नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
DevanagariHindipublished309 पृष्ठ
पृष्ठ 100, कुल 309 में से
संदर्भ में पढ़ेंपृष्ठ 100
( ६६ ) उण्हो क्खु एसो कअलीदलमारुदो । उष्णः खल्वेष कदलीदलमारुतः । चेटी- भद्दिदारिए ! मा इमस्स दोसं कहेहि । भर्तृदारिके ! माऽस्य दोषं कथय । कुणासि घणचन्दणालदापल्लवसंसग्गसीदलं पि इमं । करोषि घनचन्दनलतापल्लवसंसर्गशीतमपीमम् । णीसासेहिं तुमं एव्व कअलीदलमारुअं उण्हं ॥१॥ निःश्वासैस्त्वमेव कदलीदलमारुतमुष्णम् नायिका—(सास्रम्) सहि ! अत्थि कोबि इमस्स संदावस्स उवसमोवाओ ? सखि ! अस्ति कोऽप्यस्य सन्तापस्योपशमोपायः ? चेटी- भद्दिदारिए ! अत्थि, जदि सो एत्थ आअच्छदि । भर्तृदारिके ! अस्ति यदि सोऽत्राऽऽगच्छति [ ततः प्रविशति नायको विदूषकश्च ] श्लोक नं०: १, अन्वयः — घनचन्दनलतापल्लवसंसर्गशीतलम् अपि इमं कदलीदलमारुतं त्वम् एव निःश्वासैः उष्णं करोषि ॥