नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)
Naishadhiya Charitam of Sriharsha with Commentary
महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा
पृष्ठ 190, कुल 226 में से
संदर्भ में पढ़ें१७४ नैषधचरितम् । [ तृतीयः वराटिकोपक्रिययापि लभ्यानिभ्याः कृतज्ञानथवाद्रियन्ते । प्राणैः पणैः स्वं निपुणं भणन्तः क्रीणन्ति तानेव तु हन्त सन्तः ॥८८॥ अथवा साधुस्वभावेनापि परोपकारं कुर्यात्याह—वराटिकेति । अथवा वराटिकोपक्रियया=कपर्दिकादानेनापि, लभ्यान् = सुलभान्, कृतज्ञान् = तावदेव बहुमन्यमानान्, उपकारज्ञान्, इभ्याः = धनिकाः । 'इभ्य आढ्यो धनी स्वामी' इत्यमरः । नाद्रियन्ते = धनलोभान्नोपकुर्वन्तीत्यर्थः । सन्तः=विवेकिनस्तु स्वम्= आत्मानं निपुणं भणन्तः = व्यवहरन्तः सन्तः । एते वयं त्वदधीना इति साधु वदन्त इत्यर्थः । तानेव = कृतज्ञान् प्राणैरेव पणैः = मूल्यैः, क्रीणन्ति = आत्म- सात् कुर्वन्ति; किमुत धनैरित्यर्थः । अतस्त्वयापि सता कृतज्ञाहमुपकर्तव्येति भावः । हन्त = हर्षे ॥ ८८ ॥ अथवा—एक कौड़ी के उपकार से भी, सन्तुष्ट हो, कृतज्ञ बनने वाले का धनी लोग आदर नहीं करते (अर्थात् जो केवल एक कौड़ी पा जाने पर भी, अपने दाता का चिर-कृतज्ञ बनकर, उसकी जयजयकार मनाता है; उस याचक को, पैसे के लोभी धनी, एक फूटी कौड़ी न देकर, धुतकार बताते हैं ); पर अपने को समाज-सेवी कहने वाले सव्यक्ति तो प्राण-पण से (अर्थात् अपने प्राणरूपी मूल्य देकर) भी उन कृतज्ञ हुए जनों को खरीद लेते हैं (अर्थात् अपने वश में कर लेते हैं)। यह बड़े हर्ष (सन्तोष) की बात है (और सज्जन तथा दुर्जन में इतनी ही विभिन्नता है) ॥ ८८ ॥ स भूभृदष्टावपि लोकपालास्तैर्मे तदेकाग्रधियः प्रसेदे । न हीतरस्माद्धटते यदेत्य स्वयं तदाप्तिप्रतिभूर्यन्माभूः ॥ ८९ ॥ सेति । किञ्च, स भूभृत् = नलः, अष्टावपि लोकपालाः = तदात्मक इत्यर्थः । 'अष्टाभिर्लोकपालानां मात्राभिर्निर्मितो नृपः' इति स्मरणात् । अत एव तदेका- ग्रधियः = नलैकतानबुद्धेः । मे = मम तैः = लोकपालैः प्रसेदे = प्रसन्नम् । भावे लिट् । देवता ध्यायतः प्रसीदन्तीति भावः । कुतः ? इतरस्मात्=प्रसादादन्यथेत्यर्थः । स्वयं = स्वयमेव, आगत्य, मम तदाप्तिप्रतिभू = नलप्राप्तिलम्भकः अभूः इति यत्, तन्न घटते हि । तत्प्रसादाभावे कुतो ममेदं श्रेय इत्यर्थः ॥ ८९ ॥ वे राजा नल ( इन्द्र, यम, अग्नि आदि ) आठो लोकपालों के अंश- स्वरूप हैं। अतः उन ( नल ) में एकाग्रचित्ता होने के कारण वे (आठो लोक-