अधिकारे कार्यवीक्षणे आरोपणमेव स्थापनमेव, व्यसनयोगात्—स्त्रीमद्याखेटासक्तिदोषात्, अनभियुक्तेषु—अयोग्येषु, तादृशेषु—आक्षिप्ताधिकारेषु, पुनः, आरोप्यमाणः—स्थाप्यमानः, अधिकारः—गजवाजिसेनाध्यक्षत्वं, राज्यस्य—आधिपत्यस्य, सकलमेव—समग्रमेव, मूलं—कारणं, हस्त्यश्वं—गजान् अश्वांश्च, अवसादयेत्—विनाशयेत् । अत्यन्तलुब्धप्रकृतिकयोः—अतिशयितलोभाविष्टस्वभावयोः, सकलराज्यप्रदानेनापि—सम्पूर्णराज्यसमर्पणेनापि, अपरितुष्यतोः—सन्तोषमनधिगच्छतोः, हिङ्गुरातबलगुप्तयोः, अनुग्रहः, कथं—केन प्रकारेण, कर्तुं—विधातुं, शक्यः—योग्यः । धर्मप्रणाशभीतयोः—अर्थक्षयसंजातसाध्वसयोः, राजसेनभागुरायणयोः, कुतः—कथम्, अवकाशः—अवसरः ? दायादम्—ज्ञातिम्, असहमानयोः—अमृष्यतोः, अतिमानिनोः—महाभिमानवतोः, लोहिताक्षविजयवर्मणोः अपि, कीदृशः, अनुग्रहः, प्रीति—हर्षं, जनयिष्यति—उत्पादयिष्यति, इति अस्मात् कारणात्, पूर्वः—प्रथमः, पक्षः—कल्पः, परिहृतः—त्यक्तः । अचिरात्—शीघ्रम्, अधिगतनन्दैश्वर्याः—अधिगतं प्राप्तं नन्दैश्वर्यं नन्दराज्यं यैः तादृशाः, वयम्, सहोत्थायिनं—सह साकम् उत्तिष्ठति तच्छीलः सहोत्थायी तथाभूतं, प्रधानपुरुषवर्गम्—मुख्याधिकारिगणाम्, उग्रेण—तीक्ष्णेन, दण्डेन—निग्रहेण, पीडयन्तः—क्लेशयन्तः, नन्दकुलानुरक्तानां—नन्दवंशासक्तानां, प्रकृतीनां—प्रजानाम्, अविश्वास्याः—अप्रतीत्याः, भवामः, इत्यतः—अस्मात् कारणात्, उत्तरोऽपि—द्वितीयोऽपि, ( पक्षः ) परिहृत एव—त्यक्त एव । तत्—तस्मात्, एवम्—उक्तप्रकारेण, अनुगृहीतास्मद्भृत्यपक्षैः—अनुगृहीतः अनुकम्पितः अस्मद्भृत्यपक्षः अस्मत्सेवकवर्गः भद्रभटादिरिति यावत् येन तादृशः, राक्षसोपदेशश्रवणप्रवणः—राक्षसस्य उपदेशः शिक्षणम् तस्मिन् प्रवणः अनुरक्तः, महीयसा—महता, म्लेच्छ-
२१४ मुद्राराक्षसम्
बलेन—म्लेच्छसैन्येन, परिवृत —युक्त, पितृवधामर्षी—तातहत्याजन्यक्रोधयुक्त, पर्वतकपुत्र , मलयकेतु , अस्मान्, अभियोक्तुम्—पराभवितुम्, उद्यत —तत्पर सोऽय, व्यायामकाल —व्यायामस्य सैन्यमग्रहाद्यात्मकस्य विशिष्टायासम्य काल समय , न—नहि, उत्सवकाल —कौमुदीमहोत्सवसमय ( अस्ति ) । अत —अस्मात् कारणात्, दुर्गमद्वारे—दुर्गपरिष्कारे, आरब्धव्ये—प्रक्रमिंतव्ये, किम्—किम्प्रयोजन, कौमुदीमहोत्सवेन—शारदपूर्णचन्द्रनिमित्तोत्सवानुष्ठानेनेत्यर्थः ?, इति—अस्माद्धेतो , प्रतिषिद्ध —प्रतिरुद्ध उक्तोत्सव इति शेष ।
हिन्दी अनुवाद—राजा—आर्य ! इस प्रकार इनकी विरक्ति के कारणों का पता लग जाने पर आपने शीघ्र ही प्रतीकार क्यो नही किया ?
