भारतकोश
संग्रह पर लौटें

मुण्डकोपनिषद् (शाङ्करभाष्य सहित)

Mundaka Upanishad Shankara Bhashya

आदि शङ्कराचार्य द्वारा

DevanagariHindipublished134 पृष्ठ
११८मुण्डकोपनिषद्[ मुण्डक ३

यही बात [आगेकी] ऋचाने भी कही है—जो अधिकारी क्रियावान् श्रोत्रिय, ब्रह्मनिष्ठ और स्वयं श्रद्धापूर्वक एकर्षि नामक अग्निमें हवन करनेवाले हैं तथा जिन्होंने विधिपूर्वक शिरोव्रतका अनुष्ठान किया है उन्हींसे यह ब्रह्मविद्या कहनी चाहिये ॥ १० ॥

तदेतद्विद्यासम्प्रदानविधान-यह विद्यासम्प्रदानकी विधि
मृचा मन्त्रेणाभ्युक्तमभिप्रका-[आगेकी] ऋचा यानी मन्त्रने भी
शितम्—प्रकाशित की है—
क्रियावन्तो यथोक्तकर्मा-जो क्रियावान्—जैसा ऊपर
नुष्ठानयुक्ताः, श्रोत्रिया ब्रह्म-बतलाया गया है वैसे कर्मानुष्ठानमें
निष्ठा अपरस्मिन्ब्रह्मण्यभियुक्ताःलगे हुए, श्रोत्रिय और ब्रह्मनिष्ठ
परब्रह्मबुभुत्सवः स्वयमेकर्षि-यानी अपरब्रह्ममें लगे हुए और
नामानमग्निं जुह्वते जुह्वति श्रद्द-परब्रह्मको जाननेके इच्छुक तथा
धन्तः श्रद्दधानाः सन्तो ये तेषाम्स्वयं श्रद्धायुक्त होकर एकर्षि नामक
एव संस्कृतात्मनां पात्रभूतानाम्अग्निमें हवन करनेवाले हैं उन्हीं
एतां ब्रह्मविद्यां वदेत ब्रूयात्शुद्धचित्त एवं ब्रह्मविद्याके पात्रभूत
शिरोव्रतं शिरस्यग्निधारणलक्षणम्,अधिकारियोंको यह ब्रह्मविद्या
यथाथर्वणानां वेदव्रतं प्रसिद्धम्,बतलानी चाहिये, जिन्होंने कि
यैस्तु यैश्च तच्चीर्णं विधिवद्यथा-शिरपर अग्नि धारण करनारूप
विधानं तेषामेव च ॥ १० ॥शिरोव्रतका—जैसा कि अथर्व-
वेदियोंका वेदव्रत प्रसिद्ध है—
विधिवत्—शास्त्रोक्त विधिके
अनुसार अनुष्ठान किया है, उन्हींसे
यह विद्या कहनी चाहिये ॥ १० ॥

खण्ड २ ] शाङ्करभाष्यार्थ ११९

उपसंहार

तदेतत्सत्यमृषिरङ्गिराः पुरोवाच नैतदचीर्णव्रतोऽधीते । नमः परमऋषिभ्यो नमः परमऋषिभ्यः ॥ ११ ॥

उस इस सत्यका पूर्वकालमें अङ्गिरा ऋषिने [ शौनकजीको ] उपदेश किया था। जिसने शिरोव्रतका अनुष्ठान नहीं किया वह इसका अध्ययन नहीं कर सकता। परमर्षियोंको नमस्कार है, परमर्षियोंको नमस्कार है ॥ ११ ॥

तदेतदक्षरं पुरुषं सत्यमृषि-
रङ्गिरा नाम पुरा पूर्वं शौनकाय
विधिवदुपसन्नाय पृष्टवत उवाच ।
तद्वदन्योऽपि तथैव श्रेयोऽर्थिने
मुमुक्षवे मोक्षार्थं विधिवदुपसन्नाय
ब्रूयादित्यर्थः । नैतद्ग्रन्थरूपम्
अचीर्णव्रतोऽचरितव्रतोऽप्यधीते
न पठति । चीर्णव्रतस्य हि विद्या
फलाय संस्कृता भवतीति ।उस इस अक्षर पुरुष सत्यको अंगिरानामक ऋषिने पूर्वकालमें अपने समीप विधिपूर्वक आये हुए प्रश्नकर्ता शौनकजीसे कहा था। उनके समान अन्य किसी गुरुको भी उसी प्रकार अपने समीप विधिपूर्वक आये हुए कल्याणकामी मुमुक्षुपुरुषको उसके मोक्षके लिये इसका उपदेश करना चाहिये—यह इसका तात्पर्य है। इस ग्रन्थरूप उपदेशका 'अचीर्णव्रत' पुरुष—जिसने कि शिरोव्रतका आचरण न किया हो—अध्ययन नहीं कर सकता, क्योंकि जिसने उस व्रतका आचरण किया होता है उसीकी विद्या संस्कारसम्पन्न होकर फलवती होती है।

