भारतकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 154, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 154

( १२२ ) चेटी- (विहस्योपविशति) विटः- (चषक्रमादाय) अरे चेडा सुमट्टिदं क्खु ए चसअं अरे चेट ! सुमृष्टं खल्वेतं चषकं करेहि अच्छसुराए । कुरु अच्छसुरया । चेटः- (नाट्येन चषकभरणं करोति) विटः- (स्वशिरः शेखरगत् पुष्पाणि गृहीत्वा चषके विन्यस्य जानुभ्यां स्थित्वा नवमालिकाया उपनयति) णोमालिए! चक्खिअ देहि एदं एदस्स । नवमालिके ! आस्वाद्य देह्येतदेतस्य ! चेटी- (सस्तिमम्) जं सेहरओ भणादि । यच्छेखरको भणति । [ तथा कृत्वा विटस्यार्पयति ] विटः - ( विदूषकस्य चषकमर्पयति ) एदं णोमालिआ- एतन्नवमालिका- मुहसंसग्गमविसेसवामिअरसं सेहरआअण्णेण मुखसंसर्गसविशेषवासितरसं शेखरकादन्येन केणवि अणासादिदपुरुव्वं ता पिवेहि एदं । किं केनाप्यनास्वादितपूर्वं, तत् पिवैतत् । किं दे अवरं सम्माणं करिस्सं ? तेऽपरं सम्मानं करिष्यामि ? विदूषकः- (सवैलक्ष्यस्मितं¹ कृत्वा ) सेहरअ ! बम्हणो क्खु अहं । शेखरक ! ब्राह्मणः खल्वहम्² ।