चाणक्य—वृषल ! प्रतीकार न कर पाया ।
राजा—क्या असमर्थता के कारण या प्रयोजन की अपेक्षा से ।
चाणक्य—असमर्थता क्यो होगी ? प्रयोजन की अपेक्षा से ही ।
राजा—तो अब प्रतीकार न करने का प्रयोजन सुनना चाहता हूँ।
चाणक्य—वृषल ! सुनो और विचार करो ।
राजा—दोनो कर रहा हूँ, कहिए ।
चाणक्य—वृषल ! इस संसार में विरक्त प्रजाओ का प्रतीकार दो प्रकार से किया जाता है—अनुग्रह से और निग्रह से । अनुग्रह तो पदच्युत किये गये भद्रभट और पुरुषदत्त को पुन पदारूढ करना ही है । और व्यसन के कारण वैसे अयोग्य व्यक्तियो को पुन पदारूढ करना सम्पूर्ण राज्य की जड—हस्तिसेना और अश्वसेना को विनष्ट कर देना होता । अत्यन्त लोभी स्वभाव वाले तथा सम्पूर्ण राज्य दे देने पर भी सन्तुष्ट न होने वाले हिङ्गुल रात और बलगुप्त पर कैसे अनुग्रह किया जा सकता है ? धन के नाश से डरे हुए राजसेन और भागुरायण पर अनुग्रह करने का अवसर कहाँ ? दायादो को सहन न करने वाले अत्यन्त अभिमानी लोहिताक्ष और विजयवर्मा को भी कैसा अनुग्रह सन्तुष्ट करेगा ? इसलिए पूर्व पक्ष (अनुग्रह) को छोड दिया । दूसरा पक्ष (निग्रह) भी अभी-अभी नन्द का ऐश्वर्य प्राप्त करने वाले हम साथ उठने (-बैठने) वाले प्रधान राजपुरुषो को तीक्ष्ण दण्ड के द्वारा पीडित करने पर नन्द-वश के प्रति अनुरक्त प्रजाओ के अविश्वासी हो जाएँगे—इस विचार से छोड ही दिया गया । तो इस प्रकार
तृतीयेऽङ्कः
२१५
हमारे भृत्यवर्ग को अनुगृहीत करने वाला, राक्षस की शिक्षा सुनने में तत्पर, महती म्लेच्छसेना से युक्त और पिता की हत्या से क्रुद्ध पर्वतकपुत्र मलयकेतु हम पर आक्रमण करने के लिए उद्यत है। सो यह (सैन्य-संग्रह करने के) महान् प्रयास का समय है न कि उत्सव (मनाने) का समय है। अतएव किले के संस्कार के प्रारंभ किये जाने के अवसर पर कौमुदीमहोत्सव से क्या लाभ ? इसलिए (इस उत्सव को) रोक दिया।
टिप्पणी—पारितम् = √पार् + णिच् स्वार्थे (चुरादि) + क्त भावे। अकौशलात्—कुशलस्य भावः कौशलम् कुशल + अण् = कौशलम्। न कौशलम् अकौशलम्। अथवा अकुशलस्य इदम् इति अकुशल + अण् 'तस्येदम्' इत्यनेन = अकौशलम्, तस्मात्। अवधार्यताम्—समझो-विचारो। अव √धृ + णिच् + लोट्—ताम् कर्मणि। प्रतिविधानम्—प्रतीकार। प्रति-वि √धा + ल्युट्—अन भावे। आक्षिप्त—आ √क्षिप् + क्त कर्मणि। हस्त्यश्वम्—हस्तिनश्च अश्वाश्च इति हस्त्यश्वम् 'द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम्' इति द्वन्द्वैकवद्भावः। अत्यन्तलुब्धप्रकृतिकयोः—अत्यन्तम् लुब्धा प्रकृतिः ययोः तौ त्रिपदव्यधिकरणबहुव्रीहि स०, तयोः। परिहृतः—छोड़ दिया। परि √हृ + क्त कर्मणि। भवामः—भविष्यामः। भविष्यत्सामीप्ये लट्। पितृवधामर्षी—पितुर्बधः, तेन अमर्षः, सः अस्ति अस्य इति पितृवधामर्ष + इनि।
राजा—आर्य ! बहु प्रष्टव्यमत्र।
चाणक्यः—वृषल ! विश्रब्धं पृच्छ। ममापि बह्वाख्येयमत्र।
राजा—एष पृच्छामि।
चाणक्यः—अहमप्येष कथयामि।
राजा—योऽयमस्माकमस्य सर्वस्यैवानर्थस्य हेतुर्मलयकेतुः स कस्मादार्येणापक्रामन्नुपेक्षितः ?