१२० मुण्डकोपनिषद् [ मुण्डक ३

समाप्ता ब्रह्मविद्या, सा येभ्यो ब्रह्मादिभ्यः पारम्पर्यक्रमेण संप्राप्ता तेभ्यो नमः परमऋषिभ्यः परमं ब्रह्म साक्षाद्दृष्टवन्तो ये ब्रह्मादयोऽवगतवन्तश्च ते परमर्षयस्तेभ्यो भूयोऽपि नमः । द्विर्वचनमत्यादरार्थं मुण्डकसमाप्त्यर्थं च ॥ ११ ॥यहाँ ब्रह्मविद्या समाप्त हुई । वह जिन ब्रह्मा आदिसे परम्परा-क्रमसे प्राप्त हुई है उन परमर्षियोंको नमस्कार है । जिन्होंने परब्रह्मका साक्षात् दर्शन किया है और उसका बोध प्राप्त किया है वे ब्रह्मा आदि परम ऋषि हैं; उन्हें फिर भी नमस्कार है । यहाँ 'नमः परमऋषिभ्यो नमः परमऋषिभ्यः' यह द्विरुक्ति ऋषियोंके अधिक आदर और मुण्डककी समाप्तिके लिये है ॥११॥

इत्यथर्ववेदीयमुण्डकोपनिषद्भाष्ये तृतीयमुण्डके द्वितीयः खण्डः ॥ २ ॥

समाप्तमिदं तृतीयं मुण्डकम् ।

इति श्रीमद्गोविन्दभगवत्पूज्यपादशिष्यस्य परमहंसपरिव्राजकाचार्यस्य श्रीमच्छङ्करभगवतः कृतावाथर्वणमुण्डकोपनिषद्भाष्यं समाप्तम् ॥

शान्तिपाठः

ॐ भद्रं कर्णेभिः शृणुयाम देवा
भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभि-
र्व्यशेम देवहितं यदायुः ॥
स्वस्ति न इन्द्रो वृद्धश्रवाः
स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः
स्वस्ति नो बृहस्पतिर्दधातु ॥

ॐ शान्तिः ! शान्तिः !! शान्तिः !!!

मन्त्रप्रतीक-सूची (परिशिष्ट)

श्रीहरिः

मन्त्राणां वर्णानुक्रमणिका

मन्त्रप्रतीकानिमुं०खं०मं०पृ०
अग्निर्मूर्धा चक्षुषी५२
अतः समुद्रा गिरयश्च५९
अथर्वणे यां प्रवदेत
अरा इव रथनाभौ७०
अविद्यायामन्तरे३४
अविद्यायां बहुधा३५
आविः संनिहितम्६२
इष्टापूर्तं मन्यमानाः१०३५
ॐ ब्रह्मा देवानां प्रथमः
एतस्माज्जायते प्राणः५०
एतेषु यश्चरते३०
एषोऽणुरात्मा चेतसा१००
एह्येहीति तमाहुतयः३१
कामान्यः कामयते१०४
क्रियावन्तः श्रोत्रियाः१०११७
काली कराली च२९
गताः कलाः पञ्चदश११३
तत्रापरा, ऋग्वेदः१२
तदेतत् सत्यमृषिः११११९
तदेतत् सत्यं मन्त्रेषु२४
तदेतत् सत्यं यथा४४

( २ )

मन्त्रप्रतीकानिमुं०खं०मं०पृ०
तपसा चीयते ब्रह्म१९
तपःश्रद्धे ये ह्युपवसन्ति११३६
तस्माच्च देवा बहुधा५६
तस्मादग्निः समिधः५४
तस्मादृचः साम यजूंषि५५
तस्मै स विद्वानुपसन्नाय१३४२
तस्मै स होवाच११
दिव्यो ह्यमूर्तः पुरुषः४६
द्वा सुपर्णा सयुजा८३
धनुर्गृहीत्वौपनिषदम्६६
न चक्षुषा गृह्यते९८
न तत्र सूर्यो भाति१०७८
नायमात्मा प्रवचनेन१०६
नायमात्मा बलहीनेन१०८
परीक्ष्य लोकान्कर्मचितान्१२३९
पुरुष एवेदं विश्वम्१०६०
प्लवा ह्येते अदृढा३२
प्रणवो धनुः शरः६७
प्राणो ह्येष यः सर्वभूतैः८८
बृहच्च तद्दिव्यम्९६
ब्रह्मैवेदममृतम्११८०
भिद्यते हृदयग्रन्थिः७५
यत्तदद्रेश्यमग्राह्यम्१५
यथा नद्यः स्यन्दमानाः११५
यथोर्णनाभिः सृजते१८
यदर्चिमद्यदणुभ्यः६४
यदा पश्यः पश्यते८७

( ३ )

मन्त्रप्रतीकानिमुं०खं०मं०पृ०
यदा लेलायते ह्यर्चिः२६
यं यं लोकं मनसा१०१०१
यः सर्वज्ञः सर्वविद्यस्य२१
,, ,,७२
यस्मिन्द्यौः पृथिवी६९
यस्याग्निहोत्रमदर्शम्२७
वेदान्तविज्ञानसुनिश्चितार्थाः११०
शौनको ह वै महाशालः
सत्यमेव जयति९४
सत्येन लभ्यस्तपसा९२
सप्त प्राणाः प्रभवन्ति५७
समाने वृक्षे पुरुषः८५
स यो ह वै तत्परमम्११६
स वेदैतत्परमम्१०३
संप्राप्यैनमृषयः१०६
हिरण्मये परे कोशे७६