चाणक्यः—वृषल ! मलयकेतोरपक्रमणानुपेक्षणे द्वयी गतिः स्यात्—अनुगृह्येत निगृह्येत वा। अनुग्रहे पूर्वप्रतिश्रुतं राज्यार्धं प्रतिपाद्येत। निग्रहे तावत् पर्वतकोऽस्माभिर्व्यापादित इति कृतघ्नतायाः स्वयं हस्तो दत्तः स्यात्। प्रतिश्रुतार्धराज्यप्रतिपादनेऽपि पर्वतकविनाशः केवलं कृतघ्नतामात्रफलः स्यात् इति मलयकेतुरपक्रामन्नुपेक्षितः।
| २१६ | मुद्राराक्षसम् |
|---|
राजा—अथ तावदेवम्। राक्षस पुनरिहैवान्तर्नगरे वर्तमान आर्येणोपेक्षित इत्यत्र किमुत्तरमार्यस्य ?
चाणक्य—राक्षसोऽपि खलु निजस्वामिनि स्थिरानुरागत्वात् सुचिरमेकत्रवासाच्च शीलज्ञाना नन्दानुरक्ताना प्रकृतीनामत्यन्त विश्वाश्य, प्रज्ञापुरुषकाराभ्यामुपेत सहायसम्पदा युक्त, कोपबलवानिहैवान्तर्नगरे वर्तमानो महान्तं खल्वन्त कोपमुत्पादयेत् । दूरीकृतस्तु बाह्यकोपमुत्पादयन्नपि न दु स्साध्यो भविष्यतीत्यतोऽपक्रामन्नुपेक्षित ।
राजा—तत् किमर्थमिहस्थ एवोपायैर्नोपक्रान्त ?
चाणक्य—अथ कथमपक्रान्तो भविष्यति ? ननु उपायैरेवासौ हृदयेशय शङ्कु रिवोद्धृत्य दूरीकृत । दूरीकरणस्य चोक्त प्रयोजनम् ।
राजा—आर्य ! कस्माद्विक्रम्य न गृहीत ?
चाणक्य—वृषल ! राक्षस खल्वसौ विक्रम्य निगृह्यमाण स्वयं वा विनश्येत्, युष्मद्वलानि वा विनाशयेत् । एव सत्युभयथापि दोष ।
पश्य—
हिन्दी अनुवाद—राजा—आर्य ! इस विषय में बहुत पूछना है ।
चाणक्य—वृषल ! विश्राम के साथ पूछो । मुझे भी इस विषय में बहुत कुछ कहना है ।
राजा—अभी पूछता हूँ ।
चाणक्य—मैं भी अभी कहता हूँ ।
राजा—यह जो हमारे इस सम्पूर्ण अनर्थ का कारण मलयकेतु है, उसको भागते हुए, आपने क्यो उपेक्षित कर दिया ?
चाणक्य—वृषल ! मलयकेतु के भागने की उपेक्षा न करने मे दो बाते होती, (या तो उसे) अनुगृहीत किया जाता या दण्ड दिया जाता । अनुग्रह करने पर पहले का प्रतिज्ञा किया हुआ आधा राज्य दे दिया जाता, निग्रह करने पर पर्वतक को हमने मारा है—इस कृतघ्नता को स्वय सहारा देना होता । प्रतिज्ञा किये हुए आधे राज्य को दे देने पर भी पर्वतक का विनाश केवल कृतघ्नता-मात्र प्रयोजन को रखता । इसलिए भागते हुए मलयकेतु की उपेक्षा की गई ।
तृतीयोऽङ्कः । २१७
राजा—इस विषय में तो ऐसा- (कहना ठीक) है। किन्तु राक्षस यही नगर के भीतर रहता हुआ आपके द्वारा उपेक्षित कर दिया गया, इस विषय में आपका क्या उत्तर है।
चाणक्य—राक्षस भी अपने स्वामी (नन्द) मे दृढ़ अनुराग रखने के कारण और चिरकाल तक एक जगह निवास करने के कारण शील को पहचानने वाली तथा नन्द के प्रति अनुरक्त प्रजाओं का अत्यन्त विश्वसनीय, बुद्धि और पराक्रम से सम्पन्न, सहायको की सम्पदा से युक्त और कोश-बल से संवलित होकर यही नगर के भीतर रहता हुआ महान् आन्तरिक विद्रोह को उत्पन्न कर देता। किन्तु दूर कर दिये जाने पर बाह्य विद्रोह को उत्पन्न करता हुआ भी कठिनाई से वश में करने योग्य नही होगा (अर्थात् आसानी से वश में किया जा सकेगा), इसलिए भागता हुआ उपेक्षित किया गया।
राजा—तब यही रहता हुआ (वह) क्यो नही उपायो से वश में कर लिया गया ?
चाणक्य—अब वह कैसे निकला हुआ रह सकेगा ? अरे ! उपायो से ही तो वह हृदय मे विद्यमान कांटे के समान निकालकर दूर कर दिया गया।
राजा—आर्य ! पराक्रम करके (अर्थात् शक्तिप्रयोग द्वारा), क्यो नही पकड़ लिया ?
चाणक्य—वह राक्षस शक्तिप्रयोग द्वारा पकड़ा जाता हुआ या तो स्वयं नष्ट हो जाता या तुम्हारी सेनाओं को विनष्ट कर देता। ऐसा होने पर दोनो प्रकार से हानि होती। देखो—
टिप्पणी—विश्रब्धम्—विश्वस्त यथा स्यात् तथा। क्रियाविशेषणमेतत्। आख्येयम्—वक्तव्यम्। अपक्रामन्—अपसरन्। उपेक्षितः—परित्यक्तः। अपक्रमणानुपक्षणे—न उपेक्षाम् अनुपेक्षाम्। अपक्रमणस्य अनुपेक्षाम् अपक्रमणानुपक्षणम्, तस्मिन्। द्वयी गतिः—द्वौ पक्षौ। द्वौ अवयवौ यस्याः सा द्वयी अथवा द्वितयी द्वि+तयप्, 'द्वित्रिभ्यां तयस्यायज्वा' इत्यनेन अयजादेशस्य विकल्पात्। प्रतिपाद्येत—दीयेत। व्यापादितः—विनाशितः। कृतघ्नतायाः—विश्रम्भघातितयाः। कृतं हन्तीति कृतघ्नः कृत√हन्+क, तस्य भावः कृतघ्नता कृतघ्न+तल्—टाप्, तस्याः। स्वयम्—आत्मना। हस्तः—
२१८ मुद्राराक्षसम्
अवलम्ब्य । प्रतिश्रुतार्धराज्यप्रदाने—प्रतिश्रुतं प्रतिज्ञातम् अर्धराज्यम् राज्या- र्धम् तस्य प्रतिपादनम् समर्पणम्, तस्मिन् । कृतघ्नतामात्रफल —अपकारिता- मात्रप्रयोजन । कृतघ्नतैव कृतघ्नतामात्रम् मयूरव्यंसकादित्वात् स०, तदेव फलं यस्य ,तादृश बहुव्रीहि स० । अन्तर्नगरे—नगरस्य अन्त अन्तर्नगरम् 'राजदन्तादिषु परम्' इत्यनेन नगरशब्दस्य परनिपात , अथवा अन्त' स्थितं नगरम् अन्तर्नगरम् मध्यमपदलोपी स०, तस्मिन् । स्थिरानुरागत्वात्—दृढप्रेम- वशात् । स्थिर अनुराग अस्य इति स्थिरानुराग बहुव्रीहि स० । तस्य भाव इति स्थिरानुराग +त्व, तस्मात् हेतौ पञ्चमी । प्रज्ञापुरुषकाराभ्याम्—बुद्धि- पौरुषाभ्याम् । प्रज्ञा च पुरुषकारश्च प्रज्ञापुरुषकारौ द्वन्द्व स० ताभ्याम् । उपेत — युक्त । सहायसम्पदा —साहाय्यकारिणा सम्पत्त्या । सह अयन्ते इति सह√ अय् +अच् कर्तरि =सहाया । सम्√पद् +क्विप् भावे =सम्पत् =समृद्धिः । सहायानां सम्पत्, तया । कोपबलवान्—अर्थसामर्थ्ययुक्त । कोप एव बलम् मयूरव्यंसकादि स० । तत् अस्ति अस्य इति कोपबल +मतुप् । अन्त कोपम्— अन्तः मध्ये प्रकृतिषु इत्यर्थ कोप अपराग । अन्त कोप सुप्मुपा स०, तम् । बाह्यकोपम्—बहिर्विद्वेषम् । बहिर्भवं बाह्य बहिम्+यञ्, टिलोप 'बहिर्षष्टि- लोपो यञ्ञ्' इत्यनेन । बाह्य कोप बाह्यकोप कर्मधारय स०, तम् । न दुःख- साध्य —न क्लेशप्राप्य । हृदयेशय —मनावर्ती । हृदये शेते इति हृदये√ शी +अच् कर्तरि, 'शयवामवामिष्वकालात्' इत्यनेन सप्तम्या अलुक् । उद्धृत्य —उत्पाट्य । उद्√धृ +क्त्वा—ल्यप् । विक्रम्य—सामर्थ्येन । वि√क्रम् + क्त्वा—ल्यप् । निगृह्यमाण —ध्रियमाण । नि√ग्रह् +लट् कर्मणि— शानच् ।
स हि भृशमभियुक्तो यद्युपेयाद् विनाशं ननु वृषल वियुक्तस्तादृशेनासि पुंसा । अथ तव वनमुख्यान्नाशयेत् सापि पीडा नवगज इव तस्मात् सोऽभ्युपायैर्विनेयः ॥ २५ ॥
- अन्वय —ननु वृषल ! भृशम् अभियुक्तः स यदि विनाशम् उपेयात् तादृशेन पुंसा वियुक्तः असि, अथ तव बलमुख्यान् नाशयेत् सा अपि पीडा । तस्मात् स वनगज इव अभ्युपायै विनेयः ॥ २५ ॥
तृतीयोऽङ्कः २१६
व्याख्या—ननु वृषल ! अयि मौर्य !, भृशम्—अत्यर्थम्, अभियुक्तः—मत्सैन्यैराक्रान्तः सः—राक्षसः, यदि—चेत्, विनाशम्—मरणम्, उपेयात्—प्राप्नुयात्, तादृशेन—तथाविधेन लोकोत्तरगुणशालिना, पुंसा—पुरुषेण, वियुक्तः—विरहितः, असि—भवसि । अथ—यदि, तव—ते, बलमुख्यान्—सेनानायकान्, नाशयेत्—हन्यात्, सा अपि—विनाशक्रियापीत्यर्थः, पीडा—क्षतिः, तस्मात्—अतः, सः—राक्षसः, वनगज इव—आरण्यकहस्तीव, अभ्युपायैः—युक्तिभिः, विनेयः—वशीकार्यः ॥ २५ ॥
हिन्दी अनुवाद—हे वृषल ! (हमारी सेनाओं से) अत्यंत आक्रान्त होकर वह (राक्षस) यदि मृत्यु को प्राप्त हो जाए तो तुम वैसे (गुणशाली) पुरुष से वियुक्त हो जाते हो । (और) यदि तुम्हारे सेनानायकों को मार दे तो वह भी क्षति है । इसलिए उसको जंगली हाथी की तरह युक्तियों से वश में करना चाहिए ॥ २५ ॥
टिप्पणी—सा अपि—अत्र विधेयप्राधान्यात् स्त्रीलिङ्गता । वनगजः—वनचरो गजः वनगजः मध्यमपदलोपी स० । अभ्युपायैः—साम, दान आदि उपायों से, गज-पक्ष में—वशीकरण के साधनों से । इस पद्य में उपमा अलंकार है, प्रसाद गुण है, वैदर्भी रीति है और मालिनी छन्द है । इस छन्द का लक्षण ३, १५ में देखिए ॥ २५ ॥
राजा—न शक्नुमो वयमार्यस्य वाचा वाचमतिशयितुं । सर्वथाऽमात्यराक्षस एवात्र प्रशस्यतरः ।
चाणक्यः—[सक्रोधम्] न भवानिति वाक्यशेषः । भो वृषल ! तेन किं कृतम् ?
राजा—यदि न ज्ञायते, तदा श्रूयताम् । तेन खलु महात्मना—
लब्धायां पुरि यावदिच्छमुषितं कृत्वा पदं नो गले व्याघातो जयघोषणादिषु बलादस्मद्बलानां कृतः । अत्यर्थं विपुलैः स्वनीतिविभवैः सम्मोहमापादिता विश्वास्येष्वपि विश्वसन्ति मतयो न स्वेषु वर्गेषु नः ॥ २६ ॥
अन्वयः—नः गले पदं कृत्वा लब्धायां पुरि यावदिच्छम् उषितम्,
२२० मुद्राराक्षसम्
अस्मद्बलाना जयघोषणादिषु बलात् व्याघात कृत , विपुले स्वनीतिविभवे अत्यर्थं सम्मोहम् आपादिता न मतय विश्वाम्येष्वपि स्वेषु वर्गेषु न विश्वमन्ति ॥ २६ ॥
व्याख्या—न—अस्माकं, गले—कण्ठे, पद—चरणं, कृत्वा—विधाय, लब्धाया—प्राप्तायां, पुरि—नगर्य्यां, यावदिच्छम्—यथारुचि, उषितम्—निवासं कृतं, अस्मद्बलानाम्—अस्माकं सैन्यानां, जयघोषणादिषु—विजय-प्रख्यापनप्रभृतिषु, बलात्—हठात्, व्याघात—विघ्न, कृत—उत्पादित, विपुले—महद्धि, स्वनीतिविभवे—स्वस्य आत्मन नीतय नया एव विभवा सम्पद तै, अत्यर्थम्—अत्यन्तं, सम्मोहम्—अविवेकम्, आपादिता—प्रापिता, न—अस्माकं, मतय—बुद्धय , विश्वाम्येष्वपि—आप्तेषु च, स्वेषु—स्वकीयेषु, वर्गेषु—पदेषु, न विश्वमन्ति—न प्रतियन्ति ॥ २६ ॥
हिन्दी अनुवाद—राजा—हम आप की बात को बात से नहीं जीत सकते । (किन्तु) इस विषय में अमात्य राक्षस ही सब प्रकार से अधिक प्रशंसनीय है ।
चाणक्य—[ क्रोध के साथ ] आप नहीं, यह कहना शेष रह गया । हे वृषल ! उसने क्या किया ?
राजा—यदि नहीं जानते हैं तो सुनिए । उस महात्मा ने—
हमारे गले पर पैर रख कर (हमारी) जीती हुई नगरी में इच्छानुसार निवास किया, हमारी सेनाओं की विजय-घोषणा आदि में हठात् विघ्न उत्पन्न किया और महान् अपनी नीति के वैभव से हमारी बुद्धियों को अत्यन्त मोह में डाल दिया, जिससे वे (हमारी बुद्धियाँ) अपने विश्वसनीय व्यक्तियों पर भी विश्वास नहीं करती हैं ॥ २६ ॥
टिप्पणी—अतिशयितुम्—उल्लङ्घयितुम् । प्रशस्यतर—अधिक श्रेष्ठ । अतिशयेन प्रशस्य इति प्रशस्यतर प्रशस्य + तरप् । महात्मना—महान् आत्मा यस्य स महात्मा, तेन । न गले पद कृत्वा—हमारे कण्ठ पर पैर रखकर अर्थात् हमारी अवहेलना करके । यह लोकोक्ति है । बलात्—अत्र हेतौ ल्यब्लोपे कर्मणि वा पञ्चमी । स्वेषु वर्गेषु—भद्रभटादिषु । इस श्लोक में दीपक, अति-
तृतीयोऽङ्कः २२१
शयोक्ति और उदात्त अलंकारो की संसृष्टि है । इसमें शार्दूलविक्रीडित छन्द है । इस छन्द का लक्षण १, १२ मे देखिए ॥ २६ ॥
चाणक्यः—[विहस्य] वृषल ! एतत् कृतं राक्षसेन ?
राजा—अथ किम् ? एतत् कृतममात्यराक्षसेन ।
चाणक्यः—वृषल ! मया पुनर्ज्ञातं, नन्दमिव भवन्तमुद्धृत्य भवानिव भूतले मलयकेतुरधिराज्यमारोपितः ।
राजा—अलमुपालभ्य । आर्य ! दैवेनेदमनुष्ठितम् । किमत्रार्यस्य ?
चाणक्य—हे मत्सरिन् !
आरुह्यारूढकोपस्फुरणविषमिताग्राङ्गुलीमुक्तचूड़ां
लोकप्रत्यक्षमुग्रां सकलरिपुकुलोच्छेददीर्घां प्रतिज्ञाम् ।
केनान्येनावलिप्ता नवनवतिशतद्रव्यकोटीश्वरास्ते
नन्दाः पर्यायभूताः पशव इव हताः पश्यतो राक्षसस्य ॥२७॥
अन्वयः—केन अन्येन लोकप्रत्यक्षम् आरूढकोपस्फुरणविषमिताग्राङ्गुलीमुक्तचूडाम् उग्रां सकलरिपुकुलोच्छेददीर्घां प्रतिज्ञाम् आरुह्य अवलिप्ताः नवनवतिशतद्रव्यकोटीश्वराः ते नन्दाः पर्यायभूताः पशव इव पश्यतो राक्षसस्य हताः ? ॥ २७ ॥
व्याख्या—केन अन्येन—मदतिरिक्तेन केन जनेन, लोकप्रत्यक्षम्—जगतः समक्षम्, आरूढकोपस्फुरणविषमिताग्राङ्गुलीमुक्तचूडाम्—आरूढः सञ्जातः, यः कोपः क्रोधः तस्य स्फुरणेन आवेशेन विषमिताः कुटिलीभूताः या अग्राङ्गुल्यः अङ्गुल्यग्राणि तैः मुक्ता बन्धनात् च्याविता चूडा शिखा यस्यां तादृशीम्, उग्रां—कठिनां, सकलरिपुकुलोच्छेददीर्घां—सकलस्य निखिलस्य रिपुकुलस्य शत्रुवंशस्य उच्छेदेन विनाशेन दीर्घा महती, प्रतिज्ञाम्—प्रतिश्रुतिम्, आरुह्य—विधाय, अवलिप्ताः—साभिमानाः, नवनवतिशतद्रव्यकोटीश्वराः—नवनवतिशतानाम् द्रव्यकोटीनाम् वित्तकोटीनाम् ईश्वराः पतयः, ते—प्रसिद्धाः, नन्दाः, पर्यायभूताः—क्रमेण उपस्थिताः, पशव इव—बलिच्छागला इव, पश्यतः—अवलोकयतः, राक्षसस्य—नन्दामात्यस्य पश्यन्तं राक्षसमनादृत्येत्यर्थः, हताः—हिंसिताः ? ॥ २७ ॥
२२२ मुद्राराक्षसम्
हिन्दी अनुवाद—चाणक्य—[ हँसकर ] वृषल ! राक्षस ने यह किया ?
राजा— और क्या ? यह अमात्य राक्षस ने किया ।
चाणक्य— वृषल ! मैंने पुन समझा कि नन्द के समान तुम्हे उखाड़कर पृथ्वी पर तुम्हारी तरह मलयकेतु को (उसने) सिंहासन पर बैठा दिया ।
राजा— उलाहना देना व्यर्थ है । आर्य ! भाग्य ने यह किया । इसमें आपका क्या है ?
चाणक्य— हे डाह रखने वाले !
दूसरे किसने लोगो के सामने उत्पन्न क्रोध के आवेश से टेढ़ी अगुलियो के अग्रभाग से खोली गई शिखा वाली, भयकर तथा सम्पूर्ण शत्रु-कुल के विनाश करने के कारण लम्बी प्रतिज्ञा को करके अभिमानी तथा निन्यानवे सौ करोड़ मुद्राओ के स्वामी नन्दो को क्रमश बलि-पशु के समान राक्षस के देखते मार दिया ॥ २७ ॥
टिप्पणी—उद्धृत्य— उन्मूल्य । अधिराज्यम्— राज्ये इति अधिराज्यम् अव्ययीभाव स०, 'अव्ययीभावश्च' इत्यनेन नपुसकत्वम् । आरोपित — स्थापितः । मत्सरिन् !— मत्सर = डाह । 'मत्सरोऽन्यशुभद्वेषे' इत्यमर । स अस्ति अस्य इति मत्सर + इनि । विषमिता — विषमाः कृताः इति विषमा + णिच् + क्त कर्मणि । नवनवतिशतद्रव्यकोटीश्वरा — नवाधिका नवति नवनवति शाकपार्थिवादित्वात् स० । तत्सङ्ख्यानि शतानि शाकपा० । द्रव्याणां कोट्य द्रव्यकोट्य । नवनवतिशतसङ्ख्याका द्रव्यकोट्यः शाकपा० । तासाम् ईश्वरा । पर्यायभूता — परि √अय् + घञ् भावे = पर्याय । पर्यायिण भूता. तृतीयातत्० वा सुप्पुपा स० । राक्षसस्य — अत्र 'षष्ठी चानादरे' इति षष्ठी । इस श्लोक मे अर्थापत्ति और उपमा अलकार हैं । इसमें ओज गुण है, गौडी रीति है और स्रग्धरा छन्द है । स्रग्धरा का लक्षण १, १ में देखिए ॥ २७ ॥
अपि च,
गृध्रैरावद्धचक्रं वियति विचलितैर्दीर्घनिष्क्रम्पपक्षै- र्धूमैर्ध्वस्तार्कभासा सघनमित्र दिशा मण्डल दर्शयन्तः।
तृतीयोऽङ्कः । २२३
नन्दैरानन्दयन्तः पितृवननिलयान् प्राणिनः पश्य चैतान्
निर्वान्त्यद्यापि नैते स्रुतबहलवसावाहिनो हव्यवाहाः ॥ २८॥
अन्वयः—पश्य, दीर्घनिष्कम्पपक्षैः आबद्धचक्रं वियति विचलितैः गृध्रैः धूमैः ध्वस्तार्कभासां दिशां मण्डलं सघनमिव दर्शयन्तः पितृवननिलयान् एतान् प्राणिनः नन्दैः आनन्दयन्तः एते स्रुतबहलवसावाहिनः हव्यवाहाः अद्यापि न निर्वान्ति ॥ २८ ॥
व्याख्या—पश्य—अवलोकय, दीर्घनिष्कम्पपक्षैः—दीर्घाः आयताः निष्कम्पाः निश्चलाश्च ये पक्षाः दलाः तैः करणाभूतैः, आबद्धचक्र—आबद्धानि कृतानि चक्राणि मण्डलानि यस्मिन् कर्मणि तत् यथा स्यात् तथा, वियति—गगने, विचलितैः—भ्रमद्भिः, गृध्रैः धूमैः—गृध्ररूपधूमैः, ध्वस्तार्कभासां—ध्वस्ताः तिरोहिताः अर्कभासः—सूर्यकिरणाः यामु तासा, दिशाम्—आशाना, मण्डलं—चक्रवालं, सघनमिव—समेघमिव, दर्शयन्तः—अवभासयन्तः, पितृवननिलयान्—पितृवनं श्मशानं निलयः आवासः येषां ते तथोक्ताः तान्, एतान्, प्राणिनः—जीवान्, नन्दैः—बहलवसावशिष्टैः, आनन्दयन्तः—प्रीणयन्तः, एते—इमे, स्रुतबहलवसावाहिनः—स्रुताः क्षरिताः याः बहलाः प्रचुराः वसाः मज्जाः ताः ये वाहयन्ति स्रोतःक्रमेण निःसारयन्ति तादृशाः, हव्यवाहाः—वह्नयः चिताग्नय इत्यर्थः, अद्यापि—अधुनापि, न निर्वान्ति—न प्रशाम्यन्ति ॥ २८ ॥
हिन्दी अनुवाद—और भी, देखो, लम्बे और निश्चल पंखों से मण्डल बनाकर आकाश में उड़ते हुए गृध्र रूपी धुओ से छिपी हुई सूर्य-किरणो वाली दिशाओं के समूह को मानों मेघों मे आच्छादित दिखलाती हुई और श्मशान में रहने वाले इन प्राणियों को नन्दों से तृप्त करती हुई ये पिघली हुई अत्यधिक चर्बी को बहाने वाली अग्नियां आज भी शान्त नहीं हो रही है ॥ २८ ॥
टिप्पणी—सघनम्—मेघयुक्त । घनेन सहितम् इति सघनम् 'तेन सहेति'—बहुव्रीहि स० । नन्दैः—अत्र करणे तृतीया । स्रुतबहलवसावाहिनः—स्रुतबहलवसा √वह् + णिच् + णिनि कर्तरि साधुकारिणि । हव्यवाहाः—अग्नि । हव्यं वहन्ति देवेभ्यः प्रापयन्ति इति हव्य √वह् + अण् कर्तरि । निर्वान्ति—बुझती हैं । निर् √वा + लट् + अन्ति । इस श्लोक में भाविक अलंकार उत्प्रेक्षा से संसृष्ट है । इसमें भी स्रग्धरा छन्द है ॥ २८ ॥
२२६ मुद्राराक्षसम्
नयनकान्त्या, भ्रूभङ्गोद्भेदधूम—भ्रूभङ्गस्य भ्रूकुटे य उद्भेद आविर्भाव स एव धूमो यत्र तत् यथा स्यात् तथा, पुर—अग्रे, ज्वलितमिव—प्रदीप्तमिव। मन्ये—शङ्के, ताण्डवे—उद्धतनृत्ये, रौद्र रसम्—क्रोधात्मकरसम्, अभिनयत— (अभिनीय) दर्शयत, रुद्रस्य—शिवस्य, संस्मरन्त्या—सम्यक् स्मृतिम् अनुभवन्त्या, धरया—पृथिव्या, पादघात—चरणप्रहार, कथमपि—केनापि प्रकारेण, सञ्जातोद्ग्रकम्प—सञ्जात समुत्पन्न उद्ग्र विशेष कम्प यस्मिन् कर्मणि तत् यथा स्यात् तथा, धारित व्यवस्थापित ॥ ३० ॥
हिन्दी अनुवाद—राजा [ सावेग के साथ मन में ] तब क्या सचमुच ही आर्य कुपित हो गए ? क्योंकि—
क्रोध में कम्पायमान पलकों से भरत हुए स्वच्छ जल न धोने के कारण क्षीण होने पर भी लाल नेत्रकिरणों से तनी हुई भुकुटिरूपी धुआ मानो सामने प्रदीप्त हुआ है। मैं समझता हूँ कि ताण्डव नृत्य के समय रौद्र रस का अभिनय करते हुए शङ्कर का स्मरण करती हुई पृथ्वी ने ( आर्य चाणक्य का ) पाद-प्रहार उत्पन्न विशेष कम्पन के साथ बड़ी कठिनाई से सहन किया है ॥ ३० ॥
टिप्पणी—स्पन्दि—स्पन्दते इति $\sqrt{}$स्पन्द् + णिनि साधुकारिणि कर्तरि। भ्रूभङ्गोद्भेद = उद्गत भ्रूभङ्ग, 'भावायनन द्रव्यायतनम्'। पुर—आंखों के सामने। धुआ आग से ऊपर रहता है। यहाँ भी भृकुटी रूपी धुआ नेत्राग्नि से ऊपर है। रुद्रस्य—अत्र 'अधीगर्थदयेशां कर्मणि' इत्यनेन षष्ठी। उदग्र—उद्गतमग्रमस्य इति उदग्र। इस श्लोक में रूपक और उत्प्रेक्षा अलंकारों में सांकर्य होने से सङ्कर अलंकार है। इसमें पाञ्चाली रीति है, ओज गुण है और स्रग्धरा छन्द है। इसका लक्षण १, १ में देखिए ॥३०॥
चाणक्य — [ कृतक कोप सहृत्य ] वृषल ! वृषल ! अलमुत्तरोत्तरेण । यद्यस्मत्तो वरीयान् राक्षसोऽवगम्यते, तस्मादिदं शस्त्रं तस्मै दीयतामिति । [शस्त्रमुत्सृज्य उत्थाय च आकाशे लक्ष्यं बद्ध्वा स्वगतम्] राक्षस ! राक्षस ! एष भवत कौटिल्यबुद्धिविजिगीषोर्बुद्धे प्रकर्ष ।
चाणक्यत स्खलितभक्तिमहं सुखेन जेप्यामि मौर्यमिति सम्प्रति यः प्रयुक्तः ।